पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धतां मनुभिर्बहुभिर्युक्तां दैवतैश्चापि तत्समम् । कृतत्रेतादिकल्पैश्च शरदं ब्रह्मणो यथा ।। १० ।। + निजसङ्केतमार्गज्ञैरधिगम्यां पृथग्विधैः । यन्त्रैर्दूरीकृतानर्थां दुर्गभूमिमिवापराम् ॥ ११ ॥ निर्गत द्वापरां धर्मतनयस्वर्गयोगतः । कलिप्रसङ्गकटुकां कालस्येह गतिर्यथा ॥ १२ ॥ पाश्चतुर्भिर्नात्यर्थं भिन्नार्थप्रसवैर्युताम् । चतुर्युगक्रमायत्तां वैघसीमिव कल्पनाम् ॥ १३ ॥ एकामपि पृथग्लक्ष्यपूर्वार्धापरलक्षणाम् । मूर्ति विनायकस्येव गजवक्रां नराकृतिम् ॥ १४ ॥ महेन्द्रजाल विज्ञानप्रपञ्चजननीं यथा । तद्विदां प्रत्ययावेद्यां मुक्तिदां शक्तिमैश्वरीम् ॥ १५ ॥ [सामान्यपादः + + + + + + क + + + म + विभागतः । मोक्षप्रसाधनीं तत्तत्क्रमवेद्यां त्रयीमिव ॥ १६ ॥ सप्रयोगा हि मनवः साङ्गदैवपुरस्क्रियाः । सच्छन्दोमुनिदिग्बन्धाः सध्यानाः सप्रयोजनाः ॥ १७ ॥ सविधानाश्च लक्ष्यन्ते मन्त्रास्ते स्युश्चतुर्विधाः । • बीजानि बीजमन्त्राश्च मन्त्रा मालाख्यमन्त्रकाः ॥ १८ ॥ नानाक्षराणां संयोगाद् बीजं स्याद्वैकमक्षरम् । बीजमन्त्रा दशार्णाधो मन्त्राः स्युर्विशतेरधः ॥ १९ ॥ विंशत्यर्णाधिका ये तु मालामन्त्रा भवन्ति ते । प्रायेण बाल्ये बीजांनि सिद्धिं यच्छन्ति भूयसीम् ॥ २० ॥ बीजमन्त्रास्तु कौमारे मन्त्रा यौवनसिद्धिदाः । वार्द्धकेऽपि च सिध्यन्ति मालामन्त्राः सदैव हि ॥ २१ ॥ श्रद्धाभक्तिसमभ्यासात् सर्वे सिध्यन्ति सर्वदा । मननत्राणधर्मित्वं वाचके दैवतस्य तु ॥ २२ ॥ १. 'मायां' ग. पाठः,