पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

101-105. सटीकामरकोशस्य [ नानार्थवर्ग: वधूर्जाया खुषा स्त्री च सुघा लेपोऽमृतं तुही ॥ १०१ ॥ सन्धा प्रतिज्ञा मर्यादा श्रद्धा संप्रत्ययः स्पृहा || मधु मद्ये पुष्परसे सौन्द्रेऽप्यन्धं तमस्यपि ॥ १०२ ।। अतस्त्रिषु समुन्नद्धौ पण्डितम्मन्यगर्वितौ || ब्रह्मबन्धुरषिक्षेपे निर्देशेऽयावलम्बितः ॥ १०३ ।। अविदूरोऽप्यवष्टब्धः प्रसिद्धौ ख्यातभूषितौ ॥ इति धान्ताः ॥ सूर्यवही चित्रभानू भानू रश्मिदिवाकरौ ॥ १०४ ॥ भूतात्मानौ घातृदेहौ मूर्खनीचौ पृथग्जनौ || ग्रावाणौ शैलपाषाणौ पत्रिणौ शरपक्षिणौ ॥ १०५ ॥ तरुशैलौ शिखरिणौ शिखिनौ वह्निबर्हिणा || पृथक् तद्ब्रहणम् । देवालयादि येन लिप्यते सः लेपचूर्णविशेषः । “सुधा प्रासादभाक् द्रव्यं सुधा विद्युत्सुधामृतम् । सुधाहिभोजनं ज्ञेयं सुधा धात्री सुधा सुही " इति मञ्जरी ॥ १०१ ॥ प्रतिज्ञा स्वीकारः । तत्र यथा सत्यसन्धः। संप्रत्यय आदरः । स्पृहा काङ्क्षा तत्र श्रद्धेति । क्षौद्रे माक्षिके । दैत्यचैत्रवसं- न्तेषु द्रुमेदे च पुमान् मधुः । अक्षिहीनेऽप्यन्धशब्दः । “अन्धस्तु तिमिरे क्लीगं चक्षुर्हिनेऽभिधेयवत्" इति विश्वः ॥ १०२ ।। अतः परे धान्तवर्गपर्यन्तात्रिषु । पण्डितमात्मानं मन्यते पण्डितंमन्यः । अधिक्षेपे निन्दाप्रयोगे यथा । हे ब्रह्म- बन्धो दुष्टोऽसीति । "ब्रह्मबन्धुरधिक्षेपे निर्देशे च द्विजन्मनाम्" इति विश्वः ॥ १०३ || अवलम्बितः आश्रितः | अविदूरः सन्भिहितः । उभाववष्टब्धौ । "ष्टमि प्रतिस्तम्भे " " स्तम्भु रोधने” वा । “अबाचालम्बनाविदूर्ययोः” इति पत्वे अवष्टब्धशब्दः साधुः । अपिशब्दाद्बद्धोऽपि । लेशेऽपि गन्धः संषाधो गुझसंकटमो- ईयोः । बाधा निषेधे दुःखे च ज्ञातृचान्द्रिसुरा बुधाः ॥ इति धान्ताः ॥ अथ नान्तानाइ || चित्रा मानवो रश्मयो ययोस्तौ ॥ १०४ ॥ धाता थ देहथ । नीचो हीनजातिः । पृथम्जन इति चतुरक्षरम् । “पृथकार्यो जनः पृथग्जन: " । ग्रावा प्रस्तरे जलदे गिराविति । “पत्री श्येने रथे काण्डे लगदुरथिकाद्रिषु" इति विश्वः ॥ १०५ ॥ वहीं मयूरः । स्वभौ वृक्षे केतुग्रहे शरे । चूडावति बलीवर्दे मयूरे कुकुटे इयः " इति हैमः । लिप्सा वाञ्छा | उपग्रह अनुकूलनम् । उभौ प्रतियत्तौ "प्रतियवस्तु Digitized by Google " शिखी