पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

45-47. 4. २५० सटीकामरकोशल्य परिणायस्तु शारीणां समन्तान्नयने स्त्रियाम् ॥ अष्टापदं शारिफलं प्राणिचूतं समाह्वयः ॥ ४६ || उक्ता भूरिप्रयोगत्वादेकस्मिन्येऽत्र यौगिकाः || ताद्धर्म्यादन्यतो वृत्तावह्या लिङ्गान्तरेऽपि ते ॥ ४७ ॥ ॥ इति शूद्रवर्गः ॥ १० ॥ [ शूद्रवर्ग: १०] इत्यमरसिंहकृतौ नामलिङ्गानुशासने || द्वितीयः काण्डो भूम्यादिः साङ्ग एव समर्थितः ॥ १ ॥ सम्बन्धः । अष्टापदं शारिफलं द्वे शारीणामाधारस्य कोष्टकयुक्तस्य वस्त्रादेः "सारीपट इति ख्यातस्य" । शारयस्तु काष्ठादिरचितो धूतोपकरणविशेषः सोंगटी इति लौकिकभाषायां प्रसिद्धः । प्राणिधूतं प्राणिनां भेषकुक्कुटादीनां धूर्त मिथो युद्धलक्षणः क्रीडाविशेष: समाहयः । “अप्राणिमिः कृतं यत्तु तल्लोके द्यूतमुच्यते । प्राणिभिः क्रियते यत्तु सविज्ञेयः समाहयः” इत्युक्तेः । एकम् ॥ ४६॥ अत्र केषांचिल्लिङ्गभेदविधानाभावात्प्रासमपूर्णत्वं परिहरति उक्ता इति । अत्र शूद्रवर्गे यौगिकाः कुम्भकारमालाकारप्रभृतयः शब्दा: काव्यपुराणादिषु पुंस्येव भूरिप्रयोगत्वात्प्रचुरप्रयोगदर्शनादेकसिभेव लिङ्गे उक्ता निर्दिष्टास्ते- ऽन्यतोऽन्यत्र स्त्रीत्वादिविशिष्टे विशिष्यवृत्तौ सत्यां ताद्धर्म्यात् विशिष्टानां विशेष्यवर्मत्वालिङ्गान्तरे स्त्रीलिङ्गादावप्यूहनीयाः । अपिशब्दात रूढा अपि करणकुलालादयो जातिवचनत्वात् पुंसि स्त्रियां व वर्तन्ते इति ज्ञेयम् । यस्थाव- यवशक्य एवार्थो बुध्यते स यौगिकः । यस्यावयवशक्तिमनपेक्ष्य समुदायक्ष- क्तिमात्रेणार्थी बुध्यते स रूढः । तत्र यौगिको लिङ्गान्तरे यथा | कुम्भकारी स्त्री । कुम्भकारं कुलम् । एवं मालाकारी | मालाकारम् । अण्णन्वत्वात्त्रियां ङीप् । अयौगिको यथा । करणी । कुलाली । अत्र जातेरस्त्रीविषयादिति ङीष् ॥ ४७ ॥ इति शूद्रवर्गः ॥ १० ॥ श्रीमत्यमरविवेके महेश्वरेण विरचित एवायं भूम्या- दिद्वितीयः काण्ड: समाप्तः ।। इति सटीकामरकोशस्य द्वितीय काण्डं समाप्तम् ॥ Diglized by Google