पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ [सामान्यपाद: धनुरित्यपि दण्ड एव तेषां धनुषामष्टकमुच्यते हि रज्जुः । मुरतारसुराङ्गुलैः प्रजेशं सधनुर्मुष्टि धनुर्गृहे च विद्यात् ॥ १७ ॥ ऋजु मध्यमपर्वमध्यमायास्त्विह मात्राङ्गुलमिष्यते तदान्यत् । भवनादिषु पूर्वमङ्गुलं स्यात् खलुं मात्राङ्गुलमेव साधनेषु ॥ १८ ॥ गृहविस्तृतिदैर्ध्यदण्डपूगं त्रिगुणं तद्वसुभक्तशिष्टदण्डाः । क्रमशो ध्वज धूमकेसरिश्ववृषभाः स्युः खरहस्तिवायसाख्याः ॥ १९ ॥ ध्वजसिंहवृषेभलक्षणाः प्राग्यमनीरेशधनेशदिक्षु शालाः । अपि मध्यगृहे समे च वृत्ते सममे तच्छुभदण्डमेव कुर्यात् ॥ २० ॥ अपि चाटनमारणादिकानामशुभानामिह कर्मणां प्रयोगे । ननु वायसगर्दभश्वधूमैरधिदण्डं भवनदिकां विधेयम् ॥ २९ ॥ विषवृक्षपरेत भूमिकाष्ठैरशुभैः कण्टकिभिश्च तत्र शालाः । यमवह्निनिशाटदिक्प्लवा भूर्निखिलक्षुद्रविधौ विशेषरौद्राः ॥ २२ ॥ विपिनानि चिता स्वयंभुवैकं शिवलिङ्ग भवनं करालिकायाः । महिषासुरमर्दिनीनिवासोऽप्यभिचारेषु निरालयाश्च शस्ताः ॥ २३ ॥ अचलाश्च विविक्तनिर्जला ये मुसलस्त्री शिशुशब्दवर्जिताः स्युः । अशुभेषु शुभेषु चापि देशाः परिहीणान्त्यजरासभाश्वशूर्पाः ॥ २४ ॥ कुकवाकुविलालजुष्टदेशे जपहोमादि कृतं फलाय न स्यात् । विधवा विकलाश्च पापिनो वाप्यतुमत्यश्च निहन्ति कर्म सर्वम् ॥ शुभकर्मसु कन्यकाश्च सत्यः शुभलक्ष्मप्रवराङ्गनाश्च विप्राः । ध्वनयोऽपि गवाश्वकुञ्जराणां फलदाः स्युः सह शङ्खवाद्यगीतैः ॥ अभिचारविधौ तु कन्यकाद्या विधवाद्याश्च गवाश्ववेदघोषाः । अपहन्युरिमे प्रयोगशक्तिं सुतरां माङ्गलिकानि तत्प्रदेशे ॥ २७ ॥ विजनेषु विशेषतोऽभिगुप्तेऽनतिदूरादू विविधाप्तरक्षिवर्गैः । विपिनादिपुरोक्तलक्षणेऽन्यैर्यददृष्टे विदधातु मारणाद्यम् ॥ २८ ॥ हृदिनीनदसह्यविन्ध्यशैलास्त्वपि रत्नाकरगा विशिष्टनद्यः । उदधेः साललं च हन्युरेते यदि मध्ये स्युरलं प्रयोगशक्तिम् ॥ २९ ॥ १. 'क्ति' क. पाठः. 76