पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

73-78 १९८ सटीकामरकोशंस्य [ क्षत्रियवर्गः तरखी त्वरितो वेगी प्रजवी जवनो जवः ॥ ७३ ।। जय्यो यः शक्यते जेतुं जेयो जेतव्यमात्रके || जैत्रस्तु जेता यो गच्छत्यलं विद्विषतः प्रति ॥ ७४ ॥ सोऽभ्यमित्र्योऽभ्यमित्रीयोऽप्यभ्यमित्रीण इत्यपि ॥ ऊर्जस्वलः स्यादूर्जखी य ऊर्जातिशयान्वितः ॥ ७९ ॥ स्यादुरखानुरसिलो रथिनो रथिको रथी ॥ - कामङ्गाम्यनुकामीनो ह्यत्यन्तीनस्तथा भृशम् ॥ ७६ ॥ शूरो वीरश्च विक्रान्तो जेता जिष्णुच जिवरः || सांयुगीनो रणे साधुः शस्त्राजीवादयस्त्रिषु ॥ ७७ । ध्वजिनी वाहिनी सेना पृतनाऽनीकिनी चमूः ॥ वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम् ॥ ७८ ।। ||| शक्यते स जय्यः । यथा रामेण रावणो जय्यः | रावणं जेतुं रामः शक्रो- त्येवेत्यर्थः । एकम् । जेय इत्येकं । जेतव्यमात्रे । यथा जेयं मनः न तु जय्यम् । जैत्रः जेवा द्वे जेतुः ॥ ७४ । यो विद्विषतः शत्रून् प्रति अलं सामर्थ्येन योद्धुं संमुख गच्छति सः अभ्यमित्र्य: अमिलीयः अभ्यमित्रीण इति च स्यात् त्रीणि । य ऊर्जस्य पराक्रमस्यातिशयेन युक्तः स ऊर्जस्वल: ऊर्जस्वी इति चं स्यात् द्वे । " ऊर्जशब्दोऽदन्तः सान्तश्च । ऊर्जोऽतिशयान्वित इत्यपि पाठः” । ॥ ७५ ॥ उरखान् उरसिलः द्वे "विशालवक्षसः " उरखन्तौ । रथिनः “रथिर इत्यपि " रथिकः रथी त्रीणि रथस्वामिनः । रथोऽस्यास्तीति रथिनोऽदन्तः । यः कामङ्गामी यथेच्छ गच्छति तच्छील: सोऽनुकामीनः स्यात् । “कामगा- मीत्यपि ” एकम् । तथेति गामिसमुच्चये । यो भृशंगामी अत्यर्थ गमनशील। सोऽत्यन्तीनः एकम् ॥ ७६ ॥ शूरः वीरः विक्रान्त: श्रीणि शूरस्य | जेता जिष्णुः जित्वरः त्रीणि जयनशीलस्य | रणे संयुगे साधुः सांयुगीनः एकं "युद्धकुशलस्य " । शखाजीने काण्डपृष्ठेति यत्प्रामुक्तं तदादय: "सांयुगी- नान्ताः ” त्रिषु । वाध्यलिङ्गत्वात् ॥ ७७ ॥ ध्वजिनी वाहिनी सेना पृतना अनीकिनी वरूथिनी बलं सैन्यं चक्रं अनीकं एकादश सेनायाः । “पुंसि Digitized by Google