पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ केसराकाशयोर्मध्यं व्योनि विन्यस्य लाञ्छयेत् | एकादशच्छदं त्वेवं पद्मं स्यात् सूत्रपाततः ॥ १२९ ॥ पत्राप्रपत्रसन्धिभ्यां पत्राग्रे न्यस्य लाञ्छते । आस्फाल्य तेषु सूत्राणि तत् स्यादभिकृतिच्छदम् ॥ १३० ॥ अतः परं चेद् दलवृद्धिमिच्छेद् दिशानयैवात्र यथाक्रमेण । तदूहतो मध्येवशेन सूत्रैर्लिखेत् सरोजानि यथाभिलाषम् ॥ १३१ ॥ दलभेदलक्षणम् । अर्धचन्द्रादिकुण्डानां लक्ष्मणा सूत्रपाततः । अर्धचन्द्रादिबिम्बानि कुर्यात् कामानुसारः ॥ १३२ ॥ वेदाश्रिके दिग्विदिगन्तरे स्युर्द्यष्टसूत्रैः पतितैस्तु दीर्घेः । द्वात्रिंशदंशाः परितोऽथ तेषु क्षेत्राणि पञ्च भ्रमणाद् भवन्ति ॥ १३३ ॥ अष्टाङ्गुलैः स्यात् कमलार्धमादौ त्रिभिस्तु पीठं त्रिभिरेव नाभिः । वीथीश्चतुर्भिस्तु पडङ्गुलैः स्युर्द्वाराणि शोभास्त्वपि चोपशोभाः ॥ १३४ ॥ ु ॥ प्राग्वत् सरोजं त्विह वृत्तपीठं नाभिर्गुणैर्हंसशराब्जशङ्खैः । वीथिर्भवेद् वारचतुष्टयाढ्यं वर्णक्रमाद् भद्रकवद् विधेयम् ॥ १३५ ॥ द्वारादिषु विशेषोऽत्र स्यात् तत्क्षेत्रं द्विधा भ्रमात् । अन्तर्वेदांशकैर्बाह्यैर्द्वाराणि स्युः षडंशकैः ॥ १३६ || प्राग्वच् शोभोपशोभे स्तां कोणलक्ष्मापि कथ्यते । अन्तर्मुखास्ते कलशास्तु कोणा वेदांशवक्त्रा द्वितयांशकण्ठाः । तत्कोणपार्श्वान्तविवर्तने स्युः पृथूरावर्तित विष्टरान्ताः || १३७॥ मायाचक्राह्वयं त्वेवं शक्तीनां मण्डलं स्मृतम् ॥ १३८ ॥ मायाचकाधिकारः । पाठ:. २. 'लय' ख पाठः, ३. 'म्या', ४. 'कम्', १. 'नू' ग. 'ले', ७. 'गे' ग. पाल [सामान्यपाद: