पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

I - ! , 1 । ८ ] प्रथमं काण्डम्. गर्तावटो भुवि व सरन्ध्रे सुषिरं त्रिषु ॥ २ ॥ अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः ॥ ध्वान्ते गाढेऽन्धतमसं क्षीणेऽवतमसं तमः ॥ ३ ॥ विष्वक्र संतमसं नागाः काद्रवेयास्तदीश्वरः ॥ शेषोऽनन्तो वासुकिस्तु सर्पराजोऽथ गोनसे ॥ ४ ॥ तिलित्सः स्यादजगरे शयुर्वाहस इत्युभौ ।। अलगंर्दो जलव्यालः समौ राजिलँडुण्डुभौ ॥ ५ ॥ मालुधानो मातुलाहिर्निर्मुक्तो मुक्तकचुकः ॥ सर्पः पदाकुर्भुजगो भुजङ्गो हिर्भुजंगमः ॥ ६ ॥ 2-6 अवटे कुकुन्दरे” इति हैमः । गर्तेत्यपि । “शठकसरगर्तशुंगाः” इति स्त्रीपुंसप्रकरणे रमसात् । अवटिरितीदन्तोऽपि । सुषिरमित्येकं सरन्ध्रे रन्ध्रयुक्ते वस्तुनि | “अषिरमपि" तत् त्रिषु वाच्यलिङ्गम् ॥ २ ॥ अन्धकारः ध्वान्तं तमिस्रं तिमिरं तमः पञ्चकमन्धकारस्य । तत्रान्धकारः क्लीबपुंसोः । गाढे ध्वान्ते सातिशये तमसि अन्धतमसमित्येकम् । क्षीणे ध्वान्तेऽवतमसमित्येकम् ||३ ॥ विष्वक् तमः सर्वव्यापि ध्वान्तं सतमसमुच्यते । अन्धतमसावतमससंतमसशब्दाः अकारान्ताः । “अवसमन्धेभ्यः” इत्यनेन समासान्तोऽध् । एकम् । नागाः काद्रवेयाः द्वे नागानाम्। वदीश्वरः नागानामीशः शेषोऽनन्त इति चोच्यते द्वयम् । वासुकिः सर्पराजः द्वे नागराजस्य । गोनसः "गोनासगोनसौ" इति त्रिकाण्डशेषः ॥ ४ ॥ तिलित्सः द्वे पाणस इति प्रसिद्धस्य | अजगरः शयुः वाहसः इति त्रयं अज- गरस्म आर इति ख्यातस्य । अलगर्द: “ अलगर्द्ध: " जलव्यालः द्वे जलस- स्य । पानसर्प, विरोळें इत्यादिप्रसिद्धस्य । राजिलः " राजील: " इण्डमः तवर्गहतीयादिरपि द्वे निर्विषस्य द्विमुखसर्पस्य मालुण्ड महां- दुळ दुतोंडें इति ख्यातस्य । “निर्मुक्तो निर्विषः सर्पो राजिलः परिकी- र्तितः” इत्यभिधानात् ॥ ५ ॥ मालुघानः मातुलाहिः द्वे खट्दाकारचित्रसर्पस्य आधोलें दिवड इति ख्यातस्य । निर्मुक्तः “निर्मुक्तस्त्यक्तसङ्गे स्यान्मु- बतक शुकभोगिनि" इति कोशान्तरेऽपि । मुक्तकशुकः द्वे व्यक्तकबुकस्य । अत्र कबुकस्त्वक् । सर्पः प्रदाकुः भुजगः । भुजेन कौटिल्येन गच्छति । भुजङ्गः अहि: भुजङ्गमः || ६ || आशीविषः “आशीर्विषोऽपि" आशीस्तालु- Digitized by Google