पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

शैवाग्निकल्पाधिकारः] . पूर्वार्धे चतुर्दशः पटलः । राक्षसादीशकोणान्तं स्रुवेणाज्यैकधारया ॥ हुत्वा नित्येषु मुख्यत्वात् सद्यस्य. वदनस्य तु ॥ १४३ ॥

कुण्डप्रमाणं तद्वक्रं ध्यात्वान्येषां तु सद्यके । 

अनुप्रवेशाद् वक्राणां वक्रेकीकरणं स्मरेत् ॥ १४४ ॥

तथाचोक्तं संहितायां नित्यकर्मणि सद्यके।

मुख्यमूर्ध्वं स्मृतं वक्रं गुणत्वामेतरस्य तु ॥ १४५ ॥ इति । अपिच - नैमित्तिके च काम्ये च यस्य वक्रस्य मुख्यता | यत्र यत्र समुद्दिष्टं तस्यैकीकरणं परैः ॥ १४६ ॥

तथा मुमुक्षोर्दीक्षाया मुख्यं ह्युर्ध्वमुखं स्मृतम् ।
दृष्टसिद्ध्याप्तये पूर्वं दक्षिणं क्षुद्रकर्मसु ॥ १४७ ।। 

उत्तरं वामदेवाख्यं शान्तिके पौष्टिकेष्टदम् ।

नित्यकर्मसु सद्याख्यं संहितायामितीरितम् ॥ १४८ ॥
एतत्पर्यन्तमुद्दिष्टं जातकर्मसमापनम् ।।
ओं हां ईशानाय नमः ।
इतीशानं समावाह्य तिलास्नाहुतिपञ्चकम् ॥ १४९ ॥
हुत्वा नामास्य कुर्वीत
ओं हां शिवाग्निहुताशस्त्वम् ।

इत्युक्त्वाराध्य चानलम् ।

ओं हां वागीश्वरीवागीश्वराभ्यां ठठ ।

अनेनोद्वास्य पितरौ

ओं हौं शिवाय वौषट् ।

पूर्णो हुत्वा त्वनेन तु ॥ १५० ॥

अनाहितशिवे वह्नौ पञ्चसंस्कारसंस्कृते ।

पात्याश्चरुपुरोडाशा धूपाद्यर्थं च रक्षिते ॥ १५१ ॥

यथोक्तं संहितायां

___“पात्याश्चरुपुरोडाशाः पञ्चसंस्कारसंस्कृते ।