पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०] द्वितीय काण्डम्.. मेरेयमासवः सीधुर्मेदको जगलः समौ ॥ संघानं स्यादभिषवः किंण्वं पुंसि तु नमहूः ॥ ४२ ॥ कारोत्तरः सुरामण्ड आपानं पानगोष्टिका || चषकोऽस्त्री पानपात्रं सरकोऽप्यनुतर्षणम् ॥ ४३ ॥ धूर्तोऽक्षदेवी कितवोऽक्षधूर्ती द्यूतकृत्समाः ॥ स्युलमकाः प्रतिभुवः सभिका द्यूतकारकाः ॥ ४४ ॥ द्यूतोऽस्त्रियामक्षवती कैतवं पण इत्यपि ॥ पणो क्षेषु ग्लहोऽक्षास्तु देवनाः पाशकाश्च ते ॥ ४५ ॥ २४९ 41-45. विशेषस्य | सीधुरत्रियाम् । आसवः पुंसि । मेदकः जगल: हे सुराकल्फस्य | मद्यभेदस्येत्येके । जगलो मदनद्रुमे । “मेदके पिष्टमद्ये च " इति कोशान्तरम् । संघानं अभिषवः द्वे मद्यसंघानस्य । फलवंशाङ्कुरादिकं दीर्घकालं यत्संघीयते तस्येत्येके । किण्वं “कण्वमित्यपि" नमहूः द्वे तण्डुलादिद्रव्यकृतसुराबीजस्य । “मत्तनमकृताह्वानस्येत्यन्ये” | नग्नहौ ॥ ४२ ॥ सुराया मण्ड अग्रभाग: कारो- तरः " कारेण क्रियया उत्तरः कारोत्तरः । कारोत्तम इत्यपि " एकम् । आपानं पानगोष्टिका द्वे पानार्थायाः सभाया: । " आ संभूय पिबन्त्यत्र आपानम् ” । चषकः पानपात्रं द्वे मद्यपात्रस्य । “चषकोऽस्त्री सुरापात्रे मधु- मद्यप्रभेदयोः” इति मेदिनी । सरकः अनुतर्षर्ण द्वे मद्यपानस्य । अपिशब्दात्स- रकोऽप्यस्त्री । “सरकं वा नानुतर्षो ना" इति रतकोश: । “सरकः सीधुपानेक्षु- शीधुनोमद्यभाजने” इत्यजयः ॥ ४३ ॥ धूर्त्तः “धार्तइत्यपि पाठः । धावनेन आर्त्तः” । अक्षदेवी कितवः अक्षघूर्त्तः द्यूतकृत् पञ्च द्यूतकृतः “सोंगटीबाज, जुबेबाज इति ख्यातस्य" । अक्षैर्दीव्यति अक्षदेवी इभन्तः । लमकः प्रतिभूः द्वे ऋणादौ प्रतिनिधिभूतस्य “जामीन इति ख्यातस्य । प्रति प्रतिनिधिर्म- बति प्रतिभूः” । समिकाः धूतकारकाः द्वयं ये धूतं कारयन्ति तेषाम् । “सभा द्यूतमाश्रयत्वेनास्यास्ति समिकः " ॥ ४४ ॥ धूतः अक्षवती कैतवं पणः चत्वारि धूतस्य । “अक्षाः पाचकाः सन्त्यस्यां सा अक्षवती" । पणः ग्लहः इति द्वे द्यूतजये यत् भाषाबन्धेन ग्राह्यं तस्य । अक्षः देवनः पाशकः त्रयं शारिपरिणयने हेतुभूतस्य पाशस्य "फांसे इति ख्यातस्य " ॥ ४५ ॥ शारी- णामितस्ततो नयने परिणाय इत्येकम् । अस्त्रियामित्यस्य अष्टापदेन शब्देन ३२ Digitized by Google