पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

158-162 सटीकामरकोशस्य [ वनौषधिवर्गः सहस्रवीर्याभार्गव्यौ रुहाऽनन्ताज्य सा सिता ॥ १५८ ॥ गोलोमी शतवीर्या च गण्डाली शकुलाक्षका || कुरुविन्दो मेघनामा मुस्ता मुस्तकमस्त्रियाम् ॥ १५९ ॥ स्याद्भद्रमुस्तको गुन्द्रा चूडाला चक्रलोचटा || वंशे त्वक्सारकर्मारत्वचिसारतृणध्वजाः || १६० ।। शतपर्वा यवफलो वेणुमस्करतेजनाः ॥ वेणवः कीचकास्ते स्युर्ये स्वनंत्यनिलोद्धताः ।। १६१ ।। अन्थिन पर्वपरुषी गुन्द्रतेजनक शरः ||

नडँस्तु धमनः पोटगलोऽथो काशँमस्त्रियाम् ॥ १६२ ॥ 46 " "" भार्गवी रुहा अनंता पट् दूर्वायाः ॥ १५८ || सा दूर्वा सिता शुक्ला चेत् तत्र गोलोमी शतवीर्या गण्डाली शकुलाक्षका इति चत्वारि | कुरुविन्द: मेघनामा मुस्ता मुस्तकं चत्वारि मुस्ताया: “मोथ इति ख्यातायाः " मेघनामा मेघ- पर्यायनामकः । “ मुस्तकं पुंसि क्लीबे च" ॥ १५९ ॥ भद्रमुस्तकः | भद्र- मिति पृथगपि नाम | " भद्रं स्यान्मङ्गले हेनि मुस्तके करणान्तरे" इति रुद्रः । गुन्द्रा द्वे मुस्ताविशेषस्य मद्रमुस्तकस्य "नागरमोथा इति ख्यातस्य" । अस्त्रि- यामिति सुस्तक भद्रमुस्तकाभ्यां संबध्यते । धन्वन्तरिरिमं भेदमाह । “मुस्तकों- बुधरो मेघो घनो राजीवशेरुकः । भद्रमुस्तो वराहोऽब्दो गांगेयः कुरुविन्दक इति । चूडाला चक्रला उच्चटा त्रीणि उच्चटामूलस्य "फुरडी इति कोंकणे ख्यातस्य मुस्ताविशेषस्य" | वंशः त्वक्सारः कर्मार: त्वचिसारः तृणध्वजः ।। १६० ।। शतपर्वा यवफल: वेणु: मस्करः तेजनः दशकं वेणोः । ये वेणवः अनिलोद्धताः अनिलेन कीटादिकृतरंधगतवायुनोद्धताः खनन्ति शब्दं कुर्वन्ति ते कीचकाः स्युरित्येकम् ॥ १६१ ॥ ग्रन्थिः पर्व परु: “परुरुदन्तोऽपि । “मजा सारो, ग्रन्थिः परुः, परागः कुसुमरेणुः" इति पुंस्काण्डे रत्नकोशात् । त्रीणि वंशा- दिग्रन्थेः पेरें इति ख्यातस्य । तत्र ग्रन्थिर्ना पुमान् । गुन्द्रः तेजनकः शरः “सरः” । “सरस्तु मुज्जो बाणाख्यो गुन्द्रस्तेजनकः शरः" इति वाचस्पतेर्दन्त्यादिश्च । त्रीणि शरस्य । नड: "नलः” । “अथ पोटगलः पुंसि नले च काशमत्स्ययोः" इति मेदि- नी । घमनः पोटगल: त्रीणि देनवळ इति ख्यातस्य | काशं “कासम् ” ॥ १६२ | Digitized by Google