पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७] द्वितीयं काण्डम्. पारम्पर्योपदेशे स्यादैतिह्यमितिहाव्ययम् ॥ १२ ॥ उपज्ञा ज्ञानमाद्यं स्याज्ज्ञात्वारम्भ उपक्रमः ॥ यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः ऋतुः ॥ १३ ॥ पाठो होमश्वातिथीनां सपर्या तर्पणं बलिः || एते पञ्च महायज्ञा ब्रह्मयज्ञादिनामकाः ॥ १४ ॥ समज्या परिषद्गोष्ठी सभासमितिसंसदः ॥ आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः ॥ १५ ॥ प्राग्वंशः प्राक् हविर्गेहात्सदस्या विषिदर्शिनः || 12-15 १६९ बासी” इति यत्प्रत्ययः । “तीर्ये ये” इति समानस्य सः । एकम् । योऽग्निं चित- वान् सोऽग्निचित् एकं कृताग्निचयनस्य । ऐतिहां इतिह द्वयं पारम्पर्येण लोकपरम्पर- या य उपदेशस्तस्मिन् । इतिहेत्यव्ययं इतिहेति निपातसमुदायस्तत्र भवमैतिसम् ॥ १२ ॥ यत्प्रथमं ज्ञानं सा उपक्षा स्यात् । यथा ग्रन्थस्य पाणिनेरुपचा एकम् । शास्त्वा व आरम्भः स उपक्रमः । यथा ग्रन्थस्योपक्रमः ज्ञानपूर्वक आरम्भ इत्यर्थः । एकम् | यज्ञः सवः अध्वर: यागः सततन्तुः मखः ऋतुः सप्त यज्ञस्य ॥ १३ ॥ पाठादयः पञ्च ब्रह्मयज्ञादिनामका महायज्ञाः स्युः एकम् । तत्र पाठो विधिना वेदादेः पठनं स ब्रह्मयज्ञः । होमो वैश्वदेवहोमः स देवयज्ञः । अतिथीनां गृहागतानां सपर्या अनादिना तोषणं स मनुष्ययज्ञः । तर्पणं पितृणामको- दकादिना तृतिसंपादनं स पितृयज्ञः । बलिः बलिहरणं स भूतयशः । पठनं पाठः | भावे घञ् । मनुः । “अध्यायनं ब्रह्मयज्ञः पिठ्यक्षस्तु तर्प- णम् । होमो देवो बलियतो नृयज्ञोऽतिथिपूजनम्" इति ॥ १४ ॥ समज्या परिषद् गोष्टी सभा समितिः संसत् आस्थानी आस्थानं सदः नव समायाः । परिषदौ । गोथ्यौ । संसदौ । आस्थान्यौ । सद: सान्तं क्लीबे । स्त्रीत्वे तु सदाः । “समजन्ति गच्छन्त्यस्यां समज्या | गावोsनेका बाचस्तिष्ठन्त्यस्यां गोष्ठी | सह समाना वा भान्त्यस्यां सभा । सभालक्षणं मनुः । “यसिन्देशे निषी- दन्ति विप्रा वेदविदयः । राज्ञयाधिकृतो विद्वान् ब्राह्मणस्तां सभां विदुः " इति । संगन्ति गच्छन्त्यां समितिः । संसीदन्त्यस्यां संसत् । आतिष्ठन्त्यस्या- मास्थानी । सीदन्त्यस्यां सदः ॥ १५ ॥ हविर्गेहात्माक् पूर्वदेशे सदस्या- दीनां यमुई स प्राग्वंश इत्येकम् | यज्ञशालायाः पूर्वपश्चिमस्तम्भयोरर्पितं दीर्घ- २२ Diglized by Google