पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

13-18 सटीकामरको शस्य [ वारिवर्ग: क्लीबेऽर्धनावं नावोऽऽतीतनौकेऽतिनु त्रिषु || त्रिष्वागाघात्प्रसन्नोऽञ्छः कलुषोऽनच्छ आविलः ॥ १४ ॥ निम्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये ॥ अगाधमतलस्पर्शे कैवर्ते दाशंघीवरौ ॥ १५ ॥ आनायः पुंसि जालं स्याच्छणसूत्रं पवित्रकम् || मत्स्याधानी कुवेणी स्याइडिशं मत्स्यवेधनम् ॥ १६ ॥ पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः || विसारः शकुली चाथ गँडकः शकुलार्भकः ॥ १७ ॥ सहस्रदंष्ट्र: पाठीन उल्लूपी शिशुकः समौ ॥ नलॅमीनश्चिलिंचिमः प्रोष्ठी तु शफरी द्वयोः ॥ १८ ॥ अतीतनौके नौकामतीत्य वर्तमाने मनुष्यादौ अतिनु । अतीता नौर्येन । नपुंसकह- स्वः । एकम् । त्रिलिङ्गम् । अतः परं अगाधात् अगाषशब्दमभिव्याप्य त्रिषु वाच्य- लिना इत्यर्थः । प्रसन्नः अच्छ: द्वे निर्मलस्य | कलुषः अनच्छः आबिलः त्रयं मलमिश्रस्य ॥ १४ ॥ निम्नं गभीरं गम्भीरं त्रीणि गम्भीरस्य "खोल” इति ख्यातस्य । तद्विपर्यये गम्भीरादितरस्सिन् उत्तानमित्येकम् । उद्गतस्तानो बिलारी यस्मात् । अगाध अतलस्पर्श द्वे अत्यन्तगम्भीरस्य | कैवर्स: दाशः दासः " धीवरः त्रयं कैवर्तस्य ॥ १५ ॥ आनायः । आनीयन्ते मत्स्या अनेन । “जालमानाय " इति निपातनात् घञ् | जालं द्वे जालस्य । शणसूत्रं पवित्रकं द्वे शणसूत्रजालस्य | मत्स्याधानी कुवेणी द्वे मत्स्यबन्धनकरण्डिकावाः । बडिशं “बडिशा बडिशी । त्रयोऽपि लमध्या वा " | मत्स्यवेधन द्वे मत्स्य- बेघनस्य "गळ” इति ख्यातस्य || १६ || पृथुरोमा झपः मत्स्यः मीनः बैसा- रिणः अण्डजः बिसारः शकली अष्टौ मत्स्यस्य । गडकः “गण्डकः " शकु- लार्मकः द्वे मत्स्यविशेषस्य । “गर" इति प्रसिद्धस्य ||१७|| सहस्रदंष्ट्र: पाठीनः द्वे बहुदंष्ट्रस्य मत्स्यविशेषस्य | उलूपी शिशुकः द्वे शिशुमाराकारमत्स्यस्य । नलमीन: " डलयोरभेदाभडमीनोऽपि " । चिलिचिमः “चिलिचिमिः” “नलमीनञ्चिलिचिमिः " इति बोपालितः द्वे जलतृणचारिमत्स्यविशेषस्य "बेगसा" इति प्रसिद्धस्य । प्रोष्ठी सफरी द्वे "सहरी" इति ख्यातस्य शुभ्रमत्स्य- Diglized by Google