काशिकावृत्तिः/पञ्चमोध्यायः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← चतुर्थोध्यायः काशिकावृत्तिः
पञ्चमोध्यायः
[[लेखकः :|]]
षष्टोध्यायः →
  1. प्रथमोध्यायः
  2. द्वितीयोध्यायः
  3. तृतीयोध्यायः
  4. चतुर्थोध्यायः
  5. पञ्चमोध्यायः
  6. षष्टोध्यायः
  7. सप्तमोध्यायः
  8. अष्टमोध्यायः

पञ्चमोऽध्यायः प्रथमः पादः ।


____________________________________________________________________


  1. <प्राक्-क्रीताच्छः># । । PS_५,१.१ । ।



_____Sठाऱ्ठ्JKव्_५,१.१ः

तेन क्रीतं (*५,१.३७) इति वक्ष्यति ।
प्रागेतस्मात्क्रीत-संशब्दनाद्यानित ऊर्ध्वं अनुक्रमिष्यामः छ-प्रत्ययस्तेष्वधिकृतो वेदितव्यः ।
वक्ष्यति तस्मै हितं (*५,१.५) इति ।
वत्सेभ्यो हितः वत्सीयो गोधुक् ।
करभीयः उष्ट्रः ।
अकरभीयः ।
अवत्सीयः ।
अर्थोऽवधित्वेन गृहीतः, न प्रत्ययः ।
तेन प्राक्ठञः छनः इति नोक्तं । ।


____________________________________________________________________


  1. <उ-गवादिभ्यो यत्># । । PS_५,१.२ । ।



_____Sठाऱ्ठ्JKव्_५,१.२ः

प्राक्क्रीतातित्येव ।
उ-वर्णान्तात्प्रातिपदिकात्गव-आदिभ्यश्च यत्प्रत्ययो भवति प्राक्-क्रीतियेष्वर्थेषु ।
छस्य अपवादः ।
शङ्कव्यं दारु ।
पिचव्यः कार्पासः ।
कमण्डलव्या मृत्तिका ।
गवादिभ्यः खल्वपि - गव्यं ।
हविष्यं ।
सनङ्गुर्नाम चर्मविकारः ।
ततः परत्वात्चर्मणोऽञ्(*५,१.१५) इत्येष विधिः प्राप्नोति ।
तथा चरुर्नाम हविः, सक्तुरन्नविकारः ।
अपूपादिषु अन्नविकारेभ्यश्च इति पठ्यते ।
ततो विभाषा हविर्-अपूप-आदिभ्यश्च (*५,१.३) इत्येष विधिः प्राप्नोति ।
तत्र सर्वत्र पूर्वविप्रतिषेधेन यत्-प्रत्ययेव+इष्यते, सनङ्गव्यं चर्म, चरव्यास्तण्डुलाः, सक्तव्या धानाः इति ।
गवादिषु नाभि नभ च इति पठ्यते ।
तस्य अयं अर्थः ।
नाभि-शब्दो यत्-प्रत्ययं उत्पादयति नभं चादेशं आपद्यते इति ।
नाभये हितः नभ्योऽक्षः ।
नभ्यमञ्जनं ।
यस्तु शरीर-अवयवाद्यत्(*५,१.६) इति यति कृते, नाभये हितं नाभ्यं तैलं इति भवितव्यं ।
गव-आदिषु यता सन्नियुक्तो नभभावोऽत्र न भवति ।
गो ।
हविस् ।
वर्हिष् ।
खट ।
अष्टका ।
युग ।
मेधा ।
स्रक् ।
नाभि नभं च ।
शुनः सम्प्रसारणं वा च दीर्घत्वं तत्सनियोगेन चान्तोदात्तत्वं ।
शुन्यं, शून्यं ।
चकारस्य अनुक्त-समुच्चय-अर्थत्वात्नस्तद्धिते इति लोपो न स्याथ् ।
ऊधसोऽनङ्च ।
ऊधन्यः कूपः ।
खर ।
स्खद ।
अक्षर ।
विष ।
गवादिः । ।


____________________________________________________________________


[#४६६]

  1. <कंवलाच्च सञ्ज्ञायाम्># । । PS_५,१.३ । ।



_____Sठाऱ्ठ्JKव्_५,१.३ः

कम्बलात्प्राक्क्रीतीयेष्वर्थेषु यत्प्रत्ययो भवति सञ्ज्ञायां विषये ।
छस्य अपवादः ।
कम्बल्यं ऊर्णापलशतं ।
सञ्ज्ञायां इति किं ? कम्बलीया ऊर्णा । ।


____________________________________________________________________


  1. <विभाषा हविर्-अपूप-आदिभ्यः># । । PS_५,१.४ । ।



_____Sठाऱ्ठ्JKव्_५,१.४ः

हविर्-विशेष-वाचिभ्योऽपूप-आदिभ्यश्च प्रातिपदिकेभ्यः प्रक्क्रीतीयेष्वर्थेषु विभाषा यत्प्रत्ययो भवति ।
आमिक्ष्यं दधि, आमिक्षीयं दधि ।
पुरोडाश्यास्तण्डुलाः, पूरोडाशीयाः ।
हविश्शब्दात्तु गवादिषु पठान्नित्यं एव भवति ।
अपूपादिभ्यः - अपूप्यम्, अपूपीयं ।
तण्डुल्यम्, तण्डुलीयं ।
अपूप ।
तण्डुल ।
अभ्यूष ।
अभ्योष ।
पृथुक ।
अभ्येष ।
अर्गल ।
मुसल ।
सूप ।
कटक ।
कर्णवेष्टक ।
किण्व ।
अन्नविकारेभ्यः ।
पूप ।
स्थूणा ।
पीप ।
अश्व ।
पत्र ।
अपूपादिः । ।


____________________________________________________________________


  1. <तस्मै हितम्># । । PS_५,१.५ । ।



_____Sठाऱ्ठ्JKव्_५,१.५ः

तस्मै इति चतुर्थी-समर्थाद्ह्तं इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति ।
वत्सेभ्यो हितो गोधुक्वत्सीयः ।
अवत्सीयः ।
पटव्यं ।
गव्यं ।
हविष्यं ।
अपूप्यं ।
अपूपीयं । ।


____________________________________________________________________


  1. <शरीर-अवयवाद्यत्># । । PS_५,१.६ । ।



_____Sठाऱ्ठ्JKव्_५,१.६ः

शरीर प्राणिकायः ।
शरीर-अवयव-वाचिनः प्रातिपदिकात्यत्प्रत्ययो भवति तस्मै हितं इत्येतस्मिन्विषये ।
छस्य अपवादः ।
दन्त्यं ।
कण्ठ्यं ।
ओष्ठ्यं ।
नाभ्यं ।
नस्यं । ।


____________________________________________________________________


  1. <खल-यव-माष-तिल-वृष-ब्रह्मणश्च># । । PS_५,१.७ । ।



_____Sठाऱ्ठ्JKव्_५,१.७ः

खल-आदिभ्यो यत्प्रत्ययो भवति तस्मै हितं इत्येतस्मिन्विषये ।
छस्य अपवादः ।
खलाय हितं खल्यं ।
यव्यं ।
माष्यं ।
तिल्यं ।
वृष्यं ।
ब्रह्मण्यं ।
वृष्णे हितम्, ब्राह्मणेभ्यो हितं इति वाक्यं एव भवति ।
छ-प्रत्ययोऽपि न भवति, अनभिधानाथ् ।
चकारोऽनुक्त-समुच्चय-अर्थः ।
रथाय हिता रथ्या । ।


____________________________________________________________________


[#४६७]

  1. <अजाविभ्यां थ्यन्># । । PS_५,१.८ । ।



_____Sठाऱ्ठ्JKव्_५,१.८ः

अज अवि इत्येताभ्यां थ्यन्प्रत्ययो भवति तस्मै हितं इत्येतस्मिन्विषये ।
छस्य अपवादः ।

[#४६९]

अजथ्या यूथिः ।
अविथ्या । ।


____________________________________________________________________


[#४६७]

  1. <आत्मन्-विश्वजन-भोग-उत्तरपदात्खः># । । PS_५,१.९ । ।



_____Sठाऱ्ठ्JKव्_५,१.९ः

आत्मन्विश्वजन इत्येताभ्यां भोगोत्तरपदाच्च प्रातिपदिकात्खः प्रत्ययो भवति तस्मै हितं इत्येतस्मिन्विषये ।
छस्य अपवादः ।
आत्मन्निति नलोपो न कृतः प्रकृति-परिमाण-ज्ञापन-अर्थं ।
तेन+उत्तरपद-ग्रहणं भोग-शब्देन+एव सम्बध्यते, न तु प्रत्येकं ।
आत्मने हितं आत्मनीनं ।
आत्म-अध्वानौ खे (*६,४.१६९) इति प्रकृतिभावः ।
विश्वजनेभ्यो हितं विश्वजनीनं ।
कर्मधारयादेव+इष्यते ।
षष्ठी-समासाद्बहुव्रीहेश्च छ एव भवति ।
विश्वजनाय हितं विश्वजनीयं ।
पञ्चजनादुपसङ्ख्यानं ।
पञ्चजनाच्च खः ।
अत्र अपि कर्मधारयादिष्यते ।
पञ्चजनीनं ।
अन्यत्र पञ्चजनीयं ।
सर्वजानाट्ठञ्खश्च ।
सार्वजनिकम्, सर्वजनीनं ।
अत्र अपि कर्मधारयादेव ।
सर्वजनीयं अन्यत्र ।
महाजनान्नित्यं ठञ्वक्तव्यः ।
महाजनाय हितं माहाजनिकं ।
तत्पुरुषादेव ।
बहुव्रीहेस्तु छ एव भवति ।
महाजनीयं ।
भोगोत्तरपदात्खल्वपि - मातृभोगीणः ।
पितृभोगीणः ।
भोग-शब्दः शरीर-वाची ।
केवलेभ्यो मात्रादिभ्यः छ एव भवति ।
मात्रीयं ।
पितिरियं ।
राजाचार्याभ्यां तु नित्यं ।
भोगोत्तरपदाभ्यं एव खः प्रत्ययः इष्यते, न केवलाभ्यां ।
राजभोगीनः ।
आचार्यादणत्वं च ।
आचार्यभोगीनः ।
केवलाभ्यां वाक्यं एव भवति, राज्ञे हितम्, आचार्याय हितं इति । ।


____________________________________________________________________


[#४६८]

  1. <सर्व-पुरुषाभ्यां ण-ढञौ># । । PS_५,१.१० । ।



_____Sठाऱ्ठ्JKव्_५,१.१०ः

सर्व-पुरुषाभ्यां यथासङ्ख्यं णडञौ प्रत्ययौ भवतः तस्मै हितं इत्येतस्मिन्विषये ।
छस्य अपवादः ।
सर्वस्मै हितं सार्वं ।
पौरुषेयं ।
सर्वाण्णस्य वा वचनं ।
सार्वम्, सर्वीयं ।
पुरुषाद्वधविकारसमूहतेन कृतेष्विति वक्तव्यं ।
पौरुषेयो वधः, पौरुषेयो विकारः, पौरुषेयः समूहो वा ।
तेन कृते पौरुषेयो ग्रन्थः । ।


____________________________________________________________________


  1. <माणव-चरकाभ्यां खञ्># । । PS_५,१.११ । ।



_____Sठाऱ्ठ्JKव्_५,१.११ः

माणवचरक-शब्दाभ्यां खञ्प्रत्ययो भवति तस्मै हितं इत्येतस्मिन्विषये ।
छस्य अपवादः ।
माणवाय हितं माणवीनं ।
चारकीणं । ।

____________________________________________________________________


  1. <तद्-अर्थं विकृतेः प्रकृतौ># । । PS_५,१.१२ । ।



_____Sठाऱ्ठ्JKव्_५,१.१२ः

प्रकृतिः उपादानकारणं, तस्य+एव उत्तरं अवस्थान्तरं विकृतिः ।
विकृति-वाचिनः प्रातिपादिकात्प्रकृतावभिधेयायां यथाविहितं प्रत्ययो भवति ।
तदर्थं इति प्रत्ययार्थ-विशेषणं ।
तदिति सर्वनाम्ना विकृतिः परामृश्यते ।
विकृत्यर्थायां प्रकृतौ प्रत्ययः ।
तदर्थ-ग्रहणेन प्रकृतेरनन्यार्थता आख्यायते ।
न प्रकृतिविकार-सम्भवं आत्रे प्रत्ययः, किं तर्हि, प्रकृतेरनन्यार्थत्वे विवक्षिते ।
प्रत्ययार्थस्य च तदर्थत्वे सति सामर्थ्याल्लभ्या चतुर्थी समर्थविभक्तिः ।
केचित्तु तस्मै हितं (*५,१.५) इत्यनुवर्तयन्ति ।
अङ्गारेभ्यो हितानि एतानि काष्ठानि अङ्गारीयाणि काष्ठानि ।
प्राकारीया इष्टकाः ।
शङ्कव्यं दारु ।
पिचव्यः कार्पासः ।
तदर्थं इति किं ? यवानां धानाः ।
धानानां सक्तवः ।
प्रकृत्यन्तरनिवृत्तिरत्र विवक्षिता न तादर्थ्यं धानानां सक्तवः, न लाजानां इति ।
विकृतेः इति किं ? उदकार्थः कूपः ।
विकृति-ग्रहणेऽक्रियमाणे या काचित्प्रक्र्तिर्गृह्यते, न+उपादानकारणं एव ।
भवति च कूप उदकस्य प्रकृतिः, तत्र+उत्पादनाथ् ।
न तु उदकं तस्यः विकृतिः, अत्यन्तभेदात्प्रकृतौ इति किं ? अस्यर्था कोशी ।
असिरयसो विकृतिर्भवति, न तु कोशी तस्य प्रकृतिर्भवति ।
द्वयोरपि प्रकृति-विकृत्योर्ग्रहणे विवक्षितः प्रकृतिविकारभावो लभ्यते । ।


____________________________________________________________________


[#४६९]

  1. <छदिर्-उपधि-बलेर्ढञ्># । । PS_५,१.१३ । ।



_____Sठाऱ्ठ्JKव्_५,१.१३ः

छदिर्-आदिभ्यः शब्देभ्यः ढञ्प्रत्ययो भवति तदर्थं विकृतेः प्रकृतौ (*५,१.१२) इत्येतस्मिन्विषये ।
छस्य अपवादः ।
छादिषेयाणि तृणानि ।
औपधेयं दारु ।
बालेयास्तण्डुलाः ।
उपधि-शब्दात्स्वार्थे प्रत्ययः ।
उपधीयते इति उपधिः रथाङ्गं औपधेयं अपि तदेव दारु । ।


____________________________________________________________________


  1. <ऋषभ-उपानहोर्ञ्यः># । । PS_५,१.१४ । ।



_____Sठाऱ्ठ्JKव्_५,१.१४ः

ऋषभ उपानः इत्य्रथाङ्गं औपधेयं अपि एताभ्यां ञ्यः प्रत्ययो भवति तदर्थं विकृटेः प्रकृतौ (*५,१.१२) इत्येतस्मिन्विषये ।
छस्य अपवादः ।
आर्षभ्यो वत्सः ।
औपानह्यो मुञ्जः ।
चर्मण्यपि प्रकृतित्वेन विवक्षिते पूर्वविप्रतिषेधादयं एव+इष्यते ।
औपानह्यं चर्म । ।


____________________________________________________________________


  1. <चर्मणोऽञ्># । । PS_५,१.१५ । ।



_____Sठाऱ्ठ्JKव्_५,१.१५ः

चर्मणः इति षष्ठी ।
चर्मणो या विकृतिः तद्वाचिनः प्रातिपदिकातञ्प्रत्ययो भवति तदर्थं विकृतेः प्रकृतौ (*५,१.१२) इत्येतस्मिन्विषये ।
छस्य अपवादः ।
वार्ध्रं चर्म ।
वारत्रं चर्म । ।


____________________________________________________________________


  1. <तदस्य तदस्मिन्स्यादिति># । । PS_५,१.१६ । ।



_____Sठाऱ्ठ्JKव्_५,१.१६ः

तदिति प्रथमा समर्थविभक्तिः, अस्य इति प्रत्ययार्थः, स्यातिति प्रकृतिविशेषणं ।
इति-करणो विवक्षार्थः ।
एवं द्वितीयेऽपि वाक्ये ।
सप्तम्य्-अर्थे तु प्रत्यय इत्येतावान्विशेषः ।
प्रथमासमर्थात्षष्ठ्यर्थे सप्तम्यर्थे च यथाविहितं प्रत्ययो भवति, यत्तत्प्रथमासमर्थं स्याच्चेत्तद्भवति ।
इति-करणः ततश्चेद्विवक्षा ।
प्राकार आसामिष्टकानां स्यात्प्राकारीया इष्टकाः ।
प्रासादीयं दारु ।
सप्तम्यर्थे खल्वपि - प्राकारोऽस्मिन्देशे स्यात्प्राकारीयो देशः ।
प्रासादीया भूमिः ।
स्यादिति सम्भावनायां लिङ्, सम्भावनेऽलं इति चेदित्यादिना ।
इष्टकानां वहुत्वेन तत्सम्भाव्यते प्राकार आसामिष्टकानां स्यातिति ।
देशस्य च गुणेन सम्भाव्यते प्रासादोऽस्मिन्देशे स्यातिति ।
प्रकृतिविकारभावस्तादर्थ्यं च+इह न विवक्षितं ।
किं तर्हि, योग्यतामात्रं ।
तेन पूर्वस्य अयं अविषयः ।
द्विस्तद्-ग्रहणं न्याय-प्रदर्शनार्थम्, अनेकस्मिन्प्रत्ययार्थे प्रत्येकं समर्थविभक्तिः सम्बन्धनीया इति ।
अथ+इह कस्मान्न भवति, प्रासादो देवदत्तस्य स्यातिति ? गुणवानयं सम्भाव्यते प्रासादलाभोऽस्य इति ।
इति-करणो विवक्षार्थः इत्युक्तं । ।


____________________________________________________________________

[#४७०]

  1. <परिखाया ठञ्># । । PS_५,१.१७ । ।



_____Sठाऱ्ठ्JKव्_५,१.१७ः

परिखाश्-अब्दात्ढञ्प्रत्ययो भवति तदस्य तदस्मिन्स्यात्(*५,१.१६) इत्येतस्मिन्नर्थे ।
छस्य अपवादः ।
पारिखेयी भूमिः ।
छयतोः पूर्णोऽवधिः ।
इतः परमन्यः प्रत्ययो विधीयते । ।


____________________________________________________________________


  1. <प्राग्-वतेष्ठञ्># । । PS_५,१.१८ । ।



_____Sठाऱ्ठ्JKव्_५,१.१८ः

तेन तुल्यं क्रिया चेद्वतिः (*५,१.११५) इति वक्ष्यति ।
प्रागेतस्माद्वतिसं-शब्दनाद्यानित ऊर्ध्वं अनुक्रमिष्यामः ठञ्प्रत्ययस्तेष्वधिकृतो विदितव्यः ।
वक्ष्यति - पारायणतुरायणचान्द्रायणं वर्तयति ।
पारायणिकः ।
तौरायणिकः ।
चान्द्रायणिकः । ।


____________________________________________________________________


  1. <आ-अर्हाद-गोपुच्छ-सङ्ख्या-परिमाणाट्ठक्># । । PS_५,१.१९ । ।



_____Sठाऱ्ठ्JKव्_५,१.१९ः

तदर्हति (*५,१.६३) इति वक्ष्यति ।
आ एतस्मादर्हसंशब्दनाद्यानित ऊर्ध्वं अनुक्रमिष्यामः ठक्प्रत्ययस्तेष्वधिकृतो वेदितव्यः, गोपुच्छादीन्वर्जयित्वा ।
अभिविधावयं आकारः, तेन अर्हत्यर्थोऽपि ठक्भवत्येव ।
ठञ्-अधिकारं अध्ये तदपवादः ठग्विधीयते ।
वक्ष्यति - तेन क्रीतं (*५,१.३७) ।
नैष्किकं ।
पाणिकं ।
अगोपुच्छसङ्ख्यापरिमाणातिति किं ? गोपुच्छेन क्रीतं गौपुच्छिकं ।
सङ्ख्या - षाष्टिकं ।
परिमाण - प्रास्थिकं ।
कौडविकं ।
ठञ्प्रत्युदाह्रियते ।
सङ्ख्यापरिमाणयोः को विशेषः ? भेदगणनं सङ्ख्या एकत्वादिः ।
गुरुत्वमानं उन्मानं पलादि ।
आयाममानं प्रमाणं वितस्त्यादि ।
आरोहपरिणाहमानं परिमाणं प्रस्थादि ।
ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः आयामस्तु प्रमाणं स्यात्सङ्ख्या बाह्या तु सर्वतः । ।


____________________________________________________________________


  1. <असमासे निष्क-आदिभ्यः># । । PS_५,१.२० । ।



_____Sठाऱ्ठ्JKव्_५,१.२०ः

आर्हातित्येव ।
विष्कादिभ्यः शब्देभ्योऽसमासे ठक्प्रत्ययो भवति आर्हीयेष्वर्थेषु ।
ठञोऽपवादः ।
नैष्किकं ।
पाणिकं ।
पादिकं ।
माषिकं ।
असमासे इति किं ? परमनैष्किकं ।
उत्तमनैष्किकं ।
ठजेव भवति, अरिमाणान्तस्य इत्युत्तरपदवृद्धिः ।
अथ किमर्थं असमासे इत्युच्यते यावता ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते ? निष्कादिष्वसमास-ग्रहणं ज्ञापकं पूर्वत्र तदन्ताप्रतिषेधस्य ।
उगवादिभ्यो यत्(*५,१.२) - गव्यम्, सुगव्यम्, अतिसुगव्यं विभाषा हविर्-अपूपादिभ्यः (*५,१.४) - अपूप्यम्, अपूपीयम्, यवापूप्यम्, यवापूपीयं ।

[#४७१]

शरीर-अवयवाद्यत्(*५,२.६) - दन्त्यम्, राजदन्त्यं इत्येवमादि सिध्दं भवति ।
इत उत्तरं च सङ्ख्यापूर्वपदानां तदन्तविधिरिष्यते ।
पारायण-तुरायण-चान्द्रायणं वर्तयति (*५,१.७२) - द्वैपारायणिकः, त्रैपारायणिकः ।
लुगन्तायाः तु प्रकृतेर्न+इष्यते ।
द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पं ।
त्रिशूर्पं ।
द्विशूर्पेण क्रीतं इति तदन्तविधि-प्रतिषेधात्शूर्पादञन्यत्रस्यां (*५,१.२६) इति अञ्न भवति ।
सामान्यविहितष्ठञेव भवति ।
द्विशौर्पिकं ।
ठञो द्विगुं प्रत्यनिमित्ताल्लुगभावः ।
तथा च+उक्तम्, प्राग्वतेः सङ्ख्यापूर्वपदानां तदन्त्-अग्रहणं अलुकि इति ।
निष्क ।
पण ।
पाद ।
माष ।
वाह ।
द्रोण ।
षष्ति ।
निष्कादिः । ।


____________________________________________________________________


  1. <शताच्च ठन्यतावशते># । । PS_५,१.२१ । ।



_____Sठाऱ्ठ्JKव्_५,१.२१ः

आर्हातित्येव ।
शत-शब्दात्ठन्यतौ प्रत्ययौ भवतः अशतेऽधिधेये आर्हीयेष्वर्थेषु ।
कनोऽपवादः ।
शतेन क्रीतं शतिकम्, शत्यं ।
अशते इति किं ? शतं परिमाणं अस्य शतकं निदानं ।
प्रत्ययार्थोऽत्र सङ्घः ।
शतं एव वस्तुतः प्रकृत्यर्थान्न भिद्यते ।
इह तु न भवति, शतेन क्रीतं शत्यं शाटकशतम्, शतिकं शाटकशतं इति ।
वाक्येन ह्यत्र प्रत्यय-अर्थस्य तत्त्वं गम्यते, न श्रुत्या ।
तथा च+उक्तम्, शतप्रतिशेधेऽन्यशतत्वेऽप्रतिषेधः इति ।
चकारोऽसमास इत्यनुकर्षण-अर्थः ।
द्वौ च शतं च द्विशतं, द्विशतेन क्रीतं द्विशतकं ।
त्रिशतकं ।
प्राग्वतेः सङ्ख्या-पूर्वपदानां तदन्तग्रहणं अलुकि इत्यनया इष्ट्या समासादपि प्राप्नोति । ।


____________________________________________________________________


  1. <सङ्ख्याया अति-शद्-अन्तायाः कन्># । । PS_५,१.२२ । ।



_____Sठाऱ्ठ्JKव्_५,१.२२ः

आर्हातित्येव ।
सङ्ख्याया अत्य्-अन्ताया अशद्-अन्तायाश्च कन्प्रत्ययो भवति आर्हीयेषु अर्थेषु ।
ठञोऽपवादः ।
पञ्चभिः क्रीतः पञ्चकः पटः ।
बहुकः ।
गणकः ।
अतिशदन्तायाः इति किं ? साप्ततिकः ।
चात्वारिंशत्कः ।
अर्थवतस्तिशब्दस्य ग्रहणाड्डतेः पर्युदासो न भवति, कतिकः । ।


____________________________________________________________________


  1. <वतोरिड्वा># । । PS_५,१.२३ । ।



_____Sठाऱ्ठ्JKव्_५,१.२३ः

वत्वन्तस्य सङ्ख्यात्वात्कन्सिद्ध एव, तस्य त्वनेन वा इड्-आगमो विधीयते ।
वतोः परस्य अनो वा इड्-आगमो भवति आर्हीयेष्वर्थेषु ।
तावतिकः, तावत्कः ।
यावतिकः, यावत्कः । ।


____________________________________________________________________


[#४७२]

  1. <विंशति-त्रिंशद्भ्यां ड्वुनसञ्ज्ञायाम्># । । PS_५,१.२४ । ।



_____Sठाऱ्ठ्JKव्_५,१.२४ः

विंशति-त्रिंशद्भ्यां ड्वुन्प्रत्ययो भवति असञ्ज्ञायां विषये आर्हीयेष्वर्थेषु ।
विंशकः ।
त्रिंशकः ।
ति विंशतेर्डिति (*६,४.१४२) इति तिलोपः ।
असञ्ज्ञायां इति किं ? विंशतिकः ।
त्रिंशत्कः ।
कथं पुनरत्र कन्, यावता अतिशदन्तायाः इति पर्युदासेन भवितव्यं ? योगविभागः करिष्यते, विंशति-त्रिंशद्भ्यां कन्प्रत्ययो भवति, ततो ड्वुनसञ्ज्ञायां इति । ।


____________________________________________________________________


  1. <कंसाट्टिठण्># । । PS_५,१.२५ । ।



_____Sठाऱ्ठ्JKव्_५,१.२५ः

कंसाट्टिठन्प्रत्ययो भवति आर्हीयेष्वर्थेषु ।
ठञोऽपवादः ।
टकारो ङीब्-अर्थः ।
इकार उच्चारण-अर्थः ।
नकारः स्वर-अर्थः ।
कंसिकः ।
कंसिकी ।
अर्धाच्च+इति वक्तव्यं ।
अर्धिकः ।
अर्धिकी ।
कार्षापणाट्टिठन्वक्तव्यः ।
कार्षापणिकः ।
कार्षापणिकी ।
प्रतिशब्दश्च अस्य आदेशो वा वक्तव्यः ।
प्रतिकः ।
प्रतिकी । ।


____________________________________________________________________


  1. <शूर्पादञन्यतरस्याम्># । । PS_५,१.२६ । ।



_____Sठाऱ्ठ्JKव्_५,१.२६ः

शूर्प-शब्दादन्यतरस्यां अञ्प्रत्ययो भवति आर्हीयेष्वर्थेषु ।
ठञोऽपवादः ।
पक्षे सोऽपि भवति ।
शूर्पेण क्रीतं शौर्पम्, शौर्पिकं । ।


____________________________________________________________________


  1. <शतमान-विंशतिक-सहस्र-वसनादण्># । । PS_५,१.२७ । ।



_____Sठाऱ्ठ्JKव्_५,१.२७ः

शतमानादिभ्यः शब्देभ्यः अण्प्रत्ययो भवति आर्हीयेष्वर्थेषु ।
ठक्-ठञोरपवादः ।
शतमानेन क्रीतं शातमानं शतं ।
वैशतिकं ।
साहस्रं ।
वासनं । ।


____________________________________________________________________


[#४७३]

  1. <अध्यर्धपूर्व-द्विगोर्लुगसञ्ज्ञायाम्># । । PS_५,१.२८ । ।



_____Sठाऱ्ठ्JKव्_५,१.२८ः

आर्हातित्येव ।
अध्यर्ध-शब्दः पूर्वो यस्मिन्तस्मादध्यर्धपूर्वात्प्रातिपदिकद्द्विगोश्च परस्य आर्हीयस्य लुग्भवति असञ्ज्ञायां इति किं ? पाञ्चलोहितिकं ।
पाञ्चकलापिकं ।
लोहिनी-शब्दस्य भस्याढे तद्धिते इति पुंवद्भावः ।
प्रत्ययान्तस्य विशेषणं असञ्ज्ञा-ग्रहणं न चेत्प्रत्ययान्तं सञ्ज्ञा इति ।
अध्यर्ध-शब्दः सङ्ख्या+एव, किमर्थं भेदेन+उपादीयते ? ज्ञापकार्थं, क्वचिदस्य सङ्ख्याकार्यं न भवति, सङ्ख्यायाः क्रिया-अभ्यावृत्तिगणने कृत्वसुच्(*५,४.१७) इति । ।


____________________________________________________________________


  1. <विभाषा कार्षापण-सहस्राभ्याम्># । । PS_५,१.२९ । ।



_____Sठाऱ्ठ्JKव्_५,१.२९ः

अध्यर्धपूर्वाद्द्विगोश्च कार्षापण-सहस्रान्तातुत्तरस्य आर्हीय-प्रत्ययस्य विभाषा लुग्भवति ।
पूर्वेण लुकि नित्य प्राप्ते विकल्प्यते ।
अध्यर्धकार्षापणम्, अध्यर्धकार्शापणिकं ।
द्विकार्षापणम्, द्विकार्षापणिकं ।
औपसङ्ख्यानिकस्य टिठनो लुक् ।
अलुक्पक्षे च प्रतिरादेशो विकल्पितः ।
अध्यर्धप्रतिकं ।
द्विप्रतिकं ।
त्रिप्रतिकं ।
सहस्रात्- अध्यर्धसहस्रम्, अध्यर्धसाहस्रं ।
द्विसहस्रम्, द्विसाहस्रं ।
अलुक्पक्षे सङ्ख्यायाः संवत्सर-सङ्ख्यस्य च इत्युत्तरपदवृद्धिः ।
सौवर्णशतमानयोरुपसङ्ख्यानं ।
अध्यर्धसुवर्णम्, अध्यर्धसौवर्णिकं ।
द्विसुवर्णम्, द्विसौवर्णिकं ।
अध्यर्धशतमानम्, अध्यर्धशातमानं ।
द्विशतमानम्, द्विशातमानं ।
परिमाणान्तस्य इत्युत्तरपदवृद्धिः । ।


____________________________________________________________________


  1. <द्वि-त्रि-पूर्वान्निष्कात्># । । PS_५,१.३० । ।



_____Sठाऱ्ठ्JKव्_५,१.३०ः

द्विगोः इत्येव ।
द्वित्रिपूर्वाद्द्विगोर्निष्कान्तातार्हीय-प्रत्ययस्य विभाषा लुग्भवति ।
द्विनिष्कम्, द्विनैष्किकं ।
त्रिनिष्कम्, त्रिनैष्किकं ।
बहुपूर्वाच्च+इति वक्तव्यं ।
बहुनिष्कम्, बहुनैष्किकं ।
परिमाणान्तस्य इत्युत्तरपद-वृद्धिः । ।


____________________________________________________________________


  1. <बिस्ताच्च># । । PS_५,१.३१ । ।



_____Sठाऱ्ठ्JKव्_५,१.३१ः

द्वि-त्रि-पूर्वातिति चकारेण अनुकृष्यते ।
द्वि-त्रि-पूर्वाद्बिस्तान्ताद्द्विगोः परस्य आर्हीय-प्रत्ययस्य विभाषा लुग्भवति ।
द्विबिस्तम्, द्विबैस्तिकं ।
त्रिबिस्तम्, त्रिबैस्तिकं ।
बहुविस्तम्, बहुबैस्तिकं । ।


____________________________________________________________________


[#४७४]

  1. <विंशतिकात्खः># । । PS_५,१.३२ । ।


_____Sठाऱ्ठ्JKव्_५,१.३२ः

अध्यर्धपूर्वात्प्रातिपदिकाद्द्विगोश्च विंशतिक-शब्दान्तातार्हीयेष्वर्थेषु खः प्रत्ययो भवति ।
अध्यर्धविंशैकीनं ।
द्विविंशतिकीनं ।
त्रिविंशतिकीनं ।
विधानसामर्थ्यातस्य लुक्न भवति । ।


____________________________________________________________________


  1. <खार्या ईकन्># । । PS_५,१.३३ । ।



_____Sठाऱ्ठ्JKव्_५,१.३३ः

अध्यर्धपूर्वद्द्विगोः इत्येव अध्यर्धपूर्वात्प्रातिपदिकाद्द्विगोश्च खारी-शब्दानतातार्हीयेष्वर्थेषु ईकन्प्रत्ययो भवति ।
अध्यर्धखारीकं ।
द्विखारीकं ।
केवलायाश्च+इति वक्तव्यं ।
खारीकं ।
काकिण्याश्च+उपसङ्ख्यानं ।
अध्यर्धकाकिणीकं ।
द्विकाकिणीकं ।
त्रिकाकिणीकं ।
केवलायाश्च ।
काकिणीकं । ।


____________________________________________________________________


  1. <पण-पाद-माष-शताद्यत्># । । PS_५,१.३४ । ।



_____Sठाऱ्ठ्JKव्_५,१.३४ः

अध्यर्धपूर्वाद्द्विगोः इत्येव ।
अध्यर्धपूर्वाद्द्विगोश्च पण्-अपाद-माष-शत-शब्दान्तातार्हीयेष्वर्थेषु यत्प्रत्ययो भवति ।
अव्यर्धपण्यं ।
द्विपण्यं ।
त्रिपण्यं ।
पाद - अध्यर्धपाद्यं ।
द्विपाद्यं ।
त्रिपाद्यं ।
पद्भावो न भवति पद्यत्य्-अतदर्थे (*६,३.५३) इति ।
प्राण्य्-अङ्गस्य स इष्यते ।
इदं तु परिमाणं ।
माष - अध्यर्धमाष्यं ।
द्विमास्यं ।
त्रिमास्यं ।
शत - अध्यर्धशत्यं ।
द्विशत्यं ।
त्रिशत्यं । ।


____________________________________________________________________


  1. <शाणाद्वा># । । PS_५,१.३५ । ।


_____Sठाऱ्ठ्JKव्_५,१.३५ः

अध्यर्धपूर्वात्द्विगोः इत्येव ।
शाण-शब्दादध्यर्धपूर्वाद्द्विगोरार्हीयेष्वर्थेषु वा यत्प्रत्ययो भवति ।
ठञोऽपवादः ।
पक्षे सोऽपि भवति, तस्य च लुक् ।
अध्यर्धशाण्यम्, अध्यर्धशाणं ।
द्विशाण्यम्, द्विशाणं ।
त्रिशाण्यम्, त्रिशाणं ।
शताच्च+इति वक्तव्यं ।
अध्यर्धशत्यम्, ध्यर्धशतं ।
द्विशत्यम्, द्विशतं ।
त्रिशत्यम्, त्रिशतं । ।


____________________________________________________________________


[#४७५]

