पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५०
L आदितः
कथासरित्सागरः ।

छत्रध्वजा। इनिघूलिपादाब्जं दिव्यमानुषम् । स्खापान्तर्हिततद्विद्यावीतरूपविवर्तनम् ॥
तत्र गत्वा यथादृष्टं निवेद्य परितोषवान् । योगेश्वरो जगादासौ हृष्टो यौगन्धरायणम् ॥
न वेत्ति मादृशः किंचिद्वेत्सि त्वं नीतिचक्षुषा । तब मन्त्रेण दुःसाध्यं सिद्धं कार्यमिदं प्रभोः ॥
किं वां व्योम विनार्केण किं तोयेन विना सरः । किं मत्रेण विना राज्यं किं सत्येन विना व ॥
इत्युक्तवन्तमामय प्रीतो योगेश्वरं ततः । प्रातवेत्सेश्वरं द्रष्टुमाग(द्यौगन्धरायणः ॥
तमुपेत्य यथावच्च कथाप्रस्तावतोऽब्रवीत् । नृपं कलिङ्ग सेनथै पृष्टकार्यविनिश्चयम् ॥
स्वच्छन्दासौ न ते राजन्पाणिस्पर्शमिहार्हति । एषा हि स्वेच्छया द्रष्टुं प्रसेनजितमागता ॥
विरक्ता वीक्ष्य तं वृद्धं त्वां प्राप्ता रूपलोभतः। तदन्यपुरुषासङ्गमपि स्वेच्छं करोत्यसौ ॥
तच्छुत्वा कुलकन्येयं कथमेवं समाचरेत् । शक्तिः कस्य प्रवेष्टुं वा मदीयान्तःपुरान्तरे ॥
इति राज्ञोदितेऽवादीद्धीमान्यौगन्धरायणः । अचैव दर्शयाम्येतत्प्रत्यक्ष निशि देव ते ॥
दिव्यास्तामभिवाञ्छन्ति सिद्धाद्या मानुषोऽत्र कः । दिव्यानां च गती रोढं राजन्केनेह शक्रः ॥
तदेहि साक्षात्पश्येति वादिना तेन मन्त्रिणा । सह गन्तुं मतिं चक्रे तत्र रात्रौ स भूपतिः ॥
पद्मावत्या त्रस्ते राश्या न विद्यापति यत् । प्रोक्तं देवि प्रतिज्ञातं मया निर्गुडमद्य तत् ॥
इत्यथाभ्येत्य तां देवीमुक्त्वा यौगन्धरायणः । कलिङ्गसेनावृत्तान्तं तं तस्यै सर्वमुक्तवान् ॥
त्वदीयशिक्षानुष्टानफलमेतन्ममेति सा । देवी वासवदत्तापि प्रणताभिननन्द तम् ॥
ततो निशीथे संसुते जने वत्सेश्वरो ययौ । गृहं कलिङ्ग सेनायाः स च यौगन्धरायणः ॥
प्रविष्टोऽत्र तस्या निद्रजुषोऽन्तिके । सुतं मदनवेगं तं स्वरूपस्थं ददर्श सः ॥
हन्तुमिच्छति यावच्च स तं साहसिकं नृपः तावत्स विद्यया विद्याधरोऽभूत्प्रतिबोधितः ॥
प्रबुद्धश्च स निर्गत्य झगित्युदपतन्नभः। क्षणाकलिङ्गसेनापि सा प्रबुद्धाभवत्ततः ॥
शून्यं शयनमालोक्य जगाद च कथं हि माम् । पूर्व प्रबुध्य वरसेशः सुप्तां मुक्त्वैव गच्छति ॥
तदाकण्यं स वत्सेशमlह यौगन्धरायणः। एषा विध्वंसितानेन श्रुणु त्वदुपधारिणा ॥
सैष योगबाळाज्ज्ञात्वा साक्षात्ते दर्शितो मया । किं तु दिव्यप्रभावत्वादसौ हन्तुं न शक्यते ॥
इत्युक्त्वा स च राजा च सह तमुपजग्मतुः । कलिङ्गसेना साष्येतौ दृष्ट्वा तस्थौ कृतादरा ॥
अधुनैव क गत्वा त्वं रजन्प्राप्तः समत्रिकः । इति ब्रुवाणामवदत्तां स यौगन्धरायणः ॥
कलिङ्गसेन केनपि मायावसेशरूपिणा । संमोह्य परिणीतासि न त्वं मरस्वामिनामुना ॥
तच्छुत्वा सातिसंभ्रान्ता विद्धेव हृदि पत्रिणा । कलिङ्ग सेना वत्सेशं जगादोदश्रुलोचना ॥
गान्धर्वविधिनाहं ते परिणीतापि विस्मृता । किंस्विद्राजन्यथा पूर्वं दुष्यन्तस्य शकुन्तला ॥
इत्युक्तः स तया राजा तामुवाचानताननः । सत्यं न परिणीतासि मयायैवागतो ह्यहम् ॥
इत्युक्तवन्तं वत्सेशं मन्त्री यौगन्धरायणः । एहीत्युक्त्वा ततः स्वैरमनैषीद्राजमन्दिरम् ॥
ततः समत्रिके राज्ञि गते सात्र विदेशगा । मृगीव यूथविभ्रष्टा परित्यक्तस्वबान्धवा ॥
संभोगविलपत्रमुखाब्जा गजपीडिता । पद्मिनीव परिक्षिप्तकबरीभ्रमरावलिः ॥
विनष्टेकन्यकाभावा निरुपायक्रमा सती । कलिङ्गसेना गगनं वीक्षमाणेदमब्रवीत् ॥
वत्सेशंरूपिणा येन परिणीतास्मि केनचित् । प्रकाशः सोऽस्तु कैौमारः स एव हि पतिर्मम ॥
एंवं तयोक्ते गगनात्सोऽत्र विद्याधराधिपः। अवातरद्दिव्यरूपो हारकेयूराजितः ॥
को भवानिति पृष्टश्च तयैवं स जगाद ताम् । अहं मदनवेगाख्यस्तन्वि विद्याधराधिपः ॥
मया च प्राग्विलोक्य त्वां पुरा पितृगृहे स्थिताम् । त्वत्प्राप्तिदस्तपः कृत्वा वरः प्राप्तो महेश्वर॥
वत्सेश्वरानुरक्ता च तदूपेण मया द्रुतम् । अवृत्ततद्विवाहैव परिणीतासि युक्तितः ॥
इति वाक्सुधया तस्य श्रुतिमार्गप्रविष्टया । किंचित्कलिङ्गसेनाभूदुच्छासित हृदम्बुजा ॥