पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

i 10-13 सटीकामरकोशस्य [ वनौषधिवर्गः अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावंधिस्तरोः ॥ १० ॥ समे शाखालते स्कन्धशाखाशाले शिफाटे || शाखाशिफाज्वरोहः स्यान्मूलाञ्चाग्रं गता लता ॥ ११ ॥ शिरोऽयं शिखरं वा ना मूलं बुनोऽडिनामकः || सारो मज्जा नॅरि त्वक् स्त्री वल्कं वल्कलमस्त्रियाम् ।। १२ ।। काष्ठं दार्विन्धनं त्वेष इध्ममेधः समित्नियाम || निष्कुहः कोटरं वा ना वलॅरिर्मअरिः स्त्रियौ ॥ १३ ॥ स्कन्भः इति द्वे तरोर्मूलमारभ्य शाखापर्यन्तो यो भागस्तत्र । मूलाच्छाखावधे- स्तरोरित्यपि पाठः । “तरोर्मूलस्कन्धयोरन्तरं प्रकाण्डः ” ॥ १० ॥ शाखा लता दे शाखायाः । स्कन्धशाखा शाला द्वे प्रधानशाखायाः । स्कन्धात्प्रथमोत्पन- शाखाया इत्यर्थः । शिफा जटा द्वे तरुमूलस्य “पाळ इति प्रसिद्धस्य " । शाखायाः शिफा मूल अवरोह इत्युच्यते एक “पारोगा पारंनी इति प्रसि- द्धस्य" । मूलाद्वृक्षमूलमारभ्याग्रपर्यन्तं गता लता गुहूच्यादिरप्यवरोह इत्यु- यते एकम् । “मूलादूर्ध्वं गता शिफा लता स्यादित्यपि " ॥ ११ ॥ शिर- सोऽयं शिरोऽयं तत् शिखरमित्युच्यते । शिरआदयत्रयोsपि पर्याया इति केचित् । शिखरं वा ना पक्षे पुंसीत्यर्थः । मूलं बुध्नः ( अध्न इत्यपि ) अङ्गि- नामकः पादमूलपर्यायसंज्ञक: त्रीणि वृक्षादेर्मूलस्य | सारः मजा द्वयं वृक्षादे: स्थिरांशे "गाभा, नार इति ख्याते ” । तत्र मजा नान्तः । नरि पुंसि । कचिट्टान्तोsपि दृश्यते । सारो मजा समौ त्वक् स्त्रीति पाठः । समौ समानलिगौ | त्वक् वल्कं वल्कलं त्रयं त्वचः । तत्र वल्कादिद्वय क्लीबपुंसो: ।। १२ ।। का दारु | दारुरित्यन्यत्र । पुनपुंसकयोर्दारुरित्युक्तेः । द्वे काष्ठमात्रस्य । इन्धनं एधः इम एषः समित् पञ्चकं शुष्कस्य तृणकाष्ठादे: । आद्यत्रय अभिसंदीपनतृणकाष्ठादे: जळण इति प्रसिद्धस्य । “अन्त्यद्वयं यागादौ हूयमानसमिधादेरिति मतम् । ” तत्र आद्य एषःशब्द: सान्तः क्लीषे । अन्य- स्त्वदन्तः पुंसि । समिद्धान्तः । निष्कुहः कोटर द्वे वृक्षगतविवरस्य । कोटरं वा ना पक्षे पुमान् | वल्लरिः मञ्जरिः "कृदिकारादक्तिन" इति गणसूत्रात् वल्लरी म जरी इत्यपि । द्वे तुलस्यादेरभिनवोद्भिदि “कैंसर इति ख्यातस्य " ॥ १३ ॥ पत्रं पलाशं छदनं दलं पर्ण छदः षकं पत्रस्य । तत्र छदोऽदन्तः पुंसि । “पर्णखिपत्रे Digitized by Google