  1. <द्वि-त्रि-पूर्वादण्च># । । PS_५,१.३६ । ।



_____Sठाऱ्ठ्JKव्_५,१.३६ः

शाणाद्वा (*५,१.३५) इत्येव ।
द्वि-त्रि-पूर्वाच्छाणान्तात्प्रातिपदिकादार्हीयेष्वर्थेषु अण्प्रत्ययो भवति, चकाराद्यच्च वा ।
तेन त्रैरूप्यं समद्यते ।
द्वैशाणम्, द्विशाण्यम्, द्विशाणं ।
त्रैशाणम्, त्रिशाण्यम्, त्रिशाणं ।
परिमाणान्तस्य असञ्ज्ञाशाणयोः (*७,३.१७) इति पर्युदासादिवृद्धिरेव भवति । ।


____________________________________________________________________


  1. <तेन क्रीतम्># । । PS_५,१.३७ । ।


_____Sठाऱ्ठ्JKव्_५,१.३७ः

ठञादयस्त्रयोदश प्रत्ययाः प्रकृताः ।
तेषां इतः प्रभृति समर्थ-विभक्तयः प्रत्ययार्थाश्च निर्दिश्यन्ते तेन इति तृतीयासमर्थात्क्रीतं इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति ।
सप्तत्या क्रीतं साप्ततिकं ।
आशीतिकं ।
नैष्किकं ।
पाणिकं ।
पादिकं ।
माषिकं ।
शत्यं ।
शतिकं ।
द्विकं ।
त्रिकं ।
तेन इति मूल्यात्करणे तृतीया समर्थ-विभक्तिः ।
अन्यत्रानभिधानान्न भवति, देवदत्तेन क्रीतम्, पाणिना क्रीतं इति ।
द्विवचन-बहुवचन-अन्तात्प्रतययो न भवति, प्रस्थाभ्यां क्रीतम्, प्रस्थैः क्रीतं इति, अनभिधानादेव ।
यत्र तु प्रकृत्यर्थस्य सङ्ख्याभेदावगमे प्रमाणं अस्ति तत्र द्विवचन-बहुवचन-अन्तादपि प्रत्ययो भवति ।
द्वाभ्यां क्रीतं द्विकं ।
त्रिकं ।
पञ्चकं ।
तथा मुद्गैः क्रीतं मौद्गिकं ।
माषिकं ।
न ह्येकेन मुद्गेन क्रयः सम्भवति । ।


____________________________________________________________________


  1. <तस्य निमित्तं संयोग-उत्पातौ># । । PS_५,१.३८ । ।



_____Sठाऱ्ठ्JKव्_५,१.३८ः

तस्य इति षष्ठीसमर्थात्निमित्तं इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यत्तन्निमित्तं संयोगश्चेत्स भवति उत्पातो वा संयोगः सम्बन्धः प्राणिनां शुभाशुभसूचकः ।
महाभूत-परिणामः उत्पातः शतस्य निमित्त धनपतिना संयोगः शत्यः, शतिकः ।
साहस्रः ।
उत्पतः खल्वपि - शतस्य निमित्तं उत्पातः दक्षिणाक्षिस्पन्दनं शत्यम्, शतिकं ।
साहस्रं ।
तस्य निमित्त-प्रकरणे वातपित्तश्लेष्मभ्यः शमनकोपनयोरुपसङ्ख्यानं ।
वातस्य शमनं कोपनं वा वातिकं ।
पैत्तिकं ।
श्लैष्मिकं ।
सन्निपाताच्च+इति वक्तव्यं ।
सान्निपातिकं । ।


____________________________________________________________________


  1. <गोद्व्यचोऽसङ्ख्या-परिमाण-अश्व-अदेर्यत्># । । PS_५,१.३९ । ।



_____Sठाऱ्ठ्JKव्_५,१.३९ः

गोशब्दाद्द्व्यचश्च प्रातिपदिकात्सङ्ख्या-परिमाण-अश्वादिविवर्जितात्यत्प्रत्ययो भवति तस्य निमित्तं संयोग-उत्पातौ (*५,१.३८) इत्येतस्मिन्नर्थे ।
ठञादीनां अपवादः ।
गोः निमित्तं संयोगः उत्पातो वा गव्यः ।

[#४७६]

द्व्यचः खल्वपि - धन्यं ।
स्वर्ग्यं ।
यशस्यं ।
आयुष्यं ।
असङ्ख्या-परिमाण-अश्वादेरिति किं ? पञ्चानां निमित्तं पञ्चकं ।
सप्तकं ।
अष्टकं ।
परिमाण - प्रास्थिकं ।
खारीकं ।
अश्वादि - आश्विकः ।
ब्रह्मवर्चसादुपसङ्ख्यानं ।
ब्रह्मवर्चसस्य निमित्तं गुरुणा संयोगः ब्रह्मवर्चस्यं ।
अश्व ।
अश्मन् ।
गण ।
ऊर्णा ।
उमा ।
वसु ।
वर्ष ।
भङ्ग ।
अश्वादिः । ।


____________________________________________________________________


  1. <पुत्राच्छ च># । । PS_५,१.४० । ।



_____Sठाऱ्ठ्JKव्_५,१.४०ः

पुत्र-शब्दाच्छः प्रत्ययो भवति, चकाराद्यत्च तस्य निमित्तं संयोग+उत्पातौ (*५,१.३८) इत्येतस्मिन्विषये ।
द्व्यचः इति नित्ये यति प्राप्ते वचनं ।
पुत्रस्य निमित्तं संयोगः उत्पातो वा पुत्रीयम्, पुत्र्यं । ।


____________________________________________________________________


  1. <सर्वभूमि-पृथिवीभ्यां अणञौ># । । PS_५,१.४१ । ।



_____Sठाऱ्ठ्JKव्_५,१.४१ः

सर्वभूमि-पृथिवी-शब्दाभ्यां यथासङ्ख्यं अणञौ प्रत्ययु भवतः तस्य निमित्तं संयोग-उत्पातौ (*५,१.३८) इत्येतस्मिन्विषये ।
ठकोऽपवादौ ।
सर्वभूमेर्निमित्तं संयोग उत्पातो वा सार्वभ्ॐअः ।
पार्थिवः ।
सर्वभूमेः अनुशतिकादि पाठादुभयपद-वृद्धिः । ।


____________________________________________________________________

  1. <तस्य+ईश्वरः># । । PS_५,१.४२ । ।



_____Sठाऱ्ठ्JKव्_५,१.४२ः

तस्य इति षष्ठीसमर्थाभ्यां सर्वभूमि-पृथिवी-शब्दाभ्यां यथासङ्ख्यं अण्-अञौ प्रत्ययौ भवतः ईश्वरः इत्येतस्मिन्विषये ।
सर्वभूमेः ईश्वरः सार्वभ्ॐअः ।
पार्थिवः ।
षष्ठीप्रकरणे पुनः षष्ठीसमर्थ-विभक्ति-निर्देशः प्रत्ययार्थस्य निवृत्तये ।
अन्यथा संयोगोत्पाताविव ईश्वरोऽपि प्रत्ययार्थस्य निमित्तस्य विशेषणं संभाव्येत । ।


____________________________________________________________________


  1. <तत्र विदित इति च># । । PS_५,१.४३ । ।



_____Sठाऱ्ठ्JKव्_५,१.४३ः

तत्र इति सप्तमीसमर्थाभ्यां सर्वभूमि-पृथिवी-शब्दाभ्यां यथासङ्ख्यं अण्-अञौ प्रत्ययौ भवतः विदितः इत्येतस्मिन्नर्थे ।
विदितो ज्ञातः प्रकाशितः इत्यर्थः ।
सर्वभूमौ विदितः सार्वभ्ॐअः ।
पार्थिवः । ।


____________________________________________________________________

  1. <लोक-सर्वलोकाट्ठञ्># । । PS_५,१.४४ । ।



_____Sठाऱ्ठ्JKव्_५,१.४४ः

लोक-सर्वलोक-शब्दाभ्यां तत्र इति सप्तमीसमर्थाभ्यां विदितः इत्येतस्मिन्विषये ठञ्प्रत्ययो भवति ।
लोके विदितः लौकिकः ।
सार्वलौकिकः ।
अनुशतिकादित्वातुभयपद-वृद्धिः । ।


____________________________________________________________________


[#४७७]

  1. <तस्य वापः># । । PS_५,१.४५ । ।



_____Sठाऱ्ठ्JKव्_५,१.४५ः

तस्य इति षष्ठीसमर्थाद्वापः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति ।
उप्यतेऽस्मिन्वापः क्षेत्रं उच्यते ।
प्रस्थस्य वापः क्षेत्रं प्रास्थिकं ।
द्रौणिकं ।
खारीकं । ।


____________________________________________________________________


  1. <पात्रात्ष्ठन्># । । PS_५,१.४६ । ।



_____Sठाऱ्ठ्JKव्_५,१.४६ः

पात्र-शब्दात्ष्ठन्प्रत्ययो भवति तस्य वापः (*५,१.४५) इत्येतस्मिन्विषये ।
ठञोऽपवादः ।
नकारः स्वरार्थः ।
षकारो ङीष्-अर्थः ।
पात्र-शब्दः परिमाणवाची ।
पात्रस्य वापः पात्रिकं क्षेत्रं ।
पात्रिकी क्षेत्रभक्तिः । ।


____________________________________________________________________

  1. <तदस्मिन्वृद्ध्य्-आय-लाभ-शुल्क-उपदा दीयते># । । PS_५,१.४७ । ।



_____Sठाऱ्ठ्JKव्_५,१.४७ः

तदिति प्रथमासमर्थादस्मिन्निति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति, यत्तत्प्रथमासमर्थं वृद्ध्यादि चेत्तद्दीयते ।
दीयते इत्येकवचनान्तं वृद्ध्यादिभिः प्रत्येकं अभिसम्बध्यते ।
तत्र यदधमर्णेन उत्तमर्णाय मूलधनातिरिक्तं देयं तद्वृद्धिः ।
ग्रामादिषु स्वामिग्राह्यो भागः आयः ।
पटादीनां उपादानमूलादतिरिक्तं द्रव्यं लाभः ।
रक्षानिर्वेशो राजभागः शुल्कः ।
उत्कोचौपदा ।
पञ्च अस्मिन्वृद्धिर्वा आयो वा लाभो वा शुल्को वा उपदा वा दीयते पञ्चकः ।
सप्तकः ।
शत्यः, शतिकः ।
साहस्रः । ।
चतुर्थ्यर्थ उपसङ्ख्यानं ।
पञ्च अस्मै वृद्धिर्वा आयो वा लाभो वा उपदा वा दीयते पज्चको देवदत्तः ।
सिद्धं त्वधिकरणत्वेन विवक्षितत्वाथ् ।
सममब्राह्मणे दानं इति यथा । ।


____________________________________________________________________


  1. <पूरण-अर्धाट्ठन्># । । PS_५,१.४८ । ।



_____Sठाऱ्ठ्JKव्_५,१.४८ः

पूरण-वाचिनः शब्दातर्ध-शब्दाच्च ठन्प्रत्ययो भवति तदस्मिन्वृद्ध्य्-आय. लाभशुल्क-उपदा दीयते (*५,१.४७) इत्येतस्मिन्नर्थे ।
यथायथं ठक्टिठनोरपवादः ।
द्वितीयो वृद्ध्यादिरस्मिन्दीयते द्वितीयिकः ।
तृतीयिकः ।
पञ्चमिकः ।
सप्तमिकः ।
अर्धिकः ।
अर्ध-शब्दो रुपकार्धस्य रूढिः । ।


____________________________________________________________________


  1. <भागाद्यच्च># । । PS_५,१.४९ । ।



_____Sठाऱ्ठ्JKव्_५,१.४९ः

भाग-शदाद्यत्प्रत्ययो भवति, चकारात्ठन्च, तदस्मिन्वृद्ध्य्-आय-लाभशुल्क-उपदा दीयते (*५,१.४७) इत्येतस्मिन्नर्थे ।
ठञोऽपवादः ।
भागो ।
वृद्ध्यादिरस्मिन्दीयते भाग्यं, भागिकं शतं ।
भाग्या, भागिका विंशतिः ।
भाग-शब्दोऽपि रूपकार्धस्य वाचकः । ।


____________________________________________________________________


[#४७८]

  1. <तद्धरति वहव्त्यावहति भाराद्वंशादिभ्यः># । । PS_५,१.५० । ।



_____Sठाऱ्ठ्JKव्_५,१.५०ः

तदिति द्वितीयासमर्थाद्धरत्य्-आदिष्वर्थेषु यथाविहितं प्रत्ययो भवति ।
प्रकृति-विशेषणं भाराद्वंशादिभ्यः इति ।
वंशादिभ्यः परो यो भार-शब्दः तदन्तात्प्रातिपदिकातिति ।
वंशभारं हरति वहति आवहति वा वांशभारिकः ।
कौटजभारिकः ।
बाल्वजभारिकः ।
भारातिति किं ? वंशं हरति ।
वंशादिभ्यः इति किं ? व्रीहिभारं हरति ।
अपरा वृत्तिः - भाराद्वंशादिभ्यः इति, भारभूतेभ्यो वंशादिभ्यः इत्यर्थः ।
भार-शब्दोऽर्थद्वारेण वंशादीनां विशेषणं ।
भारभूतान्वंशान्हरति वांशिकः ।
कौटजिकः ।
बाल्वजिकः ।
भारातिति किं ? वंशं हरति ।
वंशादिभ्याः इति किं ? भारभूतान्व्रीहीन्वहति ।
सूत्रार्थद्वयं अपि च+एतदाचार्येण शिष्याः प्रतिपादिताः ।
तदुभयं अपि ग्राह्यं ।
हरति देशान्तरं प्रापयति चोरयति वा ।
वहत्युत्क्षिप्य धारयति इत्यर्थः ।
आवहति उत्पादयति इत्यर्थः ।
वंश ।
कुटज ।
बल्वज ।
मूल ।
अक्ष ।
स्थूणा ।
अश्मन् ।
अश्व ।
इक्षु ।
खट्वा ।
वंशादिः । ।


____________________________________________________________________


  1. <वस्न-द्रव्याभ्यां ठन्-कनौ># । । PS_५,१.५१ । ।



_____Sठाऱ्ठ्JKव्_५,१.५१ः

वस्न-द्रव्य-शब्दाभ्यां द्वितीयासमर्थाभ्यां यथासङ्ख्यं ठन्कनित्यैतौ प्रत्ययौ भवतो हरत्यादिष्वर्थेषु ।
वस्नं हरति वहति वा वस्निकः ।
द्रव्यकः । ।


____________________________________________________________________

  1. <सम्भवत्यवहरति पचति># । । PS_५,१.५२ । ।



_____Sठाऱ्ठ्JKव्_५,१.५२ः

ततिति द्वितीया समर्थ-विभक्तिरनुवर्तते ।
तदिति द्वितियासमर्थात्सम्भवत्यादिष्वर्थेषु यथाविहितं प्रत्ययो भवति ।
तत्र अधेयस्य प्रमाणानतिरेकः सम्भवः ।
उपसंहरणं अवहारः ।
विक्लेदनं पाकः ।
प्रस्थं सम्भवति अवहरति पचति वा प्रास्थिकः ।
कौडविकः ।
खारीकः ।
ननु च पाके च सम्भवोऽस्ति ? न अस्त्यत्र नियोगः ।
प्रस्थं पचति ब्राह्मणी प्रास्थिकी ।
तत्पचति इति द्रोणादण्च ।
द्रोणं पचति द्रौणी, द्रौणिकी । ।


____________________________________________________________________


[#४७९]

  1. <आढक-आचित-पात्रात्खोऽन्यतरस्याम्># । । PS_५,१.५३ । ।



_____Sठाऱ्ठ्JKव्_५,१.५३ः

आढक-आचित-पात्र-शदेभ्यो द्वितीयासमर्थभ्योऽन्यतरस्यां संभवादिष्वर्थेषु खः भवति ।
ठञोऽपवादः ।
पक्षे सोऽपि भवति ।
आढकं संभवति अवहरति पचति वा आढकीना, आढकिकी ।
आचितीना, आचितिकी ।
पात्रीणा, पात्रिकी । ।


____________________________________________________________________


  1. <द्विगोः ष्ठंश्च># । । PS_५,१.५४ । ।



_____Sठाऱ्ठ्JKव्_५,१.५४ः

आढकाचितपात्रातित्येव ।
आढक-आचित-पात्र-अन्ताद्द्विगोः संभवत्यादिष्वर्थेषु ष्ठन्प्रत्ययो भवति, चकारात्खः, अन्यतरस्यां ।
विधानसामर्थ्यादेव अनयोर्लुक्न भवति ।
ठञस्तु पक्षेऽनुज्ञातस्य अध्यर्ध-पूर्व-द्विगोः इति लुग्भवत्येव ।
नकारः स्वरार्थः ।
षकारो ङीष्-अर्थः ।
द्व्याढकिकी, द्व्याढकीना, द्व्याढकी ।
द्व्याचितिकी, द्व्याचितीना, द्व्याचिता ।
अपरिमाण-विब्स्त-आचितेति ङीपः प्रतिषेधः ।
द्विपात्रिकी, द्विपात्रीणा, द्विपात्री । ।


____________________________________________________________________


  1. <कुलिजाल्लुक्खौ च># । । PS_५,१.५५ । ।



_____Sठाऱ्ठ्JKव्_५,१.५५ः

द्विगोः इत्येव ।
कुलिज-शब्दानताद्द्विगोः संभवत्यादिष्वर्थेषु लुक्खौ भवतः ।
चकारात्ष्ठन्च ।
अन्यतरस्यां ग्रहण-अनुवृत्त्या लुगपि विकल्प्यते ।
ठञः पक्षे श्रवणं भवति ।
तेन चातूरूप्यं संपद्यते ।
द्वे कुलिजे संभवति अवहरति पचति वा द्विकुलिजिकि, द्विकुलिजीना, द्विकुलिजी, द्वैकुलिजिकि ।
परिमाणान्तस्य असंज्ञाशाणयोः (*७,३.१७) इत्यत्र कुलिज-ग्रहणं अपीष्यते, तेन+उत्तरपद-वृद्धिरपि न भवति । ।


____________________________________________________________________


  1. <सोऽस्य अंश-वस्न-भृतयः># । । PS_५,१.५६ । ।



_____Sठाऱ्ठ्JKव्_५,१.५६ः

स इति प्रथमासमर्थातस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत्प्रथमासमर्थं अंशवस्नभृतयश्चेत्ता भवति ।
अंशो भागः ।
वस्नं मूल्यं ।
भृतिर्वेतनं ।
पञ्च अंशो वस्नो वा भृतिर्वास्य पञ्चकः ।
सप्तकः ।
साहस्रः । ।


____________________________________________________________________


  1. <तदस्य परिमाणम्># । । PS_५,१.५७ । ।



_____Sठाऱ्ठ्JKव्_५,१.५७ः

ततिति प्रथमासमर्थातस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत्प्रथमासमर्थं परिमाणं चेत्तद्भवति ।
प्रस्थः परिमाणं अस्य प्रास्थिको राशिः ।
खारशतिकः ।
शत्यः, शतिकः ।
साहस्रः ।
द्रौणिकः ।
कौडविकः ।
वर्षशतं परिमाणमस्य वार्षशतिकः ।
वार्षसहस्रिकः ।
षष्टिर्जीवितपरिमाणं अस्य इति षाष्टिकः ।
साप्ततिकः ।
समर्थविभक्तिः प्रत्ययार्थश्च पूर्वसूत्रादेव अनुवर्तिष्यते, किं अर्थं पुनरनयोरुपादानं ? पुनर्विधानार्थं ।
द्वे षष्टी जीवितपरिमाणं अस्य द्विषाष्टिकः ।
द्विसाप्ततिकः ।
पुनर्विधान-सामर्थ्यादध्यर्ध-पूर्वद्विगोर्लुक्न भवति । ।


____________________________________________________________________


[#४८०]

  1. <सङ्ख्यायाः सञ्ज्ञा-सङ्घ-सूत्र-अध्ययनेषु># । । PS_५,१.५८ । ।



_____Sठाऱ्ठ्JKव्_५,१.५८ः

तदस्य परिमाणं (*५,१.५७) इति वर्तते ।
सङ्ख्या-वाचिनः प्रातिपदिकात्परिमाणोपाधिकात्प्रथमासमर्थादस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति ।
सञ्ज्ञा-सङ्घ-सूत्र-अध्ययनेषु इति प्रत्ययार्थ-विशेषणं ।
तत्र सञ्ज्ञायां स्वार्थे प्रत्ययो वाच्यः ।
पञ्चैव पञ्चकाः शकुनयः ।
त्रिकाः शालङ्कायनाः ।
सङ्घ - पञ्च परिमाणं अस्य पञ्चकः सङ्घः ।
अष्टकः ।
सूत्र - अष्टौ अध्यायाः परिमाणं अस्य सूत्रस्य अष्टकं पाणिनीयं ।
दशकं वैयाघ्रपदीयं ।
त्रिकं काशकृत्स्नं ।
ननु च अध्यायसमूहः सूत्रसङ्घ एव भवति ? न+एतदस्ति ।
प्राणिसमूहे सङ्घ-शब्दो रूढः ।
अध्ययन - पञ्चकोऽधीतः ।
सप्तकोऽधीतः ।
अष्टकः ।
अनवकः ।
अधीतिरध्ययनं ।
तस्य सङ्ख्यापरिमाणं पञ्चावृत्तयः पञ्चवाराः पञ्च रूपाणि अस्य अध्ययनस्य पञ्चकं अध्ययनं ।
स्तोमे डविधिः पञ्चदशाद्य्-अर्थः ।
पञ्चदश मन्त्राः परिमाणं अस्य पञ्चदशः स्तोमः ।
सप्तदशः ।
एकविंशः ।
शन्शतोर्डिनिश्छन्दसि ।
पञ्चदशिनोऽर्धमासाः त्रिंशिनो मासाः ।
विंशतेश्च+इति वक्तव्यं ।
विंशिनोऽङ्गिरसः । ।


____________________________________________________________________


  1. <पङ्क्ति-विंशति-त्रिंशच्-चत्वारिंशत्-पञ्चाशत्-षष्टि-सप्तत्य्-अशीति-नवति-शतम्># । । PS_५,१.५९ । ।



_____Sठाऱ्ठ्JKव्_५,१.५९ः

तदस्य परिमाणं (*५,१.४७) इति वर्तते ।
पङ्क्त्यादयः शब्दा निपात्यन्ते ।
यदिह लक्षणेन अनुपपन्नं तत्सर्वं निपातनात्सिद्धं ।
पञ्चाना टिलोपः तिश्च प्रत्ययः ।
पञ्च परिमाणं अस्य पङ्क्तिश्छन्दः ।
द्वयोर्दशतोः विन्भावः शतिश्च प्रत्ययः द्वौ दशतौ प्रैमाणं अस्य सङ्घस्य विंशतिः ।
त्रयाणां दशतां त्रिन्भावः शत्च प्रत्ययः ।
त्रयो दशतः परिमाणं अस्य त्रिंशथ् ।
चतुर्णां दशतां चत्वारिन्भावः शत्च प्रत्ययः ।
चत्वारो दशतः परिमाअणस्य चत्वारिंशथ् ।
पञ्चानां दशतां पञ्चाभावः शत्च प्रत्ययः ।
पञ्च दशतः परिमाणां अस्य पञ्चाशथ् ।
षण्णां दशतां षड्भावः, तिः प्रत्ययोऽपदत्वं च ।
षङ्दशतः परिमाणं अस्य षष्टिः ।
सप्तानां दशतां सप्तभावः तिः प्रत्ययश्च ।
सप्त दशतः परिमाणं अस्य सप्ततिः ।

[#४८१]

अष्टानां दशतां अशीभावः तिः प्रत्ययश्च ।

[#४८०]

अष्टौ दशतः परिमाणं अस्य अशीतिः ।
नवानां दशतां नवभावः तिः प्रत्ययश्च ।
नव दशतः परिमाणं अस्य नवतिः ।
दशनां दशतां शभावः तश्च प्रत्ययः ।
दश दशतः परिमाणं अस्य सङ्घस्य शतं ।
विंशत्यादयो गुण-शब्दाः, ते यथा कथंचिद्व्युत्पाद्याः ।
न अत्र अवयवार्थेऽभिनिवेष्टव्यं ।
तथा हि - पङ्क्तिः इति क्रमसम्निवेशेऽपि वर्तते, ब्राह्मणपङ्क्तिः, पपीलिकापङ्क्तिः इति ।
न च अत्र अवयवार्थः कश्चिदस्ति ।
या च+एषां विषयभेदेन गुण-मात्रे गुणिनि च वृत्तिः, स्वलिङ्ग-सङ्ख्य-अनुविधानं च, एतदपि सर्वं स्वाभाविकं एव ।
सहस्रादयोऽप्येवं जातियकाः तद्वदेव द्रष्टव्याः ।
उदाहरणमात्रं एतदिति । ।


____________________________________________________________________


[#४८१]

  1. <पञ्चद्-दशतौ वर्गे वा># । । PS_५,१.६० । ।



_____Sठाऱ्ठ्JKव्_५,१.६०ः

पञ्चत्दशतित्येतौ निपात्येते तदस्य अप्रिमाणं इत्यस्मिन्विषये वर्गेऽभिधेये ।
सङ्ख्यायाः इति कनि प्राप्ते डतिर्निपात्यते ।
वावचनात्पक्षे सोऽपि भवति ।
पञ्च परिमाणस्य पञ्चद्वर्गः ।
दशद्वर्गः ।
पञ्चको वर्गः ।
दशको वर्गः । ।


____________________________________________________________________


  1. <सप्तनोऽञ्छन्दसि># । । PS_५,१.६१ । ।



_____Sठाऱ्ठ्JKव्_५,१.६१ः
वर्गे इत्येव, तदस्य परिमानं इति च ।
सप्तन्शब्दाच्छन्दसि विषयेऽञ्प्रत्ययो भवति वर्गेऽभिधेये ।
सप्त साप्तानि असृजत् । ।


____________________________________________________________________


  1. <त्रिंशच्-चत्वारिंशतोर्ब्राह्मणे सञ्ज्ञायां डण्># । । PS_५,१.६२ । ।



_____Sठाऱ्ठ्JKव्_५,१.६२ः

तदस्य परिमाणं इत्येव ।
वर्गे इति निवृत्तं ।
त्रिंशच्-चत्वरिंशच्-छब्दाभ्यां सञ्ज्ञायां विषये डण्प्रत्ययो भवति तदस्य परिमाणं इत्येतस्मिन्विषये ब्राह्मणेऽभिधेये ।
अभिधेयसप्तमी एषा, न विषयसप्तमी ।
तेन मन्त्रभाषयोरपि भवति ।
त्रिंशद्-अध्यायाः परिमाणं एषां ब्राहमणानां त्रैशानि ब्राह्मणानि ।
चात्वारिंशानि ब्राह्मणानि ।
कानिचिदेव ब्राह्मणान्युच्यन्ते । ।


____________________________________________________________________


  1. <तदर्हति># । । PS_५,१.६३ । ।



_____Sठाऱ्ठ्JKव्_५,१.६३ः

ततिति द्वितीयासमर्थादर्हति इत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति ।
श्वेतच्छत्रं अर्हति श्वैतछत्रिकः ।
वास्त्रयुग्मिकः ।
शत्यः, शतिकः ।
साहस्रः । ।


____________________________________________________________________


[#४८२]

  1. <छेद-आदिभ्यो नित्यम्># । । PS_५,१.६४ । ।



_____Sठाऱ्ठ्JKव्_५,१.६४ः

नित्य-ग्रहणं प्रत्ययार्थ-विशेषणं ।
छेद-आदिभ्यो द्वितीयासमर्थेभ्यो नित्यं अर्हति इत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति ।
छेदं नित्यं अर्हति छैदिकः ।
भैदिकः ।
छेद ।
भेद ।
द्रोह ।
दोह ।
वर्त ।
कर्ष ।
संप्रयोग ।
विप्रयोग ।
प्रेषण ।
संप्रश्न ।
विप्रकर्ष ।
विराग विरङ्गं च ।
वैरङ्गिकः । ।


____________________________________________________________________


  1. <शीर्षच्छेदाद्यच्च># । । PS_५,१.६५ । ।



_____Sठाऱ्ठ्JKव्_५,१.६५ः

शीर्षच्छेद-शब्दाद्द्वितीयासमर्थान्नित्यं अर्हति इत्यस्मिन्नर्थे यत्प्रत्ययो भवति ।
चकाराद्यथाविहितं च ।
शिरश्छेदं नित्यं अर्हति शीर्षच्छेद्यः, शैर्षच्छेदिकः ।
प्रत्ययसंनियोगेन शिरसः शीर्षभावो निपात्यते । ।


____________________________________________________________________


  1. <दण्दादिभ्यः># । । PS_५,१.६६ । ।



_____Sठाऱ्ठ्JKव्_५,१.६६ः

नित्यं इति निवृत्तं ।
दण्डादिभ्यो द्वितियासमर्थेभ्यः अर्हति इत्यस्मिन्नर्थे यत्प्रत्ययो भवति ।
ठकोऽपवादः ।
दण्डं अर्हति दण्ड्यः ।
मुसल्यः ।
दण्ड ।
मुसल ।
मधुपर्क ।
कशा ।
अर्घ ।
मेधा ।
मेघ ।
युग ।
उदक ।
वध ।
गुहा ।
भाग ।
इभ ।
दण्डादिः । ।


____________________________________________________________________


  1. <छन्दसि च># । । PS_५,१.६७ । ।


_____Sठाऱ्ठ्JKव्_५,१.६७ः

प्रातिपदिकमात्राच्छन्दसि विषये तदर्हति इत्यस्मिन्नर्थे यत्प्रत्ययो भवति ।
ठञादीनां अपवादः ।
उदक्या वृत्तयः ।
यूप्यः पलाशः ।
गर्त्यो देशः । ।


____________________________________________________________________


  1. <पात्राद्घंश्च># । । PS_५,१.६८ । ।



_____Sठाऱ्ठ्JKव्_५,१.६८ः

पात्र-शब्दाद्घन्प्रत्ययो भवति चकाराद्यत्च, तदर्हति इत्यस्मिन्नर्थे ।
ठक्ठञोरपवादः ।
पात्रं परिमाणं अप्यस्ति ।
पात्रं अर्हति पात्रियः ।
पात्र्यः । ।


____________________________________________________________________


  1. <कडङ्करदक्षिणाच्छ च># । । PS_५,१.६९ । ।



_____Sठाऱ्ठ्JKव्_५,१.६९ः

कडङ्करदक्षिणा-शब्दाभ्यां छः प्रत्ययो भवति, चकाराद्यत्च, तदर्हति इत्यस्मिन्विषये ।
ठकोऽपवादः ।
कडङ्करं अर्हति कडङ्करीयो गौः, कडङ्कर्यः ।
दक्षिणां अर्हति दक्षिणीयो भिक्षुः, दक्षिण्यो ब्राह्मणः ।
दक्षिणशब्दस्य अल्पाच्तरस्य अपूर्वनिपातेन लक्षणव्यभिचारचिह्नेन यथासङ्ख्याभावं सूचयति । ।

____________________________________________________________________


[#४८३]

  1. <स्थालीबिलात्># । । PS_५,१.७० । ।



_____Sठाऱ्ठ्JKव्_५,१.७०ः

छयतौ अनुवर्त्तेते स्थालीबिल-शब्दाच्छयतौ प्रत्ययौ भवतः तदर्हति इत्यस्मिन्नर्थे ।
ठकोऽपवादौ ।
स्थालीबिमलर्हन्ति स्थालीबिलीयाः तण्डुलाः, स्थालीबिल्याः ।
पाक्योग्याः इत्यर्थः । ।


____________________________________________________________________


  1. <यज्ञ-र्त्विग्भ्यां घ-खञौ># । । PS_५,१.७१ । ।



_____Sठाऱ्ठ्JKव्_५,१.७१ः

यज्ञ-शब्दादृत्विक्-शब्दाच्च यथासङ्ख्यं घ-खञौ प्रत्ययौ भवतः तदर्हति इत्यस्मिन्विषये ।
ठकोऽपवादौ ।
यज्ञियो ब्राह्मणः ।
आर्त्विजीनो ब्राह्मणः ।
यज्ञ-र्त्विग्भ्यां तत्कर्मार्हति इत्युपसङ्ख्यानं ।
यज्ञकर्म अर्हति यज्ञियो देशः ।
ऋत्विक्कर्म अर्हति आर्त्विजीनं ब्राह्मणकुलं ।
अर्हीयाणां ठगादीनां पूर्णोऽवधिः ।
अतः परं प्राग्वतीयः ठञेव भवति । ।


____________________________________________________________________

  1. <पारायण-तुरायण-चाद्न्रायणं वर्तयति># । । PS_५,१.७२ । ।



_____Sठाऱ्ठ्JKव्_५,१.७२ः

समर्थविभक्तिरनुवर्तते ।
अर्हति इति निवृत्तं ।
पारायण-अदिभ्यो द्वितीयासमर्थेभ्यः वर्तयति इत्यस्मिन्नर्थे ठञ्प्रत्ययो भवति ।
पारायणं वर्तयति अधीते पारायणिकश्छात्रः ।
तौरायणिको यजमानः ।
चान्द्रायणिकस्तपस्वी । ।


____________________________________________________________________


  1. <संशयमापन्नः># । । PS_५,१.७३ । ।



_____Sठाऱ्ठ्JKव्_५,१.७३ः

संशय-शब्दाद्द्वितीयासमर्थातापन्नः इत्येतस्मिन्नर्थे ठञ्प्रत्ययो भवति ।
संशयं आपन्नः प्राप्तः सांशयिकः स्थाणुः । ।


____________________________________________________________________


  1. <योजनं गच्छति># । । PS_५,१.७४ । ।



_____Sठाऱ्ठ्JKव्_५,१.७४ः

योजन-शब्दात्द्वितीयासमर्थाद्गच्छति इत्यस्मिन्नर्थे ठञ्प्रत्ययो भवति ।
योजनं गच्छति यौजनिकः ।
क्रोशशतयोजनशतयोरुपसङ्ख्यानं ।
क्रोशशतं गच्छति क्रौशशतिकः ।
यौजनशतिकः ।
ततोऽभिगमनं अर्हति इति च क्रोशशतयोजनशतयोरुपसङ्ख्यानं ।
क्रोशशतादभिगमनं अर्हति क्रौशशतिको भिक्षुः ।
यौजनशतिक आचार्यः । ।


____________________________________________________________________


[#४८४]

  1. <पथः ष्कन्># । । PS_५,१.७५ । ।



_____Sठाऱ्ठ्JKव्_५,१.७५ः

पथिन्-शब्दाद्द्वितीयासमर्थाद्गच्छति इत्यस्मिन्नर्थे ष्कन्प्रत्ययो भवति ।
नकारः स्वरार्थः ।
षकारो ङीष्-अर्थः ।
पन्थानं गच्छति पथिकः ।
पथिकी । ।


____________________________________________________________________


  1. <पन्थो ण नित्यम्># । । PS_५,१.७६ । ।



_____Sठाऱ्ठ्JKव्_५,१.७६ः

नित्य्-अग्रहणं प्रत्ययार्थ-विशेषणं ।
पथः पन्थ इत्ययं आदेशो भवति णश्च प्रत्ययो नित्यं गच्छति इत्यस्मिन्विषये ।
पन्थानं नित्यं गच्छति पान्थो भिक्षां याचते ।
नित्यं इति किं ? पथिकः । ।


