पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः ६ ।]
३९३
शशा ङ्कवतीलम्बकः १२

ततः सोऽपि द्वितीयोऽत्र तं श्रीदर्शनमब्रवीत् । न मोक्ष्यामि मम झेप मित्रं कोऽस्य भवानिति ॥ २८९
एवं तयोरुभयतः स्कन्धयोः कर्षतोः शवः । वेतालानुप्रविष्टः सन्नमुञ्चतैरवं रवम् ॥ २९०
तेन त्रस्तो द्वितीयः स हृत्स्फोटेन व्यपद्यत । श्रीदर्शनश्चचाराथ स गृहीत्वैव तं शवम् ॥ २९१
तावच्चात्र द्वितीयः स मृतोऽप्युत्थाय पूरुषः। वेताळाधिष्ठितो रुन्धैस्तं श्रीदर्शनमुक्तवान् ॥ २९२
तिष्ठ स्कन्धार्पितं कृत्वा मित्रं मे मा स्म गा इति । ततः स भूताविष्टं तं मत्वा दर्शनोऽभ्यधात् ॥ २९३
किं प्रमाणं तवैतस्य मित्रत्वे मित्रमेष मे । तच्छूत्वा सोऽपरोऽवादीत्प्रमाणमयमेव नौ ॥ २९४
श्रीदर्शनस्ततोऽवोचन्मित्रं स्वं तर्हि वक्त्यसौ । ततस्तत्स्कन्धवर्ती स सवेतालः शवोऽब्रवीत् ॥ २९५
अहमेवं ब्रुवे ममाहारं यः प्रयच्छति । क्षुधिताय स मे मित्रं स्वेच्छं नयतु मां च सः ॥ २९६
एतच्छुत्वा सवेतालो द्वितीयः सोऽवदच्छवः। मम नास्त्यस्य चेदस्ति तदाहारं ददातु ते ॥ २९७
तच्छुत्वाहं ददामीति वदन्यावत्तमेव सः। श्रीदर्शनो निजांसस्थवेतालाहारसिद्धये ॥ २९८
हन्ति खड्नेन तावत्स हन्यमानः स्वसिद्धितः। अन्तर्दधे द्वितीयोऽत्र सवेतालः शवस्तदा ॥ २९९
अथ श्रीदर्शनं तं स वेताळऽसस्थितोऽब्रवीत् । प्रतिपन्नमिदानीं मे भोजनं दीयतामिति ॥ ३००
ततो यदा न लेभेऽन्यन्मांसं श्रीदर्शनोऽत्र सः । भोजनाय ततस्तस्मै स्वमुत्कृत्यासिना ददौ ॥ ३०१
तेन तुष्टः स वेतालस्तमेवमवदत्तदा। प्रीतोऽस्मि ते महासत्व देहस्तेऽस्त्वयमक्षतः ॥ ३०२
नय मामधुना कार्यं तवैवेदं हि सेत्स्यति । स साधकस्तपस्वी तु स्वल्पसत्वो विनश्यति ॥ ३०३
इत्युक्तस्तेन भूवैव स स्वस्थाङ्गस्तदैव तम् । नीत्वा श्रीदर्शनस्तस्मै साधकाय समर्पयत् ॥ ३०५
स चाभिनन्द्य संपूज्य रक्तमाल्यानुलेपनैः। नरास्थिचूर्णलिखिते कोणन्यस्ताम्रकुम्भके ॥ ३०४
महतैलाज्वलद्वीपे मण्डले विपुलान्तरे । वेताळं तं तदोत्तानमात्तप्रेतततुं व्यधात् ॥ ३०५
वक्षस्थलोपविष्टश्च तस्यास्यकुहरेऽथ सः। नरास्थिसुक्खुवकरो होमं कर्तुं प्रचक्रमे ॥ ३०६
क्षणाच्च तस्य वेतालस्यास्याज्ज्वालोभूत्तदा । यथा स साधक त्रासादुत्थायापासरत्ततः ॥ ३०७
सन्त्वच्युतं च तं स्रस्तस्त्रुक्स्रुवं परिधाव्य सः। वेतालो व्यात्तवदनः साङ्गोपाङ्गं निगीर्णवान् ॥ ३०८
तदृष्ट्वा खङ्गमुद्यम्य यावच्छीदर्शनः स तम् । अभिधावति तावत्स वेतालस्तमभाषत॥ ३०९
भोः श्रीदर्शन धैर्येण तुष्टोऽस्म्येवंविधेन ते । तत्सर्षपान्गृहाण त्वमिमान्मन्मुखसंभवान् ॥ ३१०
एभिः शिरोनिबद्धेश्च पाणिस्थैश्चैष भूपतिः। निवृत्तयक्ष्मदोषार्तिः सद्य एव भविष्यति ॥ ३१२
त्वं चाचिरेण सर्वस्याः पृथ्व्या राजा भविष्यसि । इति तद्वचनं श्रुत्वा तं स श्रीदर्शनोऽभ्यधात् ॥ ३१३
साधकेन विनैतेन तत्र यास्याम्यहं कथम् । अनेन स हतः स्वार्थलोभादिति वदेतृपः ॥ ३१४
एवं श्रीदर्शनेनोक्ते वेतालः स जगाद तम् । वच्मि ते प्रत्ययं येन शुद्धिस्तव भविष्यति ॥ ३१५
इमं मृतं मन्निगीर्णमिहास्यैव शवस्य हि । उदरं पाटयित्वा त्वमन्तःस्थं दर्शयिष्यसि ॥ ३१६
इत्युक्त्वा स ययौ कापि वेतालोऽर्पितसर्षपः। निर्गत्यैव शवात्तस्माच्छवः सोऽप्यपतद्भुवि ॥ ३१७
स्वीकृत्य सर्षपान्सोऽपि गत्वा श्रीदर्शनस्ततः । सहायाध्युषिते तस्मिन्मठे रात्रिं निनाय ताम् ॥ ३१८
प्रगे राज्ञोऽन्तिकं गत्वा रात्रिवृत्तं निवेद्य तत् । मत्रिभ्योऽदर्शयनीत्वा साधकं तं शवोदरात् ॥ ३१९
ततो बबन्ध राज्ञस्तान्पाणौ मूर्तेि च सर्षपान् । तेन सोऽभूनृपो नष्टनिःशेषव्याधिनिर्युतः ॥ ३२०
अथ तुष्टः स नृपतिः श्रीसेनः प्राणदायिनम् । अनपत्यः सुतत्वेन तं श्रीदर्शनमग्रहीत् ॥ ३२१
अभ्यषिञ्चच्च तं वीरं यौवराज्ये तदैव सः। उप्तं सुकृतबीजं हि सुक्षेत्रेषु महाफलम् ॥ ३२२
ततः श्रीदर्शनः श्रीमानुपयेमे स तत्र ताम् । पद्मिष्ठां पूर्वसेवार्थं लक्ष्मीमिव सहागताम् ॥ ३२३
तया समं स भुजनो भोगान्मुखरकेण च । तद्धात्रा सोऽथ तत्रासीत्पृथ्वीं वीरोऽनुपालयन् ॥ ३२४
एकदा जलधेस्तीराम्राज्य रत्नविनायकम् । उपेन्द्रशक्तिरानीय ददौ तस्मै महावणिक् ॥ ३२५
तमनघं समालोक्य युवराजः स भक्तितः । तत्र प्रतिष्ठापितवान्विभवेनातिभूयसा ॥ ३२६
च विदधे मिलिताखिलमानवम् ।
ददै प्रामसहस्त्रं च नित्यभोगाय तत्र सः । यात्रोत्सवं