पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५
ईशावास्यरहस्यविवृतिः ।

शब्दः । एष सर्वसमीपतरोऽहमिति प्रत्यक्षतः स्वानुमवं श्रुतिरधिकारिणे प्रदर्शयति । स यश्चायं पुरुषे यश्चासावादित्ये स एक इति श्रुतेः।ॐ ॐकारवाच्यं खेमाकाशमिव व्यापकं ब्रह्माहमस्मीति भावः ।एवमेव स्वमपि ब्रह्मरूपोऽसीति तात्पर्यम् ॥ १७॥ अत्रायं संग्राहकः श्लोकः-----

तेजोमयेनापिहितं स्वरूपं सत्यस्य विम्बेन सदा परं तु ।।भानावसौ यः पुरुषोऽस्ति सोऽहं ज्ञेयं विभु ब्रह्म सदोंस्वरूपम् ॥१॥
       ईशावास्यस्य विवृतौ कृतायं रामशर्मणा ।।
       पूर्णः सप्तदशो मन्त्रः प्रीयतां तेन राघवः ॥ २ ॥
  माध्यंदिनेशोपनिषद्भहस्यप्रकाशकं श्लोकसमूहमेतम् ।।
  कृत्वाऽर्पितं श्रीगुरुपादपद्मे पठत्यजस्रं स विमुक्तिमीयात् ॥ १ ॥
        ईशाख्योपनिषद्रहस्यविवृतिं श्रीरामशर्माऽकृत
        श्रीकृष्णात्रिकुलोद्भवः कविवरः श्रीसिद्धराजात्मजः ।।
        शाके खेटगुणाचलावनि १७३९ मिते यामीश्वरेऽब्वे मधौ
        सेयं श्रीरघुवीरपादकमले भक्त्याऽर्पिता श्रीमति ॥ २ ॥

इति श्रीमद्विद्वन्मुकुटालंकारहीरश्रीराजयोगिषरिष्ठश्रीसिद्धेश्वर- रिसूनुना श्रीरामचन्द्रपण्डितेन विरचिता श्रीमाध्यंदिनीये- शावास्योपनिषदहस्यविवृतिः समाप्तिमगमत् ॥ ॥ ॐ तत्सत् ॥ - -