____________________________________________________________________

  1. <उत्तरपथेनाहृतं च># । । PS_५,१.७७ । ।



_____Sठाऱ्ठ्JKव्_५,१.७७ः

निर्देशादेव समर्थविभक्तिः ।
उत्तरपथ-शब्दाद्तृतीयासमर्थाताहृतं इत्येतस्मिन्विषये ठञ्प्रत्ययो भवति ।
चकारः प्रत्ययार्थसं उच्चये, गच्छति इति च ।
अत्र अपि तृतीया+एव समर्थविभक्तिः ।
उत्तरपथेन-आहृतं औत्तरपथिकं ।
उत्तरपथेन गच्छति औत्तरपथिकः ।
आहृत-प्रकरणे वारिजङ्गलस्थल्कान्तारपूर्वपदादुपसङ्ख्यानं ।
वारिपथेन आहृतं वारिपथिकं ।
वारिपथेन गच्छति वारिपथिकः ।
जङ्गलपथेन आहृतं जाङ्गलपथिकं ।
जङ्गलपथेन गच्छति जाङ्गलपथिकः ।
स्थलपथेन आहृतं स्थालपथिकं ।
स्थलपथेनगच्छति स्थालपथिकः ।
कान्तारपथेन आहृतं कान्तारपथिकं ।
कान्तारपथेन गच्छति कान्तारपथिकः ।
अजपथशङ्कुपथाभ्यां च+उपसङ्ख्यानं ।
अजपथेन आहृतं आजपथिकम्, गच्छति वा आजपथिकः ।
शङ्कुपथेन आहृतं शाङ्कुपथिकं ।
गच्छति वा शाङ्कुपथिकः ।
मधुकमरिचयोरण्स्थलाथ् ।
स्थलपथेन आहृतं स्थालपथं मधुकं । ।


____________________________________________________________________


  1. <कालात्># । । PS_५,१.७८ । ।



_____Sठाऱ्ठ्JKव्_५,१.७८ः

कालातित्यधिकारः ।
यदित ऊर्ध्वं अनुक्रमिष्यामः कालातित्येवं तद्वेदितव्यं ।

____________________________________________________________________


वक्ष्यति - #<तेन विर्वृत्तम्># । । PS_५,१.७९ । ।


_____Sठाऱ्ठ्JKव्_५,१.७९ः

मासेन निर्वृत्तं मासिकं ।
आर्धमासिकं ।
सांवत्सरिकं ।
कालातित्यधिकारः व्युष्ट-आदिभ्योऽण्(*५,१.९७) इति यावत् । ।


[#४८५]

तेन निर्वृत्तं (*५,१.७९) ।
तेन इति तृतीयासमर्थात्काल-वाचिनः प्रातिपदिकात्विर्वृत्तं इत्यस्मिन्नर्थे ठञ्प्रत्ययो भवति ।
अह्ना विर्वृत्तं आह्निकं ।
आर्धमासिकं ।
सांवत्सरिकं । ।


____________________________________________________________________


  1. <तं अधीष्टो भृतो भूतो भावी># । । PS_५,१.८० । ।



_____Sठाऱ्ठ्JKव्_५,१.८०ः

तं इति द्वितीयासमर्थात्कालवाचिनः प्रातिपदिकातधीष्टो भृतो भूतो भावी वा इत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति ।
अधीष्टः सत्कृत्य व्यापादितः ।
भृतः वेतनेन क्रीतः ।
भूतः स्वसत्तया व्याप्तकालः ।
भावी तादृश एवानागतः ।
कालाध्वनोरत्यन्तसंयोगे (*२,३.५) इति द्वितीया ।
मासमधीष्टः मासिकोऽध्यापकः ।
मासं भृतः मासिकः कर्मकरः ।
मासं भूतः मासिको व्याधिः ।
मासं भावी मासिकः उत्सवः ।
ननु चाध्येषणं भरणं च मुहूर्तं क्रियते तेन कथं मासो व्याप्यते ? अध्येषणभरणे क्रियार्थे, तत्र फलभूतया क्रियया मासो व्याप्यमानस्ताभ्यां एव व्याप्तः इत्युच्यते । ।


____________________________________________________________________


  1. <मासाद्वयसि यत्खञौ># । । PS_५,१.८१ । ।



_____Sठाऱ्ठ्JKव्_५,१.८१ः

मास-शब्दाद्वयस्यभिधेये यत्खञौ प्रत्ययौ भवतः ।
ठञोऽपवादौ ।
अधीष्टादीनां चतुर्णां अधिकारेऽपि सामर्थ्याद्भूत एव अत्र अभिसम्बध्यते ।
मासं भूतः मास्यः, मासीनः ।
वयसि ति किं ? मासिकं । ।


____________________________________________________________________


  1. <द्विगोर्यप्># । । PS_५,१.८२ । ।



_____Sठाऱ्ठ्JKव्_५,१.८२ः

मासाद्वयसि ति वर्तते ।
मासान्ताद्द्विगोर्यप्प्रत्ययो भवति वयस्यभिधेये ।
द्व्ॐआसौ भूतः द्विमास्यः ।
त्रिमास्यः । ।


____________________________________________________________________

  1. <षण्मासाण्ण्यच्च># । । PS_५,१.८३ । ।



_____Sठाऱ्ठ्JKव्_५,१.८३ः

वयसि इत्येव ।
षण्मास-शब्दाद्वयस्यभिधेये ण्यत्प्रत्ययो भवति, यप्च ।
औत्सर्गिकष्ठञपीष्यते, स चकारेण समुच्चेतव्यः ।
स्वरितत्वाच्चानन्तरोऽनुवर्तिष्यते ।
तेन त्रैऋऊप्यं भवति ।
षाण्मासयः, षण्मास्यः, षाण्मासिकः । ।


____________________________________________________________________


  1. <अवयसि ठंश्च># । । PS_५,१.८४ । ।



_____Sठाऱ्ठ्JKव्_५,१.८४ः

षण्मास-शब्दाद्वयस्यभिधेये ठण्प्रत्ययो भवति ।
चकारेण अनन्तरस्य ण्यतः समुच्चयः क्रियते ।
षण्मासिको रोगः, षाण्मास्यः । ।


____________________________________________________________________


[#४८६]

  1. <समायाः खः># । । PS_५,१.८५ । ।



_____Sठाऱ्ठ्JKव्_५,१.८५ः

अधीष्ट-आदयश्चत्वारोऽर्था अनुवर्तन्ते ।
समा-शब्दाद्द्वितीयास्मार्थादधीष्टादिषु अर्थेषु खः प्रत्ययो भवति ।
ठञोऽपवादः समामधीष्टो भृतो भूतो भावी वा समीनः ।
केचित्तु तेन निर्वृत्तं (*५,१.७९) इति सर्वत्र अनुवर्तयन्ति ।
समया निर्वृत्तः समीनः । ।


____________________________________________________________________


  1. <द्विगोर्वा># । । PS_५,१.८६ । ।



_____Sठाऱ्ठ्JKव्_५,१.८६ः

समायाः खः (*५,१.८५) इत्येव ।
समा-शब्दान्ताद्द्विगोः निर्वृत्तादिसु अर्थेषु पञ्चसु वा खः प्रत्ययो भवति ।
पूर्वेण नित्यःप्राप्तो विकल्प्यते ।
प्राग्वतेः सङ्ख्यापूर्वपदानां तदन्त-ग्रहणं अलुकि (*७,३.१७) इति प्राप्तिरस्त्येव ।
खेन मुक्ते पक्षे ठञपि भवति ।
द्विसमिनः, द्वैसमिकः ।
त्रिसमीनः, त्रैसमिकः । ।


____________________________________________________________________


  1. <रात्र्य्-अहः-संवत्सराच्च># । । PS_५,१.८७ । ।



_____Sठाऱ्ठ्JKव्_५,१.८७ः

रात्रि अहः संवत्सर इत्येवं अन्ताद्द्विगोः निर्वृत्तादिषु अर्थेषु वा खः प्रत्ययो भवति ।
खेन मुक्ते पक्षे ठञपि भवति ।
द्विरात्रीणः, द्वैरात्रिकः ।
त्रिरात्रीणः, त्रैरात्रिकः ।
द्व्यहीनः, द्वैयह्निकः ।
त्र्यहीणः, त्रैयह्निकः ।
द्विसंवत्सरीणः, द्विसांवत्सरिकः ।
त्रिसंवत्सरीणः, त्रिसांवत्सरिकः ।
सङ्ख्यायाः संवत्सरसङ्ख्यस्य च इत्युत्तरपद-वृद्धिः । ।


____________________________________________________________________


  1. <वर्षाल्लुक्च># । । PS_५,१.८८ । ।



_____Sठाऱ्ठ्JKव्_५,१.८८ः

द्विगोः इत्येव ।
वर्षान्ताद्द्विगोर्निर्वृत्तादिष्वर्थेषु वा खः प्रत्ययो भवति ।
पक्षे ठञ् ।
तयोश्च वा लुग्भवति ।
एवं त्रीणि रूपाणि भवन्ति ।
द्विवर्षीणो व्याधिः, द्विवार्षिकः, द्विवर्षः ।
त्रिवर्षीणः, त्रिवार्षिकः, त्रिवर्षः ।
वर्षस्य अभविष्यति (*७,३.१६) इत्युत्तरपद-वृद्धिः ।
भाविनि तु त्रैवर्षिकः । ।


____________________________________________________________________


  1. <चित्तवति नित्यम्># । । PS_५,१.८९ । ।



_____Sठाऱ्ठ्JKव्_५,१.८९ः

चित्तवति प्रत्यय-अर्थेऽभिधेये वर्ष-शब्दान्ताद्द्विगोर्निर्वृत्तादिष्वर्थेषु उत्पन्नस्य प्रत्ययस्य नित्यं लुग्भवति ।
पूर्वेण विकल्पे प्राप्ते वचनं ।
द्विवर्षो दारकः ।
चित्तवति इति किं ? द्विवर्षीणो व्याधिः । ।


____________________________________________________________________

  1. <षष्टिकाः षष्टिरात्रेण पच्यन्ते># । । PS_५,१.९० । ।



_____Sठाऱ्ठ्JKव्_५,१.९०ः

षष्टिक-शब्दो निपात्यते ।
बहुवचनं अतन्त्रं ।
षष्टिरात्र-शब्दात्तृतीयासमर्थात्कन्प्रत्ययो निपात्यते पच्यन्ते इत्येतस्मिन्नर्थे, रात्रि-शब्दस्य च लोपः ।
षष्टिरात्रेण पच्यन्ते षष्टिकाः ।
सञ्ज्ञा एषा धान्यचिशेषस्य ।
तेन मुद्गादिष्वतिप्रसङ्गो न भवति । ।


____________________________________________________________________


[#४८७]

  1. <वत्सरान्ताच्छश्छन्दसि># । । PS_५,१.९१ । ।



_____Sठाऱ्ठ्JKव्_५,१.९१ः

वत्सरान्तात्प्रातिपदिकात्निवृत्तादिष्वर्थेषु छन्दसि विषये छनः प्रत्ययो भवति ।
ठञोऽपवादः ।
इद्वत्सरीयः ।
इदावत्सरीयः । ।


____________________________________________________________________


  1. <संपरिपूर्वात्ख च># । । PS_५,१.९२ । ।



_____Sठाऱ्ठ्JKव्_५,१.९२ः

संपरिपूर्वात्वत्सरान्तात्प्रातिपदिकाच्छन्दसि विषये ।
निर्वृत्तादिष्वर्थेसु खः प्रत्ययो भवति, चकाराच्छश्च ।
संवत्सरीणाः, संवत्सरीया ।
परिवत्सरीणम्, परिवत्सरीया । ।


____________________________________________________________________


  1. <तेन परिजय्य-लभ्य-कार्य-सुकरम्># । । PS_५,१.९३ । ।



_____Sठाऱ्ठ्JKव्_५,१.९३ः

तेन इति तृतीयासमर्थात्कालवाचिनः प्रातिपदिकात्परिजय्य, लभ्य, काय, सुकर इत्येतेष्वर्थेषु ठञ्प्रत्ययो भवति ।
मासेन परिजय्यः, शक्यते जेतुं, मासिको व्याधिः ।
सांवत्सरिकः ।
मासेन लभ्यः मासिकः पटः ।
मासेन कार्यं मासिकं चान्द्रायणं ।
मासेन सुकरः मासिकः प्रासादः । ।


____________________________________________________________________


  1. <तदस्य ब्रह्मचर्यम्># । । PS_५,१.९४ । ।



_____Sठाऱ्ठ्JKव्_५,१.९४ः

तदिति द्वितियासमर्थ-विभक्तिः ।
सा च अत्यन्तसंयोगे ।
अस्य इति प्रत्ययार्थः ।
ब्रहमचर्यं इति द्वाभ्यां अपि सम्बध्यते ।
कालस्य व्यापकं, प्रत्ययार्थस्य च स्वं इति ।
तदिति द्वितीयासमर्थात्कालवाचिनः प्रातिपदिकादस्य इति षष्ठ्यर्थे ठञ्प्रत्ययो भवति, ब्रह्मचर्यं चेद्गम्यते ।
मासं ब्रह्मचर्यमस्य मासिकः ब्रह्मचारी ।
आर्धमासिकः ।
सांवत्सरिकः ।
अपरा वृत्तिः - तदिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठञ्प्रत्ययो भवति, यत्तदस्य इति निर्दिष्टं ब्रह्मचर्यं चेद्तद्भवति ।
मासोऽस्य ब्रहमचर्यसय्मासिकं ब्रहमचर्यं ।
आर्धमासिकं ।
सांवत्सरिकं ।
पूर्वत्र ब्रहमचारी प्रत्ययार्थः, उत्तरत्र ब्रहमचर्यं एव ।
उभयं अपि प्रमाणम्, उभयथा सूत्रप्रणयनाथ् ।
महानाम्न्यादिभ्यः षष्ठीसमर्थेभ्य उपसङ्ख्यानं ।
माहानामिकं ।
गौदानिकं ।
आदित्यव्रतिकं ।
[#४८८]

तच्चरति इति च ।
महानाम्न्य ऋचः, तत्सहचरितं व्रतं तच्छब्देन+उच्यते ।
महानाम्नीश्चरति माहानामिकः ।
आदित्यव्रतिकः ।
गौदानिकः ।
भस्याढे इति पुंबद्भावेन ङीपि निवृत्ते नस्तद्धिते (*६,४.१४४) इति टिलोपः ।
अवान्तरदीक्षादिभ्यो डिनिर्वक्तव्यः ।
अवान्तरदीक्षां चरति अवान्तरदीक्षी ।
तिलव्रती ।
अष्टाचत्वारिंशतो ड्वुंश्च डिनिश्च वक्तव्यः ।
अष्टाचत्वारिंशद्वर्षाणि व्रतं चरति अष्टाचत्वारिंशकः, अष्टाचत्वरिंशी ।
चातुर्मास्यानां यलोपश्च ड्वुंश्च डिनिश्च वक्तव्यः ।
चातुर्मास्यानि चरति चातुर्मासकः, चातुरमासी ।
चतुर्मास्याण्ण्यो यज्ञे तत्र भवे ।
चतुर्षु मासेषु भवानि चातुर्मास्यानि ।
सञ्ज्ञायामण्वक्तव्यः ।
चतुर्षु मासेषु भवा चातुर्मासी पौर्णमासी ।
आषाढी ।
कार्तिकी ।
फाल्गुनी । ।


____________________________________________________________________


  1. <तस्य च दक्षिणा यज्ञाख्येभ्यः># । । PS_५,१.९५ । ।



_____Sठाऱ्ठ्JKव्_५,१.९५ः

तस्य इति षष्ठीसमर्थेभ्यो यज्ञाख्येभ्यो दक्षिणा इत्येतस्मिन्नर्थे ठञ्प्रत्ययो भवति ।
अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकी ।
वाजपेयिकी ।
राजसूयिकी ।
आख्या-ग्रहणं अकालादपि यज्ञवाचिनो यथा सयातिति ।
इतरथा हि कालाधिकारादेकाहद्वादशाहप्रभृतय एव यज्ञा गृह्येरन् ।
प्राग्वतेः सङ्ख्यापूर्वपदानां तदन्तग्रहणं अलुकि (*७,३.१७) इति कालाधिकारेऽपि द्वादशाहादिष्वस्ति प्राप्तिः । ।


____________________________________________________________________


[#४८९]

  1. <तत्र च दीयते कार्यं भववत्># । । PS_५,१.९६ । ।



_____Sठाऱ्ठ्JKव्_५,१.९६ः

तत्र इति सप्तमीसमर्थात्कालवाचिनः प्रातिपदिकाद्दीयते, कार्यं इत्येतयोरर्थयोर्भववत्प्रत्ययो भवति ।
यथा - मासे भवं मासिकं ।
सांवत्सरिकं ।
प्रावृषेण्यं ।
वासन्तिकं ।
वासन्तं ।
हैमनं ।
हैमन्तं ।
हैमन्तिकं ।
शारदं ।
वतिः सर्वसादृश्यार्थः ।
योगविभागश्च अत्र कर्तव्यः, तत्र च दीयते, यज्ञाख्येभ्यः इति ।
आग्निष्टेमिकं भक्तं ।
राजसूयिकं ।
वाजपेयिकं ।
कालाधिकारस्य पूर्णोऽवधिः ।
अतः परं सामान्येन प्रत्ययविधानं । ।


____________________________________________________________________


  1. <व्युष्ट-आदिभ्योऽण्># । । PS_५,१.९७ । ।



_____Sठाऱ्ठ्JKव्_५,१.९७ः

तत्र इति सप्तमीसमर्थेभ्यः व्युष्टादिभ्यः दीयते, कार्यं इत्येतयोरण्प्रत्ययो भवति ।
व्युष्टे दीयते कार्यं वा वैयुष्टं ।
नैत्यं ।
अण्प्रकरणेऽग्निपदादिभ्य उपसङ्ख्यानं ।
आग्निपदं ।
पैलुमूलं ।
किं वक्तव्यम्? न वक्तव्यं ।
अत्र+एव ते पठितव्याः ।
व्युष्ट ।
नित्य ।
निष्क्रमण ।
प्रवेशन ।
तीर्थ ।
सम्भ्रम ।
आस्तरण ।
सङ्ग्राम ।
सङ्घात ।
अग्निपद ।
पीलुमूल ।
प्रवास ।
उपसङ्क्रमण ।
व्युष्टादिः । ।


____________________________________________________________________

  1. <तेन यथाकथाच-हस्ताभ्यां ण-यतौ># । । PS_५,१.९८ । ।



_____Sठाऱ्ठ्JKव्_५,१.९८ः

दीयते, कार्यं इति वर्तते ।
तेन इति तृतीयासमर्थाभ्यां यथाकथाच-हस्त-शब्दाभ्यां यथासङ्ख्यं ण-यतौ प्रत्ययौ भवतः ।
दीयते, कार्यं इत्येतयोरर्थयोः प्रत्येकं अभिसम्बधः, यथासङ्ख्यं न+इष्यते ।
यथाकथाच-शब्दोऽव्ययसमुदायोऽनादरे वर्तते ।
तृतीयार्थमात्रं च अत्र संभवति, न तु तृतीया समर्थविभक्तिः ।
यथाकथाच दीयते कार्यं वा याथाकथाचं ।
हस्तेन दीयते कार्यं वा हस्त्यं । ।


____________________________________________________________________


  1. <सम्पादिनि># । । PS_५,१.९९ । ।



_____Sठाऱ्ठ्JKव्_५,१.९९ः

तेन इत्येव ।
तृतीयासमर्थात्सम्पादिन्यभिधेये ठञ्प्रत्ययो भवति ।
गुणोत्कर्षः सम्पत्तिः ।
आवश्यके णिनिः ।
कर्णवेष्टकाभ्यां संपादि मुखं कार्णवेष्टकिकं मुखं ।
वास्त्रयुगिकं शरीरं ।
वस्त्रयुगेन विशेषतः शोभते इत्यर्थः । ।


____________________________________________________________________


[#४९०]

  1. <कर्म-वेषाद्यत्># । । PS_५,१.१०० । ।


_____Sठाऱ्ठ्JKव्_५,१.१००ः

कर्म-वेष-शब्दाभ्यां तृतीयासमर्थाभ्यां यत्प्रत्ययो भवति सम्पादिनि इत्येतस्मिन्विषये ।
ठञोऽपवादः ।
कर्मणा सम्पद्यते कर्मण्यं शरीरं ।
वेषेण संपद्यते वेष्यो नटः । ।


____________________________________________________________________


  1. <तस्मै प्रथवति सन्ताप-आदिभ्याः># । । PS_५,१.१०१ । ।



_____Sठाऱ्ठ्JKव्_५,१.१०१ः

तस्मै इति चतुर्थीसमर्थेभ्यः सन्तापादिभ्यः प्रभवति इत्यस्मिन्विषये ठञ्प्रत्ययो भवति ।
समर्थः, शक्त प्रभवति इत्युच्यते ।
अलमर्थे चतुर्थी ।
संतापाय प्रभवति सान्तापिकः ।
सान्नाहिकः ।
सन्ताप ।
सन्नाह ।
सङ्ग्राम ।
संयोग ।
संपराय ।
संपेष ।
निष्पेष ।
निसर्ग ।
असर्ग ।
विसर्ग ।
उपसर्ग ।
उपवास ।
प्रवास ।
सङ्घात ।
संमोदन ।
सक्तुमांसौदनाद्विगृहीतादपि । ।

____________________________________________________________________


  1. <योगाद्यच्च># । । PS_५,१.१०२ । ।



_____Sठाऱ्ठ्JKव्_५,१.१०२ः

योग-शब्दात्यत्प्रत्ययो भवति, चकारात्ठञ्, तस्मै प्रभवति इत्यस्मिन्विषये ।
योगाय प्रभवति योग्यः, यौगिकः । ।


____________________________________________________________________


  1. <कर्मण उकञ्># । । PS_५,१.१०३ । ।



_____Sठाऱ्ठ्JKव्_५,१.१०३ः

कर्मन्-शब्दा उकञ्प्रत्ययो भवति तस्मै प्रभवति इत्येतस्मिन्नर्थे ।
ठञोऽपवादः ।
कर्मणे प्रभवति कार्मुकं धनुः ।
धनुषोऽन्यत्र न भवति, अनभिधानात् । ।


____________________________________________________________________


  1. <समयस्तदस्य प्राप्तम्># । । PS_५,१.१०४ । ।



_____Sठाऱ्ठ्JKव्_५,१.१०४ः

समय-शब्दात्ततिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठञ्प्रत्ययो भवति, यत्तत्प्रथमासमर्थं प्राप्तं चेद्तद्भवति ।
समयः प्राप्तोऽस्य सामयिकं कार्यं ।
उपनतकालं इत्यर्थः ।
समर्थविभक्ति-निर्देश उत्तरार्थः । ।


____________________________________________________________________


  1. <ऋतोरण्># । । PS_५,१.१०५ । ।



_____Sठाऱ्ठ्JKव्_५,१.१०५ः

तदस्य प्राप्तं इत्यनुवर्तते ।
ऋतु-शब्दात्तदिति प्रथमासमर्थातस्य इति षष्ठ्यर्थे अण्प्रत्ययो भवति तदस्य प्राप्तं इत्येतस्मिन्विषये ।
ऋतुः प्राप्तोऽस्य आर्तवं पुष्पं ।
तदस्य प्रकरणे उपवस्त्रादिभ्यः उपसङ्ख्यानं ।
उपवस्ता प्राप्तोऽस्य औपवस्त्रं ।
प्राशिता प्राप्तोऽस्य प्राशित्रं । ।


____________________________________________________________________


[#४९१]

  1. <छन्दसि घस्># । । PS_५,१.१०६ । ।


_____Sठाऱ्ठ्JKव्_५,१.१०६ः

ऋतु-शब्दाच्छन्दसि विषये घस्प्रत्ययो भवति तदस्य प्राप्तं इत्यस्मिन्विसये ।
अणोऽपवादः ।
अयं ते योनिरृत्वियः । ।


____________________________________________________________________


  1. <कालाद्यत्># । । PS_५,१.१०७ । ।


_____Sठाऱ्ठ्JKव्_५,१.१०७ः

काल-शब्दात्यत्प्रत्ययो भवति तदस्य प्राप्तं इत्यस्मिन्विषये ।
कालः प्राप्तोऽस्य काल्यः तापः ।
काल्यं शीतं । ।


____________________________________________________________________


  1. <प्रकृष्टे ठञ्># । । PS_५,१.१०८ । ।



_____Sठाऱ्ठ्JKव्_५,१.१०८ः

कालातित्येव, तदस्य इति च ।
प्राप्तं इति निवृत्तं ।
प्रकर्षेण कालो विशेष्यते ।
प्रकर्षे वर्तमानात्कालात्प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठञ्प्रत्ययो भवति ।
प्रकृष्टो दीर्घः कालोऽस्य कालिकमृणं ।
कालिकं वैरं ।
ठञ्-ग्रहणं विस्पष्ट-अर्थं । ।


____________________________________________________________________


  1. <प्रयोजनम्># । । PS_५,१.१०९ । ।



_____Sठाऱ्ठ्JKव्_५,१.१०९ः

तदस्य इत्येव ।
तदिति प्रथमसमर्थातस्य इति षष्थ्यर्थे ठञ्प्रययो भवति, यत्तत्प्रथमासमर्थं प्रयोजनं चेद्तद्भवति ।
इन्द्रमहः प्रयोजनं अस्य ऐन्द्रमहिकं ।
गाङ्गामहिकं । ।

____________________________________________________________________


  1. <विशाखा-अषाढादण्मन्थ-दण्डयोः># । । PS_५,१.११० । ।



_____Sठाऱ्ठ्JKव्_५,१.११०ः

विशाखा-षढा-शब्दाभ्यां अण्प्रत्ययो भवति तदस्य प्रयोजनं इत्येतस्मिन्विषये यथासङ्ख्यं मन्थ-दण्डयोरभिधेययोः ।
विशाखा प्रयोजनं अस्य वैशाखो मन्थः ।
आषाढो दण्डः ।
चूडादिभ्य उपसङ्ख्यानं ।
चूडा प्रयोजनं अस्य चौडं ।
श्रद्धा प्रयोजनं अस्य श्राद्धं । ।


____________________________________________________________________


  1. <अनुप्रवचन-आदिभ्यश्छः># । । PS_५,१.१११ । ।



_____Sठाऱ्ठ्JKव्_५,१.१११ः

अनुप्रवचनादिभ्यः प्रातिपदिकेभ्यः छः प्रत्ययो भवति तदस्य प्रयोजनं इत्यस्मिन्विषये ठञोऽपवादः ।
अनुप्रवचनं प्रयोजनं अस्य अनुप्रवचनीयं ।
उत्थापनीयं ।
विशिपूरिपतिरुहिप्रकृतेरनात्सपूर्वपदादुपसङ्ख्यानं ।
गृहप्रवेशनं प्रयोजनं अस्य गृहप्रवेशनीयं ।
प्रपापूरणीयं ।
अश्वप्रपतिनीयं ।
प्रासादारोहणीयं ।
स्वर्गादिभ्यो यद्वक्तव्यः ।
स्वर्गः प्रयोजनं अस्य स्वर्ग्यं ।
यशस्यं ।
आयुष्यं ।
काम्यं ।
धन्यं ।
[#४९२]

पुण्याहवाचनादीभ्यो लुग्वक्तव्यः ।
पुण्याहवाचनं प्रयोजनं अस्य पुण्याहवाचनं ।
स्वस्तिवाचनं ।
शान्तिवाचनं ।
अनुप्रवचन ।
उत्थापन ।
प्रवेशन ।
अनुप्रवेशन ।
उपस्थापन ।
संवेषन ।
अनुवेशन ।
अनुवचन ।
अनुवादन ।
अनुवासन ।
आरम्भण ।
आरोहण ।
प्ररोहण ।
अन्वारोहण ।
अनुप्रवचनादिः । ।


____________________________________________________________________


  1. <समापनात्सपूर्वपदात्># । । PS_५,१.११२ । ।



_____Sठाऱ्ठ्JKव्_५,१.११२ः

समापन-शब्दात्सपूर्वपदात्विद्यमानपूर्वपदाच्छः प्रत्ययो भवति तदस्य प्रयोजनं इत्येतस्मिन्विषये ।
ठञोऽपवादः ।
छन्दःसमापनं प्रयोजनमस्य छन्दःसमापनीयं ।
व्याकरणसमापनीयं ।
पद-ग्रहणं बहुच्पूर्वनिरासार्थं । ।


____________________________________________________________________


  1. <ऐकागारिकट्चौरे># । । PS_५,१.११३ । ।



_____Sठाऱ्ठ्JKव्_५,१.११३ः

ऐकागारिकटिति निपात्यते चौरेऽभिधेये ।
एकागारं प्रयोजनं अस्य ऐकागारिकः चौरः ।
ऐकागारिकी ।
किं अर्थं इदं निपात्यते, यावता प्रयोजनं इत्येव सिद्धष्ठञ्? चौरे नियमार्थं वचनं ।
इह मा भूत्, एकागारं प्रयोजनं अस्य भिक्षोः इति ।
ठकारः कार्यावधारण-अर्थः, ङीबेव भवति न ञित्स्वरः इति ।
अपरे पुनरिकट्प्रत्ययं वृद्धिं च निपातयन्ति । ।


____________________________________________________________________


  1. <आकालिकड्-आद्यन्तवचने># । । PS_५,१.११४ । ।



_____Sठाऱ्ठ्JKव्_५,१.११४ः

आकालिकटिति निपात्यते आद्यन्तवचने ।
समानकाल-शब्दस्य आकाल-शब्द आदेशः ।
आद्यन्तयोश्च+एतद्विशेषणं ।
इकट्प्रत्ययश्च निपात्यते ।
समानकालौ आद्यन्तौ अस्य आकालिकः स्तनयित्नुः ।
आकालिकी विद्युथ् ।
जन्मना तुल्यकालविनाशा ।
उत्पादानन्तरं विनाशिनीत्यर्थः ।
आकालाट्ठंश्च ।
चात्ठञ्च ।
आकालिका विद्युथ् ।
ठञः पूर्णोऽवधिः । ।

____________________________________________________________________


  1. <तेन तुल्यं क्रिया चेद्वतिः># । । PS_५,१.११५ । ।



_____Sठाऱ्ठ्JKव्_५,१.११५ः

तेन इति तृतीयासमर्थात्तुल्यं इत्येतस्मिन्नर्थे वतिः प्रत्ययो भवति, यत्तुल्यं क्रिया चेत्सा भवति ।
ब्राह्मणेन तुल्यं वर्तते ब्राह्मणवथ् ।
राजवथ् ।
क्रिया-ग्रहणं किं ? गुणतुल्ये मा भूथ् ।
पुत्रेण तुल्यः स्थूलः ।
पुत्रेण तुल्यो गोमान् । ।


____________________________________________________________________


[#४९३]

  1. <तत्र तस्य+इव># । । PS_५,१.११६ । ।



_____Sठाऱ्ठ्JKव्_५,१.११६ः

तत्र इति सप्तमीसमर्थात्तस्य इति षष्ठीसमर्थाच्च इव-अर्थे वतिः प्रत्ययो भवति ।
मथुरायां इव मथुरावत्स्रुघ्ने प्राकारः ।
पाटलिपुत्रवत्साकेते परिखा ।
षष्थीसमर्थात्- देवदत्तस्य इव देवदत्तवत्यज्ञादत्तस्य गावः ।
यज्ञदत्तस्य इव यज्ञदत्तवत्देवदत्तस्य दन्ताः । ।


____________________________________________________________________


  1. <तदर्हम्># । । PS_५,१.११७ । ।


_____Sठाऱ्ठ्JKव्_५,१.११७ः

ततिति द्वितीयासमर्थातर्हं इत्येतस्मिन्नर्थे वतिः प्रत्ययो भवति ।
राजानं अर्हति राजवत्पालनं ।
ब्राह्मणवतृषिवथ् ।
क्षत्रियवत् । ।


____________________________________________________________________


  1. <उपसर्गाच्छन्दसि धात्व्-अर्थे># । । PS_५,१.११८ । ।



_____Sठाऱ्ठ्JKव्_५,१.११८ः

उपसर्गात्ससाधने धात्वर्थे वर्तमानात्स्वार्थे वतिः प्रत्ययो भवति छन्दसि विषये ।
यदुद्वतो निवतो यासि वप्सद् ।
उद्गतानि निगतानि च । ।


____________________________________________________________________


  1. <तस्य भावस्त्व-तलौ># । । PS_५,१.११९ । ।



_____Sठाऱ्ठ्JKव्_५,१.११९ः

तस्य इति षष्थीसमर्थाद्भावः इत्येतस्म्निन्नर्थे तवतलौ प्रत्ययौ भवतः ।
भवतोऽस्मादभिधानप्रत्ययौ इति भावः ।
शब्दस्य प्रवृत्ति-निमित्तं भाव-शब्देन+उच्यते ।
अश्वस्य भावः अश्वत्वम्, अश्वता ।
गोत्वम्, गोता । ।


____________________________________________________________________

  1. <आ च त्वात्># । । PS_५,१.१२० । ।


_____Sठाऱ्ठ्JKव्_५,१.१२०ः

ब्रह्मणस्त्वः (*५,१.१३६) इति वक्ष्यति ।
आ एतस्मात्त्वसंशब्दनाद्यानित ऊर्ध्वं अनुक्रमिष्यामः, तत्र त्वतलौ प्रत्ययावधिकृतौ वेदितव्यौ ।
वक्ष्यति - पृथ्वादिभ्य इमनिज्वा (*५,१.१२२) इति ।
प्रथिमा, पार्थवम्, पृथुत्वम्, पृथुता ।
म्रदिमा, मार्दवम्, मृदुत्वम्, मृदुता ।
अपवादैः सह समावेशार्थं वचनं ।
कर्मणि च विधानार्थं गुणवचन-ब्राह्मणादिभ्यः कर्मणि च (*५,१.१२४) इति ।
चकारो नञ्स्नञ्भ्यां अपि समावेश-अर्थः ।
स्त्रियाः भावः स्त्रैणम्, स्त्रीत्वम्, स्त्रीता ।
पुंसो भावः पुंस्त्वम्, पुंस्ता, प्ॐस्नं । ।


____________________________________________________________________


  1. <न नञ्पूर्वात्तत्पुरुषादचतुर-सङ्गतल्-अवण-वट-बुध-कत-रस-लसेभ्यः># । । PS_५,१.१२१ । ।



_____Sठाऱ्ठ्JKव्_५,१.१२१ः

इत उत्तरे ये भाव. प्रत्ययाः, ते नञ्-पूर्वात्तत्पुरुषात्न भवन्ति चतुरादीन्वर्जयित्वा ।
वक्ष्यति - पत्यन्तपुरोहितादिभ्यो यक्(*५,१.१२८) इति ।
अपतित्वम्, अपतिता ।
अपटुत्वम्, अपटुता ।
अरमणीयत्वम्, अरमणीयता ।
नञ्-पूर्वातिति किं ? बार्हस्पत्यं ।
प्राजापत्यं ।
तत्पुरुषातिति किं ? न अस्य पटवः सन्ति इति अपटुः, तस्य भावः आपटवं ।
आलघवं ।
अचतुरादिभ्यः इति किं ? आचतुर्यं ।
आसङ्गत्यं ।
आलवण्यं ।
आवट्यं ।
आबुध्यं ।
आकत्यं ।
आरस्यं ।
आलस्यं । ।


____________________________________________________________________


[#४९४]

  1. <पृथ्व्-आदिभ्य इमनिज्वा># । । PS_५,१.१२२ । ।



_____Sठाऱ्ठ्JKव्_५,१.१२२ः

पृथु इत्येवं आदिभ्यः प्रातिपदिकेभ्यः इमनिच्प्रत्ययो भवति वा तस्य भावः इत्येतस्मिन्नर्थे ।
वावचनं अणादेः समावेश-अर्थं ।
पृथोर्भावः प्रथिमा, पार्थवं ।
म्रदिमा, मार्दवं ।
तुरिष्ठ-इम-ईयःसु (*६,४.१५४), टेः (*६,४.१५५) इति टिलोपः ।
र ऋतो हलदेर्लघोः (*६,४.१६१) इति रेफादेशः ।
त्वतलौ सर्वत्र भवत एव ।
पृथुत्वम्, पृथुता ।
मृदुत्वम्, मुदुता ।
पृथु ।
मृदु ।
महथ् ।
पटु ।
तनु ।
ल्घु ।
बहु ।
साधु ।
वेणु ।
आशु ।
बहुल ।
गुरु ।
दण्ड ।
ऊरु ।
खण्ड ।
चण्ड ।
बाल ।
अकिंचन ।
होड ।
पाक ।
वत्स ।
मन्द ।
स्वादु ।
ह्रस्व ।
दीर्घ ।
प्रिय ।
वृष ।
ऋजु ।
क्षिप्र ।
क्षुप्र ।
क्षुद्र ।
पृथ्वादिः । ।


