पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४६
[ आदितस्त
कथासरित्सागरः

अभ्यासक्ते गते च द्यां स्रियो मरणनिश्चिताः । भवन्त्यदैन्यगम्भीराः साध्व्यः सर्वत्र निःस्पृहा ॥
असणे हि पुरंप्रीणां प्रेम्णो गाढस्य खण्डनम् । तथा च राजंस्तत्रैतां श्रुतसेनकथां श्रुणु ॥
O. अभूदक्षिणभूमौ प्राग्गोकर्णाख्ये पुरे नृपः । श्रुतसेन इति ख्यातः कुलभूषा धृतान्वितः ॥
तस्य चैकाभवचिन्ता राज्ञः संपूर्णसंपदः। आत्मानुरूपां भार्या यत्स न तावद्वाप्तवान् ।
एकदा च नृपः कुर्वंश्चिन्तां तां तत्कथान्तरे । अग्निशर्माभिधानेन जगदे सोऽग्रजन्मना ॥
आश्चर्यं ते मया दृष्टे ते राजन्वर्णये शृणु । तीर्थयात्रागतः पञ्चतीर्थं तामहमाप्तवान् ॥
यस्यामप्सरसः पञ्च प्राहूत्वमृषिशापतः । प्राप्ताः सतीरुहरत्तीर्थयात्रागतोऽर्जुनः ॥
तत्र तीर्थवरे स्नात्वा पधेरात्रोपवासिनाम् । नारायणानुचरतादायिनि स्नायिनां नृणाम्॥
यावद्रजामि तावच्च लाङ्गलालिखितावनिम् । गायन्तं कंचिदद्राओं काषक क्षेत्रमध्यगम् ॥
स पृष्टः कार्षिको मार्ग मार्गीयातेन केनचित् । प्रव्राजकेन तद्वाक्यं नाघृणीततत्परः ॥
ततः स तस्मै चुक्रोध परित्राद्विधुरं ब्रुवन् । सोऽपि गीतं विमुच्याथ कार्षिक स्तमभाषत ॥
अहो प्रव्राजकोऽसि त्वं धर्मस्यांशं न वेत्स्यसि । मूर्छणापि मया ज्ञातं सारं धर्मस्य यपुनः ॥
तच्छुत्वा किं त्वया ज्ञातमिति तेन च कौतुकात् । प्रव्राजकेन पृष्टः सन्कार्षिकः स जगाद त। ॥
इहोपविश प्रच्छाये ऋणु यावद्वदामि ते । अस्मिन्प्रदेशे विद्यन्ते ब्राह्मण भ्रातरस्त्रयः ॥
प्रलदत्तः सोमदत्तो विश्वदत्तश्च पुण्यकृत् । तेषां ज्येष्ठौ दारवन्तौ कनिष्ठस्त्वपरिग्रहः ॥
स तयोज्यैष्ठयोराज्ञां कुर्वन्कर्मकरो यथा। मया सहासीदछुध्यन्नहं तेषां हि कार्षिकः ॥
तौ च ज्येष्ठावबुध्येतां मूढं तं बुद्धिवर्जितम् । सधुमव्यक्तसन्मार्गमृजुमायासवर्जितम् ॥
एकदा भ्रातृजायाभ्यां सकामाभ्यां रहेऽर्थितः । कनिष्ठो विश्वदत्तोऽथ मातृवत्ते निराकरोत् ॥
ततस्ते निजयोर्भरुभे गत्वा मृषोचतुः। वाञ्छयस्मान्रहस्येष कनीयान्युवयोरिति ॥
तेन तं प्रति तौ ज्येष्ठौ सान्तःकोपौ बभूवतुः । सदसद्वा न विदतुः कुस्त्रीवचनमोहितौ ॥
अथैतौ भ्रातरौ जातु बिश्वदत्तं तमूचतुः। गच्छ त्वं क्षेत्रमध्यस्थं वल्मीकं तं समीकुरु ॥
तथेत्यागत्य वल्मीकं कुदालेनाखनस तम् । मा मैवं कृष्णसर्पोऽत्र वसतीत्युदितो मया ॥
तच्छुत्वापि स वल्मीकमखनद्यद्भवत्विति । पापैषिणोरष्यादेशं ज्येष्ठभ्रात्रोरठड्यन् ॥
खन्यमानात्ततः प्राप कलशं हेमपूरितम्। न कृष्णसर्प धर्मो हि सांनिध्यं कुरुते सताम् ॥
तं च नीत्वा स कलशं भ्रातृभ्यां सर्वमर्पयत् । निवार्यमाणोऽपि मया ज्येष्ठाभ्यां दृढभक्तित ॥
तौ पुनस्तत एवांशं दत्त्वा प्रेर्य च घातकान् । तस्याक्छेदयतां पाणिपादं धनजिहीर्षया ॥
तथापि न स चुक्रोध निर्मन्युभ्रतां प्रति । तेन सत्येन तस्य।त्र हस्तपादमजायत ॥
तदाप्रभृति ततृषा त्यक्तः क्रोधोऽखिलो मया । त्वया तु तापसेनापि क्रोधोऽद्यापि न मुच्यते ॥
अक्रोधेन जितः स्वर्गः पश्यैतदधुनैव भोः। इत्युक्त्वैव तनं त्यक्त्वा कार्षकः स दिवं गतः ॥
इत्याश्चर्यं मया दृष्टं द्वितीयं श्रुणु भूपते । इत्युक्त्वा श्रुतसेनं स नृपं विप्रोऽब्रवीत्पुनः ॥
ततोऽपि तीर्थयात्रार्थं पर्यटन्नम्बुधेस्तटे । अहं वसन्तसेनस्य राज्ञो राष्ट्रमवाप्तवान् ॥
तत्र भोक्तुं प्रविष्टं मां राजसत्रेऽब्रुवन्द्विजाः । ब्रह्मन्पथामुना मा गाः स्थिता अत्र नृपात्मजा ॥
विद्युद्वयोताभिधाना तां पश्येदपि मुनिर्यदि । स कामशरनिर्भिन्नः प्राप्योन्मादं न जीवति ॥
ततोऽहं प्रत्यवोचं तानैतचित्रं सदा ह्यहम् । पश्यम्यपरकन्दर्प श्रुतसेनमहीपतिम् ॥
यात्रादौ निर्गते यस्मिन्रक्षिभिर्दष्टिगोचरात् । उत्सार्यन्ते सतीवृत्तभङ्गभीत्या कुलाङ्गनाः ॥
इत्युक्तवन्तं विज्ञाय भावकं भोजनाय माम् । नृपान्तिकं नीतवन्तौ सत्राधिपपुरोहितौ ॥
तत्र सा राजतनया विद्युद्दयोता मयेक्षिता । कामस्येव जगन्मोहमनुविद्य शरीरिणी ॥
चिरात्तद्दर्शनक्षोभं नियम्याहमचिन्तयम् । अस्मप्रभोश्चेद्भार्येयं भवेद्राज्यं स विस्मरेत् ॥



१. ‘साधं संत्यक्तसन्मार्गमृग्यजुःसामवर्जितम्' इति पुतकान्तपाठः