पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ईशावास्योपनिषत्-

एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २


शा० भा० कम्प्यं यथोक्तं न स्मरसि किम् । इहाप्युक्तं यो हि जिजीविषेत्स कर्म कुर्वन् । ईशा वास्यमिदं सर्वं तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनमिति च । न जीविते मरणे वा गृधिं कुर्वीतारण्यमियादिति च पदम् । ततो न पुनरियादिति संन्यासशासनात् । उभयोः फलभेदं च वक्ष्यति । इमौ द्वावेव पन्थानावनुनिष्क्रान्ततरौ भवतः क्रियापथश्चैव पुरस्तात्संन्यासश्रोत्तरेण निवृत्तिमार्गेणैषणात्रयस्य त्यागः । तयोः संन्यासपथ एवातिरेचयाति । न्यास एवात्यरेचयदिति च तैत्तिरीयके। द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः । प्रवृत्तिलक्षणो धर्मों


० टी० शुद्धिसाम्याद्विरोधोऽसिद्ध इति तदसत् । ऋतुगमनन्निदण्डिधर्मयोरप्यविरोधप्रसङ्गात् । तदुभयं नैकस्य विहितमिति चेत्तुल्यमेतत्प्रतिषेधात्तत्र न समुच्चय इति चेदिहापि न कर्मणा न प्रजया नानुध्येयाहूञ्छब्दानित्यादिप्रतिषेधस्तुल्यः । केवलकर्मविषयो निषेध इति न च वाच्यं केवलपद्व्यवच्छेद्याभावात्समुच्चयावधेरद्याप्यनिश्चितत्वात्तस्मान्न समुच्चये तात्पर्यै मन्त्रद्वयस्येत्याह-ज्ञानकर्मणोर्विरोधमिति । कर्तृत्वाद्यध्यासाश्रयं कर्म शुद्धत्वाकर्तृत्वादिज्ञानेनोपमृद्यत इति संबन्धग्रन्थे यथोक्तं सहानवस्थानलक्षणं विरोधं किं न स्मरसि येनैकाधिकारस्वं तयोः कल्पयसीत्यर्थः । मन्त्रलिङ्गादपि तयोर्भन्नाधिकारत्वं प्रतीयत इत्याह-इहाप्युक्तमिति । जिजीविषो रागिणः कर्म विहितं सर्वमीश्वर एवेति ज्ञानवतस्त्यागो विहितः । किंच धनसंपन्नस्यैव कर्मण्यधिकारः । प्रथममन्त्रार्थाधिकारिणश्च धनाकाङ्क्षानिषेधेन कर्माधिकारनिषेधः प्रतीयत इत्यर्थः । जिजीविषा हि कर्माधिकारिण एव न ज्ञानाधिकारिण इत्यत्र प्रमाणमाह-न जीवित इति । अरण्यं स्त्रीजनासंकीर्णमाश्रममियाद्रच्छेदिति पदं वेदशास्त्रस्थितिस्ततोऽरण्यवासोपलक्षिता- त्संन्यासान्न पुनरियाकर्मश्रद्धया न प्रत्यावृत्तिं कुर्यादति जिजीविषादिरहितस्य संन्यासविधानादित्यर्थः । इतश्च नैकफलकामस्य ज्ञानकर्मणोरधिकारः प्रतिपत्तव्य इत्याह-उभयोरिति । को मोहः कः शोक एकत्वमनुपश्यत इति सनिदानानर्थप्रहाणं ज्ञानफलं वक्ष्यति । संसारमण्डलान्तर्गतमेव च देशान्तरप्राप्त्यायत्तं हिरण्यगर्भपदप्राप्त्यादिलक्षणं कर्मफलं वक्ष्यति । अग्ने नय सुपथेत्यन्तेनेत्यर्थः । नारायणोपनिषद्वाक्यमपि भिन्नाधिकारित्वे प्रमाणयति-इम द्वावेवेति ।


१ क, ख, ध्यायैद°।