____________________________________________________________________


  1. <वर्ण-दृढ-आदिभ्यः ष्यञ्च># । । PS_५,१.१२३ । ।



_____Sठाऱ्ठ्JKव्_५,१.१२३ः

वर्णविशेष-वाचिभ्यः प्रातिपदिकेभ्यो दृढ-आदिभ्यश्च ष्यञ्प्रत्ययो भवति, चकारातिमनिच्च, तस्य भावः इत्येतस्मिन्विषये ।
शुक्लस्य भावः शौक्ल्यम्, शुक्लिमा, शुक्लत्वम्, शुक्लता ।
कार्ष्ण्यम्, कृष्णिमा, कृष्णत्वम्, कृष्णता ।
दृढादिभ्यः - दार्ढ्यम्, द्रढिमा, दृढत्वम्, दृढता ।
षकारो ङीषर्थः ।
औचिती ।
याथाकामी ।
दृढ ।
परिवृढ ।
भृश ।
कृश ।
चक्र ।
आम्र ।
लवण ।
ताम्र ।
अम्ल ।
शीत ।
उष्ण ।
जड ।
बधिर ।
पण्डित ।
मधुर ।
मूर्ख ।
मूक ।
वेर्यातलाभमतिमनः शारदानां ।
समो मतिमनसोः । ।


____________________________________________________________________


  1. <गुणवचन-ब्राह्मणादिभ्यः कर्मणि च># । । PS_५,१.१२४ । ।



_____Sठाऱ्ठ्JKव्_५,१.१२४ः

गुणं उक्तवन्तो गुणवचनाः ।
गुणवचनेध्यो ब्राह्मणादिभ्यश्च तस्य इति षष्थीसमर्थेभ्यः कर्मण्यभिधेये ष्यञ्प्रत्ययो भवति ।
चकाराद्भावे च ।
कर्म-शब्दः क्रियावचनः ।
जडस्य भावः कर्म वा जाड्यं ।
ब्राह्मणादिभ्यः खल्वपि - ब्राह्मण्यं ।
माणव्यं ।
आपादपरिसमाप्तेर्भावकर्माधिकारः ।
ब्राह्मणादिराकृतिगणः ।
आदि-शब्दः प्रकारवचनः ।
चतुर्वर्ण्यादिभ्यः स्वार्थे उपसङ्ख्यानं ।
चत्वार एव वर्णाः चातुर्वर्ण्यं ।
चातुराश्रम्यं ।
त्रैलोक्यं ।
त्रैस्वर्यं ।
षाड्गुण्यं ।
सैन्यं ।
सान्निध्यं ।
सामीप्यं ।
औपम्यं ।
सौख्यं ।
ब्राह्मण ।
वाडव ।
माणव ।
चोर ।
मूक ।
आराधय ।
विराधय ।
अपराधय ।
उपराधय ।
एकभाव ।
द्विभाव ।
त्रिभाव ।
अन्यभाव ।
समस्थ ।
विषमस्थ ।
परमस्थ ।
मध्यमस्थ ।
अनीश्वर ।
कुशल ।
कपि ।
चपल ।
अक्षेत्रज्ञ ।
निपुण ।
अर्हतो नुं च आर्हन्त्यं ।
संवादिन् ।
संवेशिन् ।
बहुभाषिन् ।
बालिश ।
दुष्पुरुष ।
कापुरुष ।
दायाद् ।
विशसि ।
धूर्त ।
राजन् ।
संभाषिन् ।
शीर्षपातिन् ।
अधिपति ।
अलस ।
पिशाच ।
पिशुन ।
विशाल ।
गणपति ।
धनपति ।
नरपति ।
गडुल ।
निव ।
निधान ।
विष ।
सर्ववेदादिभ्यः स्वार्थे ।
चतुर्वेदस्य+उभयपद-वृद्धिश्च ।
चातुर्वैद्यं ।
इति ब्राह्मणादिः । ।


____________________________________________________________________


[#४९५]

  1. <स्तोनाद्यन्नलोपश्च># । । PS_५,१.१२५ । ।



_____Sठाऱ्ठ्JKव्_५,१.१२५ः

स्तोन-शब्दात्षष्ठीसमर्थाद्भावकर्मणोः यत्प्रत्ययो भवति, न-शब्दस्य लोपश्च भवति ।
स्तोनस्य भावः कर्म वा स्तोयं ।
स्तोनातिति केचिद्योगविभागं कुर्वन्ति ।
स्तोनात्ष्यञ्भवति ।
स्तौन्यं ।
ततो यन्नलोपश्च ।
स्तोयं । ।


____________________________________________________________________


  1. <सख्युर्यः># । । PS_५,१.१२६ । ।



_____Sठाऱ्ठ्JKव्_५,१.१२६ः

सखिशब्दात्यः प्रत्ययो भवति भावकर्मणोरर्थयोः ।
सख्युः भावः कर्म वा सख्यं ।
दूतवणिग्भ्यां च+इति वक्तव्यं ।
दूत्यं ।
वणिज्यं ।
कथं वाणिज्यं ? ब्राह्मणादित्वात् । ।


____________________________________________________________________


  1. <कपि-ज्ञात्योर्ढक्># । । PS_५,१.१२७ । ।



_____Sठाऱ्ठ्JKव्_५,१.१२७ः

कपि-ज्ञाति-शब्दाभ्यां ढक्प्रययो भवति भावकर्मणोरर्थयोः ।
कपेर्भावः कर्म वा कापेयं ।
ज्ञातेयं ।
यथासङ्ख्यं अर्थयोः सर्वत्र+एव अत्र प्रकरणे न+इष्यते । ।


____________________________________________________________________

  1. <पत्यन्तपुरोहितादिभ्यो यक्># । । PS_५,१.१२८ । ।



_____Sठाऱ्ठ्JKव्_५,१.१२८ः

पत्यन्तात्प्रातिपदिकात्पुरोहितादिभ्यश्च यक्प्रत्ययो भवति भावकर्मणोरर्थयोः ।
सेनापतेः भावः कर्म वा सैनापत्यं ।
गार्हपत्यं ।
प्राजापत्यं ।
पौरोहित्यं ।
राज्यं ।
पुरोहित ।
राजन् ।
संग्रामिक ।
एषिक ।
वर्मित ।
खण्डिक ।
दण्डिक ।
छत्रिक ।
मिलिक ।
पिण्डिक ।
बाल ।
मन्द ।
स्तनिक ।
चूडितिक ।
कृषिक ।
पूतिक ।
पत्रिक ।
प्रतिक ।
अजानिक ।
सलनिक ।
सूचिक ।
शाक्वर ।
सूचक ।
पक्षिक ।
सारथिक ।
जलिक ।
सूतिक ।
अञ्जलिक ।
राजासे ।
पुरोहितादिः । ।


____________________________________________________________________


  1. <प्राणभृज्जाति-वयोवचन-उद्गात्रादिभ्योऽञ्># । । PS_५,१.१२९ । ।



_____Sठाऱ्ठ्JKव्_५,१.१२९ः

प्राणभृज्जातिवाचिभ्यः प्रातिपदिकेभ्यो वयोवचनेभ्य उद्गात्रादिभ्यश्च अञ्प्रत्ययो भवति भावक्रमणोरर्थयोः ।
अश्वस्य भावः कर्म वा आश्वं ।
औष्ट्रं ।
वयोवचनेभ्यः क्ॐआरं ।
कैशोरं ।
उद्गात्रादिभ्यः - औद्गात्रं ।
औन्नेत्रं ।
उद्गातृ ।
उन्नेतृ ।
प्रतिहर्तृ ।
रथगणक ।
पक्षिगणक ।
सुष्ठु ।
दुष्ठु ।
अध्वर्यु ।
वधू ।
सुभग मन्त्रे ।
उद्गात्रादिः । ।


____________________________________________________________________


[#४९६]

  1. <हायनान्त-युवादिभ्योऽण्># । । PS_५,१.१३० । ।



_____Sठाऱ्ठ्JKव्_५,१.१३०ः

हायनान्तेभ्यः प्रातिपदिकेभ्यः युवादिभश्च अण्प्रत्ययो भवति भावकर्मणोरर्थयोः ।
द्विहायनस्य भावः कर्म ना द्वैहायनं ।
त्रैहायनं ।
युवादिभ्यः - यौवनं स्थाविरं ।
श्रोत्रियस्य यलोपश्च वाच्यः ।
श्रोत्रियस्य भावः कर्म वा श्रौत्रं ।
युवन् ।
स्थविर ।
होतृ ।
यजमान ।
कमण्डलु ।
पुरुषासे ।
सुहृथ् ।
यातृ ।
श्रवण ।
कुस्त्री ।
सुस्त्रि ।
मुहृदय ।
सुभ्रातृ ।
वृषल ।
दुर्भ्रातृ ।
हृदयासे ।
क्षेत्रज्ञ ।
कृतक ।
परिव्राजक ।
कुशल ।
चपल ।
निपुण ।
पिशुन ।
सब्रह्मचारिन् ।
कुतूहल ।
अनृशंस ।
युवादिः । ।

____________________________________________________________________


  1. <इग्-अन्ताश्च लघु-पूर्वात्># । । PS_५,१.१३१ । ।



_____Sठाऱ्ठ्JKव्_५,१.१३१ः

इगन्ताच्च लघुपूर्वातण्प्रत्ययो भवति भावकर्मणोः ।
लघुपूर्व-ग्रहणेन प्रातिपदिक-समुदायो विशेष्यते ।
लघुः पूर्वोऽवयवोऽस्य इति लघुपूर्वः ।
कुतः पुनरसौ लघुः पूर्वः ।
इक्-सन्निधानादिकः इति वज्ञायते ।
लघुः पूर्वो यस्मादिकः तदन्तान्प्रातिपदिकादित्ययं अर्थो विवक्षितः ।
अपरे तत्पुरुष-कर्मधारयं वर्णयन्ति ।
इक्चासावन्तश्च इति इगन्तः ।
लघुपूर्व-ग्रहनेन स एव विशेष्यते, पश्चात्तेन प्रातिपदिकस्य तदन्तविधिः इति ।
अस्मिन्व्याख्यानेऽन्त-ग्रहणं अतिरिच्यते ।
लघुपुर्वादिकः इत्येतावदेव वाच्यं स्याथ् ।
शुचेर्भावः कर्म वा शौचं ।
मौनं ।
नागरं हारीतकं ।
पाटवं ।
लाघवं ।
इगन्तातिति किं ? पटत्वं ।
घटत्वं ।
लघुपूर्वातिति किं ? कण्डूत्वं ।
पाण्डुत्वं ।
कथं काव्यं इति ? ब्राह्मणादिषु कविशब्दो द्रष्तव्यः । ।


____________________________________________________________________


  1. <य-उपधाद्गुरु-उपोत्तमाद्वुञ्># । । PS_५,१.१३२ । ।



_____Sठाऱ्ठ्JKव्_५,१.१३२ः

त्रिप्रभृतीनां अन्तस्य समीपं उपोत्तमं ।
गुरुः उपोत्तमं यस्य तद्गुरूपोत्तमं ।
यकारोपधात्गुरूपोत्तमाद्वुञ्प्रत्ययो भवति भावकर्मणोः ।
रमणीयस्य भावः कर्म वा रामणीयकं ।
वासनीयकं ।
योपधातिति किं ? विमानत्वं ।
गुरूपोत्तमातिति किं ? क्षत्रियत्वं ।
सहायाद्वेति वक्तव्यं ।
साहायकम्, साहाय्यं । ।


____________________________________________________________________


[#४९७]

  1. <द्वन्द्व-मनोज्ञ-आदिभ्यश्च># । । PS_५,१.१३३ । ।



_____Sठाऱ्ठ्JKव्_५,१.१३३ः

द्वन्द्व-सञ्ज्ञकेभ्यः मनोज्ञ-आदिभ्यश्च वुञ्प्रत्ययो भवति भावकर्मणोः ।
गोपालपशुपालानां भावः कर्म वा गौपालपशुपालिका ।
शैष्योपाध्यायिका ।
कौत्सकुशिकिका ।
मनोज्ञाद्भ्यः - मानोज्ञकं ।
काल्याणकं ।
मनोज्ञ ।
कल्याण ।
प्रियरूप ।
छान्दस ।
छात्र ।
मेधाविन् ।
अभिरूप ।
आढ्य ।
कुलपुत्र ।
श्रोत्रिय ।
चोर ।
धूर्त ।
वैश्वदेव ।
युवन् ।
ग्रामपुत्र ।
ग्रामखण्ड ।
ग्रामकुमार ।
अमुष्यपुत्र ।
अमुष्यकुल ।
शतपत्र ।
कुशल ।
मनोज्ञादिः । ।


____________________________________________________________________


  1. <गोत्रचरणाच्छ्लाघा-अत्याकार-तदवेतेषु># । । PS_५,१.१३४ । ।



_____Sठाऱ्ठ्JKव्_५,१.१३४ः

गोत्रवाचिनः चरनवाचिनः च प्रातिपदिकात्वुञ्प्रत्ययो भवति, प्रत्येकं भावकर्मणोरर्थयोः श्लाघादिषु विषयभूतेषु ।
तत्र श्लाघा विकत्थनं ।
अत्याकारः पराधिक्षेपः ।
तदवेतः तत्प्राप्तः तज्ज्ञो वा ।
तदिति गोत्रचरणयोः भावकर्मणी निर्दिश्येते ।
तत्प्राप्तः तदवगतवान्दवेत इत्युच्यते ।
श्लाघायां तावत्- गार्गिकया श्लाघते ।
काठिकया श्लाघते ।
गार्ग्यत्वेन कठत्वेन च विकत्थते इत्यर्थः ।
अत्याकारे - गार्गिकया अत्याकुरुते ।
काठिकया अत्याकुरुते ।
गार्ग्यत्वेन कठत्वेन च परानधिक्षिपति इत्यर्थः ।
तद्वेतः - गार्गिकामवेतः ।
काठिकामवेतः ।
गार्ग्यत्वं कठत्वं च प्राप्तः इत्यर्थः ।
तद्वा अवगतवानित्यर्थः ।
श्लाघादिषु इति किं ? गार्ग्यत्वं ।
कठत्वं । ।


____________________________________________________________________


  1. <होत्राभ्यश्छः># । । PS_५,१.१३५ । ।



_____Sठाऱ्ठ्JKव्_५,१.१३५ः

गोत्रा-शब्दः ऋत्विग्विशेष-वचनः ।
ऋत्विग्विशेष-वाचिभ्यः छः प्रत्ययो भवति भावकर्मणोः ।
अच्छावाकस्य भावः कर्म वा अच्छावादीयं ।
मित्रावरुणीयं ।
ब्राह्मणाच्छंसीयं ।
आग्नीध्रीयं ।
प्रतिप्रस्थीत्रियं ।
त्वष्ट्रीयं ।
पोत्रीयं ।
बहुवचनं स्वरूपविधिनिरासार्थं । ।


____________________________________________________________________


  1. <ब्रह्मणस्त्वः># । । PS_५,१.१३६ । ।



_____Sठाऱ्ठ्JKव्_५,१.१३६ः

होत्राभ्यः इत्यनुवर्तते ।
ब्रह्मन्-शब्दाद्होत्रावाचिनः त्वः प्रत्ययो भवति भावकर्मणोः ।
छस्य अपवादः ।
ब्रह्मणो भावः कर्म वा ब्रह्मत्वं ।
न इति वक्तव्ये त्ववचनं तलो बाधनार्थं ।
यस्तु जाति-शब्दो ब्राह्मणपर्यायो ब्रह्मन्-शब्दः, ततः त्वतलौ भवत एव ।
ब्रह्मत्वम्, ब्रह्मता ।
भवनावधिकयोर्नञ्स्तञोरधिकारः समाप्तः । ।
इति काशिकायां वृत्तौ पञ्चमाध्यायस्य प्रथमः पादः ______________________________________________________

पञ्चमाध्यायस्य द्वितीयः पादः ।


____________________________________________________________________


[#४९८]

  1. <धान्यानां भवने क्षेत्रे खञ्># । । PS_५,२.१ । ।



_____Sठाऱ्ठ्JKव्_५,२.१ः

निर्देशादेव समर्थविभक्तिः ।
धान्यविशेष-वाचिभ्यः षष्ठीसमर्थेभ्यो भवनेऽभिधेये खञ्प्रत्ययो भवति, तच्चेद्भवनं क्षेत्रं भवति ।
भवनं इति भवन्ति जायन्तेऽस्मिन्निति भवनं ।
मुद्गानां भवनं क्षेत्रं मौद्गीनं ।
कौद्रवीणं ।
कौलत्थीनं ।
धान्यानां इति किं ? तृणानां भवनं क्षेत्रं इत्यत्र न भवति ।
क्षेत्रं इति किं ? मुद्गानां भवनं कुसूलं ।
बहुवचनं स्वरूपविधिनिरासार्थं । ।


____________________________________________________________________


  1. <व्रीहि-शाल्योर्ढक्># । । PS_५,२.२ । ।



_____Sठाऱ्ठ्JKव्_५,२.२ः

व्रीहि-शालि-शब्दाभ्यां ढक्प्रत्ययो भवति भवने क्षेत्रे अभिधेये खञोऽपवादः ।
व्रीहीणां भवनं क्षेत्रं व्रैहेयं ।
शालेयं । ।


____________________________________________________________________


  1. <यव-यवक-षष्टिकाद्यत्># । । PS_५,२.३ । ।



_____Sठाऱ्ठ्JKव्_५,२.३ः

यवादिभ्यः शब्देभ्यो यत्प्रत्ययो भवति भवने क्षेत्रेऽभिधेये ।
खञोऽपवादः ।
यवानां भवनं क्षेत्रं यव्यं ।
यवक्यं ।
षष्टिक्यं । ।


____________________________________________________________________


  1. <विभाषा तिल-माष-उमा-भङ्गा-अणुभ्यः># । । PS_५,२.४ । ।



_____Sठाऱ्ठ्JKव्_५,२.४ः

तिल माष उमा भङ्गा अणु इत्येतेभ्यः विभाषा यत्प्रत्ययो भवति भवने क्षेत्रेऽभिधेये ।
खञि प्राप्ते वचनं, पक्षे सोऽपि भवति ।
उमाभङ्गयोरपि धान्यत्वं आश्रितं एव ।
तिलानां भवनं क्षेत्रं तिल्यम्, तैलीनं ।
माष्यम्, माषीणं ।
उम्यम्, ॐईनं ।
भङ्ग्यम्, भाङ्गीनं ।
अणव्यम्, अणवीनं । ।


____________________________________________________________________

  1. <सर्वचर्मणः कृतः ख-खञौ># । । PS_५,२.५ । ।



_____Sठाऱ्ठ्JKव्_५,२.५ः

सर्वचर्मन्शब्दात्तृतीयासमर्थात्कृतः इत्यस्मिन्नर्थे ख-खञौ प्रत्ययौ भवतः ।
सर्वशब्दश्च अत्र प्रत्ययार्थेन कृतेन सम्बध्यते, न चर्मणा ।
तत्र अयं असमर्थसमासो द्रष्टव्यः ।
सर्वश्चर्मणा कृतः इत्येतस्मिन्वाक्यार्थे वृत्तिः ।
सर्वचर्मीणः, सार्वचर्मीणः । ।


____________________________________________________________________


[#४९९]

  1. <यथामुख-सम्मुखस्य दर्शनः खः># । । PS_५,२.६ । ।



_____Sठाऱ्ठ्JKव्_५,२.६ः

यथामुख-शब्दात्सम्मुख-शब्दात्षष्ठीसमर्थाद्दर्शनः इत्येतस्मिन्नर्थे खः प्रत्ययो भवति ।
दृश्यतेऽस्मिनिति दर्शनः आदर्शादिः प्रतिबिम्बाश्रय उच्यते ।
निपातनात्सादृश्येऽव्ययीभावः ।
यथामुखं दर्शनः यथामुखीनः ।
सर्वस्य मुखस्य दर्शनः सम्मुखीनः । ।


____________________________________________________________________


  1. <तत्सर्व-आदेः पथ्य्-अङ्ग-कर्म-पत्र-पात्रं व्याप्नोति># । । PS_५,२.७ । ।



_____Sठाऱ्ठ्JKव्_५,२.७ः

ततिति द्वितीया समर्थविभक्तिः ।
व्याप्नोति इति प्रत्ययार्थः ।
परिशिष्टं प्रकृतिविशेषणं ।
सर्व-आदेः प्रातिपदिकात्पथिनङ्ग कर्मन्पत्र पात्र इत्येवं अन्ताद्द्वितीयासमर्थाद्व्याप्नोति इत्यस्मिन्नर्थे खः प्रत्ययो भवति ।
सर्वपथं व्याप्नोति सर्वपथीनो रथः ।
सर्वाङ्गिणः तापः ।
सर्वकर्मीणः पुरुषः ।
सर्वपत्रीणः सारथिः ।
सर्वपात्रीणः ओदनः । ।


____________________________________________________________________


  1. <आप्रपदं प्राप्नोति># । । PS_५,२.८ । ।



_____Sठाऱ्ठ्JKव्_५,२.८ः

प्रपदं इति पादस्य अग्रं उच्यते ।
आङ्मर्यादायां ।
तयोरव्ययीभावः ।
आप्रपद-शब्दात्तदिति द्वितीयासमर्थात्प्राप्नोति इत्येतस्मिन्नर्थे खः प्रत्ययो भवति ।
आप्रपदं प्राप्नोति आप्रपदीनः पटः ।
शरीरेण असम्बद्धस्य अपि पटस्य प्रमाणं आख्यायते । ।


____________________________________________________________________


  1. <अनुपद-सर्वान्न-अय-अनयं बद्धा-भक्षयति-नेयेषु># । । PS_५,२.९ । ।



_____Sठाऱ्ठ्JKव्_५,२.९ः

अनुपद-आदिभ्यः शब्देभ्यः तदिति द्वितीयासमर्थेभ्यः यथासङ्ख्यं बद्धा भक्षयति नेय इत्येतेष्वर्थेषु खः प्रत्ययो भवति ।
अनुः आयामे सादृश्ये वा ।
अनुपदं बद्धा उपानतनुपदीना ।
पदप्रमाणा इत्यर्थः ।
सर्वान्नानि भक्षयति सर्वान्नीनो भिक्षुः ।
अयः प्रदक्षिणम्, अनयः प्रसव्यं ।
प्रदक्षिणप्रसव्यगामिनां शाराणां यस्मिन्परशारैः पदानामसमावेशः सोऽयानयः ।
अयानयं नेयः अयानयीनः शारः ।
फलकशिरःस्थित इत्यर्थः । ।


____________________________________________________________________


  1. <परोवर-परम्पर-पुत्रपौत्रं अनुभवति># । । PS_५,२.१० । ।



_____Sठाऱ्ठ्JKव्_५,२.१०ः

परोवर परम्पर पुत्रपौत्र इत्येतेभ्यः तदिति द्वितीयासमर्थेभ्यः अनुभवति इत्यस्मिनर्थे खः प्रत्ययो भवति ।
परोवर इति परस्योत्वं प्रत्ययसंनियोगेन निपात्यते ।
परांश्च अवरांश्च अनुभवति परोवरीणः ।
परपरतराणां च परम्परभावो निपात्यते ।
परांश्च परतरांश्च अनुभवति परम्परीणः ।
पुत्रपौत्राननुभवति पुत्रपौत्रीणः ।
परम्परशब्दो विनापि प्रत्ययेन दृश्यते, मन्त्रिपरम्परा मन्त्रं भिनत्ति इति ।
तच्छब्दान्तरं एव द्रष्टव्यं । ।


____________________________________________________________________


[#५००]

  1. <अवारपार-अत्यन्त-अनुकामं गामी># । । PS_५,२.११ । ।



_____Sठाऱ्ठ्JKव्_५,२.११ः

अवारपार अत्यन्त अनुकाम इत्येतेभ्यो द्वितीयासमर्थेभ्यः गामी इत्येतस्मिन्नर्थे खः प्रत्ययो भवति ।
गमिष्यति इति गामी, भविष्यति गम्यादयः (*३,३.३) इति ।
अक-इनोर्भविस्यद्-आधमर्ण्ययोः (*२,२.७०) ।
इति षष्ठीप्रतिषेधः ।
अवारपारं गामी अवारपारीणः ।
विपरीताच्च ।
पारावारीणः ।
विगृहीतादपि इष्यते ।
अवारीणः ।
अत्यन्तं गामी अत्यन्तीनः ।
भृशं गन्ता इत्यर्थः ।
अनुकामं गामी अनुकामीनः ।
यथा+इष्टं गन्ता इत्यर्थः । ।


____________________________________________________________________


  1. <समांसमां विजायते># । । PS_५,२.१२ । ।



_____Sठाऱ्ठ्JKव्_५,२.१२ः

समांसमां इति वीपसा ।
सुबन्तसमुदायः प्रकृतिः ।
विजायते गर्भं धारयति इति प्रत्ययार्थः ।
गर्भधारणेन सकलाऽपि समा व्याप्यते इति अत्यन्तसंयोगे द्वितीया ।
समांसमां विजायते समांसमीना गौः ।
समांसमीना वडवा ।
पूर्वपदे सुपोऽलुग्वक्तव्यः ।
केचित्तु समायां विजायते इति विगृह्णन्ति, गर्भमोचने तु विजनिर्वर्तते इत्याहुः ।
तेषां पूर्वपदे यलोपमात्रं निपात्यते, परिशिष्टस्य अलुग्वक्तव्यः ।
अनुत्पत्तावुत्तरपदस्य च वा यलोपो वक्तव्यः ।
समांसमांविजायते, समायां समायां विजायते इति वा । ।


____________________________________________________________________


  1. <अद्यश्वीना अवष्टब्धे># । । PS_५,२.१३ । ।


_____Sठाऱ्ठ्JKव्_५,२.१३ः

विजायते इति वर्तते ।
अद्यश्वीन इति निपात्यते अवष्टब्धे विजने, आसन्ने प्रसवे ।
आविदूर्ये हि मूर्धन्यो विधीयते अवाच्च आलम्बन-आविदूर्ययोः (*८,३.६८) इति ।
अद्य वा श्वो वा विजायतेऽद्यश्वीना गौः ।
अद्यश्वीना वडवा ।
केचित्तु विजायते इति न अनुवर्तयन्ति, अवष्टब्धमात्रे निपातनं इत्याहुः ।
अद्यश्वीनं मरणम्, अद्यश्वीनो वियोगः इति । ।


____________________________________________________________________


[#५०१]

  1. <आगवीनः># । । PS_५,२.१४ । ।



_____Sठाऱ्ठ्JKव्_५,२.१४ः

आगवीनः इति निपात्यते ।
गोः आङ्पूर्वादा तस्य गोः प्रतिपादनात्कर्मकारिणि खः प्रत्ययो निपात्यते ।
आगवीनः कर्मकरः ।
यो गवा भृतः कर्म करोति आ तस्य गोः प्रत्यर्पणात् । ।


____________________________________________________________________


  1. <अनुग्व्-अलङ्गामी># । । PS_५,२.१५ । ।



_____Sठाऱ्ठ्JKव्_५,२.१५ः

गोः पश्चादनुगु ।
अनुगु-शब्दादलङ्गामी इत्येतस्मिन्नर्थे खः प्रत्ययो भवति ।
अनुगु पर्याप्तं गच्छति अनुगवीनः गोपालकः । ।


____________________________________________________________________


  1. <अध्वनो यत्-खौ># । । PS_५,२.१६ । ।



_____Sठाऱ्ठ्JKव्_५,२.१६ः

ततिति द्वितीया समर्थविभक्तिरनुवर्तते ।
अलङ्गामी इति च प्रत्ययार्थः ।
अध्वन्-शब्दात्द्वितीयासमर्थादलङ्गामी इत्येतस्मिन्नर्थे यत्-खौ प्रत्ययौ भवतः ।
अध्वानं अलङ्गामी अध्वन्यः, अध्वनीनः ।
ये च अभवकर्मणोः (*६,४.१६८), आत्म-अध्वानौ खे (*६,४.१६९) इति प्रकृतिभावः । ।


____________________________________________________________________


  1. <अभ्यमित्राच्छ च># । । PS_५,२.१७ । ।



_____Sठाऱ्ठ्JKव्_५,२.१७ः

अभ्यमित्र-शदात्द्वितीयासमर्थातलङ्गामी इत्यस्मिन्नर्थे छः प्रत्ययो भवति ।
चकाराद्यत्-खौ च ।
अभ्यमित्रं अलङ्गामी अभ्यमित्रीयः अभमित्र्यः, अभ्यमित्रीणः ।
अमित्राभिमुखं सुष्ठु गच्छति इत्यर्थः । ।


____________________________________________________________________


  1. <गोष्ठात्खञ्भूतपूर्वे># । । PS_५,२.१८ । ।



_____Sठाऱ्ठ्JKव्_५,२.१८ः

गावस्तिष्ठन्त्यस्मिनिति गोष्ठं ।
गोष्ठ-शब्देन सन्निहितगोसमूहो देश उच्यते ।
भूतपूर्व-ग्रहणं तस्य+एव विशेषणं ।
गोष्ठ-शब्दाद्भूतपूर्वोपाधिकात्स्वार्थे खञ्प्रत्ययो भवति ।
गोष्ठो भूतपूर्वः गौष्ठीनो देशः ।
भूतपूर्व-ग्रहणं किं ? गोष्ठो वर्तते । ।


____________________________________________________________________


  1. <अश्वस्यैकाहगमः># । । PS_५,२.१९ । ।



_____Sठाऱ्ठ्JKव्_५,२.१९ः

निर्देशादेव समर्थविभक्तिः ।
अश्व-शब्दाद्षष्ठीसमर्थातेकाहगमः इत्येतस्मिन्नर्थे खञ्प्रत्ययो भवति ।
एकाहेन गम्यते इति एकाहगमः ।
अश्वस्य एकाहगमोऽध्वा आश्वीनः ।
आश्वीनानि शतं पतित्वा । ।


____________________________________________________________________


[#५०२]

  1. <शालीन-कौपीने अधृष्ट-अकार्ययोः># । । PS_५,२.२० । ।



_____Sठाऱ्ठ्JKव्_५,२.२०ः

शालीन-कौपीन-शब्दौ निपात्येते यथासङ्ख्यं अधृष्टे अकार्ये च अभिधेये ।
अधृष्टः अप्रगल्भः ।
अकार्यं अकरणार्हं विरुद्धं ।
शालीनकौपीने अधृष्टाकार्ययोः पर्यायौ यथाकथञ्चिद्व्युत्पादयितव्यौ ।
शालाप्रवेशनं अर्हति, कूपावतारं अर्हति इति खञ्प्रत्ययः उत्तरपदलोपश्च निपात्यते ।
शालीनो जडः ।
कौपीनं पापं । ।


____________________________________________________________________


  1. <व्रातेन जीवति># । । PS_५,२.२१ । ।



_____Sठाऱ्ठ्JKव्_५,२.२१ः

निर्देशादेव तृतीया समर्थविभक्तिः ।
व्रात-शब्दात्तृतीयासमर्थात्जीवति इत्यस्मिन्नर्थे खञ्प्रत्ययो भवति ।
नानाजातीयाः अनियतवृत्तयः उत्सेधजीविनः सङ्घाः व्राताः ।
उत्सेधः शरीरं, तदायास्य ये जीवन्ति ते उत्सेधजीविनः, तेषा कर्म व्रातं ।
तेन व्रातेन जीवति व्रातीनः ।
तेषां एव व्रातानामन्यतम उच्यते ।
यस्त्वन्यस्तदीयेन जीवति तत्र न+इष्यते । ।


____________________________________________________________________


  1. <साप्तपदीनं सख्यम्># । । PS_५,२.२२ । ।



_____Sठाऱ्ठ्JKव्_५,२.२२ः

साप्तपदीनं इति निपात्यते सख्येऽभिधेये ।
सप्तभिः पदैरवाप्यते साप्तपदीनं ।
सख्यं जनाः साप्तपदीनं आहुः ।
कथं साप्तपदीनः सखा, साप्तपदीनं मित्रं इति ? यदा गुणप्रधानः साप्तपदीन-शब्दः सखिभावे तत्कर्मणि च वर्तते तदा सख्य-शब्देन सामानाधिकरण्यं भवति, यदा तु लक्षणया वर्तते तदा पुरुषेण सामानाधिकरण्यं भवति । ।


____________________________________________________________________

  1. <हैयङ्गवीनं सञ्ज्ञायाम्># । । PS_५,२.२३ । ।



_____Sठाऱ्ठ्JKव्_५,२.२३ः

हैयङ्गवीनं निपात्यते सञ्ज्ञायां विषये ।
ह्योगोदोहस्य हियङ्गवादेशः, तस्य विकारे खञ्प्रत्ययो भवति सञ्ज्ञायां ।
ह्योगोदोहस्य विकारः हैयङ्गवीनं ।
घृतस्य सञ्ज्ञा ।
तेन+इह न भवति, ह्योगोदोहस्य विकार उदश्वित् । ।


____________________________________________________________________


  1. <तस्य पाक-मूले पील्वदि-कर्णादिभ्यः कुणब्-जाहचौ># । । PS_५,२.२४ । ।



_____Sठाऱ्ठ्JKव्_५,२.२४ः

तस्य इति षष्ठीसमर्थेभ्यः पील्वादिभ्यः कर्णादिभ्यश्च यथासङ्ख्यं पाक-मूलयोरर्थयोः कुणप्जाहचित्येतौ प्रत्ययौ भवतः ।
पीलूनां पाकः पीलुकुणः ।
कर्कन्धुकुणः ।
कर्णादिभ्यः - कर्णस्य मूलं कर्णजाहं ।
पीलु ।
कर्कन्धु ।
शमी ।
करीर ।
कुवल ।
बदर ।
अश्वत्थ ।
खदिर ।
पील्वादिः ।
कर्ण ।
अक्षि ।
नख ।
मुख ।
मख ।
केश ।
पाद ।
गुल्फ ।
भ्रूभङ्ग ।
दन्त ।
ओष्ठ ।
पृष्ठ ।
अङ्गुष्ठ ।
कर्णादिः । ।


____________________________________________________________________


[#५०३]

  1. <पक्षात्तिः># । । PS_५,२.२५ । ।



_____Sठाऱ्ठ्JKव्_५,२.२५ः
तस्य इत्येव ।
तस्य इति षष्ठीसमर्थात्पक्ष-शब्दात्मूलेऽभिधेये तिः प्रत्ययो भवति ।
मूल-ग्रहणं अनुवर्तते, न पाक्ष-ग्रहणं ।
एकयोगनिर्दिष्टानां अप्येकदेशोऽनुवर्तते इति ।
पक्षस्य मूलं पक्षतिः प्रतिपत् । ।


____________________________________________________________________


  1. <तेन वित्तश्चुञ्चुप्-चणपौ># । । PS_५,२.२६ । ।



_____Sठाऱ्ठ्JKव्_५,२.२६ः

तेन इति तृतीयासमर्थात्वित्तः इत्येतस्मिन्नर्थे चुञ्चुप्चणपित्येतौ प्रत्ययौ भवतः ।
वित्तः प्रतीतः ज्ञात इत्यर्थः ।
विद्यया वित्तः विद्याचुञ्चुः, विद्याचणः । ।


____________________________________________________________________


  1. <वि-नञ्भ्यां ना-नाञौ नसह># । । PS_५,२.२७ । ।



_____Sठाऱ्ठ्JKव्_५,२.२७ः

वि नञित्येताभ्यां यथासङ्ख्यं ना नाञित्येतौ प्रत्ययौ भवतः ।
नसह इति प्रकृतिविशेषणं ।
असहार्थे पृथग्भावे वर्तमानाभ्यां विनञ्भ्यां सवार्थे ना-नाञौ प्रत्ययौ भवतः ।
विना ।
नाना । ।


