पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

62-69 . १९६ सटीकामरकोशस्य [ क्षत्रियवर्गः शीर्षण्यं च शिरस्त्रेऽथ तनुत्रं वर्म दंशनम् || उरश्छदः कङ्कटको जंगरः कवचोऽस्त्रियाम् ॥ ६४ ॥ आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत् ॥ सन्नद्धो वर्मितः सज्जो दंशितो व्यूढकङ्कटः ॥ ६५ ॥ त्रिष्वामुक्तादयो वर्मभृतां कावचिकं गणे ॥ पंदातिपत्तिपदगपाँदातिकंपदाजयः ।। ६६ ।। पद्गश्च पदिकश्चाऽथ पादातं पत्तिसंहतिः ॥ शस्त्राजीवे काण्डपृष्ठांयुधीयायुधिकाः समाः ॥ १७ ॥ कृतहस्तः सुप्रयोगविशिखः कृतपुङ्गवत् || अपराद्धपृषत्कोऽसौ लक्ष्याद्यच्युतसायकः || ६८ || कल्पः । चत्वारि परिहितकशुकादे: । आमुच्यते बध्यते स आयुक्तः । समद्धः वर्मितः सजः दंशितः व्यूढकङ्कट: पथ कवचभृतः । समझति स समद्धः ।। ६५ ॥ आयुक्तादयस्त्रिषु । यथा आयुक्ता शाटी | आयुक्तः कशुकः । आयुक्तं वस्त्रम् । एवं सन्नद्धा सज्येत्यादि । वर्मभृतां कवचिनां गणे कावचिकमित्येकम् | पदाति: "पदातः पादातिः पादातः | पदातिप- त्तिपादातपादाविकपदाजय: " इत्यमरमाला । पत्तिः पद्गः पादातिकः “पादातिगः । स्वार्थे कन् । पादाविक इत्यपि पाठः । पादाभ्यां अवति । अव रक्षणादौ " पदाजिः ॥ ६६ ।। पद्भः पदिकः सप्त पदातेः । पादाभ्यां अतति गच्छति न तु वाहनेन स पदातिः । “पादस्य पदाज्याति" इति पदादेशः । पत्तिसंहतिः पदातिसमूहः पादातमित्येकम् । शस्त्राजीव: काण्डपृष्ठ: “काण्ड- स्पृष्ट इति राजमुकुटः । तत्र स्पृष्टं गृहीतं काण्डं शस्त्रं येन | वाहिताम्यादिष्विति परनिपात: " । आयुधीयः आयुधिकः चत्वारि आयुधजीविनः ॥ ६७ ॥ कृत- हस्तः सुप्रयोगविशिखः कृतपुतः त्रीणि शरनिक्षेपनिष्णातस्य । “ कृतोऽभ्यस्तो हस्तो यस्य कृतहस्तः ” । लक्ष्याद्वेध्यात् च्युतः सायको यस्य सोऽपराद्ध पृषत्कः स्यात् एकम् ।। ६८ ।। धन्वी धनुष्मान् धानुष्कः निषङ्गी अस्त्री धनुर्धरः षट् धनु- धरस्य । धनुष्मन्तौ । काण्डवान् काण्डीरः द्वे शरधारिणः अर्थ केवलकाण्डव- Digitized Dighred by Google