पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

246-249 सटीकामरकोशस्य नु पृच्छायाँ विकल्पे च पश्चात्सादृश्ययोरनु || प्रश्नावधारणाऽनुज्ञानुनयामन्त्रणे ननु ॥ २४७ ॥ गर्दासमुच्चय प्रश्नशङ्कासंभावनास्वपि ॥ उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते ॥ २४८ ॥ अमा सह समीपे च कं वारिणि च मूर्धनि | इवेत्थमर्थयोरेवं नूनं तर्केऽर्थनिश्चये ॥ २४९ ॥ तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने || [नानार्थवर्गः विकल्पे यथा । अयं भीमो नु धर्मो नु । "तु प्रश्नेऽनुनयेऽतीतार्थे विकल्प - वितर्कयोः” इति हैमः । पञ्चादर्थे सादृश्यार्थे चानु । पत्रादर्थे यथा | रथम- नुगच्छति | सादृश्ये यथा । ज्येष्ठ अनुकरोति । “अनु लक्षणवीप्सेत्थंभूतमा- गेषु सन्निधौ | सादृश्यायामहीनेषु पञ्चादर्थसहार्थयोः" इति हैम: । प्रश्नादिप- श्चके ननु । प्रश्ने यथा । ननु किमेतत् । अवधारणे यथा । नन्वर्य योगी | अनुज्ञायां यथा । ननु गच्छ | अनुनयः सान्त्वनम् । ननु कोपं मुझ दयां कुरु । आमन्त्रणं संबोधनम् | ननु राजन् । “नन्वाक्षेपे परिप्रश्ने प्रत्युक्ताववधारणे | वाक्यारम्भे- ऽप्यनुनयामाणानुशयोरपि” इति हैमः ॥ २४७ ॥ गर्हादिपञ्चके क्रमादपिशब्दो गथा । अपि सिवेत्पलाण्डम् | त्रियं पालय पुत्रमपि । अपि जानासि किशि- त्वम् | अपि चोरो भवेत् । अपि स्थाणुं जयेद्रामः | युक्तपदार्थे कामचार - क्रियासु च अपिशब्दः । उपमाबिकल्पयोर्वाशब्दः स्यात् । उपमायां यथा । आशीविषो वा संक्रुद्धः । विकल्पे यथा | शिवं वा यदि वा विष्णुम् । “वा स्पाद्विकल्पोपमयोरेवार्थे च समुच्चये " इति विश्वः । अर्धे सामि यथा । सामि संमिताक्षी । जुगुप्सिते यथा । सामि कृतमकल्याणकारि ॥ २४८ ॥ सहार्थेऽमा यथा । पुत्रेणामा भुते । समीपे यथा । अमात्यः समीपवर्ती- त्यर्थः । “अमान्तिकसहार्थयोः” इति कोशान्तरे च । “कं शिरःसुखवारिषु” इति मेदिनी । इवार्थे इत्थमर्थे च एवंशब्दो यथा । अग्निरेव द्विजः अग्निरिवेत्यर्थः । इत्यमर्थे प्रकारे । एवंवादिनि देवर्षी । “एवं प्रकारोपमयोरङ्गीकारेऽवधारणे" इति धरणिहेमचन्द्रौ । तर्के नूनं यथा । नूनमयमतियज्वनां प्रियः । अर्थनिश्रये यथा । क्षुद्रेऽपि नूनं शरणं प्रपद्मे । “नूनं निश्रिततर्कयोः” इति विश्वः ॥२४९॥ तूष्णी- मर्चे मौने यथा । जोषं तिष्ठ । सुखे यथा । जोषमासीत वर्षासु । " जोषं सुखे Dighized by Google