पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयं काण्डम्. उदयेऽधिगमे प्रातिस्त्रेता त्वमिवये युगे ॥ ६८ ॥ वीणाभेदेऽपि महती भूतिर्भस्मनि संपदि ।। नदीनगर्योर्नागानां भोगवत्यथ सङ्करे ॥ ६९ ॥ सङ्गे सभायां समितिः क्षयवासावपि क्षिती ॥ रखेरर्चिश्व शस्त्रं च वह्निज्वाला च हेतयः ॥ ७० ॥ ३०३ जगती जगति च्छन्दोविशेषेsपि क्षितावपि || पश्छिन्दोऽपि दशमं स्यात्मभावेऽपि चायतिः ॥ ७१ ॥ पत्तिर्गतौ च मूले तु पक्षतिः पक्षभेदयोः ॥ प्रकृतियनिलिङ्गे च कैशिक्याद्याश्च वृत्तयः ॥ ७२ ॥ सिकताः स्युर्वालुकापि वेदे श्रवसि च श्रुतिः ॥ 68-7-20 इष्टिः शलभा भूषकाः शुकाः । स्वचक्रं परचक्रं च सप्तैता ईतयः स्मृताः" इति भेदात् । उदये उत्पत्तौ । अघिगमे लामे । अग्नित्रये दक्षिणगाईपत्याहवनी - याख्ये । द्वितीये युगे । त्रेताशब्द आबन्तः ॥ ६८ ॥ वीणाभेदो नारदी वीणा । महत्वयुक्तायां भार्यादौ च । अणिमादौ च भूतिः । “भूतिर्भसनि संपदि । मांसपाकविशेषे च जनने गजमण्डने " इत्यमरशेषः । नद्यां नागानां नगयी व भोगवती । सङ्गरादित्रये समितिः ॥ ६९ । वासो निवासः । अपिशब्दान्मेदिन्याम् । कालभेदे च क्षितिः । सूर्यप्रभादिषु हेतिः ॥ ७० ॥ जगति लोके क्षितौ ऋषि छन्दोविशेषे द्वादशाक्षरपादकवृत्ते जगती । “अपि- शब्दाजने " । दशर्म छन्दः दशाक्षरपादकं आवलिरपि पतिः । उत्तरका- लेऽप्यायतिः । “आयतिः संयमे दे प्रभावागामिकालयोः" इति विश्वः ।। ७१ || वीरभेदे सैन्यभेदे च पत्तिः । पक्षभेद्योरिति षष्ठी । पक्षशब्दो मासार्धवाची खगावयववाची व अतो द्विवचनम् । मासार्धस्य मुले प्रति- पदीत्यर्थः । पक्षिपक्षस्य मूलेऽघोदेशे | पक्षस्य मूलं पक्षतिः “पक्षात्तिः” इति खत्रेण तिप्रत्ययः । योनिलिङ्गे द्वंद्वैक्यम् । योनौ लिङ्गे च प्रकृतिः । चकारा- प्रधानत्वे अमात्यादौ स्वभावे च । आद्यशब्दादारभटीसात्वतीभारत्यः । "भारती सात्वती चैव कैशिक्यारमटी तथा । चतलो वृत्तयता यासु नाव्यं प्रतिष्ठितम्” इति । चकाराजीविकायां सूत्रविवरणे च वृत्तिः ॥ ७२ ॥ सिक- साशब्दो वालुकायां खीलिङ्गो बहुवचनान्तय | अपिशब्दात्सिकतान्त्रितदेशे Diglized by Google