पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६] द्वितीय कारडम्. १४५ प्रच्छर्दिका वमिश्च स्त्री पुमांस्तु वमथुः समाः ॥ ५५ ॥ व्याधिभेदा विद्रधिः स्त्री ज्वरमेहभगंदराः ।। “लीपदं पादवल्मीकं केशघ्नस्त्विन्द्रलुप्तकः ॥” (१ ) अश्मरी मूत्रकृच्छ्रं स्यात्पूर्वे शुक्रावधेत्रिषु ॥ ५६ ॥ रोगहार्यगदंकारो भिषग्वैद्यौ चिकित्सके || वार्ता निरामयः कल्य उल्लाघो निर्गतो गदात् ॥ ५७ ॥ ग्लानग्लानू आमयावी विकृतो व्याधितोऽपटुः || आतुरोऽभ्यमितोऽभ्यान्तः समौ पामनकच्छुरौ ॥ ५८ ॥ "बमी बम इति पुंलिङ्गोऽपि " वमथुः त्रीणि वमनरोगस्य । तत्राद्यं द्वयं स्त्रियाम् । मथुः पुंसीत्यर्थः । समाः समानार्थाः ॥ ५५ ॥ अथ व्याधिभेदा वक्ष्यन्ते । विद्रधिरुदरादौ गण्डभेदः । विद्रं द्धातीति विद्रधिः स्त्रियाम् । “आदिशब्देन कपालकर्णप्रमेहानां पिटका ज्ञेयाः ” । ज्वरः प्रसिद्धः । मेहति मूत्रयतेऽनेन मेहः । स च रक्तमेह: शुभ्रमेह इत्यादिभेदेन बहुविधः । भगंदरो गुससमीपे विस्फोटविशेषः । श्रीपदं पादवल्मीकम् । पादयोः वल्मीकमिव रोग उत्पद्यते । द्वयं श्रीपदरोगस्य वारूळ इति ख्यातस्य । केशभः इन्द्रलुप्तकः द्वयं मस्तककेशरोगस्य चाई इति प्रसिद्धस्य | अश्मरी मूत्रकृच्छ्रं दे अश्मर्याः । अश्माकारं शुक्रं राति ददातीत्यश्मरी | स्यादित्यनेन मूत्रकृच्छ्रमित्यश्मर्याः पर्याय इति सूचितम् । मूत्रविनमात्रे मूत्रकृच्छ्रमिति नाय- मस्मर्याः पर्याय इति केचित् । इतः परं शुक्रावधेः वक्ष्यमाणात् शुक्रशब्दा- त्पूर्वे मूर्छितान्तास्त्रिषु वाच्यलिङ्गा इत्यर्थः ॥ ५६ ॥ रोगहारी अगदंकारः भिषक् वैद्यः चिकित्सकः पञ्च वैद्यस्य । रोगहारिणौ । भिषजौ । वार्तः मिरामयः कल्यः त्रीणि रोगरहितस्य | कल्यस्तालव्यान्तः । “ कल्यं प्रभाते मधुनि सजे दत्ते निरामये । कल्या कल्याणवाचि स्यात्” इति हैमः । उल्लाष इत्येकं रोगान्मुक्तस्य । अयमपि पूर्वस्यैव पर्याय इत्येके ॥ ५७ ॥ ग्लानः ग्लाः द्वे रोगादिवशात् हर्षरहितस्य । आमयावी विकृतः व्याधितः अपदुः आतुरः अभ्यमितः अभ्यान्तः सप्तकं रोगिणः । पामनः कच्छुर: द्वे पामायु- क्तस्य ॥ ५८ ॥ दद्रुणः “दण: दण: दण: " दनुरोगी द्वे दद्रुयुक्तस्य । 55-58 १ इदमधे तालपत्र पुस्तकेऽस्ति वा नास्ति वेति न निश्चीयते, सत्पत्रस्यातिशैथिल्यात् ॥ १९ Diglized by Google