शन्ति प्राप्नुवन्त्युपासनाफलं नाश्नुवते । किंतु संसरन्तीति भावः॥१२॥ अत्रायं संग्राहकः श्लोकः-
उपासते केवलकर्मजालं ये संसरन्तीह पुनः पुनस्ते ।। |
उक्तार्थे श्रुतिर्विद्वद्वचः प्रमाणयति--अन्यदेवेति । विद्याया देवतोपासनायाः फलमन्यदेव । विद्यया देवलोक इति श्रुतेर्दैवलोकप्राप्तिलक्षणं प्राज्ञा आहुः । तथाऽविद्यायाः कर्मणोऽन्यत्कर्मणा पितृलोक इति वचनात्पितृलोकप्राप्तिलक्षणमाहुर्दूरमेते विपरीते विषूची अविद्या या च विद्येति श्रुतेश्च । एवंप्रकारेणोभयतत्त्वव्याख्यातृभ्यः पूर्वमस्माभिः श्रुतमस्तीति तात्पर्य पदव्याख्या तु व्याकृताब्याकृतोपासनावन्मन्त्रे कृता ॥ १३ ॥ अत्रायं संग्राहकः श्लोकः-
बुधाः फलं कर्मण आहुरन्यत्स्याद्देवतोपास्तिफलं तथाऽन्यत् । |
उभयोः समुच्चये फलमाह-विद्यां चेति । विद्यां च देवतोपासनाम: विद्यां च कर्म तदुभयं सह समुच्चितं फलदात्रिति यः पुमान्वेद सोऽविद्यया कर्मणा मृत्युं स्वाभाविकमज्ञानं विस्मरणलक्षणं तीर्त्वा दूरीकृत्य विद्यया देवतोपासनेनामृतं देवतात्मभावमश्नुते प्राप्नोति तद्धयमृतमुच्यते यद्देवतात्मगमनमिति श्रुतेः । अत्रार्थे श्लोकयोजना–यो देवतोपा- स्तिमथापि कर्म एकेन कार्यं पुरुषेण वेद । स्वकर्मणा मृत्युमतीत्य विद्वान्स विद्ययाऽऽप्नोति हि वेदतात्वम् ॥ १॥ अथवा कर्मणामुपासनानां च फलं प्रदर्श्याऽऽत्मज्ञानेनैव कृतकृत्यतेति श्रुतिरुपपादयति वक्तृतात्पर्यस्यामिधानियामदात्वात् । विद्यामात्मज्ञानं च परमविद्यां च कर्मेत्युभयं पाठक्रमादर्थक्रमो बलीयानिति कर्माऽऽत्मज्ञानं च पूर्वापराधिकारभेदेन सहैकपुरुषकर्तव्यत्वेन समुच्चितं यो वेद सोऽविद्यया कर्मणोपासनाऽपि मानसं कर्मैव मृत्युं स्वरूपाविस्मरणहेतुं चित्तमलमनैकाम्यं तीर्त्वाऽतिक्रम्य विद्ययाऽऽत्मज्ञानेनामृतं मोक्षमश्नुते । तमेव विदित्वाऽति मृत्युमेति