पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८४
काव्यमाला ।


त्मन उदात्तस्यावसरः। तत्रासंभाव्यमानविभूतियुक्तस्य वस्तुनो वर्णनं कविप्रतिभोत्थापितमैश्वर्यलक्षणमुदात्तम् । यथा

‘मुक्ताः केलिविसूत्रहारगलिताः संमार्जनीभिर्ह्रताः
प्रातः प्राङ्गणसीम्नि मन्थरचलद्बालायाङ्घ्रीलाक्षारुणाः ।
दूराद्दाडिमबीजशङ्कितधियः कर्षन्ति केलीशुका
यद्विद्वद्भवनेषु भोजनृपतेस्तत्त्यागलीलायितम् ।


अङ्गभूतमहापुरुषचरितं च ।

उदात्तशब्दसाम्यादिहाभिधानम् । महापुरुषाणामुदात्तचरितानामङ्गिभूतवस्त्वन्तराङ्गभावेनोपनिबध्यमानं चरितं चोदात्तम् । महापुरुषचरितस्योदात्तत्वात् । यथा

‘तदिदमरण्यं यस्मिन्दशरथवचनानुपालनव्यसनी ।
निवसन्बाहुसहायश्चकारः रक्षःक्षयं रामः ।


अत्रारण्ये वर्णनीये रामचरितमङ्गत्वेन वर्णितम् ।


विरुद्धत्वात् । तत्रेति । एवमवसरे सतीत्यर्थः । असंभाव्यमानेति । संभाव्यमानविभूतियुक्तस्य तु वर्णनं नैतदङ्गमिति भावः । यथा। -‘प्रातश्चकासति गृहोदरकुट्टिमाग्रविक्षिप्तरत्नकुसुमप्रकरावकीर्णाः। अभ्युद्गतारुणकराहतिपात्यमाननक्षत्रराशिशथला इव यत्र रथ्याः । अत्र हि भगवन्नगर्या वस्तुत एव संभवति रत्नविक्षेपः । अत एवास्य कविप्रतिभोत्थापितत्वमुक्तम् । एवं चास्य नामापि सार्थकम्। अलंकारसारकृता पुनरत्रातिशयोक्तिप्रकारत्वमुक्तम् । अङ्गभूतेत्यादि । एतदेव - व्याचष्टे-महापुरुषाणमित्यादिना । अङ्गभूतस्य वस्तुनो महापुरुषचरितमुत्कर्षप्रातिपिपादयिषयाङ्गतयोपनिबध्यमान मेतदलंकाराङ्गम् । न तूपलक्षणमात्रपरतयोपात्तमिति तात्पर्यार्थः । तच्च यथोदाहृतम् । ‘कश्चित्कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः । यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ।’ अत्राङ्गिनो गिरिविशेषस्य वसतियोग्यत्वादिदर्शनार्थमुत्कर्षप्रतिपिपादविषया रामसीतादिचरितमुपलक्षणपरं तत्र नायमलंकारः । यथा—‘गोदावर्याः करिकुलमदक्षोददक्षोदकायाः पारे पारे बत बत परामृश्यतामृष्यमूकः । कंकालाद्रौ पिहितगगने दुन्दुभेर्यत्र रामः पादाङ्गुष्ठं निजमपि भवदैवतं निर्ममेऽस्तम् ॥’ अत्र पवनं प्रति वियोगिन्या उक्तौ रामचरितमुपलक्षणमात्रपरम् । न ह्यङ्गभूतेनाङ्गिनः कश्चिद्विशेषो विवक्षितः । अत्रासीत्फणिफाशयन्धन-


१. ‘कृताः क-ख.