____________________________________________________________________


  1. <वेः शालच्-छङ्कटचौ># । । PS_५,२.२८ । ।



_____Sठाऱ्ठ्JKव्_५,२.२८ः

विशदात्शालच्शङ्कटचित्येतौ प्रत्ययौ भवतः ।
ससाधनकृइयावचनातुपसर्गात्स्वार्थे प्रत्ययौ भवतः ।
विगते शृङ्गे विशाले, विशङ्कटे ।
तद्योगाद्गौरपि विशालः, विशङ्कटः इत्युच्यते ।
परमार्थतस्तु गुण-शब्दा एते यथाकथञ्चिद्व्युत्पाद्यन्ते ।
न अत्र प्रकृतिप्रत्ययार्थयोरभिनिवेशः । ।


____________________________________________________________________


  1. <सं-प्र-उदश्च कटच्># । । PS_५,२.२९ । ।



_____Sठाऱ्ठ्JKव्_५,२.२९ः

सं प्र उदित्येतेभ्यः कटच्प्रत्ययो भवति ।
चकाराद्वेश्च ।
सङ्कटं ।
प्रकटं ।
उत्कटं ।
विकटं ।
कटच्प्रकरणेऽलाबूतिलोमाभङ्गाभ्यो रजस्युपसङ्ख्यानं ।
अलाबूनां रजः अलाबूकटं ।
तिलकटं ।
उमाकटं ।
भङ्गाकटं ।
गोष्ठादयः स्थानादिषु पशुनां आदिभ्य उपसङ्ख्यानं ।
गवां स्थानं गोगोष्ठं ।
महिषीगोष्ठं ।
सङ्घाते कटच्वक्तव्यः ।

[#५०४]

अवीनां सङ्घातः अविकटं ।
विस्तारे पटच्वक्तव्यः ।
अविपटं ।
द्वित्वे गोयुगछ् ।
उष्ट्रगोयुगं ।
अश्वगोयुगं ।
प्रकृत्यर्थस्य षट्त्वे षङ्गवछ् ।
हस्तिषङ्गवं ।
अश्वषङ्गवं ।
विकारे स्नेहे तैलछ् ।
एरण्डतैलं ।
इङ्गुदीतैलं ।
तिलतैलं ।
भवने क्षेत्रे इक्ष्वादिभ्यः शाकटशाकिनौ ।
इक्षुशाकटम्, इक्षुशाकिनं ।
मूलशाकटम्, मूलशाकिनं । ।


____________________________________________________________________


  1. <अवात्कुटारच्च># । । PS_५,२.३० । ।



_____Sठाऱ्ठ्JKव्_५,२.३०ः

अव-शब्दात्कुटारच्प्रत्ययो भवति ।
चकारात्कटछ् ।
अवकुटारम्, अबकटं । ।


____________________________________________________________________


  1. <नते नासिकायाः सञ्ज्ञायां टीटञ्-नाटज्-भ्रटचः># । । PS_५,२.३१ । ।



_____Sठाऱ्ठ्JKव्_५,२.३१ः

अवातित्येव ।
नमनं नतं ।
नासिकायाः सम्बन्धिनि नते अभिधेये टिटच्नाटच्भ्रटचित्येते प्रत्यया भवन्ति सञ्ज्ञायां विषये ।
नासिकाया नतं अवटीटम्, अवनाटम्, अवभ्रटं ।
तद्योगान्नासिकाऽपि तथा+उच्यते, अवटीटः, अवनाटः, अवभ्रटः इति । ।


____________________________________________________________________


  1. <नेर्बिडज्बिरीसचौ># । । PS_५,२.३२ । ।



_____Sठाऱ्ठ्JKव्_५,२.३२ः
नते नासिकायाः इत्यनुवर्तते, सञ्ज्ञायां इति च ।
नि-शब्दान्नासिकाया नतेऽभिधेये बिडच्बिरीसचित्येतौ प्रत्ययौ भवतः ।
निबिडम्, निबिरीसं ।
तद्योगात्नासिकाऽपि ।
पुरुषोऽपि, निबिडः, निबिरीसः ।
कथं निबिडाः केशाः, निबिडं वस्त्रं ? उपमानाद्भविष्यति । ।


____________________________________________________________________


[#५०५]

  1. <इनच्पिटच्चिक चि च># । । PS_५,२.३३ । ।



_____Sठाऱ्ठ्JKव्_५,२.३३ः

नेः इत्येव, नते नासिकायाः इति च ।
नि-शब्दान्नासिकाया नतेऽभिधेये इनच्पिटचित्येतौ प्रत्ययौ भवतः, तत्संनियोगेन च नि-शब्दस्य यथासङ्ख्यं चिक चि इत्येतावादेशौ भवतः ।
चिकिनः, चिपिटः । ।
ककारः प्रत्ययो वक्तव्यश्चिक्च प्रकृत्यादेशः ।
चिक्कः ।
तथा च+उक्तं - इनच्-पिटच्-काश्चिकचिचिकादेशाश्च वक्तव्याः इति ।
क्लिन्नस्य चिल्-पिल्लश्च अस्य चक्षुषी ।
क्लिन्नस्य चिल्पिलित्येतावादेशौ भवतः लश्च प्रत्ययोऽस्य चक्षुषी इत्येतस्मिन्नर्थे ।
क्लिन्ने अस्य चक्षुषी चिल्लः, पिल्लः ।
चुलादेशो वक्तव्यः ।
चुल्लः ।
अस्य इत्यनेन नार्थः ।
चक्षुषोरेव अभिधाने प्रत्यय इष्यते ।
क्लिअन्ने चक्षुषी चिल्ले, पिल्ले चुल्ले ।
तद्योगात्तु पुरुषस्तथा+उच्यते । ।


____________________________________________________________________


  1. <उप-अधिभ्यां त्यकन्नासन्न-आरूढयोः># । । PS_५,२.३४ । ।



_____Sठाऱ्ठ्JKव्_५,२.३४ः

उप अधि इत्येताभ्यां यथासङ्ख्यं आसन्नारूढयोर्वर्तमानाभ्ह्यां स्वार्थे त्यकन्प्रत्ययो भवति ।
सञ्ज्ञाधिकाराच्च नियतविषयं आसन्नारूढं गम्यते ।
पर्वतस्य आसन्नं उपत्यका ।
तस्य+एस्व आरूढं अधित्यका ।
प्रत्ययस्थात्कात्पूर्वस्य इति इत्वं अत्र न भवति, सञ्ज्ञाधिकारादेव । ।


____________________________________________________________________


  1. <कर्मणि घटोऽठच्># । । PS_५,२.३५ । ।



_____Sठाऱ्ठ्JKव्_५,२.३५ः

निर्देशादेव समर्थविभक्तिः ।
कर्म-शब्दात्सप्तमीसमर्थाद्घटः इत्येतस्मिन्नर्थे अठच्प्रत्ययो भवति ।
ङ्हटते इति ङ्हटः ।
कर्मणि ङ्हटते कर्मठः पुरुषः । ।


____________________________________________________________________


  1. <तदस्य सञ्जातं तारका-आदिभ्य इतच्># । । PS_५,२.३६ । ।



_____Sठाऱ्ठ्JKव्_५,२.३६ः

तदिति प्रथमासमर्थेभ्यस्तारका-आदिभ्यः शब्देभ्यः अस्य इति षष्ठ्यर्थे इतच्प्रत्ययो भवति ।
सञ्जात-ग्रहणं प्रकृति-विशेषणं ।
तारकाः सञ्जाता अस्य नभसः तारकितं नभः ।
पुष्पितो वृक्षः ।
तारका ।
पुष्प ।
मुकुल ।
कण्टक ।
पिपासा ।
सुख ।
दुःख ।
ऋजीष ।
कुड्मल ।
सूचक ।
रोग ।
विचार ।
व्याधि ।
निष्क्रमण ।
मूत्र ।
पुरीष ।
किसलय ।
कुसुम ।
प्रचार ।
तन्द्रा ।
वेग ।
पुक्षा ।
श्रद्धा ।
उत्कण्ठा ।
भर ।
द्रोह ।
गर्भादप्राणिनि ।
तारकादिराकृतिगणः । ।


____________________________________________________________________


[#५०६]

  1. <प्रमाणे द्वयसज्-दघ्नञ्-मात्रचः># । । PS_५,२.३७ । ।


_____Sठाऱ्ठ्JKव्_५,२.३७ः

तदस्य इत्यनुवर्तते ।
तदिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे द्वयसच्दघ्नच्मात्रचित्येते प्रत्यया भवन्ति यत्तत्प्रथमासमर्थं प्रमाणं चेत्तद्भवति ।
ऊरुः प्रमाणं अस्य ऊरुद्वयसम्, ऊरुदघ्नम्, ऊरुमात्रं ।
जानुद्वयसं ।
जानुदघ्नं ।
जानुमात्रं ।
प्रथमश्च द्वितियश्च ऊर्ध्वमाने मतौ मम ।
ऊरुद्वयसं उदकं ।
ऊरुदघ्नं उदकं ।
मात्रच्पुनरविशेषेण, प्रस्थमात्रं इत्यपि भवति ।
प्रमाणे लो वक्तव्यः ।
प्रमाण-शब्दा इति ये प्रसिद्धाः, तेभ्य उत्पन्नस्य प्रत्ययस्य लुग्भवति ।
शमः प्रमाणमस्य शमः ।
दिष्टिः ।
वितस्तिः ।
द्विगोर्नित्यं ।
द्वौ शमौ प्रमाणं अस्य द्विशमः ।
त्रिशमः ।
द्विवितस्तिः ।
नित्य-ग्रहणं किं ? संशये श्राविणं वक्ष्यति, तत्र अपि द्विगोर्लुगेव यथा स्याथ् ।
द्वे दिष्टी स्यातां वा न वा द्विदिष्टिः ।
डिट्स्तोमे वक्तव्यः ।
पञ्चदशः स्तोमः ।
पञ्चदशी रात्रिः ।
टित्त्वाद्ङीप् ।
शन्शतोर्डिनिर्वक्तव्यः ।
पञ्चदशिनोऽर्धमासाः, त्रिंशिनो मासाः ।
विंशतेश्चेति वक्तव्यं ।
विंशिनोऽङ्गिरसः ।
प्रमाणपरिमाणाभ्यां सङ्ख्यायाश्च अपि संशये मात्रच्वक्तव्यः ।
शममात्रं ।
दिष्टिमात्रं ।
प्रस्थमात्रं ।
कुडवमात्रं ।
पञ्चमात्रं ।
दशमात्रा गावः ।
वत्वन्तात्स्वार्थे द्वयसज्मात्रचौ बहुलं ।
तावदेव तावद्द्वयसम्, तावन्मात्रं ।
एतावद्द्वयसम्, एतावन्मात्रं ।
यावद्द्वयसम्, यावन्मात्रं । ।


____________________________________________________________________


[#५०७]

  1. <पुरुष-हस्तिभ्यां अण्च># । । PS_५,२.३८ । ।



_____Sठाऱ्ठ्JKव्_५,२.३८ः

तदस्य इत्येव, प्रमाणे इति च ।
पुरुषहस्तिभ्यां प्रथमासमर्थाभ्यां प्रमाणोपाधिकाभ्यां अस्य इति षष्ठ्यार्थे अण्प्रत्ययो भवति, चकाराद्द्वयसजादयः ।
पुरुषः प्रमाणं अस्य पौरुषम्, पुरुषद्वयसम्, पुरुषदध्नम्, पुरुषमात्रं ।
हास्तिनम्, हस्तिद्वयसम्, हस्तिदघ्नम्, हस्तिमात्रं ।
द्विगोर्नित्यं लुक् ।
द्विपुरुषं उदकं ।
त्रिपुरुषं उदकं ।
द्विहस्ति ।
त्रिहस्ति ।
द्विपुरुषी ।
त्रिपुरुषी ।
द्विहस्तिनि ।
त्रिहसिनी । ।


____________________________________________________________________


  1. <यत्-तद्-एतेभ्यः परिमाणे वतुप्># । । PS_५,२.३९ । ।



_____Sठाऱ्ठ्JKव्_५,२.३९ः
तदस्य इत्येव ।
यत्-तद्-एतेभ्यः प्रथमासमर्थेभ्यः परिमाणोपाधिकेभ्यः अस्य इति षष्ठ्यर्थे वतुप्प्रत्ययो भवति ।
यत्परिमाणं अस्य यावान् ।
तावान् ।
एतावान् ।
प्रमाण-ग्रहणेऽनुवर्तमाने परिमाण-ग्रहणं प्रमाणपरिमाणयोर्भेदाथ् ।
डावताव्-अर्थवैशेष्यान्निर्देशः पृथगुच्यते ।
मात्राद्यप्रतिघाताय भावः सिद्धश्च डावतोः ।
वतुप्प्रकरणे युष्मदस्मद्भ्यां छन्दसि सादृश्य उपसङ्ख्यानं ।
न त्वा वां अन्यो दिव्यो न पीर्थिवो अ जातो न जनिस्यते ।
त्वावतः पुरूवसो यज्ञं विप्रस्य मावतः ।
त्वत्सदृशस्य, मत्सदृशस्य इत्यर्थः । ।


____________________________________________________________________


  1. <किम्-इदम्-भ्यां वो घः># । । PS_५,२.४० । ।



_____Sठाऱ्ठ्JKव्_५,२.४०ः

किम्-इदम्-भ्यां उत्तरस्य वतुपो वकारस्य घकारादेशो भवति ।
कियान् ।
इयान् ।
एतदेव चादेशविधानं ज्ञापकं किमिदम्भ्यां वतुप्-प्रत्ययो भवति इति ।
अथ वा योगविभागेन वतुपं विधाय पश्चाद्वो घो विधीयते । ।


____________________________________________________________________


  1. <किमः सङ्ख्यापरिमाणे डति च># । । PS_५,२.४१ । ।



_____Sठाऱ्ठ्JKव्_५,२.४१ः

सङ्ख्यायाः परिमाणं सङ्ख्यापरिच्छेदः इत्यर्थः ।
सङ्ख्यापरिमाणे वर्तमानात्किमः प्रथमासमर्थादस्य इति षष्ठ्यर्थे डतिः प्रत्ययो भवति, चकाराद्वतुप् ।
तस्य च वकारस्य घादेशो भवति ।
पृच्छ्यमानत्वात्परिच्छेदोपाधिकायां सङ्ख्यायां वर्तमानात्किमः प्रत्ययो विज्ञायते ।

[#५०८]

का सङ्ख्या परिमाणं एषां ब्राह्मणानां कति ब्राह्मणाः, कियन्तो ब्राह्मणाः ।
अथ वा सङ्ख्या+एव परिमाणात्मिका परिच्छेदस्वभावा गृह्यते, का सङ्ख्या परिमाणं येषां इति ।
ननु च सङ्ख्या एवमात्मिकैव परिच्छेदस्वभावा, सा किमर्थं परिमाणेन विशेष्यते ? यत्र अपरिच्छेदकत्वेन विवक्ष्यते तत्र मा भूदिति ।
क्षेपे हि परिच्छेदो न अस्ति, केयं एषां सङ्ख्या दशानां इति । ।


____________________________________________________________________


  1. <सङ्ख्याया अवयवे तयप्># । । PS_५,२.४२ । ।



_____Sठाऱ्ठ्JKव्_५,२.४२ः

तदस्य इत्येव ।
सङ्ख्याया अवयवे वर्तमानायाः अस्य इति षष्ठ्यर्थे तयप्प्रत्ययो भवति ।
अवयवावयविनः सम्बन्धिनः इति सामर्थ्यातवयवी प्रत्ययार्थो विज्ञायते ।
पञ्च अवयवा यस्य पञ्चतयं ।
दशतयं ।
चतुष्टयं ।
चतुष्टयी । ।


____________________________________________________________________


  1. <द्वि-त्रिभ्यां तयस्य अयज्वा># । । PS_५,२.४३ । ।



_____Sठाऱ्ठ्JKव्_५,२.४३ः

पूर्वेण विहितस्य तयस्य द्वित्रिभ्यां परस्य वा अयजादेशो भवति ।
द्वौ अवयवौ अस्य द्वयम्, द्वितयं ।
त्रयम्, त्रितयं ।
तय-ग्रहणं स्थानिनिर्देशार्थं ।
अन्यथा प्रत्ययान्तरं अयज्विज्ञायेत ।
तत्र को दोषः ? त्रयी गतिः इति तयनिबन्धन ईकारो न स्यात्, प्रथम-चरम-तय-अल्प-अर्ध-कतिपय. नेमाश्च (*१,१.३३) ।
इत्येष विधिर्न स्याथ् ।
द्वये ।
द्वयाः ।
चकारः स्वरार्थः । ।


____________________________________________________________________


  1. <उभादुदात्तो नित्यम्># । । PS_५,२.४४ । ।



_____Sठाऱ्ठ्JKव्_५,२.४४ः

उभ-शब्दात्परस्य तयपो नित्यं अयजादेशो भवति, स चोदात्तः ।
वचनसामर्थ्यादादेरुदात्तत्वं विज्ञायते ।
उभशब्दो यति लौकिकी सङ्ख्या ततः पूर्वेण+एव विहितस्य तयप आदेशविधानार्थं वचनं ।
अथ न सङ्ख्या, ततो योगविभागेन तयपं विधाय तस्य नित्यं अयजादेशो विधीयते ।
उभयो मणिः ।
उभयेऽस्य देवमनुष्याः । ।


____________________________________________________________________


  1. <तदस्मिन्नधिकं इति दशान्ताड्डः># । । PS_५,२.४५ । ।



_____Sठाऱ्ठ्JKव्_५,२.४५ः

ततिति प्रथमासमर्थातस्मिनिति सप्तम्यर्थे दशान्तात्प्रातिपदिकात्डः प्रत्ययो भवति यत्तत्प्रथमासमर्थं अधिकं चेत्तद्भवति ।
इतिकरणस्ततश्चेद्विवक्षा ।
एकादश अधिका अस्मिनशते एकादशं शतं ।
एकादशं सहस्त्रं ।
द्वादशं शतं ।
द्वादशं सहस्रं ।
दशान्तातिति किं ? पञ्च अधिका अस्मिन्शते ।
अन्त-ग्रहणं किं ? दशाधिका अस्मिन्शते ।

[#५०९]

प्रत्ययार्थेन च समानजातीये प्रकृत्यर्थे सति प्रत्यय इष्यते ।
एकादश कार्षापणा अधिका अस्मिन्कार्षापणशते एकादशं कार्षापनशतं इति ।
इह तु न भवति, एकादश माषा अधिका अस्मिन्कार्षापणशते इति ।
शतसहस्रयोश्च+इष्यते ।
इह न भवति, एकादशाधिका अस्यां त्रिंशति इति ।
इतिकरणो विवक्षार्थ इत्युक्तं, तत इदं सर्वं लभ्यते ।
कथं एकादशं शतसहस्रं इति ? शतानां सहस्रं, सहस्राणां वा शतं इति शतसहस्रं इत्युच्यते ।
तत्र शतसहस्रयोः इत्येव सिद्धं ।
अधिके समानजाताविष्टं शतसहस्रयोः ।
यस्य सङ्ख्या तदाधिक्ये डः कर्तव्यो मतो मम । ।


____________________________________________________________________


  1. <शदन्त-विंशतेश्च># । । PS_५,२.४६ । ।



_____Sठाऱ्ठ्JKव्_५,२.४६ः

तदस्मिन्नधिकं इत्यनुवर्तते, डः इति च ।
शदन्तात्प्रातिपदिकात्विंशतेश्च डः प्रत्ययो भवति तदस्मिन्नधिकं इत्येतस्मिन्विषये ।
त्रिंशदधिका अस्मिञ्छते त्रिंशं शतं ।
शद्-ग्रहनेऽन्त-ग्रहनं प्रत्यय-ग्रहणे यस्मात्स तदादेरधिकार्थं ।
एकत्रिंश शतं ।
एकचत्वारिंशं शतं ।
सङ्ख्या-ग्रहणं च कर्तव्यं ।
इह मा भूत्, गोत्रिंशदधिका अस्मिन्गोशते इति ।
विंशतेश्च ।
विशं शतं ।
तदन्तादपि इति वक्तव्यं ।
एकविंशं शतं ।
सङ्ख्या-ग्रहणं च कर्तव्यं ।
इह मा भूत्, गोविंशतिरधिकाऽस्मिन्गोशते इति । ।


____________________________________________________________________


  1. <सङ्ख्याया गुणस्य निमाने मयट्># । । PS_५,२.४७ । ।



_____Sठाऱ्ठ्JKव्_५,२.४७ः
तदस्य इत्यनुवर्तते तदस्य सञ्जातं इत्यतः ।
तदिति प्रथमासमर्थात्सङ्ख्यावाचिनः प्रातिपदिकातस्य इति षष्ठ्यर्थे मयट्प्रत्ययो भवति यत्तत्प्रथमासमर्थं गुणस्य चेन्निमाने वर्तते ।
गुणो भागः निमानं मूल्यं ।
गुणो येन निमीयते मूल्यभूतेन सोऽपि सामर्थ्याद्भाग एव विज्ञायते ।
यवानां द्वौ भागौ निमानं अस्य उदश्विद्भागस्य द्विमयमुदश्विद्यवानां ।
त्रिमयं ।
चतुर्मयं ।
भागेऽपि तु विधीयामानः प्रत्ययः प्राधान्येन भागवन्तमाचष्टे ।
तेन सामान्याधिकरण्यं भवति द्विमयमुदश्वितिति ।
गुणस्य इति चैकत्वं विवक्षितं, तेन+इह न भवति, द्वौ भागौ यवानां त्रय उदश्वितः इति ।

[#५१०]

भूयसश्च वाचिकायाः सङ्ख्यायाः प्रत्यय इष्यते ।
इह न भवति, एको भागो निमानमस्य इति ।
भूयसः इति च प्रत्ययार्थात्प्रकृत्यर्थस्य अधिक्यमात्रं विवक्षितं ।
बहुत्वमतन्त्रं, तेन द्विशब्दादपि भवति ।
गुणशब्दः समानावय्ववचनः ।
तेन+इह न भवति, द्वौ भागौ यवानां अध्यर्ध उदश्वितः इति ।
निमेये चापि दृश्यते ।
निमेये वर्तमानायाः सङ्ख्याया निमाने प्रत्ययो दृश्यते ।
उदश्वितो द्वौ भागौ निमेयमस्य यवभागस्य द्विमया यवा उदश्वितः ।
त्रिमया यवा उदश्वितः ।
चतुर्मयाः ।
गुणस्य इति किं ? द्वौ व्रीहियवौ निमानमस्य+उदश्वितः ।
निमाने इति किं ? द्वौ गुणौ क्षीरस्य एकस्तैलस्य, द्विगुणं पच्यते तैलं क्षीरेण इत्यत्र मा भूत् । ।


____________________________________________________________________


  1. <तस्य पूरणे डट्># । । PS_५,२.४८ । ।



_____Sठाऱ्ठ्JKव्_५,२.४८ः

तस्य इति षष्ठीसमर्थात्सङ्ख्यावाचिनः प्रातिपदिकात्पूरणे इत्यस्मिन्नर्थे डट्प्रत्ययो भवति ।
पूर्यतेऽनेन इति पूरणं ।
येन सङ्ख्या सङ्ख्यानं पूर्यते सम्पद्यते, स तस्याः पूरणः ।
एकादशानां पूरणः एकदशः ।
त्रयोदशः ।
यस्मिन्नुपसञ्जातेऽन्या सङ्ख्या सम्पद्यते स प्रत्ययार्थः ।
इह न भवति, पञ्चानां मुष्टिकानां पूरणो घटः इति । ।


____________________________________________________________________


  1. <न अन्तादसङ्ख्या-आदेर्मट्># । । PS_५,२.४९ । ।



_____Sठाऱ्ठ्JKव्_५,२.४९ः

डटिति वर्तते ।
नकारान्तात्सङ्ख्यावाचिनः प्रातिपदिकातसंख्यादेः परस्य डटो मडागमो भवति ।
नान्तातिति पञ्चमी इट आगमसम्बन्धे षष्ठीं प्रकल्पयति ।
पञ्चानां पूरणः पञ्चमः ।
सप्तमः ।
नान्तातिति किं ? विंशतेः पूरणः विंशः ।
असङ्ख्यादेः इति किं ? एकादशानां पूरणः एकादशः । ।


____________________________________________________________________


  1. <थट्च छन्दसि># । । PS_५,२.५० । ।



_____Sठाऱ्ठ्JKव्_५,२.५०ः

नान्तादसङ्ख्यादेः परस्य डटः छन्दसि विषये थडागमो भवति ।
चकारात्पक्षे मडपि भवति ।
पर्णमयानि पञ्चथानि भवन्ति ।
पञ्चथः ।
सप्तथः ।
मट्- पञ्चममिन्द्रियस्यापाक्रामत् । ।


____________________________________________________________________


[#५११]

  1. <षट्-कति-कतिपय-चतुरां थुक्># । । PS_५,२.५१ । ।



_____Sठाऱ्ठ्JKव्_५,२.५१ः

डटिति अनुवर्तते,

[#५१०]

तदिह सप्तम्या विपरिणम्यते ।
षट्कति कतिपय चतुरित्येषां डटि पुरतस्थुगागमो भवति ।
कतिपयशब्दो न सङ्ख्या ।
तस्य अस्मादेव ज्ञापकात्डट्प्रत्ययो विज्ञायते ।
षण्णां पुरणः षष्ठः ।
कतिथः ।
कतिपयथः ।
चतुर्थः ।
चतुरश्छयतावाद्यक्षरलोपश्च ।
चतुर्णां पूरणः तुरीयः, तुर्यः । ।


____________________________________________________________________


[#५११]

  1. <बहु-पूग-गण-सङ्घस्य तिथुक्># । । PS_५,२.५२ । ।



_____Sठाऱ्ठ्JKव्_५,२.५२ः

डटित्येव ।
बहु पूग गन सङ्घ इत्येतेषां डटि परतः तिथुगागमो भवति ।
पूगसङ्घशब्दयोरसङ्ख्यात्वादिदं एव ज्ञापकं डटो भावस्य ।
बहूनां पूरणः बहुतिथः ।
पूगतिथः ।
गणतिथः ।
सङ्घतिथः । ।


____________________________________________________________________


  1. <वतोरिथुक्># । । PS_५,२.५३ । ।



_____Sठाऱ्ठ्JKव्_५,२.५३ः

डटित्येव ।
वतोर्डटि परतः इथुगागमो भवति ।
वत्वन्तस्य संख्यात्वात्पूर्वेण डड्विहितः, तस्मिन्नयं आगमः विधीयते ।
यावतां पूरणः यावतिथः ।
तावतिथः ।
एतावतिथः । ।

____________________________________________________________________


  1. <द्वेस्तीयः># । । PS_५,२.५४ । ।



_____Sठाऱ्ठ्JKव्_५,२.५४ः

द्विशब्दात्तीयः प्रत्ययो भवति तस्य पूरणे इत्यस्मिन्विषये ।
डटोऽपवादः ।
द्व्योः पूरणः द्वितीयः । ।


____________________________________________________________________


  1. <त्रेः सम्प्रसारणं च># । । PS_५,२.५५ । ।



_____Sठाऱ्ठ्JKव्_५,२.५५ः

त्रिशब्दात्तीयः प्रत्ययः भवति तस्य पूरणे इत्येतद्विषये ।
डटोऽपवादः ।
तत्संनियोगेन त्रेः संप्रसारणं च भवति ।
त्रयाणां पूरणः तृतीयः ।
हलः (*६,४.२.) इति संप्रसारणस्य दीर्घत्वं न भवति ।
अणः इति तत्र अनुवर्तते ढ्रलोपे इत्यतः ।
पूर्वेण च णकारेण अण्ग्रहणं । ।


____________________________________________________________________


[#५१२]

  1. <विंशत्य्-आदिभ्यस्तमडन्यतरस्याम्># । । PS_५,२.५६ । ।



_____Sठाऱ्ठ्JKव्_५,२.५६ः

विंशत्य्-आदिभ्यः परस्य डटः तमडागमो भवत्यन्यतरसयां ।
पूरणाधिकारात्डट्प्रत्यय आगमी विज्ञायते ।
विंशतेः पूरणः विंशतितमः, विंशः ।
एकविंशतितमः, एकविंशः ।
त्रिविंशतितमः, त्रिविंशः ।
त्रिंशत्तमः, त्रिंशः ।
एकत्रिंशत्तमः, एकत्रिंशः ।
विंशत्यादयो लौकिकाः सङ्ख्याशब्दा गृह्यन्ते, न पङ्क्त्यादि-सूत्र-संनिविष्टाः ।
तद्ग्रहणे ह्येकविंशतिप्रभुऋतिभ्यो न स्याथ् ।
ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधाथ् ।
एवं च सति षष्ट्यादेश्च असङ्ख्यादेः (*५,२.५८) इति पर्युदासोयुज्यत एव । ।


____________________________________________________________________


  1. <नित्यं शतादि-मास-अर्धमास-संवत्सराच्च># । । PS_५,२.५७ । ।



_____Sठाऱ्ठ्JKव्_५,२.५७ः

शतादयः संख्याशब्दाः लौकिका गृह्यन्ते ।
शतादिभ्यः मासार्धमाससंवत्सरशदेभ्यश्च परस्य डटो नित्यं तमडागमः भवति ।
मासादयः संख्याशब्दा न भवन्ति, तेभ्योऽस्मादेव ज्ञापकात्डट्प्रत्ययो विज्ञायते ।
शतस्य पूरणः शततमः ।
सहस्रतमः ।
लक्षतमः ।
मासस्य पूरनः मासतमो दिवसः ।
अर्धमासतमः ।
संवत्सरतमः ।
षष्ट्यादेश्च असङ्ख्यादेः (*५,२.५८) इति वक्ष्यमाणेन सिद्धे शतादिग्रहणं सङ्ख्याद्यर्थं ।
एकशततमः ।
द्विशततमः । ।


____________________________________________________________________

  1. <षष्ट्यादेश्च असङ्ख्यादेः># । । PS_५,२.५८ । ।



_____Sठाऱ्ठ्JKव्_५,२.५८ः

षष्ट्यादेः सङ्ख्याशब्दादसङ्ख्यादेः परस्य डटो नित्यं तमडागमः भवति ।
विंशत्यादिभ्यः इति विकल्पेन प्राप्ते नित्यार्थं ।
षष्टितमः ।
सप्ततितमः ।
असंख्यादेः इति किं ? एकषष्टः, एकषष्टितमः ।
एकसप्ततः, एकसप्ततितमः । ।


____________________________________________________________________


  1. <मतौ छः सूक्त-साम्नोः># । । PS_५,२.५९ । ।



_____Sठाऱ्ठ्JKव्_५,२.५९ः

मतौ इति मत्वर्थ उच्यते ।
प्रातिपदिकान्मत्वर्थे छः प्रत्ययो भवति सूक्ते सामनि च अभिधेये ।
मत्वर्थ-ग्रहणेन समर्थविभक्तिः, प्रकृतिविशेषनं, प्रत्ययार्थः इति सर्वं आक्षिप्यते ।
अच्छावाक-शब्दोऽस्मिन्निति अच्छावाकीयं सूक्तं ।
मित्रावरुणीयं ।
यज्ञायज्ञीयं साम ।
वारवन्तीयं ।
अनुकरन-शब्दाश्च स्वरूपामात्र-प्रधानाः प्रत्ययं उत्पादयन्ति ।
तेन अनेकपदादपि सिद्धं ।
अस्यवमीयं ।
कयाषुभीयं । ।


____________________________________________________________________


[#५१३]

  1. <अध्याय-अनुवाकयोर्लुक्># । । PS_५,२.६० । ।



_____Sठाऱ्ठ्JKव्_५,२.६०ः

मतौ इत्येव ।
मत्वर्थे उत्पन्नस्य छस्य लुक्भवति अध्यायानुवाकयोः अभिधेययोः ।
केन पुनरध्यायानुवाकयोः प्रत्ययः ? इदं एव लुग्-वचनं ज्ञापकं तद्विधानस्य ।
विकल्पेन लुगयं इष्यते ।
गर्दभाण्डशब्दोऽस्मिन्निति गर्दभाण्डोऽध्यायः, अनुवाको वा गर्दभान्डीयः ।
दीर्घजीवितः, दीर्घजीवितीयः ।
पलितस्तम्भः, पलितस्तम्भीयः । ।


____________________________________________________________________


  1. <विमुक्त-आदिभ्योऽण्># । । PS_५,२.६१ । ।



_____Sठाऱ्ठ्JKव्_५,२.६१ः

मतौ इत्येव, अध्यायानुवाकयोः इति च ।
विमुक्तादिभ्यः प्रातिपदिकेभ्योऽण्प्रत्ययो भवति मत्वर्थे अध्यायानुवाकयोरभिधेययोः ।
विमुक्त-शब्दोऽस्मिन्नस्ति वैमुक्तोऽध्यायः अनुवाको वा ।
दैवासुरः ।
विमुक्त ।
देवासुर ।
वसुमथ् ।
सत्वथ् ।
उपसथ् ।
दशार्हपयस् ।
हविर्द्धान ।
मित्री ।
सोमापूषन् ।
अग्नाविष्णु ।
वृत्रहति ।
इडा ।
रक्षोसुर ।
सदसथ् ।
परिषादक् ।
वसु ।
मरुत्वथ् ।
पत्नीवथ् ।
महीयल ।
दशार्ह ।
वयस् ।
पतत्रि ।
सोम ।
महित्री ।
हेतु ।
विमुक्तादिः । ।


____________________________________________________________________


  1. <गोषदादिभ्यो वुन्># । । PS_५,२.६२ । ।



_____Sठाऱ्ठ्JKव्_५,२.६२ः

मतौ इत्येव, अध्यायानुवाकयोः इति च ।
गोषदादिभ्यः प्रातिपदिकेभ्यः वुन्प्रत्ययो भवति मत्वर्थेऽध्यायानुवाकयोः ।
गोषदशब्दोऽस्मिन्निति गोषडकोऽध्यायोऽनुवाको वा ।
इषेत्वकः ।
मातरिश्वकः ।
गोषद ।
इषेत्वा ।
मातरिश्वन् ।
देवस्यत्वा ।
देवीरापः ।
कृष्णोस्याख्यरेष्टः ।
दैवींधियं ।
रक्षोहण ।
अञ्जन ।
प्रभूत ।
प्रतूर्त ।
कृशानु ।
गोषदादिः । ।


____________________________________________________________________


  1. <तत्र कुशलः पथः># । । PS_५,२.६३ । ।



_____Sठाऱ्ठ्JKव्_५,२.६३ः

वुनित्येव ।
तत्र इति सप्तमीसमर्थात्पथिन्शब्दात्कुशलः इत्यस्मिन्नर्थे वुन्प्रत्ययो भवति ।
पथि कुशलः पथकः । ।


____________________________________________________________________


  1. <आकर्शादिभ्यः कन्># । । PS_५,२.६४ । ।



_____Sठाऱ्ठ्JKव्_५,२.६४ः

तत्र इत्येव, कुशलः इति च ।
आकर्शादिभ्यः प्रातिपदिकेभ्यः सप्तमीसमर्थेभ्यः कुशलः इत्येतस्मिन्नर्थे कन्प्रत्ययो भवति ।
आकर्षे कुशलः आकर्षकः ।
त्सरुकः ।
आकर्ष ।
त्सरु ।
पिप्पसा ।
पिचण्ड ।
अशनि ।
अश्मन् ।
विचय ।
चय ।
जय ।
आचय ।
अय ।
नय ।
निपाद ।
गद्गद ।
दीप ।
ह्रद ।
ह्राद ।
ह्लाद ।
शकुनि ।
आकर्शादिः । ।


____________________________________________________________________


[#५१४]

  1. <धन-हिरण्यात्कामे># । । PS_५,२.६५ । ।



_____Sठाऱ्ठ्JKव्_५,२.६५ः

तत्र इत्येव, कनिति च ।

[#५१३]

