पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ ] तृतीयं काण्डम्. प्रतियत्नावुभौ लिप्सोपग्रहावथ सादिनौ ।। १०६ ।। द्वौ सारथिहयारोहौ वाजिनोऽश्वेषुपक्षिणः ।। कुलेऽप्यभिजनो जन्मभूम्यामप्ययहायनाः ॥ १०७ ॥ वर्षार्चित्रहिभेदाश्च चन्द्राग्न्यर्का विरोचनाः || क्लेशेऽपि वृजिनो विश्वकर्मार्कसुरशिल्पिनोः ॥ १०८ ॥ आत्मा यत्नो धृतिर्बुद्धिः खभावो ब्रह्म वर्ष्म च || शको धातुकमत्तेभो वर्षकाब्दो घनाघनः ॥ १०९ ॥ घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरंतरे ॥ अभिमानोर्थादिदर्पे ज्ञाने मणयहिंसयोः ११०।। Anb --445 संस्कारलिप्सोपग्रहणेषु च " इति मेदिनी ॥ १०६ ॥ सारथिरश्वारोहव सादिनौ । “सादी तुरङ्गमारोहे निषादिरथिनोरपि” इति हैमः । अश्यो इयः । इषुः शरः पक्षी चैते वाजिनः । कुले कुलमुख्ये च जन्मभूम्यां जननस्थाने अभिजनः । “अभिजनः कुले ख्यातो जन्मभूम्यां कुलध्वजे” इति विश्वः ॥१०७ वर्षोऽन्दः । अर्ची रश्मिः व्रीहिमेदते हायनाः । जहात्युदकमिति हायनो व्रीहिः । जहाति मावानिति हायनो वर्षम् | जिद्दीते प्राप्नोतीति वा । "इस श्रीहिकालयोः” इत्यनेन फ्युद् अनादेशः | प्रहादपुत्रेऽपि विरोचनः । कल्मषेऽपि क्लीनं वृजिनम् । “इजिनः क्लेशे वृजिनं शुभेऽघे रक्तचर्मणि" इति हैमः । अर्के सुरशिल्पिनि च विश्वकर्मा ॥ १०८ ॥ अततीत्यात्मा । “अत सातत्यगमने” । मनिन् प्रत्ययः । वर्ष्म देहः । “आत्मा कलेवरे यले स्वभावे परमात्मनि । चित्ते धृतौ च बुद्धौ च परव्यावर्तनेऽपि च" इति धरणिः । शक्र इन्द्रः । धातुक- चासौ मत्तेमवेति कर्मधारयः । तथा वर्षुकशासावन्दति । घनाषन इति चतुरथरं नाम | शक्रधातुकमन्त्रेभवर्षुकाब्दा धनाघना इति कचित्पाठः ॥१०९॥ मूर्तिगुणे काठिन्ये भेषे च घनः पुंसि । मूर्ते कठिने निरन्तरे सान्द्रे च त्रिषु । “घनं स्वास्कांस्पतालादिवाद्यमध्यमनृत्ययोः । ना मुस्ताब्ध्योषदार्भेषु विस्तारे लोहडद्गरे । त्रिषु सान्द्रे दृढे च" इति मेदिनी । अर्थपञ्चकुलगुणादिमियों दर्प- स्तमिन् ज्ञाने प्रणये हिंसायां चाभिमानः ॥ ११० ॥ प्रभौ नृपे च पत्यो वा १ 'केशेऽपि' इत्यत्र 'केशेऽपि'-पाठोऽपि कचिदृश्यते ॥ Diglized by Google