पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। १] तृतीयं काण्डम्. प्रभूतं प्रचुरं भाज्यमद्रं बहुलं बहु | पुरुहू: पुरु भूयिष्ठं स्फॉरं भूयश्च भूरि च ॥ ६३ || परःशताद्यास्ते येषां परा संख्या शतादिकात् || गणनीये तु गणेयं संख्याते गणितमथ समं सर्वम् ॥ ६४ ॥ २६७ विश्वमशेषं कृत्स्त्रं समस्तनिखिलाखिलानि निःशेषम् ॥ समग्रं सकलं पूर्णमखण्डं स्यादनूनके ॥ ६५ ॥ घनं निरन्तरं सान्द्रं पेलवं विरलं तनु || समीपे निकटासन्नसन्निकृष्टसनीडवत् ।। ६६ ।। सदेशाभ्याशँसविधसमर्यादसवेशवत् || उपकण्ठान्तिकाभ्यर्णाभ्यमा अप्यभितोऽव्ययम् ॥ ६७ ॥ संसक्ते त्वव्यवहितमपदाँन्तरमित्यपि ॥ “स्फिरमित्यपि ” । भूयः भूरि द्वादश बहुलस्य । पुरुहौ । लीषे तु पुरुहु ॥ ६३ ॥ येषां संख्येयानां संख्या शतात्सहस्राच परा ते क्रमेण परःशताः परः सहस्राः स्युरित्यर्थः । एकैकम् । राजदंतादित्वाच्छतसहस्रयोः परनिपातः । पारस्करादित्वात्सुट् । विशेष्यनिघ्नत्वाद्वाच्यलिङ्गता | यल्लक्ष्यम् । “परःशतानां विदुषां समाजे” इति । गणनीयं गणेयं द्वे गणयितुं शक्यस्य | संख्यातं गणितं द्वे यस्य संख्या कृता तस्य | समं सर्वम् ॥ ६४ ॥ विश्व अशेषं कृत्वं समस्तं निखिलं अखिलं निःशेषं समग्रं सकलं पूर्ण “पूर्वमित्यपि पाठः । पूर्व पूरणे" । अखण्डं अनूनकं चतुर्दश समग्रस्य || ६५ ॥ घनं निरन्तरं सान्द्रं त्रीणि निवि- डस । निर्गतमन्तरमसात्तनिरन्तरम् | पेलवं विरलं तनु त्रीणि विरलस्य । समीपः निकटः आसन्नः सनिकृष्टः सनीडः ।। ६६ ।। सदेशः अभ्यासः अभ्यास इति दन्त्यान्त इति मुकुटः । सविधः समर्याद: सवेशः उपकण्ठः अन्तिकः अभ्यर्णः अभ्यग्रः अभितः पञ्चदश समीपस्य । तत्रामित इत्यव्ययम् । समानं नीर्ड वासस्थानमस्य सनीडः । उपगतः कण्ठः सामीप्यमस्य उपकष्ठ:: ।। ६७ ।। संसक्तं अव्यवहितं अपदान्तरं "अपटान्तरमित्यपि " श्रीणि संल- प्रस्य । “न व्यवधीयते स अवहितम्” । नेदिष्ठं अन्तिकतमं द्वे अति- Digized by Google