पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

80-84 २०० सटीकामरकोशस्य सेनामुखं गुल्मगंणौ वाहिनी पृतना चमूः ॥ अनीकिनी दशानीकिन्योक्षौहिण्यथ संपदि ॥ ८१ ।। [ क्षत्रियवर्गः संपत्तिः श्रीश्च लक्ष्मीश्च विपत्त्यां विपदापदौ || आयुधं तु प्रहरणं शस्त्रमत्रमथास्त्रियौ || ८२ || धनुचापौ धन्वशरासनकोदण्डकार्मुकम् ।। इष्वासोऽप्यय कर्णस्य कालपृष्ठं शरासनम् ॥ ८३ || कपिध्वजस्य गाण्डीवगाण्डिवौ पुन्नपुंसकौ || कोटिरस्याटनी गोघे तले ज्याघातवारणे ॥ ८४ ॥ अक्षौहिणीप्रमाणम् । अक्षौहिण्याः प्रमाणं तु खाँगाककर्मजैः । स्थैरेतैर्ह- पैत्रिमैः पञ्चमैल पदातिभिः । गजाः २१८७०, रथाः २१८७०, अश्वाः ६५६१०, नराः १०९३५० सर्वमेकीकृत्य २१८७०० अक्षौहिणी भवति । महाक्षौहिणीप्रमाणं तु । खद्वयं ०० निधि ९ वेदा ४ क्षि २ चन्द्रा १ क्ष्य २ मि ३ हिमांशुभिः १ | महाक्षौहिणिका प्रोक्ता सङ्ख्या गणितकोविदैः | सर्वमेकीकृत्य १३२१२४९०० । एतन्महाक्षौहिणीप्रमाणम् । संपत् ॥ ८१ ॥ संपत्ति: श्री: लक्ष्मीः चत्वारि संपदः । “संपदेत्यन्यत्र" | विपत्तिः विपत् आपत् त्रीणि आपदः । “आपत्तिः आपदा इत्यन्यत्र " । आयुर्भ महरणं शस्त्रं अस्रं चत्वारि शत्रमात्रस्य || ८२ || धनुः चापः धन्व शरासनं कोदण्ड कार्मुकं इष्वासः सप्त धनुषः । तत्र धनुषापे क्लीषे पुंसि च धन्व नान्तं धन्वनी | "धन्वमिति अदन्तमपि ” । धनुरुदन्तोऽपि । “चरावापो धनुः स्त्री स्याद्" इति त्रिकाण्डशेषात् । कर्णस्य धनुः कालपृष्ठं स्यात् “ एकम् । कालो गम इव पृष्ठमस्य" ॥ ८३ ॥ गाण्डीव: गाण्डिवः द्वे अर्जुनस्य धनुषि । “गाण्डिर्ब्रन्थि रस्यास्ति । क्लीने गाण्डीवं गाण्डिवं च गाण्ठ्यजगात्संज्ञायामिति मत्वर्थीयो प्रत्ययः । गायेत्यत्र यणा तत्रेण इस्खदीर्घयोर्निर्देशः " । कोटि: "कोटी " अटनी "अटनिः" द्वे अस्स धनुषः प्रान्ते । गोधा तलं द्वे ज्या मौर्वी तस्या आघातस्ताडनं तद्वारणे चर्मादिकृतबाहुबन्धविशेषे । “गोषे तले इति व्यक्ति- द्वयाद्वित्वम् " ॥ ८४ ॥ धनुषो मध्यं लस्तक इत्येकम् । भौर्वी ज्या शिञ्जिनी गुण: चत्वारि धनुर्गुणस्य "चिल्ला" इति ख्यातस्य । शिजिनीशब्दस्ताल- Digitized by Google