धन-हिरण्य-शब्दाभ्यां तत्र इति सप्तमीसमर्थाभ्यां कामे इत्यस्मिन्नर्थे कन्प्रत्ययो भवति ।
कामः इच्छा, अभिलाषः ।
धने कामः धनको देवदत्तस्य ।
हिरण्यको देवदत्तस्य । ।


____________________________________________________________________

[#५१४]

  1. <स्वाङ्गेभ्यः प्रसिते># । । PS_५,२.६६ । ।



_____Sठाऱ्ठ्JKव्_५,२.६६ः

तत्र इत्येव, कनिति च ।
स्वाङ्गवाचिभ्यः शब्देभ्यः तत्र इति सप्तमीसमर्थेभ्यः प्रसिते इत्येतस्मिन्नर्थे कन्प्रत्ययो भवति ।
प्रसितः प्रसक्तस्तत्परः इत्यर्थः ।
केशेषु प्रसितः केशकः ।
केशादिरचनायां प्रसक्त एवं उच्यते ।
बहुवचनं स्वाङ्ग-समुदाय-शब्दादपि यथा स्याथ् ।
दन्तौष्ठकः ।
केशनखकः । ।


____________________________________________________________________


  1. <उदराट्ठगाद्यूने># । । PS_५,२.६७ । ।



_____Sठाऱ्ठ्JKव्_५,२.६७ः

तत्र इत्येव, प्रसिते इति च ।
उदरशब्दात्सप्तमीसमर्थात्प्रसिते इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति ।
आध्यूने इति प्रत्ययार्थविशेषणं ।
उदरेऽविजिगीषुर्भण्यते ।
यो बुभुक्षयाऽत्यन्तं पीड्यते स एवं उच्यते ।
उदरे प्रसितः औदरिकः आद्यूनः ।
आद्यूने इति किं ? उदरकः । ।


____________________________________________________________________


  1. <सस्येन परिजातः># । । PS_५,२.६८ । ।



_____Sठाऱ्ठ्JKव्_५,२.६८ः

कन्प्रत्ययः इत्येव स्वर्यते, न ठक् ।
निर्देशादेव तृतीयासमर्थविभक्तिः ।
सस्य-शब्दात्तृतीयासमर्थात्परिजातः इत्यस्मिन्नर्थे कन्प्रत्ययो भवति ।
सस्यशब्दोऽयं गुणवाचि ।
परिः सर्वतो भावे वर्तते ।
यो गुणैः सम्बद्धो जायते, यस्य किञ्चिदपि वैगुण्यं न अस्ति, तस्य+इदं अभिधानं ।
सस्येन परिजातः सस्यकः शालिक ।
सस्यकः साधुः ।
सस्यको मणिः ।
आकरशुद्ध इत्यर्थः । ।


____________________________________________________________________


  1. <अंशं हारि># । । PS_५,२.६९ । ।



_____Sठाऱ्ठ्JKव्_५,२.६९ः

अंशशब्दान्निर्देशादेव द्वितियासमर्थाद्हारी इत्येतस्मिन्नर्थे कन्प्रत्ययो भवति ।
अंशं हारी अंशको दायादः ।
अंशकः पुत्रः ।
हारी इति आवश्यके णिनिः ।
तत्र षष्ठीप्रतिषेधात्कर्मणि द्वितीया एव भवति । ।


____________________________________________________________________


[#५१५]

  1. <तन्त्राद्-अचिर-अपहृते># । । PS_५,२.७० । ।


_____Sठाऱ्ठ्JKव्_५,२.७०ः

तन्त्रशब्दान्निर्देशादेव पञ्चमीसमर्थातचिरापहृते इत्येतस्मिन्नर्थे कन्प्रत्ययो भवति ।
अचिरापहृतः स्तोककालापहृतः इत्यर्थः ।
तन्त्रादचिरापहृतः तन्त्रकः पटः ।
तन्त्रकः प्रावारः ।
प्रत्यग्रो नव उच्यते । ।


____________________________________________________________________


  1. <ब्राह्मणक-उष्णिके सञ्ज्ञायाम्># । । PS_५,२.७१ । ।



_____Sठाऱ्ठ्JKव्_५,२.७१ः

ब्राह्मणक उष्णिक इत्येतौ शब्दौ निपात्येते कन्प्रत्ययान्तौ सञ्ज्ञायां विषये ।
ब्राह्मणको देशः ।
उष्णिका यवागूः ।
यत्र अयुधजीविनो ब्राह्मणाः सन्ति तत्र ब्राह्मणकः इति सञ्ज्ञा ।
अल्पान्ना यवागूः उष्णिका इत्युच्यते । ।


____________________________________________________________________


  1. <शीतोष्णाभ्यां कारिणि># । । PS_५,२.७२ । ।



_____Sठाऱ्ठ्JKव्_५,२.७२ः

शीतोष्णा-शब्दाभ्यां कारिण्यभिधेये कन्प्रत्ययो भवति ।
क्रियाविशेषणाद्द्वितीयासमर्थादयं प्रत्ययः ।
शीतं करोति शीतकः ।
अलसो, जड उच्यते ।
उष्णं करोति उष्णकः ।
शीघ्रकारी, दक्ष उच्यते । ।


____________________________________________________________________


  1. <अधिकम्># । । PS_५,२.७३ । ।



_____Sठाऱ्ठ्JKव्_५,२.७३ः

अधिकं इति निपात्यते ।
अध्यारूढस्य उत्तरपदलोपः कन्च प्रत्ययः ।
अधिको द्रोणः खार्यां ।
अधिका खारी द्रोणेन ।
कर्तरि कर्मणि च अध्यारूढशब्दः । ।


____________________________________________________________________


  1. <अनुक-अभिक-अभीकः कमिता># । । PS_५,२.७४ । ।



_____Sठाऱ्ठ्JKव्_५,२.७४ः

अनुक अभिक अभीक इत्येते शब्दाः कन्प्रत्ययान्ता निपात्यन्ते कमिता इत्येतस्मिन्नर्थे ।
अभेः पक्षे दीर्घत्वं चनिपात्यते ।
अनुकामयते अनुकः ।
अभिकः ।
अभीकः । ।


____________________________________________________________________


  1. <पार्श्वेन अन्विच्छति># । । PS_५,२.७५ । ।


_____Sठाऱ्ठ्JKव्_५,२.७५ः

पार्श्वशब्दात्तृतीयासमर्थादन्विच्छति इत्यस्मिन्नर्थे कन्प्रत्ययो भवति ।
अनृजुरुपायः पार्श्वम्, तेन अर्थानन्विच्छति पार्श्वकः ।
मायावी, कौसृतिकः, जालिकः उच्यते । ।


____________________________________________________________________


  1. <अयःशूल-दण्ड-अजिनाभ्यां ठक्-ठञौ># । । PS_५,२.७६ । ।



_____Sठाऱ्ठ्JKव्_५,२.७६ः

अन्विच्छति इत्येव ।
अयःशूल-दण्ड-अजिनाह्ब्यां तृतीयासमर्थाभ्यां अन्विच्छति इत्येतस्मिन्नर्थे ठक्ट्-हञौ प्रत्ययौ भवतः ।
तीक्ष्णः उपायः अयञ्शूलं उच्यते ।
तेन अन्विच्छति आयःशूलिकः साहसिकः इत्यर्थः दम्भो दण्डाजिनम्, तेन अन्विच्छति दाण्डाजिनिकः ।
दाम्भिकः इत्यर्थः । ।


____________________________________________________________________


[#५१६]

  1. <तावतिथं ग्रहणं इति लुग्वा># । । PS_५,२.७७ । ।



_____Sठाऱ्ठ्JKव्_५,२.७७ः

तावतां पूरणं तावतिथां ।
गृह्यतेऽनेन इति ग्रहणं ।
प्रकृतिविशेषणं च+एतथ् ।
पूरणप्रत्ययान्तात्प्रातिपदिकात्ग्रहणोपाधिकात्स्वार्थे कन्प्रत्ययो भवति ।
पूरणस्य प्रत्ययस्य वा लुक् ।
द्वितीयेन रूपेण ग्रन्थं गृह्णाति द्विकं ग्रहणम्, द्वितीयकं ।
त्रिकम्, तृतीयकं ।
चतुष्कम्, चतुर्थकं ।
तावतिथेन गृह्णाति इति कन्वक्तव्यः, पूरणप्रत्ययस्य च नित्यं लुक् ।
षष्ठेन रूपेण ग्रन्थं गृह्णाति षट्को देवदत्तः ।
पञ्चकः ।
चतुष्कः ।
इतिकरणो विवक्षार्थः ।
तेन ग्रन्थविषयं एव ग्रहणं विज्ञायते, न अन्यविषयं । ।


____________________________________________________________________


  1. <स एषां ग्रामणीः># । । PS_५,२.७८ । ।



_____Sठाऱ्ठ्JKव्_५,२.७८ः

स इति प्रथमासमर्थातेषां इति षष्ठ्यर्थे कन्प्रत्ययो भवति, यत्तत्प्रथमासमर्थं ग्रामणीश्चेत्स भवति ।
ग्रामणीः प्रधानः, मुख्यः इत्यर्थः ।
देवदत्तः ग्रामणीः एषां देवदत्तकाः ।
ब्रह्मदत्तकाः ।
ग्रामणीः इति किं ? देवदत्तः शत्रुरेषां । ।


____________________________________________________________________


  1. <शृङ्खलं अस्य बन्धनं करभे># । । PS_५,२.७९ । ।



_____Sठाऱ्ठ्JKव्_५,२.७९ः

शृङ्खल-शब्दात्प्रथमासमर्थादस्य इति षष्ठ्यर्थे कन्प्रत्ययो भवति, यत्तत्प्रथमासमर्थं बन्धनं चेद्तद्भवति, यत्तदस्य इति निर्देष्टं करभश्चेत्स भवति ।
शृङ्खलं बन्धनं अस्य करभस्य शृङ्खलकः ।
उष्ट्राणां बालकाः करभाः ।
तेषां काष्ठमयं पाशकं पादे व्यातिषज्यते, तदुच्यते शृङ्खलं इति ।
यद्यपि रज्ज्वादिकं अपि तत्र अस्ति तथापि शृङ्खलं अस्य अस्वतन्त्रीकरणे भवति साधनं इति बन्धनं इत्युच्यते । ।

____________________________________________________________________


  1. <उत्क उनमनाः># । । PS_५,२.८० । ।



_____Sठाऱ्ठ्JKव्_५,२.८०ः

उत्कः इति निपात्यते, उन्मनाश्चेद्स भवति ।
उद्गतं मनो यस्य स उन्मनाः ।
उच्-छब्दात्ससाधनक्रियावचनात्तद्वति कन्प्रत्ययो निपात्यते ।
उत्को देवदत्तः ।
उत्कः प्रवासी ।
उत्सुकः इत्यर्थः । ।


____________________________________________________________________


  1. <काल-प्रयोजनाद्रोगे># । । PS_५,२.८१ । ।



_____Sठाऱ्ठ्JKव्_५,२.८१ः

अर्थलभ्या समर्थविभक्तिः ।
कालात्प्रयोजनाच्च यथायोगं समर्थविभक्तियुक्तात्रोगेऽभिधेये कन्प्रत्ययो भवति ।
कालो देवसादिः ।
प्रयोजनं कारणं रोगस्य फलं वा ।
द्वितीयेऽह्नि भवो द्वितीयको ज्वरः ।
चतुर्थकः ।
प्रयोजनात्- विषपुष्पैर्जनितो विषपुष्पको ज्वरः ।
काशपुष्पकः ।
उष्णं कार्यं अस्य उष्णको ज्वरः ।
शीतको ज्वरः ।
उत्तरसूत्रातिह सञ्ज्ञाग्रहणं अपकृष्यते ।
तेन अयं प्रकारनियमः सर्वो लभ्यते । ।

____________________________________________________________________


[#५१७]

  1. <तदस्मिन्नन्नं प्राये सञ्ज्ञायाम्># । । PS_५,२.८२ । ।



_____Sठाऱ्ठ्JKव्_५,२.८२ः

ततिति प्रथमासमर्थादस्मिनिति सप्तम्यर्थे कन्प्रत्ययो भवति, यत्तत्प्रथमासमर्थं अन्नं चेत्प्रायविषयं तद्भवति ।
प्रायो बाहुल्यं ।
सञ्ज्ञाग्रहण तदन्तोपाधिः ।
गुडापूपाः प्रायेण अन्नं अस्यां पौर्णमास्यां गुडापूपिका ।
तिलापूपिका पौर्णमासी ।
वटकेभ्य इनिर्वक्तव्यः ।
वटकिनी पौर्णमासी । ।


____________________________________________________________________


  1. <कुल्माषादञ्># । । PS_५,२.८३ । ।



_____Sठाऱ्ठ्JKव्_५,२.८३ः

कुल्माष-शब्दातञ्प्रत्ययो भवति, तदस्मिन्नन्नं प्राये सञ्ज्ञायां (*५,२.८२) इत्येतस्मिन्नर्थे ।
ञकारो वृद्धिस्वरार्थः ।
कुल्माषाः प्रायेण अन्नमस्यां कौल्माषी पौर्णमासी । ।


____________________________________________________________________


  1. <श्रोत्रियं श्छन्दोऽधीते># । । PS_५,२.८४ । ।



_____Sठाऱ्ठ्JKव्_५,२.८४ः

श्रोत्रियनिति निपात्यते छन्दोऽधीते इत्येतस्मिन्नर्थे ।
नकारः स्वरार्थः ।
श्रोत्रियो ब्राह्मणः ।
श्रोत्रियंश्छन्दोऽधीते इति वाक्यार्थे पदवचनम्, छन्दसो वा श्रोत्रभावः, तदधीते इति घन्च प्रत्ययः ।
कथं छन्दोऽधीते छन्दसः ? बाग्रहणं अनुवर्तते तावतिथं ग्रहणं इति लुग्वा (*५,२.७७) इत्यतः । ।


____________________________________________________________________


  1. <श्राद्धं अनेनन्भुक्तं इनि-ठनौ># । । PS_५,२.८५ । ।



_____Sठाऱ्ठ्JKव्_५,२.८५ः

श्राद्धं इति प्रकृतिः ।
अनेन इति प्रत्ययार्थः ।
भुक्तं इति प्रकृतिविशेषणं ।
श्राद्धशब्दाद्भुक्तोपाधिकादनेन इत्यस्मिन्नर्थे इनिठनौ प्रत्ययौ भवतः ।
श्राद्ध-शब्दः कर्मनामधेयं तत्साधनद्रव्ये वर्तित्वा प्रत्ययं उत्पादयति ।
श्राद्धं भुक्तं अनेन श्राद्धी, श्राद्धिकः ।
इनिठनोः समानकालग्रहणं कर्तव्यम्, अद्य भुक्ते श्राद्धे श्वः श्राद्धिकः इति मा भूत् । ।


____________________________________________________________________


  1. <पूर्वादिनिः># । । PS_५,२.८६ । ।



_____Sठाऱ्ठ्JKव्_५,२.८६ः

अनेन इति प्रत्ययार्थः कर्ताऽनुवर्तते ।
न च क्रियां अन्तरेण कर्ता सम्भवति इति यां काञ्चित्क्रियामध्याहृत्य प्रत्ययो विधेयः ।
पूर्वातनेन इत्यस्मिन्नर्थे इनिः प्रत्ययो भवति ।
पूर्वं गतं अनेन पीतं भुक्तं वा पूर्वी, पूर्विणौ, पूर्विणः । ।

____________________________________________________________________


[#५१८]

  1. <सपूर्वाच्च># । । PS_५,२.८७ । ।



_____Sठाऱ्ठ्JKव्_५,२.८७ः

विद्यमानं पूर्वं यस्मादिति सपूर्वं प्रातिपदिकम्, तस्य पूर्वशब्देन तदन्तविधिः ।
सपूर्वात्प्रतिपदिकात्पूर्वशब्दान्तातनेन इत्यस्मिन्नर्थे इनिः प्रत्ययो भवति ।
पूर्वं कृतं अनेन कृतपूर्वी कटं ।
भुक्तपूर्वी ओदनं ।
सुप्सुपा इति समासं कृत्वा तद्धित उत्पाद्यते ।
योगद्वयेन च अनेन पूर्वादिनिः (*५,२.८६), सपूर्वच्च (*५,२.८७) इति परिभाषाद्वयं ज्ञाप्यते, व्यपदेशिवद्भावोऽप्रातिपदिकेन, ग्रहणवता प्रातिपदिकेन तदन्तविधिर्न अस्ति इति । ।


____________________________________________________________________


  1. <इष्ट-आदिभ्यश्च># । । PS_५,२.८८ । ।



_____Sठाऱ्ठ्JKव्_५,२.८८ः

अनेन इत्येव इष्टादिभ्यः प्रातिपदिकेभ्यः अनेन इत्यस्मिन्नर्थे इनिः प्रत्ययो भवति ।
इष्टमनेन इष्टी यज्ञे ।
पूर्ती श्राद्धे ।
क्तस्येन्विषयस्य कर्मणि इति सप्तम्युअसङ्ख्यायते ।
इष्ट ।
पूर्त ।
उपसादित ।
निगदित ।
परिवादित ।
निकथित ।
परिकथित ।
सङ्कलित ।
निपठित ।
सङ्कल्पित ।
अनर्चित ।
विकलित ।
संरक्षित ।
निपतित ।
पठित ।
परिकलित ।
अर्चित ।
परिरक्षित ।
पूजित ।
परिगणित ।
उपगणित ।
अवकीर्ण ।
परित ।
आयुक्त ।
आम्नात ।
श्रुत ।
अधीत ।
आसेवित ।
अपवारित ।
अवकल्पित ।
निराकृत ।
उपकृत ।
उपाकृत ।
अनुयुक्त ।
उपनत ।
अनुगुणित ।
अनुपठित ।
व्याकुलित ।
निगृहीत ।
इष्टादिः । ।


____________________________________________________________________


  1. <छन्दसि परिपन्थि-परिपरिणौ पर्यवस्थातरि># । । PS_५,२.८९ । ।



_____Sठाऱ्ठ्JKव्_५,२.८९ः

परिपन्थिन्परिपरिनित्येतौ शब्दौ छन्दसि विषये निपात्येते, पर्यवस्थातरि वाच्ये ।
पर्यवस्थाता प्रतिपक्षः, सप्त्न उच्यते ।
मा त्वा परिपन्थिनो विदन्मा त्वा परिपरिणो विदन् । ।


____________________________________________________________________


  1. <अनुपद्य्-अन्वेष्टा># । । PS_५,२.९० । ।



_____Sठाऱ्ठ्JKव्_५,२.९०ः

अनुपदी इति निपात्यते अन्वेष्टा चेत्स भवति ।
पदस्य पश्चादनुपदं ।
अनुपदी गवां ।
अनुपदी उष्ट्राणां । ।


____________________________________________________________________


  1. <साक्षाद्द्रष्टरि सञ्ज्ञायाम्># । । PS_५,२.९१ । ।



_____Sठाऱ्ठ्JKव्_५,२.९१ः

साक्षाच्-छब्दोऽव्ययं ।
तस्मादिनिः प्रत्ययो भवति द्रष्टरि वाच्ये ।
सञ्ज्ञाग्रहणं अभिधेयनियम-अर्थं ।
साक्षाद्द्रष्टा साक्षी ।
साक्षिणौ ।
साक्षिणः ।
सञ्ज्ञाग्रहणादुपद्रष्टा एव उच्यते, न दाता ग्रहीता वा । ।


____________________________________________________________________


[#५१९]

  1. <क्षेत्रियच्परक्षेत्रे चिकित्स्यः># । । PS_५,२.९२ । ।



_____Sठाऱ्ठ्JKव्_५,२.९२ः

क्षेत्रियचिति निपात्यते परक्षेत्रे चिकित्स्यः इत्येतस्मिन्वाक्यार्थे पदवचनं ।
परक्षेत्राद्तत्र इति सप्तमीसमर्थात्चिकित्स्यः इत्येतस्मिन्नर्थे घच्प्रत्ययः परशब्दलोपश्च निपात्यते ।
परक्षेत्रे चिकित्स्यः क्षेत्रेयो व्याधिः ।
क्षेत्रियं कुष्ठं ।
परक्षेत्रं जन्मान्तरशरीरम्, तत्र चिकित्स्यः क्षेत्रियः ।
असाध्यः प्रत्याख्येयो व्याधिरुच्यते ।
नामृतस्य निवर्तते इत्यर्थः ।
अथ वा क्षेत्रियं विषं यत्परक्षेत्रे परशरीरे संक्रमय्य चिकित्सते ।
अथ वा क्षेत्रियाणि तृणानि यानि सस्यार्थे क्षेत्रे जातानि चिकित्स्यानि नाशयितव्यानि ।
अथ वा क्षेत्रियः पारदारिकः ।
परदाराः परक्षेत्रं तत्र चिकित्स्यः निग्रहीतव्यः ।
सर्वं च+एतत्प्रमाणं । ।


____________________________________________________________________


  1. <इन्द्रियम्-इन्द्रलिङ्गम्-इन्द्रदृष्टम्-इन्द्रसृष्टम्-इन्द्रजुष्टम्-इन्द्रदत्तं इति वा># । । PS_५,२.९३ । ।



_____Sठाऱ्ठ्JKव्_५,२.९३ः

इन्द्रियं इत्यन्तोदात्तं शब्दरूपं निपात्यते ।
रूढिरेषा चक्षुरादिनां करणानं ।
तथा च व्युत्पत्तेरनियमं दर्शयति ।
इन्द्र-शब्दात्षष्ठीसमर्थात्लिङ्गं इत्येतस्मिन्नर्थे घच्-प्रत्ययो भवति ।
इन्द्रस्य्लिङ्गं इन्द्रियं ।
इन्द्र आत्मा, स चक्षुरादिना करणेन अनुमीयते ।
नाकर्तृकं करणं अस्ति ।
इन्द्रेण दृष्टं ।
तृतीयासमर्थात्प्रत्ययः ।
आत्मना दृष्टं इत्यर्थः ।
इन्द्रेण सृष्टम्, आत्मना सृष्टं ।
तत्कृतेन शुभाशुभकर्मणोत्पन्नं इति कृत्वा ।
इन्द्रेण जुष्टम्, आत्मना जुष्टं, सेवितं ।
तद्द्वारेण विज्ञानोत्पादनाथ् ।
इन्द्रेण दत्तम्, आत्मना विषयेभ्यो दत्तं यथायथं ग्रहणाय ।
इतिकरणः प्रकारार्थः ।
सति सम्भवे व्युत्पत्तिरन्यथाऽपि कर्तव्या, रूढेरनियमातिति ।
वाशब्दः प्रत्येकं अभिसम्बध्यमानो विकल्पानां स्वातन्त्र्यं दर्शयति । ।


____________________________________________________________________


  1. <तदस्य अस्त्यस्मिन्निति मतुप्># । । PS_५,२.९४ । ।



_____Sठाऱ्ठ्JKव्_५,२.९४ः

टतिति प्रथमा समर्थविभक्तिः ।
अस्य अस्मिनिति प्रत्ययार्थौ ।
अस्ति इति प्रकृतिविशेषणं ।
इतिकरणो विवक्षार्थः ।
तदिति प्रथमासमर्थादस्य+इति षष्ठ्यार्थेऽस्मिन्निति सप्तम्यर्थे वा मतुप्प्रत्ययो भवति, यत्तत्प्रथमासमर्थं अस्ति चेत्तद्भवति ।
अस्त्यर्थोपाधिकं चेद्तद्भवति इत्यर्थः ।
इतिकरणस्ततश्चेद्विवक्षा ।
गावोऽस्य सन्ति गोमान्देवदत्तः ।
वृक्षाः अस्मिन्सन्ति वृक्षवान्पर्वतः ।
यवमान् ।
प्लक्षवान् ।
इति करणाद्विषयनियमः ।
भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने ।
संसर्गेऽस्ति विवक्षायां भवन्ति मतुबादयः । ।


[#५२०]

भूम्नि तावत्- गोमान् ।
निन्दायां - कुष्ठी ।
ककुदावर्तिनी ।
प्रशंसायां - रूपवती कन्या ।
नित्ययोगे - क्षीरिणो वृक्षाः ।
अतिशायने - उदरिणी कन्या ।
संसर्गे - दण्डी ।
छत्री ।
अस्तिविवक्षायां - अस्तिमान् ।
गुणवचनेभ्यो मतुपो लुग्वक्तव्यः ।
शुक्लो गुणोऽस्य अस्ति शुक्लः पटः ।
कृष्णः ।
श्वेतः । ।


____________________________________________________________________


  1. <रसादिभ्यश्च># । । PS_५,२.९५ । ।



_____Sठाऱ्ठ्JKव्_५,२.९५ः

रसादिभ्यः प्रातिपदिकेभ्यः मतुप्प्रत्ययो भवति तदस्य अस्त्यस्मिनित्येतस्मिन्विषये ।
रसवान् ।
रूपवान् ।
किमर्थं इदं उच्यते, न पूर्वसूत्रेण+एव मतुप्सिद्धः ? रसादिभ्यः पुनर्वचनं अन्यनिवृत्त्यर्थम्, अन्ये मत्वर्थीया मा भूवन्निति ।
कथं रूपिणी कन्या, रूपिको दारकः ? प्रायिकं एतद्वचनं ।
इतिकरणो विवक्षार्थोऽनुवर्तते ।
अथ वा गुणातिति अत्र पठ्यते ।
तेन ये रसनेन्द्रियादिग्राह्या गुणाः, तेषां अत्र पाठः ।
इह मा भूत्, रूपिणी, रूपिकः इति ।
शोभायोगो गम्यते ।
रसिको नटः इत्यत्र भावयोगः ।
रस ।
रूप ।
गन्ध ।
स्पर्श ।
शब्द ।
स्नेह ।
गुणाथ् ।
एकाचः ।
गुन-ग्रहणं रसादीनां विशेषणं । ।


____________________________________________________________________


  1. <प्राणिस्थादातो लजन्यतरस्याम्># । । PS_५,२.९६ । ।



_____Sठाऱ्ठ्JKव्_५,२.९६ः

प्राणिस्थवाचिनः शब्दाताकारान्तात्लच्प्रत्ययो भवत्यन्यतरस्यां मत्वर्थे ।
चूडालः, चूडावान् ।
कर्णिकालः, कर्णिकावान् ।
प्राणिस्थातिति किं ? शिखावान्प्रदीपः ।
आतिति किं ? हस्तवान् ।
पादवान् ।
प्राण्यङ्गादिति वक्तव्यं ।
इह मा भूत्, चिकीर्षाऽस्य अस्ति चिकीर्षावान्, जिहीर्षाऽस्य अस्ति जिहीर्षावान् ।
प्रत्ययस्वरेण+एव अन्तोदात्तत्वे सिद्धे, चकारश्चूडालोऽस्ति इत्यत्र स्वरितो वानुदत्ते पदादौ (*८,२.६) इति स्वरितबाधनार्थः । ।


____________________________________________________________________


  1. <सिध्म-आदिभ्यश्च># । । PS_५,२.९७ । ।



_____Sठाऱ्ठ्JKव्_५,२.९७ः
लजन्यतरस्यां इति वर्तते ।
सिध्मादिभ्यः प्रातिपदिकेभ्यो लच्प्रत्ययो भवत्यन्यतरस्यां मत्वर्थे ।
सिध्मलः, सिध्मवान् ।
गडुलः, गडुमान् ।
अन्यतरस्यां ग्रहणेन मतुप्समुच्चीयते, न तु प्रत्ययो विकल्प्यते ।
तस्मातकारान्तेभ्यः इनिठनौ प्रत्ययौ न भवतः ।
सिध्म ।
गडु ।
मणि ।
नाभि ।
जीव ।
निष्पाव ।
पांसु ।
सक्तु ।
हनु ।
मांस ।
परशु ।
पार्ष्णिधमन्योर्दीर्घश्च ।
पार्ष्णीलः ।
धमनीलः ।
पर्ण ।
उदक ।
प्रज्ञा ।
मण्ड ।
पार्श्व ।
गण्ड ।
ग्रन्थि ।
वातदन्तबलललाटानामूङ्च ।

[#५२१]

वातूलः ।
दन्तूलः ।
बलूलः ।
ललाटूलः ।
जटाघटाकलाः क्षेपे ।
जटालः ।
घटालः ।
कलालः ।
सक्थि ।
कर्ण ।
स्नेह ।
शीत ।
श्याम ।
पिङ्ग ।
पित्त ।
शुष्क ।
पृथु ।
मृदु ।
मञ्जु ।
पत्र ।
चटु ।
कपि ।
कण्डु ।
सञ्ज्ञा ।
क्षुद्रजन्तूपतापाच्च+इष्यते ।
क्षुद्रजन्तु - यूकालः ।
मक्षिकालः ।
उपताप - विचर्चिकालः ।
विपादिकालः ।
मूर्च्छालः ।
सिध्मादिः । ।


____________________________________________________________________


  1. <वत्सांसाभ्यां कामबले># । । PS_५,२.९८ । ।



_____Sठाऱ्ठ्JKव्_५,२.९८ः

वत्सांसशब्दाभ्यां लच्प्रत्ययो भवति यथासङ्ख्यं कामवति बलवति च अर्थे ।
वत्सलः ।
अंसलः ।
वृत्तिविषये वत्सांसशब्दौ स्वभावात्कामबलयोर्वर्तमानौ तद्वति प्रत्ययं उत्पादयतः ।
न ह्यत्र वत्सार्थः अंसार्थो वा विद्यते ।
वत्सलः इति स्नेहवानुच्यते, वत्सलः स्वामी, वत्सलः पिता इति ।
अंसलः इति च उपचितमांसो बलवानुच्यते ।
न च अयं अर्थो मतुपि सम्भवति इति नित्यं लजेव भवति ।
अन्यत्र अंसवती गौः, अंसवान्दुर्बलः । ।


____________________________________________________________________


  1. <फेनादिलच्च># । । PS_५,२.९९ । ।



_____Sठाऱ्ठ्JKव्_५,२.९९ः

फेनशब्दातिलच्प्रत्ययो भवति मत्वर्थे ।
चकारात्लच्च ।
अन्यतरस्यां ग्रहणं मतुप्समुच्चयार्थं सर्वत्र+एव अनुवर्तते ।
हेनिलः, फेनलः, फेनवान् । ।


____________________________________________________________________


  1. <लोमादि-पामादि-पिच्छादिभ्यः श-न-इलचः># । । PS_५,२.१०० । ।



_____Sठाऱ्ठ्JKव्_५,२.१००ः

लोमादिभ्यः पामादिभ्यः पिच्छादिभ्यश्च त्रिभ्यो गणेभ्यो यथासङ्ख्यं श न इलचित्येते प्रत्यया भवन्ति मत्वर्थे, मतुप्च ।
लोमादिभ्यः शो भवति - लोमशः, लोमवान् ।
पामादिभ्यो नो भवति - पामनः, पामवान् ।
पिछादिभः इलच्भवति - पिच्छिलः, पिच्छवान् ।
उरसिलः, उरस्वान् ।
लोमन् ।
रोमन् ।
वल्गु ।
बभ्रौ ।
हरि ।
कपि ।
शुनि ।
तरु ।
लोमादिः ।
पामन् ।
वामन् ।
हेमन् ।
श्लेष्मन् ।
कद्रु ।
बलि ।
श्रेष्ठ ।
पलल ।
सामन् ।
अङ्गात्कल्याणे ।
शाकीपललीदद्र्वां ह्रस्वत्वं च ।
विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः ।
लक्ष्म्या अच्च ।
पामादिः ।
पिच्छ ।
उरस् ।
घ्रुवका ।
क्षुवका ।
जटाघटाकलाः क्षेपे ।
वर्ण ।
उदक ।
पङ्क ।
प्रज्ञा ।
पिच्छादिः । ।


____________________________________________________________________


  1. <प्रज्ञा-श्रद्धा-अर्चा-वृत्तिभ्यो णः># । । PS_५,२.१०१ । ।



_____Sठाऱ्ठ्JKव्_५,२.१०१ः
प्रज्ञा श्रद्धा अर्चा वृत्ति इत्येतेभ्यः णः प्रत्ययो भवति मतुबर्थे ।
मतुप्सर्वत्र समुच्चीयते ।
प्राज्ञः, प्रज्ञावान् ।
श्राद्धाः, स्रद्धावान् ।
आर्चः, अर्चावान् ।
वार्त्तः, वृत्तिमान् । ।


____________________________________________________________________


[#५२२]

  1. <तपः-सहस्राभ्यां विनि-इनी># । । PS_५,२.१०२ । ।



_____Sठाऱ्ठ्JKव्_५,२.१०२ः

तपः-सहस्र-शब्दाभ्यां विनि इनि इत्येतौ प्रत्ययौ भवतः मत्वर्थे ।
प्रत्ययार्थयोस्तु यथासङ्ख्यं सर्वत्र+एव अस्मिन्प्रकरणे निस्यते ।
तपोऽस्य अस्मिन्वा विद्यते तपस्वी ।
सहस्री ।
असन्तत्वाददन्तत्वाच्च सिद्धे प्रत्यये पुनर्वचनं अणा वक्ष्यमाणेन बाधा मा भूतिति ।
सहस्रात्तु ठनपि बाध्यते । ।


____________________________________________________________________


  1. <अण्च># । । PS_५,२.१०३ । ।



_____Sठाऱ्ठ्JKव्_५,२.१०३ः

तपः-सहस्राभ्यां अण्च प्रत्ययो भवति ।
तापसः ।
साहस्रः ।
योगविभाग उत्तरार्थः, यथासङ्ख्यार्थश्च ।
अण्प्रकरणे ज्योत्स्नादिभ्य उप्सङ्ख्यानं ।
ज्योत्स्ना विद्यतेऽस्मिन्पक्षे ज्यौत्स्नः पक्षः ।
तामिस्रः ।
कौण्डलः ।
कौतपः ।
वैसर्पः ।
वौपादिकः । ।

____________________________________________________________________


  1. <सिकता-शर्कराभ्यां च># । । PS_५,२.१०४ । ।



_____Sठाऱ्ठ्JKव्_५,२.१०४ः

सिकता-शर्कराभ्यां अण्प्रत्ययो भवति मत्वर्थे ।
सैकतो घटः ।
शार्करं मधु ।
अदेशे इह+उदाहरणं ।
देशे तु लुबिलचौ भविष्यतः । ।


____________________________________________________________________


  1. <देशे लुब्-इलचौ च># । । PS_५,२.१०५ । ।



_____Sठाऱ्ठ्JKव्_५,२.१०५ः

सिकताशर्कराभ्यां देशेऽभिधेये लुब्-इलचौ भवतः ।
चकारादण्च, मतुप्च ।
कस्य पुनरयं लुप्? मतुबादीनां अन्यतमस्य, विशेषाभावाथ् ।
सिकता अस्मिन्विद्यते सिकता देशः, सिकतिलः, सैकतः, सिकतावान् ।
एवं शर्करा देशः, शर्करिलः, शार्करः, शर्करावान् ।
देशे इति किं ? सैकतो घटः ।
शार्करं मधु । ।


____________________________________________________________________


  1. <दन्त उन्नत उरच्># । । PS_५,२.१०६ । ।



_____Sठाऱ्ठ्JKव्_५,२.१०६ः

उन्नत इति प्रकृतिविशेषणं ।
दन्तशब्दादुनतोपाधिकादुरच्प्रत्ययो भवति मवर्थे ।
दन्ता उन्नता अस्य सन्ति दन्तुरः उन्नत इति किं ? दन्तवान् । ।


____________________________________________________________________


  1. <ऊष-सुषि-मुष्क-मधो रः># । । PS_५,२.१०७ । ।



_____Sठाऱ्ठ्JKव्_५,२.१०७ः

ऊष सुषि मष्क मधु इत्येतेभ्यो रः प्रत्ययो भवति मत्वर्थे ।
ऊषरं क्षेत्रं ।
सुषिरं काष्ठं ।
मुष्करः पशुः ।
मधुरो गुडः ।

