पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

07-100 सटीकामरकोशस्य [ विशेष्यनिघ्नवर्गः दान्तस्तु दमिते शान्तः शमिते प्रार्थितेर्दितः ॥ ९७ ॥ ज्ञतस्तु ज्ञपिते छन्नश्छादितेपूजितेऽञ्चितः ।। पूर्णस्तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः ॥ ९८॥ प्रुष्टोषिता दग्घे तष्टत्वष्टौ तनूकृते | वेधितच्छिद्रितौ विद्धे विनवित्तौ विचारिते ॥ ९९ ॥ निष्प्रभे विगतारोको विलीले विद्रुतद्रुतौ ॥ सिद्धे निर्वृत्तनिष्पन्नो दारिते भिन्नभेदितौ ।। १००। ऊतं स्यूतमुतं चेति त्रितयं तन्तुसंतते ॥ स्यादर्हिते नमस्थितं नमसितमपचायितार्चितापचि- तम् ।। १०१ ।। २७४ । यथा दान्तः दमितः द्वे दम प्रापितस्य । यथा दमितमिन्द्रियम् । शान्तः शमितः द्वे शमनं प्राषितस्य । यथा शान्तो रोगः निवर्तित इत्यर्थः । प्रार्थितः अर्दितः द्वे याचितस्य । “अर्दितं याचितेऽपि स्याद्वातव्याधौ च हिंसिते" इति कोशा- न्तरे ।। ९७ ।। ज्ञप्तः इपितः द्वे “बोधं प्रापितस्य" । छमः छादितः द्वे "आच्छादितस्य" । पूजितः अश्चित: “अर्चित " इत्यपि पाठः । “अर्च पूजायां" द्वे । पूर्णः पूरितः द्वे । “वा दान्तशान्तपूर्ण” इत्यादिना णिचि निष्ठाता निपातिताः क्लिष्ट: क्लिशितः द्वे क्लेशं प्रातस्य । अवसितः सितः द्वेः समा- सस्य । षोऽन्तकर्मणीत्यतो निष्ठा ॥ ९८ ॥ प्रुष्टः पुष्टः उपित: दग्धः चत्वारि दुग्धस्य । तष्टः त्वष्टः तनूकृतः त्रीणि “असनुस्तनुरकारि तनुकृतः तष्टं काष्ठं शस्त्रेणाल्पीकृतमित्यर्थः । वेधितः छिद्रितः विद्धः त्रीणि । यथा कर्णी विद्धौ | विनः वित्तः विचारित: त्रीणि “प्राप्तविचारस्य " ॥ ९९ ॥ निष्प्रभः विगतः अरोकः श्रयं दीसिहीनस्य । “विगतौ वीतनिष्प्रभौ" इति रुद्रः । विलीनः विद्रुतः द्रुत: त्रीणि द्रवीभूतस्य घृतादे: । सिद्धः निर्वृतः निष्पन्नः त्रयं सिद्धस्य । दारितः भिनः भेदितः त्रीणि "भेदं प्रापितस्य " ॥ १०० ।। ऊतं स्यूतं त्रितयं तन्तुसंतते । यथा प्रोतः पटः तन्तुभिरनुस्यूत इत्यर्थ: । अर्हितं नमस्थित नमसितं अपचायितं अर्चित अपचित पडर्चि- -तस्प | नमस्थितं नमसितमित्युभयत्र “नमोवरिव" इति क्यचू क्यस्य विभा षेति लोपविकल्पः । एवं वरिवसितेत्यत्रापि शेयम् ।। १०१ ।। परिषसितं Google Digitized by