पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| 1 २] द्वितीयं काण्डम् क्षिसे मुखं निःसरणं संनिवेशो निकर्षणम् || समौ संवसथग्रामौ वेश्मभूर्वास्तुरस्त्रियाम् ॥ १९ ॥ ग्रामांन्त उपशल्यं स्यात्सीमसीमे स्त्रियामुभे ॥ घोष आभीरपल्ली स्यात्पकणः शबरालयः ॥ २० ॥ इति पुरवर्गः ॥ २ ॥ महीधे शिखरिक्ष्मामृदहार्यधरपर्वताः ॥ अद्विगोत्रगिरित्रावाचलशैलशिलोचयाः ॥ १ ॥ ॥ लोकालोकश्चक्रवालॅस्त्रिकूटस्त्रिककुत्समौ अस्तस्तु चरमक्ष्माभृदुदयः पूर्वपर्वतः ॥ २ ॥ 18-20 ७७ रण द्वे गृहादेर्मुख भूतस्य द्वारप्रदेशस्य “उसदार, पुढीलदार इति ख्यातस्य । निःसरन्त्यनेन निःसरणम्" सैनिवेश: निकर्षण द्वे समीचीनवासस्थानस्य | “पुरादौ गृहादिरचनापरिच्छिदेशस्थेत्यर्थः । संवसथः ग्रामः द्वे ग्रामस्य । वेश्मभूर्गृहभूमिः वास्तुरित्युच्यते द्वे “गृहरचनावच्छिन्नभूमेः ” ॥ १९ ॥ ग्रामान्ते ग्रामस्य समीपप्रदेशे उपशल्यमित्येकम् । ग्रामान्तमुपशल्यमित्यपि पाठः । “तत्र ग्रामस्यान्तं समीपम् ” सीमा सीमा द्वे प्रामादेर्मर्यादायाम् । नामन् सीमनित्यादि निपातनात् पूर्वो नकारान्तः । “उमे द्वे खियाम् ” । घोषः आमीरपल्ली "आभीरपल्लिः" द्वे गोपालग्रामस्य तद्गृहस्य वा । "कुटीकुग्रा- मयोः पलिः” इति शाश्वतः । शबरस्यालयः पक्कण इत्युच्यते द्वे मिलग्रामस्य । शबरो वनचाण्डालः ॥ २० ॥ इति पुरवर्गः ॥ २ ॥ महीघ्रः शिखरी क्ष्मामृत् अहार्यः धरः पर्वतः अद्रिः गोत्रः गिरिः ग्रावा अचल: शैलः शिलोचयः त्रयोदश पर्वतसामान्यस्य ॥ १ ॥ लोकालोकः । लोकालोकौ प्रकाशान्धकारावत्र स्तः । “लोकु दर्शने” । चक्रवाल: "चक्रवाड:" द्वे सप्तद्वी- पवत्या भूमेः प्राकारभूते गिरौ । त्रिकूटः त्रिककृत् द्वे त्रिकूटाचलस्य । “त्रिकूट सिन्धुलवणे त्रिकूटः पर्वतान्तरे” इति हैमः । दान्तः त्रिककृत् । अस्तः चरमक्ष्मा- भृत् द्वे अस्ताचलख । “अस्तं क्षिप्तेऽप्यवसिते त्रिषु ना पश्चिमाचले" इति विश्व- मेदिन्यौ । उदयः पूर्ववर्वतः द्वे उदयाचलस्य || २ | हिमनानित्यादयः सप्त Digitized by Google 1 + 1