पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

C ५] द्वितीय काण्डम्. (“कण्ठीरवो मृगरिपुर्मृगदृष्टिर्मृगाशनः ॥ पुण्डरीकः पञ्चनखचित्रकायमृगद्विषः ॥ १ ॥ ” ) (१) शार्दूलदीपिनौ व्याघे तरक्षुस्तु मृगादनः ॥ १ ॥ वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः ॥ दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि ॥ २ ॥ कपिलवङ्गप्लवगशाखामृगवॅलीमुखाः ॥ मर्कटो वानरः कीशो वनौका अथ भलके ॥ ३ ॥ ऋक्षाऽच्छभल्लभल्लूँका गण्डके खड्गखड़िनौ ॥ लुलायो महिषो वाहदिषत्कासरसैरिभाः ॥ ४ ॥ ११९ A-4.. नागकेसर इत्युक्तम् । हरिः षट् सिंहस्य | केसरी इनन्तः । तालव्यमध्योऽपि । पचं विस्तृतमास्यमस्य पश्चास्यः । “पचि विस्तारे ” । मुर्ख पादाश्च पञ्चास्या- नीव यस्येति वा । कण्ठीरखो मृगरिपुर्मृगदृष्टिर्मृगाशन इत्यादयोऽप्यस्य पर्यायाः ॥ १ ॥ शार्दूलः द्वीपी व्याघ्रः त्रीणि व्याघ्रस्य । तरक्षुः “तरक्षः " मृगादन: द्वे कुकुराकृतेः कृष्णरेखाचित्रितस्य मृगविशेषस्य तरस इति ख्यातस्य ।। १ ।। वराहः सूकर: घृष्टिः “गृष्टिः " कोल: पोत्री | पोत्रं मुखाग्रं अस्ति यस्य । “पोत्रं वस्त्रे मुखाग्रे च सुकरस्य हलस्य च" इति । किरिः “किरः " किटिः दष्ट्री घोणी स्तब्धरोमा क्रोड: भूदार: द्वादश सूकरस्य । तालव्या- दिरपि शूकरः । साहचर्यादृष्टिः पुंसि । पोत्रिणौ । दष्ट्रिणौ । घोणिनौ । स्तम्घरोमाणौ ॥ २ ॥ कपिः प्लवङ्गः लवगः शाखामृगः वलीमुख: “ बलि- सुख: बलीमुखः " मर्कट: वानरः कीशः वनौकाः नवकं वानरस्य | वनौ- कसौ । “शाखाचारी मृगः शाखामृगः" । भल्लुकः ॥ ३ ॥ ऋक्षः अच्छ- मल्लः मल्छुक: “माछूक: भालूक: " चतुष्कमच्छमल्लस्य आखल, रीस इति ख्यातस्य । “ केचन भालु इति ख्यातायाः नामचतुष्कमिति वदन्ति " इस्ख- मध्योऽपि । भल्लक इति । अच्छभल्लपरिषद्विरहतीति प्रयोगः | अच्छ इति च । “अच्छः स्फटिकमल्लूकनिर्मलेषु” इति मेदिनी । गण्डकः खङ्गः खङ्गी । खङ्गं शङ्खं यस्यास्ति । त्रीणि गण्डशृङ्ग "गैंडा" इति ख्यातस्य | लुलाय: इति ओछ्यान्तोऽपि ” महिषः वाहद्विषन् । वाहानां हयानां द्विषन् । कासरः । लुलाय १ इवं पयं तालपत्रपुस्तकेऽपि नास्ति । Diglized by Google