पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

20-23 सटीकामरकोशस्य [नाट्यवर्ग: भयंकर प्रतिभयं रौद्रं तूप्रममी त्रिषु ॥ २०॥ चतुर्दश दरखासो भीतिर्भीः साध्वसं भयम् ॥ विकारो मानसो भावोऽनुभावो भावबोधकः॥ २१ ॥ गर्योऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः॥ ("दर्पोऽवलेपोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः ॥") (१) अनादरः परिभवः परीभावस्तिरस्क्रिया ॥ २२॥ रीढावमाननावज्ञावहेलनमसूक्षणम् ॥ मन्दाक्षं हीस्त्रपा ब्रीडा लज्जासाऽपत्रपाऽन्यतः ॥२३॥ शान्तिस्तितिक्षाभिध्या तु परस्य विषये स्पृहा ।। दिश्लोके पुंस्त्वदर्शनात् । अभिमलिशानामेव द्वन्द्वप्रतिज्ञानात् । तद्वति तु त्रिषु वाच्यलिङ्गः ॥२०॥ रसानुक्त्वा तदनुगुणत्वेनोश्चावचान् भावानभिधत्ते । दरः। "दरः साद्भयगतयोः" इति । त्रासाभीतिःभीः साध्वसं भयम् । “भिया"। "स्थादर्तनमृतीया च गर्दा चाथ मयं मिया" इति शब्दार्णवः।" षट्दै भयस्य।मानसः मनःसंबन्धिविकारः भाव उच्यते एकम् । “भावयति करोति रसानिति भावः।" यो भावबोधकः चित्तविकारस्य प्रकाशकः कटाक्षादिः सोऽनुभाव इत्युच्यते एकम् ॥२१॥ गर्वः अभिमानः अहंकारः त्रयं गर्वस । अहमिति करण- महंकारः। चित्तस्य समुन्नतिः परसादुत्कर्षचिन्तनेनौमत्य मान उच्यते एक- म् । गर्वादयः पश्चापि पर्याया इति तु युक्तम् । दर्पादि षर् मदस्य । अना- दरः परिभवः परीभावः । उपसर्गेति पनि बहुलं दीर्घः । तिरस्क्रिया ॥ २२ ॥ रीढा अवमानना अवज्ञा अवहेलन असूक्षणं (असूक्षणमित्यपि) नवकमना- दरस । मन्दाक्ष हीः त्रपा ब्रीडाला पाच लजायाः। घनि वीडोऽपि । “गण्डू- घगर्जभुजजागरहारकीलज्वालाझटारभसवर्तकगर्द्धशृगाः । ब्रीडादयश्च वरटथ वराटकच उत्कण्ठवाणकरकाच समावयाच" इति स्त्रीपुल्लिाकथने रमसः । सा लजाऽन्यतः परसाद चेदपत्रपा एकम् ॥ २३ ॥ शान्तिः तितिक्षा । तिजे. क्षमायां सन् अप्रत्ययः टाप् । द्वे पराभ्युदयसहनस्य । परस्य विषये परकीयधने स्पृहाऽभिध्या । परस्य विषयस्पृहेत्यपि पाठः । तत्र परस्य विषयविषयि- जीच्छेत्यर्थः एकम् । अभिचारेण ध्यान अभिध्या । अक्षान्तिः ईर्ष्या १ इदम तालपत्रपुस्तकेऽपि नास्ति ।। Digtized by Google 1