पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ईशावास्योपनिषत्-


अनेजदेकं मनसो जवीयो नैनदेया आप्नुवन्पूर्वमर्षत् ।


शा० भा० यस्याऽऽत्मनो हननादविद्वांसः संसरन्ति तद्विपर्ययेण विद्वांस जना मुच्यन्ते ते नाऽऽत्महनः । तत्कीदृशमात्मतत्त्वमित्युच्यते-अनेज- दिति । अनेजत, न-एजत् । एज़ कम्पने । कम्पनी चलनं स्वावस्था- प्रच्युतिस्तद्वजितं सर्वदैकरूपमित्यर्थः । तचैकं सर्वभूतेषु । मनसः संकल्पादिलक्षणाजवीयो जववत्तरम् । कथं विरुद्धमुच्यते धुवं निश्चलमिदं मनसो जवीय इति च । नैष दोषः। निरुपाध्युपाधिमै- त्वेनोपपत्तेः । तत्र निरुपाधिकेन स्वेन रूपेणोच्यतेऽनेजदेकमिति । मनसोऽन्तःकरणस्य संकल्पविकल्पलक्षणस्योपाधरनुवर्तनादिह देह- स्थस्य मनसो ब्रह्मलोकादिदूरंगमने संकल्पेन क्षणमात्राद्भवतीत्यतो मनसो जविष्ठत्वं लोके प्रसिद्धम् । तस्मिन्मनसि ब्रह्मलोकादीन्द्रुतं गच्छति सति प्रथम प्राप्त इवाऽऽत्मचैतन्यावभासो गृह्यतेऽतो मनसो जवीय इत्याह । नैनद्देवा द्योतनाद्देवाश्चक्षुरादीनीन्द्रियाण्येतत्प्रकृत- मात्मतत्त्वं नाऽऽप्नुवन्न प्राप्तवन्तः । तेभ्यो मनो जवीयो मनोव्यापार व्यवहितत्वात् । आभासमात्रमध्यात्मनो नैव देवानां विषयी भवति। यस्माजवनान्मनसोऽपि पूर्वसंर्घत्पूर्वमेव गतम् । व्योमवद्यापित्वात् । सर्वव्यापि तदात्मतत्त्वं सर्वसंसारधर्मवर्जितं स्वेन निरुपाधिकेन स्वरू- पेणाविक्रियमेव सदुपधिकृताः सर्वाः संसारविक्रिया अनुभवती- वाविवेकिन मूढानामनेकमिव च प्रतिदेहं प्रत्यवभासत इँत्ये- तदाह-तद्धावतो द्रुतं गच्छतोऽन्यानात्मविलक्षणान्मनोवागि-


० टी० उत्तरमन्त्रमवतारयति-यस्याऽऽत्मन इत्यादिना। अविक्रियमेकं चेदात्मतत्त्वं कथं तर्हि केचन स्वर्गगामिणः केचन नरकगामिण इति सांसारिकव्यवस्था स्यादिति चेन्मनउपाधिनिबन्धनत्यभिप्रेत्याऽऽह-मनस इत्यादिना । उपाधेरंनुवर्तनात् । विक्रियादिव्यवहाराश्रयत्वमिति शेपः । ननु मनसो देहान्तःस्थत्वाइहिर्गमनायोग्य- स्वात्कथं वेगवत्त्वमित्याशङ्कयाऽऽह-देहस्थस्येति। नवीयस्त्वादश्वादिवत्तर्हि चक्षु- रादिग्राह्यत्वं प्राप्तमित्याशङ्कयाऽऽह-नैनद्देवा इति । चक्षुरादिप्रवृत्तेर्मनोव्यापार पूर्वकत्वात्तदविषयत्वे चक्षुरादिविषयत्वमप्यात्मनो न संभवतीत्यर्थः । मनसो वा कथं न विषय आत्मेत्यत आह-यस्मादिति। यथा मनस्थं परिमाणं मनसो न विषयोऽ.


१ घ, ङ, छ, °मर्शत् । २ क, ख. °न स्थिरत्वप्र° । ३ क, ख, ग, इ. १. छ. झ. ४. मत्त्वोप°। ४ ज. °धिकः स्वे° । ५ क, ख, ग, घ, ङ, च. ड. प्रस्थसंकल्पनं क्ष° । ६ ६. ॐ. °मर्शत् । ७ ज. ३, इत्यत आह । ८ ठ, पेरनिव°। क, ख, झ °ग्नु वर्तमाना। १ घ, ङ, च, छ, ३. °त् । क्रि ।