पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

230-23 ३]. तृतीयं काण्डम्. छन्दः पद्येऽभिलाषे च तपः कृच्छ्रादिकर्म च ॥ सहो बलं सहा मार्गों नभः खं श्रावणो नभाः ।। २३१ ।। ओकः सद्माश्रयश्चौकाः पयः क्षीरं पयोऽम्बु च ॥ ओजो दीसौ बले स्रोत इन्द्रिये निमगारये ॥ २३२ || तेजः प्रभावे दीतौ च बले शुक्रेऽप्यतस्त्रिषु ॥ विद्वान् विदेश्य बीभत्सो हिंसेऽप्यतिशये त्वमी ॥ २३३ ॥ वृद्धप्रशस्ययोर्ज्यायान् कनीयांस्तु युवाल्पयोः ॥ वरीयांस्तूरुवरयोः सांघीयान्साघुबाढयोः || २३४ ॥ इति सान्ताः ॥ दलेऽपि वह निर्बन्धोपरागार्कादयो बहाः ॥ इच्छायाम् । “छन्दः पद्ये च वेदे च खैराचाराभिलाषयोः" इति मेदिनी । कृच्छ्रं सान्तपनादिव्रतम् । आदिना चान्द्रायणादि । तपो लोकान्तरेऽपि च । “धर्मे च तपः” । बले सहः क्लीबम् । मार्गो मार्गशीर्षः । अत्र पुंसि । “सहो बले ज्योतिषि च पुंसि हेमन्तमार्गयोः" इति कोशान्तरम् । खमाकाशः । तत्र नमः क्लीबे । श्रावणे पुंसि । “नभो व्योग्नि नभो प्राणे विसतन्तौ पतग्रहे । प्रावृषि श्रावणे " इति हैमः || २३१ ॥ सब गृहम् । ओकः अदन्तोऽप्ययम् । “ओक उचः क” इति निपातनात् । आश्रय आश्रयमात्रम् । “ओकस्त्वाभ- यमात्रे स्वात्” इति हैमः। ओजो दीप्तिप्रकाशयोः। “अबष्टम्भे नले धातुतेजसि” इति हैमः । इन्द्रियनदीवेगयोः स्रोतः ॥ २३२ ॥ प्रभावादिचतुष्के तेजः । "तेज- स्त्विदूतसोर्षले । नवनीते प्रभावेऽसौ " इति हैमः । अतः परं सान्तसमाप्तिप- र्यन्ता वाच्यलिङ्गाः । बिदन् झाता । चकारादात्मज्ञोऽपि विद्वान् । “विद्वाना- त्प्रविदि आशे पण्डिते चामिधेयवत्" इति विश्वः । हिंस्रे क्रूरे | अपिशब्दाद्रसमेदे- ऽपि बीभत्सः । “ बीभत्सो विकृते क्रूरे रसे पायें घृणात्मनि" इति हैमः ॥ २३३ ॥ अमी बक्ष्यमाणा ज्यायआदयः साधीयः पर्यन्ताः सान्ता वृद्धा- दीनां बाढपर्यन्तानां अतिशये ज्ञेयाः । अतिश्चयेन वृद्धे प्रशस्से स्तुत्ये ज्यामान् | अतिशयितयोर्युवाल्पयोः कनीयान् । उरुर्महान् बरः श्रेष्ठस्सयोरति- ऋयितयोर्वरीयान् । अतिशयेन साधुः साधीयान् । अतिशयित वाढं साधीयः । अतिशायनेऽर्थे इष्टमीयसुन्भ्यां इमे शब्दाः साधवः ॥ २३४ ॥ इति सान्ताः । अथ हान्तानाह || दले पत्रे अपिशब्दात्पिच्छेऽपि बईम् । “बई तर्णे परीवारे कलापे” इति हैमः । निर्बन्धादयो ग्रहाः । निर्बन्ध आग्रहविशेषः उपरागम- 44 Dightired by Google