पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयं काण्डम्. ३१५ नाडी नालं च काण्डोऽस्य पलालोऽस्त्री से निष्फलः ॥ कॅडङ्गरो बुंसं क्लीबे धान्यत्वचि तुषः पुमान् ॥ २२ ॥ शूकोऽस्त्री लक्ष्णतीक्ष्णाग्रे शमी शिम्बाँ त्रिषूत्तरे || ऋद्धमावसित धान्यं पूतं तु बहुलीकृतम् ॥ २३ ॥ माषादयः शमीधान्ये शुकधान्ये यवादयः || शालयः कलमाद्याच षष्टिकाद्याश्च पुंस्यमी ॥ २४ ॥ तृणधान्यानि नीवाराः स्त्री गवेधुर्गवेधुका || 24-24 से काण्डो गृहीतफलत्वाभिष्फलः पलालः स्यात् एकं “सरम, कडबा, बाक इति ख्यातस्य | क्लीने पलालम्" । कडगरः “करकर इति हरदत्त - पाठः" । बुसं " भुषवेषतुषारतोषा इति षमेदान्मूर्धन्यान्तमपि " द्वे पलाला- दिवोदस्य भूसं इति ख्यातस्य । तुष इत्येकं व्रीयादेस्त्वचि “कौंडा” इति ख्यातायाम् ॥ २२ ॥ लक्ष्णं कृशं तीक्ष्णं निशितं एतादृशं यदग्रं यवादेस्तत्र शूक इत्येकम् । “क्लीबे शूकम् ।" शमी शिम्बा “शिम्बिः शिम्बी चेत्यपि दन्त्यादिव" द्वे शेंग इति प्रसिद्धस्य माषादिफलस्य | उत्तरे ऋद्धादयश्च- स्वारो वाच्यलिङ्गाः | ऋद्धं आवसितं अवसितम् । “अवसितमृद्धे ज्ञानेऽपि # इति विश्वः । द्वे अपनीततृणस्य राशीकृतस्य धान्यस्य । पूर्त बहुलीकृतं द्वे अप- नीतबुसस्य धान्यस्य । शूर्पादिना शोधितस्येत्येके ॥ २३ ॥ शमीप्रभवं धान्यं तत्र भाषमुद्गादयो भेदाः । यदुक्त रत्नकोशे । “मुगो माषो राजमाष: कुलि- स्थयणकस्तिलः । कलायस्तूवर इति शमीधान्यगणः स्मृतः" इति एकम् | शूकसहितं धान्यं शुकधान्यं तत्र यवगोधूमादयो ज्ञेयाः एकम् । बृहनालो बहुलजलोत्पभो त्रीहिविशेष: कलमः । एतदपेक्षया किञ्चिदपकृष्टः षष्टिरात्रेण पच्यमानः षष्टिकः । आदिशब्दाद्रक्तादिराजशाल्यादयः एते शालयः स्युः एकम् । अमी माषयवशालिकलमषष्टिकाद्याः पुंसि ॥ २४ ॥ नीवारो मुन्य- नमेद नेर "देवमात " इति प्रसिद्धः । बहुवचनात् श्यामाकादयो गृझन्ते । एते तृणधान्यानि स्युः एकम् | गवेधु: “गवेडरित्यपि " गवेधुका द्वे: मुन्य अविशेषस्य कसईचें वीं इति प्रसिद्धस्य । इदं कसाड, कस्त इति कोंकणे प्रसिद्धम् । गवा जलेन तत्र वा एथते । “एघ वृद्धौ " अयोजं मुसलः “ द्वे Digitized by Google