पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

421-125 [ नानार्थवर्गः सटीकामरकोशस्य अकार्यगुह्ये कौपीनं मैथुनं संगतौ रते ॥ १२१ ॥ प्रधानं परमात्मा घी: प्रज्ञानं बुद्धिचिह्नयोः ॥ प्रसूनं पुष्पफलयोर्निघनं कुलनाशयोः ॥ १२२ ॥ क्रन्दने रोदनाह्वाने वर्ष्म देहप्रमाणयोः || गृहदेहत्विद्रप्रभावा धामान्यथ चतुष्पये ॥ १२३ || सन्निवेशे च संस्थानं लक्ष्म चिह्नप्रधानयोः || आच्छादने संपिधानमपवारणमित्युभे ॥ १२४ ॥ आराधनं साधने स्यादवासौ तोषणेऽपि च || अधिष्ठानं चक्रपुरप्रभावाभ्यासनेष्वपि ॥ १२५ ॥ रत्वं स्वजाति श्रेष्ठेऽपि वने सलिलकानने || अकरणार्ये गुझे उपस्थे कौपीनम् । कूपपतनमर्हति कौपीनं पापं तत्साधन- त्वाचद्वत् गोप्यत्वाद्वा पुरुषलिङ्गमपि तदाच्छादनत्वाइलमपि । संगतौ भार्या- दिसंबन्धे । रते सुरते मैथुनं स्यात् ॥ १२१ ॥ श्रीः बुद्धिः । महामात्रे । "प्रकृतौ प्रज्ञायां " च प्रधानम् । बुद्धिचिहयोः प्रज्ञानम् 64 } प्रसूनो ·वाच्य- वज्जाते क्लीषं तु फलपुष्पयोः” इति मेदिनी । कुले वंशे || १२२ ॥ आह्वान - मारावः । उभे क्रन्दनसंज्ञे | प्रमाणमियता । उभयोर्वष्र्ष्म । “ वर्ष्म देहत्र- माणातिसुन्दराकृतिषु स्मृतम्" इति मेदिनी | गृहादीनि चत्वारि धामशब्द- बाच्यानि । “धाम रश्मौ गृहे देहे स्थाने जन्मप्रभावयोः” इति हैमः । चतु- ष्पये शृङ्गाटके || १२३ || सनिवेशे अवयवविभागे संस्थानम् । संस्थान त्वाकृतौ भृतौ । चतुष्पये समिवेशे " इति हैमः । “ चिहे प्रधाने लक्ष्म ” । संपिधानं तिरोधानम् । अपवारणं वस्त्रादिना परिवृत्तिः । उभे आच्छा- दनसंज्ञे । बसेऽप्याच्छादनम् ॥ १२४ ॥ साधने निष्पादने अवासौ लाभे तोषणे तुष्टौ आराधनं स्यात् । चक्रं रथाङ्गम् । पुरं नगरम् | अध्यासन- माक्रमणं अधिष्ठानं स्यात् ॥ १२५ || खजातिश्रेष्ठे रतम् | यथा स्त्रीरतम् । मणावपि । सलिलं जलम् । काननमरण्यम् । उमे बने । “वर्न प्रस- बजे गेहे प्रवाहेऽम्भसि कानने” इति हैमः । विरले सान्तरे | स्तीके- ऽल्पे | तलिनम् । “स्वच्छे च” । “तल प्रतिष्ठायाम्” इति धातोरिनन् । बथा 44 Diglized by Google