पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ ] द्वितीय काण्डम्. लस्तकस्तु धनुर्मध्यं मौर्वी ज्या शिञ्जिनी गुणः ॥ स्यात्प्रत्यालीढमालीढमित्यादि स्थानपञ्चकम् ॥ ८५ ॥ लक्षं लक्ष्यं शरव्यं च शराभ्यास उपासनम् || पृषत्कबाणविशिखा अजिझगखगाशुगाः ॥ ८६ || कलम्बमार्गणशराः पत्री रोप इषुर्द्धयोः ।। प्रक्ष्वेडॅनास्तु नाराचाः पक्षो वाजस्त्रिषूत्तरे ॥ ८७ ॥ निरस्तः महिते बाणे विषाक्ते दिग्घलिसको || तूणोपासङ्गतूणीरनिषङ्गा इषुषिर्द्धयोः ॥ ८८ ॥ तूण्यां खजे तु निस्त्रिंशचन्द्रहासासिरिष्टयः || 84-88. भ्यासः व्यादि: " मूर्वाख्यस्य तृणस्य विकारो भौष । प्रत्यालीढं आलीढं इत्यादयः पञ्च धनुर्धराणां स्थितिभेदा इत्यर्थः एकैकम् । आदिना समपदं वैशावं मण्डलं च । तत्र वामजङ्घाप्रसारपूर्वकदक्षिणजङ्घासङ्कोचे प्रत्यालीढम् । दक्षिणजड्डा- प्रसारपूर्वकवामजङ्घासङ्कोचे आलीढम् । पादयोः समत्वेन स्थितिः समपदम् । वितस्त्यन्तरेण स्थिते पादद्वये वैशाखम् । मण्डलाकारेण पादद्वयधारण मण्डल- कम् ॥ ८५ ॥ लक्षं लक्ष्यं शरव्यं त्रीणि वेध्यस्य “निशाण इति ख्यातस्य " । शराभ्यासः उपासनं द्वे शरक्षेपाभ्यासस्य । “शरस्य शरमोक्षस्याभ्यासः शरा- । पृषत्कः बाणः विशिख: अजिझगः खगः आशुगः ॥ ८६ ॥ कलम्बः मार्गणः शरः सरः । " चित्रपङ्कः सरः शरः ” इति त्रिकाण्डशेषात् । पत्री रोपः इषुः द्वादश माणस्य । तत्रेषुः स्त्रीपुंसयोः । प्रक्ष्वेडनः “प्रक्ष्वेदन इत्यपि " नारायः द्वे लोहमयस्य बाणस्य । “नरानाचामति नाराचः । अन्ये- भ्योऽपीति डः । प्रज्ञायण्” । पक्षः वाजः द्वे कङ्कादिपक्षस्य । उत्तरे निर- स्तादिलिप्तकान्तात्रिषु ॥ ८७ ॥ महिते क्षिप्ते बाणे निरस्त इत्येकम् | विषाक्त दिग्धः लिसकः त्रीणि विषाक्ते बाणे | तूणः उपासङ्गः तूणीर: निषङ्गः इषुधिः ॥ ८८ ॥ तूणी पट्टमिषुधेः बाणठेवण्याचा भाता इति ख्यातस्य । इषवो घीयन्ते यस्यां मनामांसा इषुषिः स्त्रीपुंसयोः । तूणी स्त्री । “तूबेपुषी उपासङ्गः” इति रनको । खङ्गः निखिशः चन्द्रहासः असिः रिष्टिः ऋष्टिरित्यपि । २६ Digitized by Google