[#५२३]

इतिकरणो विवक्षार्थः सर्वत्राभिधेयनियमं करोति ।
इह न भवति, ऊषोऽस्मिन्घटे विद्यते, मधु अस्मिन्घटे विद्यते इति ।
रप्रकरणे खमुखकुञ्जेभ्य उपसङ्ख्यानं ।
खमस्य अस्ति कण्ठविवरं महत्खरः ।
मुखं अस्य अस्ति इति सर्वस्मिन्वक्तव्ये मुखरः ।
कुञ्जावस्य स्तः कुञ्जरः ।
हस्तिहनू कुञ्जशब्देन+उच्येते ।
नगपांसुपाण्डुभ्यश्च+इति वक्तव्यं ।
नगरं ।
पांसुरं ।
पाण्डुरं ।
कच्छ्वा ह्रस्वत्वं च ।
कच्चुरं । ।


____________________________________________________________________


  1. <द्यु-द्रुभ्यां मः># । । PS_५,२.१०८ । ।



_____Sठाऱ्ठ्JKव्_५,२.१०८ः

द्यु-द्रु-शब्दाभ्यां मः प्रत्ययो भवति मत्वर्थे ।
द्युमः ।
द्रुमः ।
रूढिशब्दौ एतौ ।
रूढिषु मतुप्पुनर्न विकल्प्यते । ।


____________________________________________________________________


  1. <केशाद्वोऽन्यतरस्याम्># । । PS_५,२.१०९ । ।



_____Sठाऱ्ठ्JKव्_५,२.१०९ः

केशशब्दाद्वः प्रत्ययो भवति मत्वर्थे अन्यतरस्यां ।
ननु च प्रकृतं अन्यतरस्यां ग्रहणं अनुवर्तत एव ? मतुप्समुचायार्थं तदित्युक्तं ।
अनेन तु इनिठनौ प्रप्येते ।
ततश्चातूरूप्यं भवति, केशवः, केशी, केशिकः, केशवानिति ।
वप्रकरणेऽन्येभ्योऽपि दृश्यते इति वक्तव्यं ।
मणिवः ।
हिरण्यवः ।
कुररावः ।
कुमारावः ।
कुञ्जावः ।
राजीवं ।
इष्टकावः ।
विम्बावः ।
अर्णसो लोपश्च ।
अर्णवः ।
छन्दसीवनिपौ च वक्तवयौ ।
रथीरभून्मुद्गलानी गविष्ठौ ।
सुमङ्गलीरियं वधूः ।
वनिप्- मघवानमीमहे ।
वकारामतुपौ च ।
उद्वा च उद्वती च ।
मेधारथाभ्यामिरन्निरचौ वक्तव्यौ ।
मेधिरः ।
रथिरः । ।


____________________________________________________________________


[#५२४]

  1. <गाण्ड्यजगात्सञ्ज्ञायाम्># । । PS_५,२.११० । ।



_____Sठाऱ्ठ्JKव्_५,२.११०ः

गाण्दी अजग इत्येताभ्यां वः प्रत्ययो भवति सञ्ज्ञायां विषये मत्वर्थे ।
गान्दीवं धनुः ।
अजगवं धनुः ।
ह्रस्वादपि भवति गाण्डिवं धनुः इति ।
तत्र तुल्या हि संहिता दीर्घ-ह्रस्वयोः ।
उभयथा च सूत्रं प्रणीतं । ।


____________________________________________________________________


  1. <काण्ड-आण्डादीरन्न्-ईरचौ># । । PS_५,२.१११ । ।



_____Sठाऱ्ठ्JKव्_५,२.१११ः

काण्ड अण्ड इत्येताभ्यां यथासङ्ख्यं ईरन्नीरचौ प्रत्ययौ भवतो मत्वर्थे ।
काण्दीरः ।
अण्दीरः । ।


____________________________________________________________________


  1. <रजः-कृष्य्-आसुति-परिषदो वलच्># । । PS_५,२.११२ । ।



_____Sठाऱ्ठ्JKव्_५,२.११२ः

रजः-प्रभृतिभ्यः प्रातिपदिकेभ्यः वलच्प्रत्ययो भवति मत्वर्थे ।
रजस्वलास्त्री ।
कृषीवलः कुटुम्बी ।
आसुतीवलः शौण्दिकः ।
परिषद्वलो राजा ।
वले (*६,३.११८) इति दीर्घत्वं ।
इतिकरणो विषयनियमार्थः सर्वत्र सम्बध्यते ।
तेन+इह न भवति, रजोऽस्मिन्ग्रामे विद्यते इति ।
वलच्प्रकरणेऽन्येभ्योऽपि दृश्यत इति वक्तव्यं ।
भ्रातृवलः ।
पुत्रवलः ।
उत्साहवलः । ।


____________________________________________________________________


  1. <दन्त-शिखात्सञ्ज्ञायाम्># । । PS_५,२.११३ । ।



_____Sठाऱ्ठ्JKव्_५,२.११३ः

दन्त-शिखा-शब्दाभ्यां बलच्प्रत्ययो भवति मत्वर्थे सञ्ज्ञायां विषये ।
दन्तावलः सैन्यः ।
दन्तावलो गजः ।
शिखावलं नगरं ।
शिखावला स्थूणा । ।


____________________________________________________________________


  1. <ज्योत्स्ना-तमिस्रा-शृङ्गिण-ऊर्जस्विन्न्-ऊर्जस्वल-गोमिन्-मलिन-मलीमसाः># । । PS_५,२.११४ । ।



_____Sठाऱ्ठ्JKव्_५,२.११४ः

ज्योत्स्नादयः शब्दाः निपात्यन्ते मत्वर्थे सञ्ज्ञायां विषये ।
ज्योतिष उपधालोपो नश्च प्रत्ययो निपात्यते - ज्योत्स्ना चन्द्रप्रभा ।
तमस उपधाया इकारो रश्च - तमिस्रा रात्रिः ।
स्त्रीत्वमतन्त्रं अन्यत्र अपि दृश्यते - तमिस्रं नभः ।
शृङ्गादिनच्प्रत्ययो निपात्यते - शृङ्गिणः ।
ऊर्जोऽसुगागमो निपात्यते विनिवलचौ प्रत्ययौ - ऊर्जस्वी, ऊर्जस्वलः ।
गोर्मिनि प्रत्ययो निपात्यते - गोमी ।
मलशब्दादिनजीमसचौ प्रत्ययौ निपात्येते - मलिनः, मलीमसः । ।


____________________________________________________________________


  1. <अत इनिठनौ># । । PS_५,२.११५ । ।



_____Sठाऱ्ठ्JKव्_५,२.११५ः

अकारान्तात्प्रातिपदिकातिनिठनौ प्रत्ययौ भवतः ।
दण्डी, दण्डिकः ।
छन्त्री, च्नत्रिकः ।
अन्यतरस्यां इत्यधिकारान्मतुबपि भवति ।
दण्डवान् ।
छत्रवान् ।
तपरकरणं किं ? श्रद्धावान् ।
एकाक्षरात्कृतो जातेः सप्तम्यां च न तौ स्मृतौ ।
एकाक्षरात्तावत्- स्ववान् ।
खवान् ।
कृतः - कारकवान् ।
जातेः - व्याघ्रवान् ।
सिंहवान् ।
सप्तम्यां - दन्डा अस्यां सन्ति दण्डवती शाला इति ।

[#५२५]

इतिकरणो विषयनियमार्थः सर्वत्र सम्बध्यते इत्युक्तम्, तेन क्वचिद्भवत्यपि, कार्यी, हार्यी, तण्डुली, तण्दुलिकः इति । ।


____________________________________________________________________


  1. <व्रीह्यादिभ्यश्च># । । PS_५,२.११६ । ।



_____Sठाऱ्ठ्JKव्_५,२.११६ः

व्रीह्यादिभ्यः प्रातिपदिकेभ्यः इनिठनौ प्रत्ययौ भवतो मत्वर्थे ।
मतुब्भवत्येव ।
व्रीही, व्रीहिकः, व्रीहिमान् ।
मायी, मायिकः, मायावान् ।
न च व्रीह्यादिभ्यः सर्वेभ्यः प्रत्ययद्वयं इष्यते ।
किं तर्हि ? शिखादिभ्य इनिर्वाच्य इकन्यवखदादिषु ।
परिशिष्टेभ्य उभयं ।
शिखा मेखला सञ्ज्ञा बलाका माला वीणा वडवा अष्टका पताका कर्मन्चर्मन्हंसा इत्येतेभ्य इनिरेव+इष्यते ।
यवखद कुमारी नौ इत्येतेभ्य इकन्नेव+इष्यते ।
परिशिष्टेभ्यो द्वावपि प्रत्ययौ भवतः ।
व्रीहिग्रहणं किमर्थम्, यावता तुन्दादिषु व्रीहिशब्दः पठ्यते, तत्र इनिठनौ चकारेण विधीयेते ? एवं तर्हि तुन्दादिसु व्रीहिग्रहणं अर्थग्रहणं विज्ञायते ।
शालयोऽस्य सन्ति शालिनः, शाली, शालिकः, शालिमानिति ।
व्रीहिशिखादयः पूर्वं पठिताः ।
यवखद ।
कुमारी ।
नौ ।
शीर्षान्नञः - अशीर्षी, अशीर्षिकः । ।


____________________________________________________________________


  1. <तुन्दादिभ्य इलच्च># । । PS_५,२.११७ । ।



_____Sठाऱ्ठ्JKव्_५,२.११७ः

तुन्दादिभ्यः प्रातिपदिकेभ्य इलच्प्रत्ययो भवति मत्वर्थे ।
चकारादिनिठनौ मतुप्च ।
तुन्दिलः, तुन्दी, तुन्दिकः, तुन्दवान् ।
उदरिलः, उदरी, उदरिकः, उदरवान् ।
तुन्द ।
उदर ।
पिचण्ड ।
घट ।
यव ।
व्रीहि ।
स्वाङ्गाद्विवृद्धौ च ।
तुन्दादिः । ।


____________________________________________________________________


  1. <एक-गो-पूर्वाट्ठञ्नित्यम्># । । PS_५,२.११८ । ।



_____Sठाऱ्ठ्JKव्_५,२.११८ः
एकपूर्वाद्गोपूर्वाच्च प्रातिपदिकान्नित्यं ठञ्प्रत्ययो भवति मत्वर्थे ।
एकशतं अस्य अस्ति इति ऐकशतिकः ।
ऐकसहस्रिकः ।
गोपूर्वात्च - गौशतिकः ।
गौसहस्रिकः ।
अत इत्येव एकविंशतिरस्य अस्ति इति न भवति ।
कथं ऐकगविकः ? समासान्ते कृते भविष्यति ।
कथं गौशकटिकः ? शकटीशब्देन समानार्थः शकटशब्दोऽस्ति, ततो भविष्यति ।
अवश्यं च अतः इत्यनुवर्त्यम्, द्वन्द्वोपतापगर्ह्यातित्येवं आद्यर्थं ।
नित्यग्रहणं मतुपो बाधनार्थं ।
कथं एकद्रव्यवत्त्वातिति ? नैवायं साधुः ।
एकेन वा द्रव्यवत्त्वादिति समर्थनीयं । ।


____________________________________________________________________


  1. <शत-सहस्र-अन्ताच्च निष्कात्># । । PS_५,२.११९ । ।



_____Sठाऱ्ठ्JKव्_५,२.११९ः

शतान्तात्सहस्रान्तात्च प्रातिपदिकात्ठञ्प्रत्ययो भवति मत्वर्थे तौ चेत्शतसहस्रशब्दौ निष्कात्परौ भवतः ।
निष्कशतं अस्य अस्ति नैष्कशतिकः ।
नैष्कसहस्रिकः ।
सुवर्णनिष्कशतं अस्य अस्ति इति अनभिधानान्न भवति । ।


____________________________________________________________________


[#५२६]

  1. <रूपादाहत-प्रशंसयोर्यप्># । । PS_५,२.१२० । ।



_____Sठाऱ्ठ्JKव्_५,२.१२०ः

आहतप्रशंसे प्रकृत्युपाधी ।
आहतप्रशंसाविशिष्टार्थे वर्तमानाद्रूपशब्दात्यप्प्रत्ययो भवति मत्वर्थे ।
आहतं रूपमस्य रूप्यो दीनारः ।
रूप्यः केदारः ।
रूप्यं कार्षापणं ।
प्रशस्तं रूपं अस्य अस्ति रूप्यः पुरुसः ।
निघातिकाताडनादिना दीनारादिषु रूपं यदुत्पद्यते तदाहतम्नित्युच्यते ।
आहतप्रशंसयोः इति किं ? रूपवान् ।
यप्प्रकरणेऽन्येभ्योऽपि दृश्यत इति वक्तव्यं ।
हिम्याः पर्वताः ।
गुण्याः ब्राह्मणाः । ।


____________________________________________________________________


  1. <अस्-माया-मेधा-स्रजो विनिः># । । PS_५,२.१२१ । ।



_____Sठाऱ्ठ्JKव्_५,२.१२१ः

असन्तात्प्रातिपदिकात्, माया मेधा स्रजित्येतेभ्यश्च विनिः प्रत्ययो भवति मत्वर्थे ।
मतुप्सर्वत्र समुच्चीयते एव ।
असन्तात्तावत्- यशस्वी, पयस्वी ।
मायावी ।
मेधावी ।
स्रग्वी ।
मायाशब्दाद्व्रीह्यादिषु पाठातिनिठनौ अपि भवतः ।
मायी, मायिकः । ।


____________________________________________________________________


  1. <बहुलं छन्दसि># । । PS_५,२.१२२ । ।



_____Sठाऱ्ठ्JKव्_५,२.१२२ः
छन्दसि विषये बहुलं विनिः प्रत्ययो भवति मत्वर्थे ।
अग्ने तेजस्विन् ।
न भवति ।
सूर्यो वर्चस्वान् ।
छन्दसि विनिप्रकरणेऽष्ट्रामेखलाद्वयोभयरुजाहृदयानां दीर्घत्वं वेति वक्तव्यं ।
अष्ट्रावी ।
मेखलावी ।
द्वयावी ।
उभयावी ।
रुजावी ।
हृदयावी ।
द्वयोभयगृदयानि दीर्घत्वं प्रयोजयन्ति ।
मर्मणश्च+इति वक्तव्यं ।
मर्मावी ।
सर्वत्रामयस्य+उपसङ्ख्यानं ।
छन्दसि भाषायां च ।
आमयावी ।
शृङ्गवृन्दाभ्यामारकन्वक्तव्यः ।
शृङ्गारकः ।
वृन्दारकः ।
फलबर्हाभ्यामिनच्वक्तव्यः ।
फलिनः ।
बर्हिणः ।

[#५२७]

हृदयाच्चालुरन्यतरस्यां ।
हृदयालुः, हृदयी, हृदयिकः, हृदयवान् ।
शीतोष्णतृप्रेभ्यस्तन्न सहत इत्यालुच्वक्तव्यः ।
शीतं न सहते शीतालुः ।
उष्णालुः ।
तृप्रालुः ।
तन्न सहत इति हिमाच्चेलुः ।
हिमं न सहते हिमेलुः ।
बलादूलछ् ।
बलं न सहते बलूलः ।
वातात्समूहे च ।
वातं न सहत इति च ।
वातानां समूहः, वातं न सहते इति वा वातूलः ।
पर्वमरुद्भ्यां तन्वक्तव्यः ।
पर्वतः ।
मरुत्तः ।
अर्थात्तदभाव इनिर्वक्तव्यः ।
अर्थी ।
तदभावे इत्येव, अर्थवान् ।
तदेतत्सर्वं बहुलग्रहणेन सम्पद्यते । ।


____________________________________________________________________


  1. <ऊर्णाया युस्># । । PS_५,२.१२३ । ।



_____Sठाऱ्ठ्JKव्_५,२.१२३ः

ऊर्णाशब्दाद्युस्प्रत्ययो भवति मत्यर्थे ।
सकारः पदसञ्ज्ञार्थः ।
ऊर्णा अस्य विद्यते ऊर्णायुः ।
केचिच्छन्दोग्रहणं अनुवर्तयन्ति । ।


____________________________________________________________________


  1. <वाचो ग्मिनिः># । । PS_५,२.१२४ । ।



_____Sठाऱ्ठ्JKव्_५,२.१२४ः

वाच्शब्दात्ग्मिनिः प्रत्ययो भवति मत्वर्थे ।
वाग्मी, वाग्मिनौ, वाग्मिनः । ।


____________________________________________________________________

  1. <आलजाटचौ बहुभाषिणि># । । PS_५,२.१२५ । ।



_____Sठाऱ्ठ्JKव्_५,२.१२५ः

वाच्शब्दात्प्रथमासमर्थादालचाटचित्येतौ प्रत्ययौ भवतो मत्वर्थे बहुभाषिणि अभिधेये ।
ग्मिनेरपवादः ।
वाचालः ।
वाचाटः ।
कुत्सित इति वक्तव्यं ।
यो हि सम्यग्बहु भाषते वाग्मीत्येव स भवति । ।


____________________________________________________________________


[#५२८]

  1. <स्वामिन्न्-ऐश्वर्ये># । । PS_५,२.१२६ । ।



_____Sठाऱ्ठ्JKव्_५,२.१२६ः

स्वामिनिति निपात्यते ऐश्वर्थे गम्यमाने ।
स्वशदादैश्वर्यवाचिनो मत्वर्थे आमिन्प्रत्ययो निपात्यते ।
स्वं अस्य अस्ति इति ऐश्वर्यं अस्य अस्ति इति स्वामी ।
स्वामिनौ ।
स्वामिनः ।
ऐश्वर्ये इति किं ? स्ववान् । ।


____________________________________________________________________


  1. <अर्श-आदिभ्योऽच्># । । PS_५,२.१२७ । ।



_____Sठाऱ्ठ्JKव्_५,२.१२७ः
अर्शसित्येवं अदिभ्यः प्रातिपदिकेभ्योऽच्प्रत्ययो भवति मत्वर्थे ।
अर्शासि अस्य विद्यन्ते अर्शसः ।
उरसः ।
आकृतिगणश्च अयं ।
यत्र अभिन्नरूपेण शब्देन तद्वतोऽभिधानं तत्सर्वं इह द्रष्टव्यं ।
अर्शस् ।
उरस् ।
तुन्द ।
चतुर ।
पलित ।
जटा ।
घता ।
अभ्र ।
कर्दम ।
आम ।
लवण ।
स्वाङ्गाद्धीनाथ् ।
वर्णाथ् ।
अर्शाअदिः । ।


____________________________________________________________________


  1. <द्वन्द्व-उपताप-गर्ह्यात्प्राणिस्थादिनिः># । । PS_५,२.१२८ । ।



_____Sठाऱ्ठ्JKव्_५,२.१२८ः

द्वन्द्वः समासः ।
उपतापो रोगः ।
गर्ह्यं निन्द्यं ।
तद्विषयेभ्यः शब्देभ्यः प्राणिस्थार्थवाचिभ्यः इनिः प्रत्ययो भवति मत्वर्थे ।
द्वन्द्वात्तावत्- कटकवलयिनी ।
शङ्खनूपुरिणी ।
उपतापात्- कुष्ठी ।
किलासी ।
गर्ह्यात्- ककुदावर्ती ।
काकतालुकी ।
प्राणिस्थातिति किं ? पुष्पफलवान्वृक्षः ।
प्राण्यङ्गान्नेष्यते, पाणिपादवती ।
अतः इति अनुवर्तते ।
तेन+इह नि भवति, चित्रललाटिकावती ।
सिद्धे प्रत्यये पुनर्वचनं ठनादिबाधनार्थं । ।


____________________________________________________________________


  1. <वात-अतिसाराभ्यां कुक्च># । । PS_५,२.१२९ । ।



_____Sठाऱ्ठ्JKव्_५,२.१२९ः

वात-अतिसारशब्दाभ्यां इनिः प्रत्ययो भवति, तत्संनियोगेन च तयोः कुगागमो भवति ।
वातातिसारयोरुपतापत्वात्पूर्वेण+एव सिद्धे प्रत्यये कुगर्थं एव+इदं वचनं ।
वातकी ।
अतिसारकी ।
पिशाचाच्च+इति वक्तव्यं ।
पिशाचकी वैश्रवणः ।
रोगे च अयं इष्यते ।
इह न भवति, वातवती गुहा । ।


____________________________________________________________________


  1. <वयसि पूरणात्># । । PS_५,२.१३० । ।



_____Sठाऱ्ठ्JKव्_५,२.१३०ः

इनिरनुवर्तते ।
पूरणप्रत्ययान्तात्प्रातिपदिकातिनिः प्रत्ययो भवति मत्वर्थे वयसि द्योत्ये ।
पञ्चमोऽस्य अस्ति मासः संवत्सरो वा पञ्चमी उष्ट्रः ।
नवमी ।
दशमी ।
सिद्धे सति नियमार्थं वचनम्, इनिरेव भवति, ठन्न भवति इति ।
वयसि इति किं ? पञ्चमवान्ग्रामरागः । ।


____________________________________________________________________


[#५२९]

  1. <सुख-आदिभ्यश्च># । । PS_५,२.१३१ । ।



_____Sठाऱ्ठ्JKव्_५,२.१३१ः

सुख इत्येवं आदिभ्यः प्रातिपदिकेभ्यः इनिः प्रत्ययो नियम्यते मत्वर्थे ।
सुही ।
दुःखी ।
मालाक्षेपे इति पठ्यते, व्रीह्यादिषु च मालाशब्दोऽस्ति, तदिह क्षेपे मतुब्बाधनार्थं वचनं ।
सुख ।
दुःख ।
तृप्र ।
कृच्छ्र ।
आम्र ।
अलीक ।
करुणा ।
कृपण ।
सोढ ।
प्रमीप ।
शील ।
हल ।
माल क्ष्पे ।
प्रणय । ।


____________________________________________________________________


  1. <धर्म-शील-वर्णान्ताच्च># । । PS_५,२.१३२ । ।



_____Sठाऱ्ठ्JKव्_५,२.१३२ः

अन्तःशब्दः प्रत्येकं अभिसम्बध्यते ।
धर्माद्यन्तात्प्रातिपदिकातिनिः प्रत्ययो नियम्यते ।
ब्रह्मणानां धर्मो ब्राह्मणधर्मः, सोऽस्य अस्ति इति ब्राह्मणधर्मी ।
ब्राह्मणशीली ।
ब्राह्मणवर्णी । ।


____________________________________________________________________


  1. <हस्ताज्जातौ># । । PS_५,२.१३३ । ।



_____Sठाऱ्ठ्JKव्_५,२.१३३ः

हस्तशब्दातिनिः प्रत्ययो नियम्यते मत्वर्थे, समुदायेन चेज्जातिरभिधीयते ।
हस्तोऽस्य अस्ति इति हस्ती ।
हस्तिनौ हस्तिनः ।
जातौ इति किं ? हस्तवान्पुरुषः । ।


____________________________________________________________________


  1. <वर्णाद्ब्राह्मचारिणि># । । PS_५,२.१३४ । ।



_____Sठाऱ्ठ्JKव्_५,२.१३४ः

वर्णशब्दातिनिः प्रत्ययो भवति मत्वर्थे समुदायेन चेद्ब्रह्मचारी भण्यते ।
ब्रह्मचारि इति त्रैवर्णिकोऽभिप्रेतः ।
स हि विद्याग्रहणार्थं उपनीतो ब्रहम चरति, नियमं आसेवते इत्यर्थः ।
वर्णी, वर्णिनौ, वर्णिनः ।
ब्रह्मचारिणि इति किं ? वर्णवान् ।
ब्राह्मणादयस्त्रयो वर्णा वर्णिनः उच्यन्ते । ।


____________________________________________________________________


  1. <पुष्कर-आदिभ्यो देशे># । । PS_५,२.१३५ । ।



_____Sठाऱ्ठ्JKव्_५,२.१३५ः

पुष्कर इत्येवं आदिभ्यः प्रातिपदिकेभ्य इनिः प्रत्ययो भवति समुदायेन चेद्देशोऽभिधीयते ।
पुष्करिणी ।
पद्मिनी ।
देशे इति किं ? पुस्करवान्हस्ती ।
इनिप्रकरणे बलाद्बहूरुपूर्वादुपसङ्ख्यानं ।
बाहुवली ।
ऊरुबली ।
सर्वादेश्च ।
सर्वधनी ।
सर्वबीजी ।
सर्वकेशी नटः ।

[#५३०]

अर्थाच्च असन्निहिते ।
अर्थी ।
असन्निहिते इति किं ? अर्थवान् ।
तदन्ताच्च+इति वक्तव्यं ।
धान्यार्थी ।
हिरण्यार्थी ।
पुष्कर ।
पद्म ।
उत्पल ।
तमाल ।
कुमुद ।
नड ।
कपित्थ ।
बिस ।
मृणाल ।
कर्दम ।
शालूक ।
विगर्ह ।
करीष ।
शिरीष ।
यवास ।
प्रवास ।
हिरण्य ।
पुष्करादिः । ।


____________________________________________________________________


  1. <बलादिभ्यो मतुबन्यतरस्याम्># । । PS_५,२.१३६ । ।



_____Sठाऱ्ठ्JKव्_५,२.१३६ः

बलादिभ्यः प्रातिपदिकेभ्यो मतुप्प्रत्ययो भवति ।
अन्यतरस्यां ग्रहणेन प्रकृतः इनिः समुच्चीयते ।
बलवान्, बाली ।
उत्साहवान्, उत्साही ।
बल ।
उत्साह ।
उद्भाव ।
उद्वास ।
उद्वाम ।
शिखा ।
पूग ।
मूल ।
दंश ।
कुल ।
आयाम ।
व्यायाम ।
उपयाम ।
आरोह ।
अवरोह ।
परिणाह ।
युद्ध । ।


____________________________________________________________________


  1. <सञ्ज्ञायां मन्-माभ्याम्># । । PS_५,२.१३७ । ।



_____Sठाऱ्ठ्JKव्_५,२.१३७ः

मन्नन्तात्प्रातिपदिकान्मशब्दान्ताच्च इनिः प्रत्ययो भवति मत्वर्थे, समुदायेन चेत्सञ्ज्ञा गम्यते ।
प्रथिमिनी ।
दामिनी ।
मशब्दान्तात्होमिनी ।
सोमिनी ।
सञ्ज्ञायां इति किं ? सोमवान् ।
होमवान् । ।


____________________________________________________________________


  1. <कं-शंभ्यां ब-भ-युस्-ति-तु-त-यसः># । । PS_५,२.१३८ । ।



_____Sठाऱ्ठ्JKव्_५,२.१३८ः

कं शं इति मकारान्तौ उद्कसुखयोर्वाचकौ, ताभ्यां ब भ युस्ति तु त यसित्येते सप्त प्रत्यया भवन्ति मत्वर्थे ।
कम्बः, कम्भः, कंयुः, कन्तिः, कन्तुः, कन्तः, कंयः ।
शम्बः, शम्भः, शंयुः, शन्तिः, शन्तुः, शन्तः, शंयः ।
सकारः पदसञ्ज्ञार्थः, तेन अनुस्वारपरसवर्णौ सिद्धौ भवतः ।
सञ्ज्ञायां हि असत्यां कम्यः, शम्यः इति स्यात् । ।

____________________________________________________________________


  1. <तुन्दि-बलि-वटेर्भः># । । PS_५,२.१३९ । ।



_____Sठाऱ्ठ्JKव्_५,२.१३९ः

तुन्दि बलि वटि इत्येतेभ्यो भः प्रत्ययो भवति मत्वर्थे ।
तुन्दिः इति वृद्धा नाभिरुच्यते, सा अस्य अस्ति इति तुन्दिभः ।
बलिभः ।
वटिभः ।
वलिशब्दः आमादिषु पठ्यते, तेन बलिनः इत्यपि भवति । ।


____________________________________________________________________


[#५३१]

  1. <अहं-शुभमोर्युस्># । । PS_५,२.१४० । ।



_____Sठाऱ्ठ्JKव्_५,२.१४०ः

अहं इति शब्दान्तरं अहङ्कारे वर्तते, शुभं इत्यव्ययं शुभपर्यायः, ताभ्यां युस प्रत्ययो भवति मत्वर्थे ।
सकारः पदसञ्ज्ञार्थः ।
अहंयुः ।
अहङ्कारवानित्यर्थः ।
शुभंयुः ।
कल्याणवानित्यर्थः । ।
इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ पञ्चमाध्यायस्य द्वितीयः पादः । ।


______________________________________________________

पञ्चमाध्यायस्य तृतीयः पादः ।

____________________________________________________________________


[#५३२]

  1. <प्राग्-दिशो विभक्तिः># । । PS_५,३.१ । ।



_____Sठाऱ्ठ्JKव्_५,३.१ः

दिक्-शब्देभ्यः सप्तमी-पञ्चमी-प्रथमाभ्यो दिग्-देश-कालेष्वस्तातिः (*५,३.२७) इति वक्ष्यति ।
प्रागेतस्माद्दिक्षं शब्दनाद्यानित ऊर्ध्वं अनुक्रमिष्यामो विभक्तिसञ्ज्ञास्ते वेदितव्याः ।
वक्ष्यति - पञ्चम्यास्तसिल्(*५,३.७) ।
ततः ।
यतः ।
कुतः ।
तसिलादीनां विभक्तित्वे प्रयोजनं त्यदादिविधयः इदमो विभक्तिस्वरश्च ।
इह ।
ऊडिदं इति विभक्त्युदात्तत्वं सिद्धं भवति ।
अतः परं स्वार्थिकाः प्रत्ययाः, तेषु समर्थाधिकारः प्रथमग्रहणं च प्रतियोग्यपेक्षत्वान्न+उपयुज्यते इति निवृत्तं ।
वावचनं तु वर्तत एव ।
तेन विकल्पेन तसिलादयो भवन्ति, कुतः , कस्मात्, कुत्र, कस्मिनिति । ।


____________________________________________________________________


  1. <किं-सर्वनाम-बहुभ्योऽद्व्य्-आदिभ्यः># । । PS_५,३.२ । ।



_____Sठाऱ्ठ्JKव्_५,३.२ः

प्राग्दिशः इत्येव ।
किमः सर्वनाम्नो बहुशब्दाच्च प्राग्दिशः प्रत्ययाः वेदितव्याः ।
सर्वनामत्वात्प्राप्ते ग्रहणे द्व्यादिपर्युदासः क्रियते ।
कुतः , कुत्र ।
यतः, यत्र ।
ततः, तत्र ।
बहुतः, बहुत्र ।
अद्व्यादिभ्यः इति किं ? द्वाभ्यां ।
द्वयोः ।
प्रकृतिपरिसङ्ख्यानं किं ? वृक्षाथ् ।
वृक्षे ।
प्राग्दिशः इत्येव, वैयाकरणपाशः ।
सर्वनामत्वादेव सिद्धे किमो ग्रहणं द्व्यादिपर्युदासाथ् ।
बहुग्रहणे सङ्ख्याग्रहणं ।
इह न भवति, बहोः सूपात्, बहौ सूपे इति । ।


____________________________________________________________________


  1. <इदं इश्># । । PS_५,३.३ । ।



_____Sठाऱ्ठ्JKव्_५,३.३ः

प्राग्दिशः ।
इदं इशित्ययं आदेशो भवति प्राग्-दिशीयेषु प्रत्ययेशु परतः ।
शकारः सर्वादेशार्थः ।
इह । ।


____________________________________________________________________


  1. <एत-इतौ र-थोः># । । PS_५,३.४ । ।



_____Sठाऱ्ठ्JKव्_५,३.४ः

रेफथकारादौ प्राग्-दिशीये प्रत्यये परतः इदमः एत-इतौ आदेशौ भवतः ।
इशोऽपवादः ।
रेफेऽकार उच्चारणार्थः ।
इदमो र्हिल्(*५,३.१६) - एतर्हि ।
इदमस्थमुः (*५,३.२४) - इत्थं । ।

____________________________________________________________________


[#५३३]

  1. <एतदोऽश्># । । PS_५,३.५ । ।



_____Sठाऱ्ठ्JKव्_५,३.५ः

प्राग्दिशः इत्येव ।
एतदः प्राग्-दिशीये परतः अशित्ययं आदेशो भवति ।
शकारः सर्वादेशार्थः ।
अतः ।
अत्र ।
एतदः इति योगविभागः कर्तव्यः ।
एतदो रथोः परत एत इतित्येतावादेशौ भवतः ।
एतर्हि ।
इत्थं रेफादेः अनद्यतने र्हिलन्यतरस्यां (*५,३.२१) इति विद्यत एव ।
थमुप्रत्ययः पुनरेतद उपसङ्ख्येयः । ।


____________________________________________________________________


  1. <सर्वस्य सोऽन्यतरस्यां दि># । । PS_५,३.६ । ।



_____Sठाऱ्ठ्JKव्_५,३.६ः

सर्वस्य स इत्ययं आदेशो भवति प्राग्-दिशीये दकारादौ प्रत्यये परतोऽन्यतरस्यां ।
सर्वदा ।
सदा ।
प्राग्-दिशीये इत्येव, सर्वं ददाति इति सर्वदा ब्राह्मणी । ।


____________________________________________________________________

  1. <पञ्चम्यास्तसिल्># । । PS_५,३.७ । ।



_____Sठाऱ्ठ्JKव्_५,३.७ः

पञ्चम्यन्तेभ्यः किंसर्वनामबहुभ्यः तसिल्प्रत्ययो भवति ।
कुतः ।
यतः ।
ततः ।
बहुतः । ।


____________________________________________________________________


  1. <तसेश्च># । । PS_५,३.८ । ।



_____Sठाऱ्ठ्JKव्_५,३.८ः

प्रतियोगे पञ्चम्यास्तसिः (*५,४.४४) , अपादाने च अहीय-रुहोः (*५,४.४५) इति वक्ष्यति ।
तस्य तसेः किंसर्वनामबहुभ्यः परस्य तसिलादेशो भवति ।
कुत आगतः ।
यतः ।
ततः ।
बहुत आगतः ।
तसेस्तसिल्वचनं स्वरार्थं विभक्त्यर्थं च । ।


____________________________________________________________________


  1. <पर्य्-अभिभ्यां च># । । PS_५,३.९ । ।



_____Sठाऱ्ठ्JKव्_५,३.९ः

परि अभि इत्येताभ्यां तसिल्प्रत्ययो भवति ।
सर्वोभयार्थे वर्तमानाभ्यां प्रत्यय इष्यते ।
परितः ।
सर्वतः इत्यर्थः ।
अभितः ।
उभयतः इत्यर्थः । ।


____________________________________________________________________


  1. <सप्तम्यास्त्रल्># । । PS_५,३.१० । ।



_____Sठाऱ्ठ्JKव्_५,३.१०ः

किंसर्वनामबहुभ्यः सप्तम्यन्तेभ्यः त्रल्प्रत्ययो भवति ।
कुत्र ।
यत्र ।
तत्र ।
बहुत्र । ।


____________________________________________________________________


  1. <इदमो हः># । । PS_५,३.११ । ।


_____Sठाऱ्ठ्JKव्_५,३.११ः

इदमः सप्तम्यन्ताद्हःप्रत्ययो भवति ।
त्रलोऽपवादः ।
इह । ।


____________________________________________________________________

[#५३४]

  1. <किमोऽत्># । । PS_५,३.१२ । ।



_____Sठाऱ्ठ्JKव्_५,३.१२ः

किमः सप्तम्यन्तादत्प्रत्ययो भवति ।
त्रलोऽपवादः ।
क्व भोक्ष्यसे ।
क्वाध्येष्यसे ।
त्रलं अपि केचिदिच्छन्ति - कुत्र ।
तत्कथं ? उत्तरसूत्राद्वावचनं पुरस्तादपकृष्यते । ।


