पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

J सटीकामरकोशस्य [मवर्गः इज्याशीलो यायजूको यज्वा तु विधिनेष्टवान् ॥ ८ ॥ स गीष्पतीष्टया स्थपतिः सोमपीथी तु सोमपाः ॥ सर्ववेदाः स येनेष्टो यागः सर्वस्वदक्षिणः ॥ ९ ॥ अनूचानः प्रवचने साङ्गेऽधिती गुरोस्तु यः ॥ लब्धानुज्ञ: समावृत्तः सुत्वा त्वभिषवे कृते ॥ १० ॥ छात्रान्तेवासिनौ शिष्ये शैक्षाः प्राथमकल्पिकाः ॥ एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः ॥ ११ ॥ सतीर्थ्यास्त्वेकगुरवश्चित्तवानमिममिचित् ।। विधिना "सोमेन यजेत " इत्यादियागविधायकवि घिमात्रेणेष्टवान् यागं कृतवान् स यज्वा स्यात् एकम् | यज्वानौ ॥ ८ ॥ यः गीष्पतीच्या बृह- स्पतिसवविधिना इष्टवान् स स्थपतिरित्युच्यते । वाजपेयेनेष्वा बृहस्पतिसवेन यजेतेति तद्विधिः एकम् । सोमपीथी “सोमपीती सोमपीबी" सोमपाः “सोमपः " द्वे सोमयाजिनः । सोमपीथिनौ “सर्वदाऽयम्, दीक्षितस्तु तत्का- लम्" येन सर्वस्वदक्षिणो विश्वजिनामा याग इष्टः स सर्ववेदाः स्यात् एकम् | " सर्वस्वं दक्षिणा यत्र | सर्वे वेदयति सर्ववेदाः । विदु लाभे " । सर्ववेदसौ ॥ ९ ॥ साने शिक्षाधनोपेते प्रवचने वेदे अघिती कृताध्ययनोऽनू- चान इत्येकम् | योऽनूचानो गुरोः सकाशात् गृहस्थाद्याश्रमान्तरप्राप्तये लब्धा- नुशः स समावृतः स्यात् एकम् । अभिषवे स्नाने कृते सति सुत्वा स्यात् । “सुय- जोमनिप्" इति सुनोतेर्भूते नि । सुत्वन् । सुत्वा सुत्वानौ । अभिषषः स्नपने पीडने खाने सुरासन्धाने च ॥१०॥ छात्रः अन्तेवासी “अन्तवासीत्यपि ” शिष्यः त्रीणि । गुरोर्दोषाच्छादनं छत्रं तच्छीलमस्य छात्रः । शीलमित्यनुवर्तमाने "छत्रादिभ्यो णः” इति णप्रत्ययः । अन्ते समीपे वस्तुं शीलमस्यान्तेवासी । शैक्षाः प्राथमकल्पिकाः द्वे आरब्धाध्ययनानां बटूनाम् । शिक्षां लभन्ते ते शैक्षाः। प्रथ- मकल्पः आद्यारम्भः प्रयोजनं येषां ते प्राथमकल्पिकाः । एकः समानो ब्रह्मत्र- ताचारो वेदव्रताचरण येषां ते । एकशाखास्त्राध्यायिनो ब्रह्मचारिणस्ते मिथः परस्परं सत्रह्मचारिण इत्युच्यन्ते । “चरणे ब्रह्मचारिणि” इति समानस्य सभावः । एकम् ।। ११ ।। एकः समानो गुरुर्येषां ते परस्परं सतीर्थ्याः स्युः । “समानतीर्थे Digitized by Google