पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४] द्वितीयं काण्डम्. वन्दा वृक्षादनी वृक्षरुहा जीवन्तिकेत्यपि ॥ वत्सादनी छिन्नरुहा गुइँची तन्त्रिकाऽमृता || ८२ ॥ जीवन्तिका सोमवल्ली विशल्या मधुपर्ण्यपि ॥ मूर्वा देवी मधुरसा मोरटा तेजनी सँवा ॥ ८३ ॥ मधूलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि || पाठावष्ठा विद्धकर्णी स्थापनी श्रेयसी रसा ॥ ८४ ॥ एकाठीला पापचेली प्राचीना वनतिक्तिका || कटुः कटभराऽशोकरोहिणी कटुरोहिणी ॥ ८५ ।। मत्स्यपित्ता कृष्णभेदी चक्राङ्गी शकुलादनी || आत्मगुप्ताऽहाऽव्यण्डा कण्डुरा प्रावृषायणी ॥ ८६ ॥ 81-86 ९९ 66 इति ख्यातस्य थोर बकुळी इति ख्यातस्येत्यपि मतम् ॥ ८१ ॥ वन्दा वृक्षादनी वृक्षरुहा जीवन्तिका चत्वारि वृक्षोपरि जातलताविशेषस्य वेदल “बेटागुळी, बांधे" इति ख्यातस्य । बाण्डगुळ इत्यपि लौकिकभाषा- याम् । वत्सादनी छिनरुहा गुडूची “गुडुची " तत्रिका अमृता ॥ ८२ ॥ जीवन्तिका सोमबल्ली विशल्या मधुपर्णी नव गुड़च्या: “गुळवेल" इति ख्यातायाः । मूर्वा "मूर्वी" देवी मधुरसा मोरटा तेजनी सवा “सुबा " ॥ ८३ ॥ मधूलिका मधुश्रेणी गोकर्णी पीलुपर्णी दश मूर्वायाः मूर इति ख्यातायाः । इयं धनुर्गुणोपयोगिनी । इयं मोरवेल इति प्रसिद्धे त्येके । पाठा अम्बष्ठा विद्धकर्णी "अविद्धकर्ण्यपि" स्थापनी श्रेयसी रसा ॥ ८४ ॥ एकाष्ठीला पापचेली प्राचीना वनतिक्तिका दश पाठायाः पाडळी “पाहाडमूळ" इति ख्यातायाः । कटुः कटंभरा “कटम्बरा" अशोकरो- हिणी व्यस्तमपीदं नाम । “अशोका कटुरोहिण्यामशोको वजुलद्रुमः" इति रमसः । “रोहिणी कटुरोहिण्याम्” इति रुद्रः । कटुरोहिणी ॥ ८५ ।। मत्स्यपित्ता कृष्णभेदी "कृष्णभेदा" "कृष्णभेदा चण्डरुहा” इति निषण्टुः । चक्राी शकु- लादनी अष्टौ केदारकुटकी इति ख्यातायाः । आत्मगुप्ता अजहा “जहा " अन्यण्डा कन्डुरा “कण्ड्रा” । “कपिकच्छूथ कण्डरा "इतीन्दुः । प्रावृषायणी ॥ ८६ ॥ ऋष्यप्रोक्ता शुकशिंनिः । शश्चच्छशांकशिशिराणि च शकशिम्मिरित्यूष्मविवे- Digitized by Google