पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

166-269 ११८ सटीकामरकोशस्य छत्रा तिच्छत्रपालगौ मालातृणकभूस्तृणे || शष्पं बालतृणं घासो यवसं तृणमर्जुनम् ।। १६७ ।। तृणानां संहतिस्तृण्या नव्या तु नडसंहतिः || तृणराजाह्वयस्तालो नालिकेस्तु लाङ्गली ॥ १६८ ॥ घोण्टा तु पूगः क्रमुको गुवाकः खपुरोऽस्य तु || फलमुद्वेगमेते च हिन्तालसहितास्त्रयः ॥ १६९ ।। खर्जूरः केतकी ताली खर्जूरी च तृणद्रुमाः || ॥ इति वनौषधिवर्गः ॥ ४ ॥ [ सिंहादिवर्गः सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्ष : केसरी हरिः ॥ भूस्वर्ण पञ्च बचाकृतेर्जलतुणभेदस्य । “अत्र आद्यत्रयं शेतगवत इति ख्यातस्य । अन्त्यद्वयं मालाकारतृणस्येत्यपि मतम् । ” शष्पं “शस्यं " बालतुर्ण द्वे कोम- लतृणस्य | घासः यवर्स द्वे गवादीनां भक्ष्यतृणस्य । तृणं अर्जुनं द्वे रण- मात्रस्य || १६७ ॥ तृणानां संहतिः समूहस्तृप्येत्युच्यते एकम् । नडानां संहतिर्नज्येत्युच्यते एकम् | तृणराजः तालः द्वे तालस्य । तृणराजाहयस्तृ- णराजनामकः । नालिकेर: “नारिकेरः नारिकेलः नाडिकेरः नारीकेलः नारिकेलिः नारीकेली " लागली द्वे नारिकेलस्य "नारळ" इति ख्यातस्य । लांगली स्त्री ङीषन्तः । इन्तः पुंसीत्येके ।। १६८ ॥ घोण्टा पूगः क्रमुकः गुवाक: "गूवाक: " । गुवाकोऽपि च गूवाक इति तारपालः | खपुरः पञ्च पूगवृक्षस्य " सुपारी, पोफळी इति ख्यातस्य" । अस्य फलं उद्वेगमित्युच्यते एकम् । एते तालनालिकेरपूगास्त्रयः । हिन्तालस्तालभेद: स तु अल्पप- रिमाणः तत्सहिताः एवं चत्वारः खर्जूरादयश्चत्वार एवमष्टौ एते तृणडुमा इत्युच्यन्ते ।। १६९ ।। तत्र खर्जूरः खजूर इति ख्यातः | केतकी ङीषन्ता केगत " केतक" इति ख्याता । एवं ताली तालीभेदः । खर्जूरी खर्जूरभेदः ॥ इति वनौषधिवर्गः ॥ ४ ॥ ॥ सिंहः | हिनस्ति इति सिंहः । “ हिसि हिंसायाम्" । मयूरव्यंसकादिः ।“ भवेद्वर्णागमाद्धंस: सिंहो वर्णविपर्यया- त्" इत्युक्तम् । मृगेन्द्रः पश्चास्यः हर्यक्षः केसरी | केसरी तुरगे सिंहे पुभागे Digized by Google