पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

109 - 111.1 २३८ सटीकामरकोशस्य सौवर्चलं स्याब्रुचकं त्वक्क्षीरी वंशरोचना ।। १०९ ।। शिथुजं वेतमरिचं मोरटं मूलमैक्षवम् || [ शूद्रवर्ग: ग्रन्थिकं पिप्पलीमूलं चटिकाशिर इत्यपि ॥ ११० ।। गोलोमी भूतकेशो ना पत्राङ्गं रक्तचन्दनम् || त्रिकटु त्र्यूषणं व्योषं त्रिफला तु फलत्रिकम् ।। १११ ।। इति वैश्यवर्गः ॥ ९ ॥ शुद्राश्यावरवर्णाश्च वृषलाश्च जघन्यजाः ॥ आचण्डालाचु संकीर्णा अम्बष्ठकरणादयः ॥ १ ॥ दयः । “त्वक्क्षीरी वंशरोचना वंशलोचना" इति हेमचन्द्रः द्वे वेणुजन्यस्यौष- घिविशेषस्य “वंशलोचन इति ख्यातस्य " | त्वक्क्षीरी वंशजा शुभ्रा वंश- क्षीरी तु वैणवीति कोशान्तरम् ॥ १०९ || शिग्रुजं श्वेतमरिचं द्वे सौभाञ्जन - बीजस्य "शेवग्याचें बीं इति ख्यातस्य " । इक्षुसंबन्धि मूलकं मोरटं स्यात् एक “ इक्षुमूलस्य " | ग्रन्थिकं पिप्पलीमूलं चटिकाशिरः । “चटकाशिरः” इति हेमचन्द्रः । चटकायाः शिर इव । चटका शिरः इति पृथगपि । “शिरो ना पिप्पलीमूले" इति मेदिनी । त्रयं पिप्पलीमूलस्य "पिंपळीमूळ इति ख्यातस्य " ॥ ११० ॥ गोलोमी भूतकेशः द्वे “जटामांसी इति प्रसिद्धायाः ”। गौरिव लोमान्यस्याः सा गोलोमी । “गोलोमी श्वेतदूर्वायां स्याद्वचाभूतकैश- योः” इति विश्वः । पत्राङ्गं रक्तचन्दनं द्वे रक्तचन्दनसशस्य रक्तसारस्य "कृष्ण- सिंसव, पतंग इति च ख्यातस्य | पत्राण्यङ्गेऽस्य पत्राङ्गम् ” । त्रिकटु त्र्यूषणं "त्र्युषणमिति द्विरूपकोशः " व्योषं त्रीणि झुण्ठपिप्पलीमरीचानां समाहा- रख । त्रिफला “तुफला"। "तुफला त्रिफला च" इति त्रिकाण्डशेषः। फलत्रिकं द्वे हरीतक्यामलकबिभीतकफलानां समाहारस्य ॥ १११ ॥ इति वैश्यवर्गः ॥९॥ शूद्रः अवरवर्णः वृषलः जघन्यजः जघन्यात्पादाजातः । “जनी प्रादुर्भाने” । चत्वारि शूद्रस्य । चण्डालो ब्राह्मण्यां शूद्राजातस्तमभिव्याप्य वक्ष्यमाणा अम्बष्ठकरणादयः । “आदिना उग्रादयः" । संकीर्णाः प्रतिलोमानुलोमजत्वा- न्मिश्राः । एकम् । ते च संकरजातीयाः करणाम्बष्ठोग्रमागघमाहिष्यक्षतृमृत- वैदेहकरथकारपारसवचण्डालाख्याः एकादशेति ॥ १ ॥ शूद्रा शूद्रजातिरङ्गना Diglized by Google