पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 ९] द्वितीयं काण्डम्. गोमहिष्यादिकं पादबन्धनं दो गवीश्वरे || गोमान्गोमी गोकुलं तु गोधनं स्याद्गवां व्रजे ॥ ५८ ।। त्रिष्वाशितङ्गवीनं तद्गावो यत्राशिताः पुरा || उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः ॥ ५९ ।। अनड्डान्सौरभेयो गौरुक्ष्णां संहतिरौक्षकम् || गव्या गोत्रा गवां वत्सधेन्वोवत्सकघैनुके || ६० ।। वृषो महन्महोक्षः स्यादृद्धोक्षस्तु जरद्गवः ॥ उत्पन्न उक्षा जातोक्षः सद्यो जातस्तु तर्णकः ॥ ६१ ॥ शकृत्करिस्तु वत्सः स्याद्दम्यवत्सतरौ समौ ॥ 57-61 घ्यादिकं पादबन्धनमित्युच्यते पादेन पादे वा बन्धनमस्येति । यादवं धन- मित्येके पेठुः । तत्र, गवादि यादवं वित्तमिति कोशान्तरप्रमाणम् । आदिना खराजाविकादेर्ग्रहणम् । गोमान् गोमी द्वौ शब्दौ गवीश्वरे गवां स्वामिनि । गोमन्तौ । गोमिनौ । गोकुलं गोधनं द्वे गवां व्रजे गोसंबन्धिसमूहे ॥ ५८ ॥ यत्र पुरा गाव आशिताः भोजिताः तत्स्थानं आशितङ्गचीनं एकम् । त्रिषु लिङ्गये । उक्षा भद्रः बलीवर्द: "बरीवर्द: " ऋषभः वृषभः वृषः ॥ ५९ ॥ अनवान् । अनः शकटं वहतीति । “अनः क्लीबं जले शोके मातृस्यन्दनयोर- पि " इति रभसः । सौरभेयः गौः नव वृषभस्य । उक्षाणौ । अनाहौ। गावौ । “स्त्रियां अनड्डाही । आमनडुहः स्त्रियां वा । अनुड्डहीत्यपि " उक्ष्णां वृष- माणां संहतिः समूह औक्षकं स्यात् एकम् । गवां संहतिः गव्या गोत्रा द्वे | वत्सानां संहतिर्वात्सकम् । धेनूनां संहतिर्धेनुकम् । एकैकं क्रमेण ॥ ६० ॥ महान्वृषो महोक्षः एक महावृषस्य । अचतुरेति साधु: । वृद्धोक्षः जरद्भवः द्वे वृद्धवृषभस्य । यन्मालायाम् । “महोक्षः स्यादुक्षतरः स्कान्धिकः स्कन्धवाहकः । षोडन्षदशनो वत्सः कूटो भग्नविषाणक: " इति । उत्पन्नः बलीवर्दमाव प्राप्तः उक्षा जातोक्षः स्यात् एकम् । सद्यो जातो वृषस्तर्णकः स्यात् एकम् ॥ ६१ ॥ शकृत्करिः वत्सः द्वे । दम्यः वत्सतरः द्वे स्पष्टतारुण्यस्य । वत्सत्वं स्वल्पमस्य वत्सतरः । षण्डता गोपतित्वं तद्योग्य आर्षभ्यः एकम् षण्डः 'शण्ढ इत्यपि " गोपतिः इचरः " इत्वर इत्यपि " त्रीणि स्वेच्छाचारिणो 66 २९ Diglized by Google