पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

22-26 सटीकामरकोशस्य [ क्षत्रियवर्ग: रहश्योपांशु चालिङ्गे रहस्यं तद्भवे त्रिषु || समौ विसंम्भविश्वासौ श्रेषौ अंशो यथोचितात् ॥ २३ ॥ अभ्रेषन्यायकल्पास्तु देशरूपं समञ्जसम् || युक्तमौपयिकं लभ्यं भजमानाभिनीतवत् ॥ २४ ॥ न्याय्यं च त्रिषु षद् संप्रधारणा तु समर्थनम् || अववादस्तु निर्देशो निदेशः शासनं च सः ॥ २५ ॥ शिष्टिश्राज्ञा च संस्था तु मर्यादा धारणा स्थितिः ॥ आगोऽपराधो मन्तुश्च समे तूहानबन्धने ॥ २६ ॥ दिपाद्यो द्विगुणो दण्डो भागधेयः करो बलिः || क्षीणः । विविक्तः विजनः छमः निःशलाकः रहः ॥ २२ ॥ रहः उपांशु सप्त बिजनस्य । उपगताः अंशषः किरणाः यत्र । “उपांशुर्जपदेशे स्यादुपांशु विजनेऽव्ययम्” इति । तत्रैकं रहः सान्तं क्लीबम् । द्वितीयं रह उपांशु इति च द्वे अलिङ्गे अव्यये इत्यर्थः । तद्भवे रहोभवे रहस्यमित्येकम् । विस्रम्मः “ताल- व्यमध्योऽपि । विश्रम्भः केलिकलहे विश्वासे प्रणयेऽपि च " इति मेदिनी । विश्वासः द्वे । यथोचितात्स्वरूपाशः पतनं श्रेष इत्येकम् ॥ २३ ॥ अभ्रेषः न्यायः कल्पः देशरूपं समञ्जसं पश्चकं नीतेः । “ प्रशस्तं देशनं देशरूपम् | प्रशंसायां रूपप्” । युक्तं औषयिकं लभ्यं भजमानं अभिनीतम् ॥ २४ ॥ न्याय्यं षट् न्यायादनपेतस्य द्रव्यादेः । अभिनीतवदिति बच्छद्धो युक्ता- दीनां पर्यायत्वद्योतनार्थः । एते षडपि त्रिषु । संप्रधारणा समर्थन द्वे युक्ता- युक्तपरीक्षायाः । अववाद: निर्देश: निदेशःशासनम् ॥ २५ ॥ शिष्टिः आज्ञा षट् कर्माज्ञापनस्य । “ कार्यमवलम्ब्य बदनमत्राववादः । " संस्था मर्यादा । मर्येति सीमार्थेऽव्ययम् तत्रादीयते सा | धारणा स्थितिः चत्वारि न्यायमार्गस्थितेः । आगः अपराधः मन्तुः त्रीण्यपराधस्य । आगः सान्तं क्लीवे । मन्तुः पुंसि । उद्दानं॑ बन्धनं द्वे बन्धनस्य ||२६|| द्विगुणो दण्डो द्विपाद्यः स्यात् एकम् " द्वौ पादौ परिमाणमस्य द्विपाद्यः ।" भागधेयः करः बलिः त्रीणि कर्षकादिभ्यो राजप्राझभागस्य "धारा, पट्टी, वसूलः इति ख्यातस्य" । भाग एव भागधेय : “रूपनामभागेभ्यो धेयः" इत्यनेन खार्थे भागशद्वाद्धेय- प्रत्ययः । षट्टो नदीतीरादिस्थानं कहा इति ख्यातम् । आदिना गुल्म Digized by Google