पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

! ४] द्वितीयं काण्डम्. पत्रं पलाशं छदनं दलं पर्ण छदः पुमान् || पल्लवोsस्त्री किसलयं विस्तारो विटपोऽस्त्रियाम् ॥ १४ ॥ वृक्षादीनां फेलं संस्यं वृन्तं प्रसवबन्धनम् || आमे फले शलादुः स्याच्छुष्के वानमुभे त्रिषु ॥ १५ ॥ क्षारको जालकं क्लीबे कलिका कोरकः पुमान् ॥ स्याद्गुच्छकस्तु स्तबकः कुडुलो मुकुलोऽस्त्रियाम् ॥ १६ ॥ स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम् || 13-16 “ पर्ने तु पत्रे इति हैमः " | पल्लवः किसलयं “किशलयमपि " द्वे पत्रादियुक्ते शाखायाः पर्वणि । तत्र किसलयं पुंसि क्लीबे च । “पुंसि क्लीबे च पल्लवः” इति तु व्याडिः । विस्तारः शाखापल्लवसमुदायलक्षण आभोग: विटप उच्यते एकम् । “विटपो न स्त्रियां स्तम्बशाखाविस्तारपल्लवे” इति मेदिनीकोशात् । "शाखायां पलवे स्तम्बे विस्तारे विटपोऽस्त्रियाम्" इति रभसाथ | पल्लवादिचतुष्ट- यमेकार्थकं वा । अत्र यदुक्तं कात्येन । " स्कन्धादूर्ध्व तरोः शाखा कटको बिटपो मतः" इति ॥ १४ ॥ वृक्षादीनामिति पूर्वेणापि संबध्यते । वृक्षादीनां फलं सस्यमित्युच्यते । “तालव्याद्यपि " एकम् । प्रसवः पुष्पादिः बध्यते येन तत् वृन्तमुच्यते एकम् । देठ, “डेंख" इति ख्यातस्य । बन्धनं पुष्पयो - ईन्तमाह कात्यः । आमे अपके फले शलाटुरित्येकम् । शुष्के फले वानमित्ये- कम् | उमे शलादुर्वानं च त्रिषु त्रिलिजाम् ॥ १५ ॥ क्षारकः जालक द्वे नूतनकलिकायाः । तद्द्वृन्तस्येत्येके । तत्र जालक कीबे एव । कलिका कोरकः द्वे अस्फुटितपुष्पस्य कळी इति ख्यातस्य । गुच्छकः स्तबकः द्वे कलिकादिभिराकीर्णस्य पल्लवग्रन्थेः । विकासोन्मुखकलिकाया इति केचित् । " स्तबके हारभेदे च गुत्सः स्तम्बेऽपि कीर्तितः " इति दन्त्यान्ते रुद्रः । "पुष्पादिस्तबके गुच्छः" इति तालव्यान्ते रन्तिदेवः । कुलः मुकुलः द्वे ईष- द्विकसितकलिकायाम् ।। १६ ।। सुमनसः पुष्प प्रसूनं कुसुमं समम् । “सर्वसाधु- समानेषु सम स्यादाभिषेयवत्" इति मेदिनी । चत्वारि पुष्पस्य । कुसुमं सुममित्यपि पाठः । तत्र पुष्पस्य पञ्च नामानि । “अनि स्त्रियां सुमनसः” इति रखकोशः। “सुमनाः पुष्पमालत्योः स्त्रियाम्” इति मेदिनीकोशः । मकरन्दः पुष्प- रसः द्वे पुष्पमधुनि । परागः सुमनोरजः द्वे पुष्परेणोः । “परागः कौसुमे रेणौ Digitized by Google