पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

. ईशानशिवगुरुदेवपद्धतौ [सामान्यपादः

आज्ये नाडिनयाधानं पक्षयोरपि कल्पना ।

अथाङ्गैरभिमन्त्र्याज्यम्

ओं हौं शक्तये वौषट् ।

. अनेनाप्यभिमन्त्र्य तु ॥ १३६ ॥

अमृतीकृत्य तद्धेनुमुद्रया वर्मणा पुनः । 

अवकुण्ठ्यास्त्रतो रक्षेदित्युक्ताज्यस्य संस्कृतिः ॥ १३७ ॥ संस्कृताज्यस्य यद् बिन्दु क्षिपदन्यघृतादिषु । संस्कृतान्येव तानि स्युर्हृदयेनाभिमन्त्रणात् ।। १३८ ॥ अथ सद्यादिपञ्चास्यं प्रतिवर्क त्रिलोचनम् । शिवाग्नि संस्मरेत् सौम्यं सप्तजिह्वान्विताननम् ।। १३९ ॥ अत्र पौष्करे चतुर्मुखेषु चतस्रो जिह्वास्तिस्रो मध्यमे ।

ताश्च दीक्षाप्रतिष्ठादिषु सात्त्विक्यः क्षुद्रेषु तामस्यः काम्येषु राजस्यः । (इति ।) ताः पूर्वमेवोक्ताः ।

अभयं स्वस्तिकं शक्तिं वरदं दधतं भुजैः । शुक्लमाल्याम्बरालेपं दिव्याभरणभूषितम् ॥ १४० ॥ इष्ट्वार्घ्यं गन्धपुष्पाद्यैरुपचारैर्यथाविधि ।

ओं हां सद्योजातमूर्तये ठठ । ओं हां वामदेवगुह्याय ठठ । ओं हां अधोरहृदयाय ठठ । ओं हां तत्पुषवक्राय ठठ । ओं हां ईशानमूर्धाय ठठ।

____ एवं वक्राभिघारः स्थाद्धुत्वा तत्तन्मुखे पृथक् ॥ १४१ ॥ ओं हां सद्योजातमूर्तये वामदेवगुह्याय ठठ । ओं हां वामदेवगुह्यायाघोरहृदयाय ठठ । ओं हां अघोराय हृदयाय तत्पुरुषवक्त्राय ठठ । ओं हां तत्पुरुषवक्त्रायेशानमूर्धाय ठठ । . इति वक्त्राणि सन्धाय जुहुयाद् द्वन्द्वशो घृतम् ।

ओं हौं हे हुं हिं हं ईशानतत्पुरुषाघोरवामदेवसद्योजातेभ्यः ठठ । 

इत्यग्निकोणाद् वाय्वन्तं वायोर्नक्तञ्चरान्तकम् ॥ १४२ ॥