पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९२
[ आदितस्तर
कथासरित्सागरः ।

ततः सन्वप्रभावाढ्यं देवांशं तमवेत्य सः। आत्मनो धन्यतां वाञ्छंस्तुष्टो मुखरकोऽब्रवीत् ॥
त्वं तावत्कोऽपि देवांशः पक्षिष्ठेयं च मत्स्वसा । लोकैकसुन्दरी तन्ते दत्तैषाद्य मयोचिता ॥
तच्छुत्वा सुहृदं तं सानन्दः श्रीदर्शनोऽभ्यधात् । मयाभिनन्दितमिदं त्वद्वाक्यं पूर्वकाङ्कितम् ॥
एतां तु परिणेष्यामि स्थानं प्राप्य यथाविधि । इत्यूचिवान्स तौ चोभौ हृष्टास्तामनयन्निशाम् ॥
प्रातश्च प्रस्थिताः सर्वे ततः प्रापुः क्रमेण ते । नगरं मालवेन्द्रस्य तस्य श्रीसेनभूपतेः ॥
तत्र प्रविविशुस्तेऽथ सद्यः आन्तागता गृहम् । विश्रान्तिहेतोः कस्याश्चिदृढाया द्विजयोषितः ॥
तत्र तैश्च प्रसङ्गोक्तनिजवृत्तान्तनामभिः । विनेव दृष्टा पृष्टा सा वृद्धयोषिदुवाच तान् ॥
अहं यशस्वती नाम राजसेवोपजीविनः । भार्या सत्यव्रताख्यस्य विप्रस्येहामळन्यया ॥
मृते भर्तर्यपुत्रायास्तस्या मे वृत्तयेऽमुना । तज्जीवनचतुमीगो दत्तो राज्ञा दयालुना ॥
अद्य चैष ममापुण्यैर्विश्वप्यायकरोऽपि सन् । गृहीतो राजशशभृद्वैद्यसाध्येन यक्ष्मणा ॥
मङ्गाश्चौषधयश्चस्मिन्क्रमन्ते नैव तद्विदाम् । एकेन तु प्रतिज्ञातमस्याग्रे मत्रवादिना ॥
यदि वीरः सहायो मे तादृग्भवति कोऽपि तत् । वेतालसाधनेनाहं रुजं हन्यामिमामिति ॥
ततो हतेऽपि पटहे यदा प्राप्तो न तादृशः । बीरः कोऽपि तदा राजा खचिवानेवमादिशत् ॥
कितवानां कृते योऽयमिह ख्यातो महामठः। आगन्तुकोऽत्र कितवो वीरश्चिन्त्यः स कश्चन ॥
कितवा निरपेक्षा हि दारबन्धुधनोज्झिताः । निर्भया वृक्षमूळादिशायिनो योगिनो यथा ॥
इति राज्ञा समादिटैर्मत्रिभिस्तन्मठाधिपः । तथैवोक्तो विचिनुते वीरमागन्तुकं सदा ॥
यूयं च कितवास्त्वं च तस्मिन्कर्मणि चेक्षः । तन्नयाम्यहमेवाद्य त्वां श्रीदर्शन तं मठम् ॥
सत्कारं प्राप्नुयास्स्वं च राजतो मम च त्वया । कृता भवेदुपकृतिर्मुखं प्राणान्तकृद्धि मे ॥
एवमुक्तवतीं तां च वृद्धां श्रीदर्शनोऽप्रवीत् । बाहुं शक्तोऽस्मि तत्कार्यं कर्तुं तन्नय मां मठम् ॥
एतच्छुत्वा सपद्मिष्ठं सा तं मुखरकान्वितम् । नीत्वा वृद्धा मठे तत्र मठाधिपतिमभ्यधात् ॥
श्राह्मणो धृतकारोऽयं राजार्थे मञ्जवादिनः । तस्य साहायके शक्तो वीरो देशान्तरागतः ॥
तच्छुत्वा मठपः पृष्टं तं तथेत्येव वादिनम् । श्रीदर्शनं स सत्कृत्य निनायाशु नृपान्तिकम् ॥
तत्र चावेदितस्तेन राजानं स ददर्श तम् । श्रीदर्शनः पाण्डुकृशं शशाङ्कमिव पार्वणम् ॥
राजापि प्रणतं भयमुपविष्टं विलोक्य तम्। आकारतुष्टः श्रीसेनो जाताश्वासो जगाद सः ॥
त्वद्यत्नादेष मे रोगो नाशमेष्यत्यसंशयम्। एतत्त्वद्दर्शनध्वस्तपीडा वक्ति हि मे तनुः ॥
तत्कुरुष्वार्य साहाय्यमित्युक्ते तेन भूभृता । देव किं नाम वस्त्वेतदिति श्रीदर्शनोऽब्रवीत् ॥
अथानाय्य स राजा तं मत्रवादिनमभ्यधात् । अयं वीरः सहायस्ते यत्वयोक्तं कुरुष्व तत् ॥
तच्छुत्वा मन्त्रवादी तं श्रीदर्शनमुवाच सः । वेताळाढ़ानसाहाय्ये समर्था भद्र चेदसि ॥
तत्त्वं कृष्णचतुर्दश्यामथैवास्यां निशागमे । इह श्मशानमागच्छेरन्तिकं मम सिद्धये ॥
इत्युक्त्वा स ततोऽयासीत्तपस्वी मत्रसाधकः। श्रीदर्शनोऽप्यगच्छत्तं मठमामय भूपतिम् ॥
तत्र पट्याि साकं भुक्त्वा मुखरकेण च । एकः कृपाणभृद्रात्रौ श्मशानं तजगाम सः॥
भूरिभूताकुलं शून्यमशिवं निनच्छिवम् । गाढान्धकारमालोकं कमप्युपचितं दधत् ॥
तत्रास्पदे विरुद्धानां वीरो भ्रान्त्वा ददर्श सः । श्रीदर्शनो मध्यभागस्थितं तं मन्त्रसाधकम् ॥
भस्मानुलिप्तसर्वाङ्ग धृतकेशोपवीतकम् । प्रेतवस्त्रकृतोष्णीषं संवीतासितवाससम् ॥
उपेत्यावेदितात्मा च स तं श्रीदर्शनस्ततः। आबद्धकक्ष्यः पप्रच्छ ब्रूहि किं करवाणि ते ॥
गच्छार्धक्रोशमात्रेऽस्ति पश्चिमायामितो दिशि । चिताग्नितापनिर्दग्धपल्लवः शिंशपातः ॥
तस्य स्थितः शवो मूले तमक्षतमिहानय । इति खोऽपि तमाह स्म साधको हृष्टमानसः ॥
ततस्तथेति स गतस्तत्र श्रीदर्शनो द्रुतम् । अन्येन नीयमानं तं केनापि शवमैक्षत ॥
धावित्वा तस्य च स्कन्धाच्चकर्ष तममुञ्चतः । सुश्च दाहं क,मे मित्रं नयस्येतमिति ब्रुवन् ॥