पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

100-104 २३६ सटीकामरकोशस्य तुत्याञ्जनं शिखिग्रीवं वितुन्नकमयूरके || कर्परी दॉर्विकाकाथोद्भवं तुत्थं रसाञ्जनम् ।। १०१ ।। रसगर्भ तार्क्ष्यशैलं गन्धाश्मनि तु गन्धिकः || सौगन्धिकश्च चक्षुष्याकुलाल्यौ तु कुलत्यिका ॥ १०२ ।। रीतिपुष्पं पुष्पकेतु पुष्पकं कुसुमाञ्जनम् || पिञ्जरं पीतनं तालमालं च हरितालके ॥ १०३ ॥ गैरेयमर्थ्य गिरिजमश्मजं च शिलाजतु || बोलगन्धरसप्राणपिण्डगोपरसाः समाः ॥ १०४ ॥ डिण्डीरोऽब्धिकफः फेनः सिन्दूरं नागसंभवम् || [ वैश्यवर्गः 66 रजम् | कापोतकं यामुनं च स्रोतोञ्जनमुदाहृतम्” इति ।। १०० ॥ तुत्थाञ्जनं शिखिग्रीवं वितुमकं मयूरकं कर्परी पञ्च तुत्थाञ्जनस्य मोरचूद इति ख्यातस्य । तुदत्यक्षिरोगान् तुत्थम् । तुत्थं च तदञ्जनं च | दार्विका दारुह- रिद्रा तत्काथोद्भवम् । तस्याः काथे "समभागेन अजादुग्धेन" संस्कृतं तुत्थं तुत्थाञ्जनं रसाञ्जनादिसंज्ञं स्यात् । “दर्विकेत्यपि ” । रसाञ्जनम् ।। १०१ ॥ रसगर्भ तार्क्ष्यशैलं त्रीणि । केचित्तुत्थरसाञ्जनमिति समस्तं पेठु: । गन्धाश्मा गन्धिक: “गन्धक इत्यपि" सौगन्धिकः त्रीणि गन्धकस्य । चक्षुष्या कुलाली कुलत्थिका त्र्यं “तुत्थविशेषस्य निळा सुरमा इति ख्यातस्य" । चक्षुषे हिता चक्षुष्या । कुले तिष्ठति तत्प्रतिकृतिः कुलत्थिका || १०२ | रीतिपुष्पं पुष्पकेतु पुष्पकं "पौष्पकमित्यपि " कुसुमाञ्जनं चत्वारि संतप्तपित्तलादुत्प- अस्म "जस्ताचें फूल इति ख्यातस्य " । पुष्पकेतु उदन्तं क्लीबे । पिञ्जरं पीतनं तालं आलं “ अलम्” । “हरितालमलं तालवर्णकं नटभूषणम्” इति माधवः । हरितालकं पञ्च हरितालस्य ॥ १०३ || गैरेयं अर्ध्य गिरिजं अश्मजं शिला- जतु पञ्च शिलाजतुनः “शिलाजित इति ख्यातस्य" । अर्ध्यते रसायनार्थिभि रर्थ्यम् । शिलायां स्रवल्लाक्षाकृतित्वाच्छिलाजतु । बोलः गन्धरस: “ रसगन्ध इति स्वामी । राजदन्तादित्वात् " । प्राणः पिण्डः गोपरसः पत्रा गन्धरसस्य 'रक्त्या बोळ इति ख्यातस्य" । गोपः रसश्चेति पृथगपि । अत्र गोस इति मुकुटः | गां जलंः स्यति षोऽन्तकर्मणि । गोप इति स्वामी । गन्धप्रधानो रसोऽस्य गन्धरसः ।। १०४ ॥ डिण्डीरः । “हिण्डीर इत्यपि " | हिण्डिर इति Digitized by Google 44