पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| 1 २] द्वितीय काण्डम्. विच्छन्दकः प्रभेदा हि भवन्तीश्वरसझनाम् || रूयगारं भूभुजामन्तःपुरं स्यादवरोधनम् ॥ ११ ॥ शुद्धान्तश्चावरोधश्च स्यादट्टः सौममस्त्रियाम् || प्रघाणप्रघणॉलिन्दा बाहिरकोष्ठ ॥ १२ ॥ गृहावग्रहणी देहल्यङ्ग्णं चत्वराजिरे || अघस्ताद्दारुणि शिला नासा दारूपरि स्थितम् ॥ १३ ॥ प्रच्छन्नमन्तरं स्यात्पक्षदारं तु पक्षकम् ॥ वलीकंनीधे पटलप्रान्तेऽथ पटलं छदिः ॥ १४ ॥ 10-134 न्दकः । “विच्छर्दकः " आदिना रुचकबर्द्धमानादिग्रहः । भूभुजां राज्ञां रुपगारं स्लीगृहं तत् अन्तःपुरै अवरोधनम् ॥ ११ ॥ शुद्धान्तः अवरोधः चत्वारि । अट्टः क्षौमं “क्षोमं " द्वे हर्म्यादिपृष्ठस्य “उपरिगृहस्य माडी इत्या- दिख्यातस्य" । गृहविशेषस्थेत्येके । प्रधाण: प्रघणः । प्रविशद्भिर्जनैः पादैः प्रकर्वेण हन्यते स प्रघण: प्रघाणश्च । हन्धातुः । अलिन्दः आलिन्दः । “ गृहैकदेशे आलिन्दः प्रघाणः प्रघणस्तथा " इत्यमरमाला । त्रीणि द्वाराबहिर्यः प्रकोष्ठकस्तत्र ओटा इति प्रसिद्धस्य । “ द्वारप्रकोष्ठाद्वहिर्द्वाराग्रवर्तिचतुष्क- स्थेति वा पाहिरी इति ख्यातस्य' " ।। १२ ।। गृहावग्रहणी देहली द्वे गृहद्वारा- धोभागस्य उंबरा इति प्रसिद्धस्य | "देहं गोमयाधुपलेप लातीति विगृही- तत्वानुहद्वाराधोभागस्य उंबरओठा उंबरठा इति ख्यातस्य ।" अङ्गणं अङ्ग- नम् । “अङ्गनं प्राङ्गणे याने कामिन्यामङ्गना मता" इति नान्तवर्गे विश्वः । चत्वरं अजिरं त्रीणि प्राङ्गणस्य । झिलेत्येकं द्वारस्तम्भाधः स्थितकाष्ठस्य । “शिली” । “तलदारु शिल्पघोऽपि नासा दारूर्ध्वमस्य यत्" इति बोपालितात् । नासे- त्येक " दन्त्यान्तम्” द्वारस्तम्मोपरि स्थितस्य दारुण: "मस्तकपट्टी गणेशपट्टी इति प्रसिद्धस्य " ॥ १३ ॥ प्रच्छन्नं अन्तर्द्वार द्वे गुप्तद्वारस्य खिडकीसंज्ञस्य | पक्षद्वार पक्षक द्वे पार्श्वद्वारस्य । मागिलदार इति लोकप्रसिद्धिः । “प्रच्छ- अमन्तद्वारं स्यात्पक्षद्वारं तदुच्यते " इति कात्यात् पक्षद्वार पूर्वान्वयीत्यन्ये । वलीकम् । “बलीकः पटलं प्रान्तः” इति बोपालितात्पुंस्त्वमपि । नीघ्रं द्वे पट- लप्रान्ते गृहच्छादनस्य "मित्तिबहिर्भागीयस्य वळचण पडवी इति ख्यातस्य" । पटलं छदि: हे छादनस्य “शाकार इति ख्यातस्य" | छदि: सान्तं त्रियाम् । Digitized by Google 1