पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[2] द्वितीय काण्डम्. व्यूहस्तु बलविन्यासो भेदा दण्डादयो युधि | प्रत्यासांरो व्यूहपाणिः सैन्यपृष्ठे प्रतिग्रहः ॥ ७९ ॥ एकेभैकरथा त्र्यश्वा पत्तिः पञ्चपदातिका || पत्त्येत्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम् ॥ ८० ॥ अनीकः” ॥ ७८ ॥ बलस्य सैन्यस्य विन्यासो युद्धार्थे रचनाविशेषेण स्थापनं व्यूह इत्येकं "बिहू इति ख्यातस्य" । व्यूहलक्षणम् । “मुखे रथा हयाः पृष्ठे तत्पृष्ठे च पदातयः ॥ पार्श्वयोश्च गजाः कार्या व्यूहोऽयं परिकी- र्तितः” इति । युधि दण्डादयो भेदाः विशेषाः व्यूहस्येति शेषः । सैन्यस्य दण्डवत्तिर्यगवस्थानं दण्डः | अदिना भोगमण्डलादयः । यदाह कामन्दकः । “तिर्यग्वृत्तिस्तु दण्डः स्याद्भोगोऽन्वावृत्तिरेव च । मण्डलः सर्वतोवृत्तिः पृथग्वृत्तिरसंहतः” इति । “तत्र अन्योन्यानुगता वृत्तिर्मोगः सर्पशरीरबदवस्थानं मण्डलः । गजादीनां विजातीयैरमिश्रितानां स्थानमसंहतः । एतेषां च शकटमकरपताकासर्वतोभद्रदुर्जयादयो भेदाः प्रत्येकं सन्ति " । प्रत्यासारः व्यूहपाणि: द्वे व्यूहपश्चाद्भागस्य । प्रत्यासारयति मान्प्रत्यासार: "प्रत्यासर इत्यपि " सैन्यपृष्ठः प्रतिग्रहः “परिग्रह: पतग्रहः इत्यपि " द्वे सेनायाः पञ्चाद्भागस्य । प्रतिगृह्यतेऽवष्टभ्यते सैन्यमनेन प्रतिग्रहः ॥ ७९ ॥ एक इमो यस्यां सा एकेमा । एको रथो यस्यां सा । त्रयोऽश्रा यस्यां सा | पञ्च पदातयो यत्र सा । एतद्विशेषणचतुष्टयविशिष्टा सेना पतिः स्यात् । यदुक्तम् । “एको रथो गजबैको नराः पञ्च पदातयः | त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते” इति । एकम् । पत्यज्ञैः पचेरवयवैर्गजा- दिभित्रिगुणैर्यथोत्तरं कमात्सेनासुखादय आख्याः स्युः ॥ ८० ॥ तद्यथा | तिसृमिः पतिभिः सेनामुखम् । त्रिभिः सेनामुखैर्गुल्मः । गुल्मत्रयेण गणः । त्रिभिर्गणैर्वाहिनी । तिसृभिः वाहिनीभिः पृतना | पृतनात्रयेण चमूः । एतत्रयेणाऽनीकिनी । तत्रयेण दशानीकिन्यः । तत्रयेण अक्षौहिणी । तथा च । अक्षौहिण्यामित्यधिकैः सप्तत्या इष्टमिः शतैः । संयुक्तानि सहस्राणि मजानामेकविंशतिः २१८७० । एवमेव स्थानां तु सङ्ख्यानं कीर्तितं बुधैः २१८७० | पञ्चषष्टिः सहस्राणि षट् शतानि दशैव तु सङ्ख्यातास्तुरगास्तज्जै- विना रथतुरङ्गमैः ६५६१० । नृणां शतसहस्राणि सहस्राणि तथा नव | शतानि त्रीणि पान्यानि पत्रासच पदातयः १०९३५० । इत्येकैम् । भारते Digitized by Google 78-57