____________________________________________________________________


  1. <वा ह च च्छन्दसि># । । PS_५,३.१३ । ।



_____Sठाऱ्ठ्JKव्_५,३.१३ः

किमः सप्तम्यनताद्वा हः प्रत्ययो भवति छन्दसि विसये ।
यथाप्राप्तं च ।
क्व ।
कुह ।
कुत्रचिदस्य सा दूरे क्व ब्राह्मणस्य चावकाः । ।


____________________________________________________________________


  1. <इतराभ्ह्योऽपि दृश्यन्ते># । । PS_५,३.१४ । ।



_____Sठाऱ्ठ्JKव्_५,३.१४ः

सप्तमी-पञ्चम्य्-अपेक्षं इतरत्वं ।
इतराभ्यो विभक्तिभ्यस्तसिलादयो दृश्यन्ते ।
दृशिग्रहणं प्रायिकविध्यर्थं, तेन भवदादिभिर्योग एव+एतद्विधानं ।
के पुनर्भवदादयः ? भवान्दीर्घायुरायुष्मान्देवानां प्रियः इति ।
स भवान्, ततो भवान्, तत्र भवान् ।
तं भवन्तं, तत्र भवन्तम्, ततो भवन्तं ।
तेन भवता, तत्र भवता, ततो भवता ।
तस्मै भवते, तत्र भवते, ततो भवते ।
तस्माद्भवतः, तत्र भवतः , ततो भवतः ।
तस्मिन्भवति, तत्र भवति, ततो भवति ।
एवं दीर्घयुःप्रभृतिष्वप्युदाहार्यं । ।


____________________________________________________________________


  1. <सर्व-एक-अन्य-किं-यत्-तदः काले दा># । । PS_५,३.१५ । ।



_____Sठाऱ्ठ्JKव्_५,३.१५ः

सप्तम्याः इति वर्तते, न तु इतराभ्यः इति ।
सर्वादिभ्यः प्रातिपदिकेभ्यो दा प्रत्ययो भवति ।
त्रलोऽपवादः ।
सर्वस्मिन्काले सर्वदा ।
एकदा ।
अन्यदा ।
कदा ।
यदा ।
तदा ।
काले इति किं ? सर्वत्र देशे । ।


____________________________________________________________________


  1. <इदमो र्हिल्># । । PS_५,३.१६ । ।


_____Sठाऱ्ठ्JKव्_५,३.१६ः

सप्तम्याः इत्येव, काले इति च ।
इदमः सप्तम्यन्तात्काले वर्तमानात्र्हिल्प्रत्ययो भवति ।
हस्य अपवादः ।
लकारः स्वरार्थः ।
अस्मिन्काले एतर्हि ।
काले इत्येव, इह देशे । ।


____________________________________________________________________


  1. <अधुना># । । PS_५,३.१७ । ।



_____Sठाऱ्ठ्JKव्_५,३.१७ः

अधुना इति निपात्यते ।
इदमोऽश्भावो धुना च प्रत्ययः ।
अस्मिन्काले अधुना । ।


____________________________________________________________________


[#५३५]

  1. <दानीं च># । । PS_५,३.१८ । ।



_____Sठाऱ्ठ्JKव्_५,३.१८ः

इदमः सप्तम्यन्तात्काले वर्तमानाद्दानीं प्रत्ययो भवति ।
अस्मिन्काले इदानीं । ।


____________________________________________________________________

  1. <तदो दा च># । । PS_५,३.१९ । ।



_____Sठाऱ्ठ्JKव्_५,३.१९ः

तदः सप्तम्यन्तात्काले वर्तमानाद्दा प्रत्ययो भवति, चकाराद्दानीं च ।
तस्मिन्काले तदा, तदानीं ।
तदो दावचनं अनर्थकं, विहितत्वात् । ।


____________________________________________________________________


  1. <तयोर्दा-र्हिलौ च छन्दसि># । । PS_५,३.२० । ।



_____Sठाऱ्ठ्JKव्_५,३.२०ः

तयोः इति प्रातिपदिक-निर्देशः ।
तयोरिदमः तदश्च यथासङ्ख्यं दा-र्हिलौ प्रत्ययौ भवतश्छन्दसि विषये ।
चकाराद्यथाप्राप्तं च ।
इदावत्सरीयः ।
इदं तर्हि ।
इदानीं ।
तदानीं । ।


____________________________________________________________________


  1. <अनद्यतने र्हिलन्यतरस्याम्># । । PS_५,३.२१ । ।



_____Sठाऱ्ठ्JKव्_५,३.२१ः

छन्दसि इति न स्वर्यते ।
सामान्येन विधानं ।
किंसर्वनामबहुभ्यः सप्तम्यन्तेभ्यः अनद्यतने कालविशेषे वर्तमानेभ्यः र्हिल्प्रत्ययो भवत्यन्तरस्यां ।
कर्हि, कदा ।
यर्हि, यदा ।
तर्हि, तदा । ।


____________________________________________________________________


  1. <सद्यः परुत्परार्य्-औषमः परेद्यव्य्-अद्य-पूर्वेद्युर्-अन्येद्युर्-अन्यतरेद्युर्-इतरेद्युर्-अपरेद्युर्-अधरेद्युर्-उभयेद्युर्-उत्तरेद्युः># । । PS_५,३.२२ । ।



_____Sठाऱ्ठ्JKव्_५,३.२२ः

स्प्तम्याः इति काले इति च वर्तते ।
सद्यः-प्रभृतयः शब्दाः निपात्यन्ते ।
प्रकृतिः, प्रत्ययः, आदेशः, कालविशेषः इति सर्वं एतन्निपातनाल्लभ्यते ।
समानस्य सभावो निपात्यते द्यश्च प्रत्ययः अहन्यभिधेये ।
समानेऽहनि सद्यः ।
पूर्वपूर्वतरयोः परभावो निपात्यते उदारी च प्रत्ययौ संवत्सरेऽभिधेये ।
पूर्वस्मिन्संवत्सरे परुथ् ।
पूर्वतरे संवत्सरे परारी ।
इदम इश्भावः समसण्प्रत्ययः निपात्यते संवत्सरेऽभिधेये ।
अस्मिन्संवत्सरे ऐषमः ।
परस्मादेद्यवि प्रत्ययोऽहनि ।
परस्मिन्नहनि परेद्यवि ।
इदमोऽश्भावो द्यश्च प्रत्ययोऽहनि ।
अस्मिन्नहनि अद्य ।
पूर्व-अन्य. अन्यतर-इतर-अपर-अद्धर-उभय-उत्तरेभ्य एद्युस्प्रत्ययो निपात्यते अहन्यभिधेये ।
पूर्वस्मिन्नहनि पूर्वेद्युः ।
अन्यस्मिन्नहनि अन्येद्युः ।
अन्यतरस्मिन्नहनि अन्यतरेद्युः ।
इतरस्मिन्नहनि इतरेद्युः ।
अपरस्मिन्नहनि अपरेद्युः ।
अधरस्मिन्नहनि अधरेद्युः ।
उभयोरह्नोः उभयेद्युः ।
उत्तरस्मिन्नहनि उत्तरेद्युः ।
द्युश्च+उभयाद्वक्तव्यः ।
उभयद्युः । ।


____________________________________________________________________


[#५३६]

  1. <प्रकारवचने थाल्># । । PS_५,३.२३ । ।



_____Sठाऱ्ठ्JKव्_५,३.२३ः

किं-सर्वनाम-बहुभ्योऽद्व्य्-आदिभ्यः (*५,३.२) इति वर्तते ।
सप्तम्याः इति काले इति च निवृत्तं ।
सामान्यस्य भेदकः विशेषः प्रकारः ।
प्रकृत्यर्थविशेषणं च+एतथ् ।
प्रकारवृत्तिभ्यः किं-सर्वनाम-बहुभ्यः स्वार्थे थाल्प्रत्ययो भवति ।
तेन प्रकारेण तथा ।
यथा ।
सर्वथा ।
जातीयरोऽपीदृशं एव लक्षणं ।
स तु स्वभावात्प्रकारवति वर्तते, थाल्पुनः प्रकारमात्रे । ।


____________________________________________________________________


  1. <इदमस्थमुः># । । PS_५,३.२४ । ।



_____Sठाऱ्ठ्JKव्_५,३.२४ः

इदं-शब्दात्प्रकारवचने थमुः प्रत्ययो भवति ।
थालोऽपवादः अनेन प्रकारेण इत्थं ।
उकारो मकारपरित्राणार्थः । ।


____________________________________________________________________


  1. <किमश्च># । । PS_५,३.२५ । ।


_____Sठाऱ्ठ्JKव्_५,३.२५ः

किं-शब्दात्प्रकारवचने थमुः प्रत्ययो भवति ।
केन प्रकारेण कथं ।
योगविभागः उत्तरार्थः । ।


____________________________________________________________________


  1. <था हेतौ च च्छन्दसि># । । PS_५,३.२६ । ।



_____Sठाऱ्ठ्JKव्_५,३.२६ः

किंशब्दाद्धेतौ वर्तमानात्था प्रत्ययो भवति, चकारात्प्रकारवचने छन्दसि विषये ।
हेतौ तावत्- कथा ग्रामं न पृच्छसि ।
केन हेतुना न पृच्छसि इत्यर्थः ।
प्रकार-वचने - कथा देवा आसन्पुराविदः ।
विभक्ति-सञ्ज्ञायाः पूर्णोऽवधिः । ।


____________________________________________________________________


  1. <दिक्-शब्देभ्यः सप्तमी-पञ्चमी-प्रथमाभ्यो दिग्-देश-कालेष्वस्तातिः># । । PS_५,३.२७ । ।



_____Sठाऱ्ठ्JKव्_५,३.२७ः

दिशां शब्दाः दिक्शब्दाः ।
तेभ्यो दिक्शब्देभ्यो दिग्-देश-कालेषु वर्तमानेभ्यः सप्तमी. पञ्चमी-प्रथमान्तेभ्यः अस्तातिः प्रत्ययो भवति स्वार्थे ।
यथासङ्ख्यं अत्र न+इष्यते ।
पुरस्ताद्वसति ।
पुरस्तादागतः ।
पुरस्ताद्रमणीयं ।
अधस्ताद्वसति ।
अधस्तादागतः ।
अधस्ताद्रमणीयं ।
दिक्शब्देभ्यः इति किं ? ऐन्द्र्यां दिशि वसति ।
सप्तमी-पञ्चमी-प्रथमाभ्यः इति किं ? पूर्वं ग्रामं गतः ।
दिग्-देश-कालेसु इति किं ? पूर्वस्मिन्गुरौ वसति ।
इकारस्तकारपरित्राणार्थः । ।


____________________________________________________________________


  1. <दिक्षिण-उत्तराभ्यां अतसुच्># । । PS_५,३.२८ । ।



_____Sठाऱ्ठ्JKव्_५,३.२८ः

दिक्षिण-उत्तराभ्यां दिग्-देश-कालेषु वर्तमानभ्यां सप्तमी-पञ्चमी-प्रथमान्ताभ्यां स्वार्थेऽतसुच्प्रत्ययो भवति ।
अस्तातेरपवदः ।
दक्षिणा-शब्दः काले न सम्भवति इति दिग्देशवृत्तिः परिगृह्यते ।
दक्षिणतो वसति ।
दक्षिणत आगतः ।
दक्षिनतो रमणीयं ।
उत्तरतो वसति ।
उत्तरत आगतः ।
उत्तरतो रमणीयं ।
अकारो विशेषणार्थः षष्ठ्य्-अतसर्थप्रत्ययेन (*२,३.३०) इति । ।


____________________________________________________________________


[#५३७]

  1. <विभाषा पर-अवराभ्याम्># । । PS_५,३.२९ । ।



_____Sठाऱ्ठ्JKव्_५,३.२९ः

पर-अवर-शब्दाभ्यां विभाषा अतसुच्प्रत्ययो भवति अस्तातेरर्थे ।
परतो वसति ।
पर्त आगतः ।
परतो रमणीयं ।
परस्ताद्वसति ।
परस्तादागतः ।
परस्ताद्रमणीयं ।
अवरतो वसति ।
अवरत आगतः ।
अवरतो रमणीयं ।
अवरस्तद्वसति ।
अवरस्तादागतः ।
अवरस्ताद्रमणीयं । ।


____________________________________________________________________


  1. <अञ्चेर्लुक्># । । PS_५,३.३० । ।



_____Sठाऱ्ठ्JKव्_५,३.३०ः

अञ्चत्यन्तेभ्यो दिक्शब्देभ्य उत्तरस्य अस्तातिप्रत्ययस्य लुग्भवति ।
प्राच्यां दिशि वसति ।
लुक्तद्धित-लुकि (*१,२.४९) इति स्त्रिप्रत्ययोऽपि निवर्तते ।
प्राग्वसति ।
प्रागागतः ।
प्राग्रमणियं ।
प्रत्यग्वसति ।
प्रत्यगागतः ।
प्रत्यग्रमणीयं । ।

____________________________________________________________________


  1. <उपर्य्-उपरिष्टात्># । । PS_५,३.३१ । ।



_____Sठाऱ्ठ्JKव्_५,३.३१ः

उपरि उपरिष्टतित्येतौ शब्दौ निपात्येते अस्तातेरर्थे ।
ऊर्ध्वस्य उपभावः रिल्रिष्टातिलौ च प्रत्ययौ निपात्येते ।
ऊर्ध्वायां दिशि वसति उपरि वसति ।
उपर्यागतः ।
उपरि रमणीयं ।
उपरिष्टद्वसति ।
उपरिष्टादागतः ।
उपरिष्ताद्रमणीयं । ।


____________________________________________________________________


  1. <पश्चात्># । । PS_५,३.३२ । ।



_____Sठाऱ्ठ्JKव्_५,३.३२ः

पश्चादित्ययं शब्दो निपात्यतेऽस्तातेरर्थे ।
अपरस्य पश्चभावः आतिश्च प्रत्ययः ।
अपरस्यां दिशि वसति पश्चाद्दिशि वसति ।
पश्चादागतः ।
पश्चाद्रमणीयं ।
दिक्पूर्वपदस्य अपरस्य पश्चभावो वक्तव्य आतिश्च प्रत्ययः ।
दक्षिणापश्चाथ् ।
उत्तरपश्चाथ् ।
अर्धोत्तरपदस्य दिक्पूर्वस्य पश्चभावो वक्तव्यः ।
दक्षिणपश्चार्धः ।
उत्तरपश्चार्धः ।
विनाऽपि पूर्वपदेन पश्चभावो वक्तव्यः ।
पश्चार्धः । ।


____________________________________________________________________


  1. <पश्च पश्चा च छन्दसि># । । PS_५,३.३३ । ।



_____Sठाऱ्ठ्JKव्_५,३.३३ः

पश्च-पश्चा-शब्दौ निपात्येते छन्दसि विषये अस्तातेरर्थे ।
चकारात्पश्चादपि भवति ।
अपरस्य पश्चभावोऽकाराकारौ च प्रत्ययौ निपात्येते ।
पुरा व्याघ्रो जायते पश्च सिंहः ।
पश्चा सिंहः ।
पश्चात्सिंहः । ।


____________________________________________________________________


[#५३८]

  1. <उत्तर-अधर-दक्षिणादातिः># । । PS_५,३.३४ । ।



_____Sठाऱ्ठ्JKव्_५,३.३४ः

उत्तर-अधर-दक्षिण-शब्देभ्यः आतिः प्रत्ययो भवति अस्तातेरर्थे ।
उत्तरस्यां दिशि वसति उत्तराद्वसति ।
उत्तरादागतः ।
उत्तराद्रमणीयं ।
अधराद्वसति ।
अधरादागतः ।
अधराद्रमणीयं ।
दक्षिणाद्वसति ।
दक्षिणादागतः ।
दक्षिणाद्रमणीयं । ।


____________________________________________________________________


  1. <एनवन्यतरस्यां अदूरेऽपञ्चम्याः># । । PS_५,३.३५ । ।



_____Sठाऱ्ठ्JKव्_५,३.३५ः

उत्तर-अधर-दक्षिण-शब्देभ्यः एनप्प्रत्ययो भवत्यनतरस्यां अस्तातेरर्थे अदूरे चेदवधिमानवधेर्भवति ।
विभक्तित्रये प्रकृतेऽपञ्चग्या इति पञ्चमी पर्युदस्यते ।
तेन अयं सप्तमी-प्रथमान्ताद्विज्ञायते प्रत्ययः ।
उत्तरेण वसति, उत्तराद्वसति, उत्तरतो वसति ।
उत्तरेण रमणीयम्, उत्तराद्रमणीयम्, उत्तरतो रमणीयं ।
अध्रेण वसति अधराद्वसति, अघस्ताद्वसति ।
अधरेण रमणीयम्, अधराद्रमणीयम्, अधस्ताद्रमणीयं ।
दक्षिणेन वसति, दक्षिणाद्वसति, दक्षिणातो वसति ।
दक्षिणेन रमणीयम्, दक्षिणाद्रमणीयम्, दक्षिणतो रमणीयं ।
अदूरे इति किं ? उत्ताराद्वसति ।
अपञ्चम्याः इति किं ? उअत्तरादागतः ।
अपज्चम्याः इति प्रागसेः ।
असिप्रतयस्तु पञ्चम्यन्तादपि भवति ।
केचिदिह+उत्तरादिग्रहणं न अनुवर्तयन्ति ।
दिक्शब्दमात्रात्प्रत्ययं मन्यन्ते ।
पूर्वेण ग्रामं ।
अपरेण ग्रामं । ।


____________________________________________________________________


  1. <दक्षिणादाच्># । । PS_५,३.३६ । ।



_____Sठाऱ्ठ्JKव्_५,३.३६ः

अदूरे इति न स्वर्यते ।
अपञ्चयाः इति वर्तते ।
दक्षिण-शब्दाताच्-प्रत्ययो भवति अस्तातेरर्थे ।
दक्षिणा वसति ।
दक्षिणा रमणीयं ।
अपञ्चम्याः इत्येव, दक्षिणत आगतः ।
चकारो विशेषणार्थः ।
अञ्चूत्तरपदाजाहियुक्ते इति । ।


____________________________________________________________________


  1. <आहि च दूरे># । । PS_५,३.३७ । ।



_____Sठाऱ्ठ्JKव्_५,३.३७ः

दक्षिण-शब्दादाहिः प्रत्ययो भवति अस्तातेरर्थे, चकारादाच्, दूरे चेदवधिमानवधेर्भवति ।
दक्षिणाहि वसति, दक्षिणा वसति ।
दक्षिणाहि रमणीयम्, दक्षिणा रमणीयं ।
दूरे इति किं ? दक्षिणतो वसति ।
अपञ्चमाः इत्येव, दक्षिणत आगतः । ।


____________________________________________________________________


  1. <उत्तराच्च># । । PS_५,३.३८ । ।



_____Sठाऱ्ठ्JKव्_५,३.३८ः

उत्तर-शब्दादाजाही प्रत्ययौ भवतः अस्तातेरर्थे दूरे चेदवधिमानवधेर्भवति ।
उत्तरा वसति, उत्तराहि वसति ।
उत्तरा रमणीयम्, उत्तराहि रमणीयं ।
दूरे इत्येव, उत्तरेण प्रयाति ।
पञ्चम्याः इत्येव, उत्तरादागतः । ।

____________________________________________________________________


[#५३९]

  1. <पूर्व-अधर-अवरानां असि पुर्-अदः-अवश्च+एषाम्># । । PS_५,३.३९ । ।



_____Sठाऱ्ठ्JKव्_५,३.३९ः

अपञ्चम्याः इति निवृत्तं ।
तिसृणां विभक्तीनां इह ग्रहणं ।
पूर्वाधरावराणां असिः प्रत्ययो भवति अस्तातेरर्थे ।
तत्संनिओगेन च+एषां यथासङ्ख्यं पुरदः अवित्येते आदेशा भवन्ति ।
असि इत्यविभक्तिको निर्देशः ।
पुरो वसति ।
पुर आगतः ।
पुरो रमणीयं ।
अधो वसति ।
अध आगतः ।
अधो रमणीयं ।
अवो वसति ।
अव आगतः ।
अवो रमणीयं । ।


____________________________________________________________________


  1. <अस्ताति च># । । PS_५,३.४० । ।



_____Sठाऱ्ठ्JKव्_५,३.४०ः

सप्तम्यान्तं एतथ् ।
अस्ताति-प्रत्यये परतः पुर्वादीनां यथासङ्ख्यं पुरादय आदेशा भवन्ति ।
इदं एव आदेशविधानं ज्ञापकं , अस्तातिरेभ्यो भवति, असि-प्रत्ययेन न आध्यते इति ।
पुरस्ताद्वसति ।
पुरस्तादागतः ।
पुरस्ताद्रमणीयं ।
अधस्ताद्वसति ।
अधस्तादागतः ।
अधस्ताद्रमणीयं । ।


____________________________________________________________________


  1. <विभाषाऽवरस्य># । । PS_५,३.४१ । ।



_____Sठाऱ्ठ्JKव्_५,३.४१ः

पूर्वेण नित्ये प्राप्ते विकल्प उच्यते ।
अवरस्य अस्तातौ परतो विभाषा अवित्ययं आदेशो भवति ।
अवस्ताद्वसति ।
अवस्तादागतः ।
अवस्ताद्रमणीयं ।
अवरस्ताद्वसति ।
अवरस्तादागतः ।
अवरस्ताद्रमणीयं । ।


____________________________________________________________________


  1. <सङ्ख्याया विधार्थे धा># । । PS_५,३.४२ । ।



_____Sठाऱ्ठ्JKव्_५,३.४२ः

सङ्ख्यावाचिभ्यः प्रातिपदिकेभ्यो विधार्थे वर्तमाणेभ्यो धा प्रत्ययो भवति स्वार्थे ।
विधा प्रकारः, स च सर्वक्रियाविषय एव गृह्यते ।
क्रियप्रकारे वर्तमानायाः सङ्ख्याया धा प्रत्ययः ।
एकधा भुङ्क्ते ।
द्विधा गच्छति ।
त्रिधा ।
चतुर्धा ।
पञ्चधा । ।


____________________________________________________________________


  1. <अधिकरणविचाले च># । । PS_५,३.४३ । ।



_____Sठाऱ्ठ्JKव्_५,३.४३ः

सङ्ख्यायाः इत्येव ।
अधिकरणं द्रव्यं, तस्य विचालः सङ्ख्यान्तरापादनं ।
एकस्य अनेकीकरणं अनेकस्य वा एकीकरणं ।
अधिकरणविचाले गम्यमाने सङ्ख्यायाः स्वार्थे धा प्रत्ययो भवति ।
एकं राशिं पञ्चधा कुरु ।
अष्टधा कुरु ।
अनेकं एकधा कुरु । ।


____________________________________________________________________


  1. <एकाद्धो द्यमुञन्यतरस्याम्># । । PS_५,३.४४ । ।



_____Sठाऱ्ठ्JKव्_५,३.४४ः

एकशब्दात्परस्य धा-प्रत्ययस्य ध्यमुञादेशः भवत्यन्यतरस्यां ।
एकधा राशिं कुरु, ऐकध्यं कुरु ।
एकधा भुङ्क्ते, ऐकध्यं भुङ्क्ते ।
प्रकरणादेव लब्धे पुनर्धा-ग्रहणं विधार्थे विहितस्य अपि यथा स्याथ् ।
अनन्तरस्य+एव ह्येतत्प्रत्प्नोति । ।


____________________________________________________________________


[#५४०]

  1. <द्वि-त्र्योश्च धमुञ्># । । PS_५,३.४५ । ।



_____Sठाऱ्ठ्JKव्_५,३.४५ः

धा इत्यनुवर्तते ।
द्वि-त्र्योः सम्बन्धिनो धा-प्रययस्य विधार्थे अधिकरणविचाले च विहितस्य धमुञ्-आदेशो भवति अन्यतरस्यां ।
चकारो विकल्पानुकर्षणार्थः ।
द्विधा, द्वैधं ।
त्रिधा, त्रैधं ।
धमुञन्तात्स्वार्थे डदर्शनं ।
मतिद्वैधानि संश्रयन्ते ।
मतित्रैधानि संश्रयन्ते । ।


____________________________________________________________________


  1. <एधाच्च># । । PS_५,३.४६ । ।



_____Sठाऱ्ठ्JKव्_५,३.४६ः

द्वि-त्र्योः सम्बन्धिनो धा-प्रत्ययस्य एधाचादेशो भवत्यन्यत्रस्यां ।
चकारो विकल्पानुकर्षण-अर्थः ।
द्वेधा, द्वैधम्, द्विधा ।
त्रेधा, त्रैधम्, त्रिधा । ।


____________________________________________________________________


  1. <याप्ये पाशप्># । । PS_५,३.४७ । ।


_____Sठाऱ्ठ्JKव्_५,३.४७ः

याप्यः कुत्सितः इति उच्यते ।
याप्ये वर्तमानात्प्रातिपदिकात्स्वार्थे पाशप्प्रत्ययो भवति ।
याप्यो वैयाकरणः, कुत्सितो वैयाकरणः वैयाकरणपाशः ।
याज्ञिकपाशः ।
यो व्याकरन-शास्त्रे प्रवीणो दुःशीलः, तत्र कस्मान्न भवति ? यस्य गुणस्य सद्भावाद्द्रव्ये शब्दनिवेशः, तस्य कुत्सायां प्रत्ययः । ।


____________________________________________________________________


  1. <पूरणाद्भागे तीयादन्># । । PS_५,३.४८ । ।



_____Sठाऱ्ठ्JKव्_५,३.४८ः

पूरण-प्रत्ययो यस्तीयः, तदन्तात्प्रातिपदिकाद्भागे वर्तमानात्स्वार्थे अन्प्रत्ययो भवति ।
स्वरार्थं वचनं ।
द्वितीयो भागः द्वितियः ।
तृतीयः ।
भागे इति किं ? द्वितीयं ।
तृतीयं ।
पूरण-ग्रहणं उत्तरार्थम्, न ह्यपूरणस्तीयोऽस्ति ।
मुखतीयादिरनर्थकः । ।


____________________________________________________________________


  1. <प्रागेकादशभ्योऽच्छन्दसि># । । PS_५,३.४९ । ।



_____Sठाऱ्ठ्JKव्_५,३.४९ः

पूरणाद्भागे इत्येव ।
प्रागेकादशभ्यः सङ्ख्याशब्देभ्यः पूरणप्रत्ययान्तेभ्यः भागे वर्तमानेभ्यः स्वार्थेऽन्प्रत्ययो भवति अच्छन्दसि विषये ।
स्वरार्थं वचनं ।
पञ्चमः ।
सप्तमः ।
नवमः ।
दशमः ।
प्रागेकादशभ्यः इति किं एकादशः ।
द्वादशः ।
अच्छन्दसि इति किं ? तस्य पञ्चममिन्द्रियस्याअपाक्रामत् । ।


____________________________________________________________________


[#५४१]

  1. <षष्ठ-अष्टमाभ्यां ञ च># । । PS_५,३.५० । ।



_____Sठाऱ्ठ्JKव्_५,३.५०ः

भागे इत्येव, अच्छन्दसि इति च ।
षष्ठ-अष्टमभ्यां भागे अभिधेये अच्छन्दसि विषये ञः प्रत्ययो भवति ।
चकारादन्च ।
षष्ठो भागः षष्टः, षष्ठः ।
आष्टमः, अष्टमः । ।


____________________________________________________________________


  1. <मान-पश्व्-अङ्गयोः कन्-लुकौ च># । । PS_५,३.५१ । ।



_____Sठाऱ्ठ्JKव्_५,३.५१ः

भागे इत्येव ।
षष्ठ-अष्टमाभ्यां यथासङ्ख्यं कन्-लुकौ च भवतो मानपश्वङ्गयोर्भागयोरभिधेययोः ।
षष्ठको भागो मानं चेत्तद्भवति ।
अष्टमो भागः पश्वङ्ग चेत्तद्भवति ।
कस्य लुक्? ञस्य लुक् ।
अनो वा ।
चकाराद्यथाप्राप्तं च ।
षाष्ठः, षष्ठः ।
आष्टमः, अष्टमः ।
मानपश्वङ्गयोः इति किं ? षाष्ठः, षष्ठः ।
आष्टमः, अष्टमः । ।


____________________________________________________________________


  1. <एकादाकिनिच्च असहाये># । । PS_५,३.५२ । ।



_____Sठाऱ्ठ्JKव्_५,३.५२ः

एक-शदाद्सहाय-वाचिनः स्वार्थे आकिनिच्प्रत्ययो भवति ।
चकारात्कन्-लुकौ च ।
आकिनिचः कनो वा लुग्विज्ञायते ।
स च विधानसामर्थ्यात्पक्षे भवति ।
एकाकी, एककः, एकः ।
असहाय-ग्रहणं सङ्ख्याशब्दनिरासार्थं ।
तदुपादाने हि द्विबह्वोर्न स्यात्, एकाकिनौ, एकाकिनः । ।


____________________________________________________________________


  1. <भूतपूर्वे चरट्># । । PS_५,३.५३ । ।



_____Sठाऱ्ठ्JKव्_५,३.५३ः

पूर्व भूतः इति विगृह्य सुप्सुपेति समासः ।
भूतपूर्वशब्दोऽतिक्रान्तकालवचनः ।
प्रकृतिविशेषणं च+एअथ् ।
भूतपूर्वत्वविशिष्टेऽर्थे वर्तमानात्प्रातिपदिकात्स्वार्थे चरट्प्रत्ययो भवति ।
आढ्यो भूतपूर्वः आढ्यचरः ।
सुकुमारचरः ।
टकारो ङीबर्थः ।
आढ्यचरी । ।


____________________________________________________________________


  1. <षष्ठ्या रूप्य च># । । PS_५,३.५४ । ।



_____Sठाऱ्ठ्JKव्_५,३.५४ः

षष्ठ्यन्तात्प्रातिपदिकात्रूप्यः प्रत्ययो भवति ।
चकाराच्चरट्च ।
षष्ठ्यन्तात्प्रत्ययविधानात्संप्रति भूतपूर्वग्रहणं प्रत्ययार्थस्य विशेषणं, न तु प्रकृत्यर्थविशेषणं ।
देवदत्तस्य भूतपूर्वो गौः देवदत्तरूप्यः, देवदत्तचरः । ।


____________________________________________________________________


[#५४२]

  1. <अतिशायने तमबिष्ठनौ># । । PS_५,३.५५ । ।



_____Sठाऱ्ठ्JKव्_५,३.५५ः

अतिशयनं अतिशायनं प्रकर्षः ।
निपातनाद्दीर्घत्वं ।
प्रकृत्यर्थविशेषणं च+एतथ् ।
अतिशायनविशिष्टेऽर्थे वर्तमानात्प्रातिपदिकात्स्वार्थे तमबिष्ठनौ प्रत्ययौ भवतः ।
प्रकृत्यर्थविशेषणं च स्वार्थिकानां द्योत्यं भवति ।
सर्व इमे आढ्याः, अयं एषां अतिशयेन आढ्यः आढ्यतमः ।
दर्शनीयतमः ।
सुकुमारतमः ।
अयं एषां अतिशयेन पटुः पटिष्थः ।
लघिष्ठः ।
गरिष्ठः ।
यदा च प्रकर्षवतां पुनः प्रकर्षो विवक्ष्यते तदातिशायिकान्तादपरः प्रत्ययो भवत्येव ।
देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे ।
युधिष्ठिरः श्रेष्ठतमः कुरूणां इति । ।


____________________________________________________________________


  1. <तिङश्च># । । PS_५,३.५६ । ।



_____Sठाऱ्ठ्JKव्_५,३.५६ः

तिङन्तात्च अतिशायने द्योत्ये तमप्प्रत्ययो भवति ।
ङ्य्-आप्-प्रातिपदिकात्(*४,१.१) इत्यधिकारात्तिङो न प्राप्नोति इति इदं वचनं ।
सर्वे इमे पचन्ति इति, अयं एषां अतिशयेन पचति पचतितमां ।
जल्पतितमां ।
इष्ठन्नोदाह्रियते, गुणवचने तस्य नियतत्वात् । ।


____________________________________________________________________


  1. <द्विवचन-विभज्य-उपपदे तरब्-ईयसुनौ># । । PS_५,३.५७ । ।



_____Sठाऱ्ठ्JKव्_५,३.५७ः

द्वयोरर्थयोर्वचनं द्विवचनं विभक्तव्यो विभज्यः ।
निपातनाद्यत्भवति ।
द्व्यर्थे विभज्ये च+उपपदे प्रातिपदिकात्तिङन्ताच्च अतिशायने तरबीयसुनौ प्रत्ययौ भवतः ।
तमबिष्ठनोरपवादौ ।
यथासङ्ख्यं अत्र न+इष्यते ।
द्वाविमावाढ्यौ, अयं अनयोरतिशयेन आढ्यः आढ्यतरः ।
सुकुमारतरः ।
पचतितरां ।
जल्पतितरां ।
ईयसुन्खल्वपि - द्वाविमौ पटू, अयं अनयोरतिशयेन पटुः पटीयान् ।
विभज्ये च+उपपदे - माथुराः पाटलिपुत्रकेभ्य आढ्यतराः ।
दर्शनीयतराः ।
पटीयांसः ।
लघीयांसः । ।


____________________________________________________________________


  1. <अजादि गुणवचनादेव># । । PS_५,३.५८ । ।



_____Sठाऱ्ठ्JKव्_५,३.५८ः

इष्ठन्नीयसुनौ अजादी सामान्येन विहितौ, तयोरयं विषयनियमः क्रियते, गुणवचनादेव भवतस्तौ न अन्यस्मादिति ।
पटीयान् ।
लघीयान् ।
पटिष्ठः ।
लघीष्ठः ।
इह न भवतः, पाचकतरः, पाचकतमः इति ।
एव कारः इष्टतोऽवधारणार्थः, प्रत्ययनियमोऽयं न प्रकृतिनियमः इति ।
पटुतरः ।
पटुतमः । ।


____________________________________________________________________


[#५४३]

  1. <तुश्छन्दसि># । । PS_५,३.५९ । ।



_____Sठाऱ्ठ्JKव्_५,३.५९ः
तुः इति तृन्-तृचोः सामान्येन ग्रहणं ।
त्रन्ताच्छन्दसि विषये अजदी प्रत्ययौ भवतः ।
पूर्वेण गुणवचनादेव नियमे कृते छन्दसि प्रकृत्यन्तराण्यभ्यनुज्ञायन्ते, त्रन्तादप्यजादी भवत इति ।
आसुतिं करिष्ठः ।
दोहीयसी धेनुः ।
भस्याढे तद्धिते इति पुंवद्भावे कृते तुरिष्ठेमेयःसु (*३,४.१५४) इति तृचो निवृत्तिः । ।


____________________________________________________________________


  1. <प्रशस्यस्य श्रः># । । PS_५,३.६० । ।



_____Sठाऱ्ठ्JKव्_५,३.६०ः

प्रशस्य शब्दस्य श्र इत्ययं आदेशे भवति अजाद्योः प्रत्यययोः परतः ।
अजादी इति प्रकृतस्य सप्तमी विभक्तिविपरिणम्यते ।
ननु च प्रशस्य शब्दस्य अगुणवचनत्वादजादी न सम्भवतः ? एवं तर्हि आदेशविधानसामर्थ्यात्तद्विषयो नियमो न प्रवर्तते, अजादी गुणवचनादेव इति ।
एवं उत्तरेष्वपि योगेषु विज्ञेयं ।
सर्वे इमे प्रशस्याः, अयं एषां अतिशयेन प्रशस्यः श्रेष्ठः ।
उभाविमौ प्रशस्यौ, अयं अनयोरतिशयेन प्रशस्यः श्रेयान् ।
अयं अस्मात्श्रेयान् ।
प्रकृत्यौ काचिति प्रकृतिभावत्श्रशब्दस्य टिलोपयस्येतिलोपौ न भवतः । ।


____________________________________________________________________


  1. <ज्य च># । । PS_५,३.६१ । ।



_____Sठाऱ्ठ्JKव्_५,३.६१ः

प्रशस्य शब्दस्य ज्य इत्ययं आदेशो भवति अजाद्योः प्रत्यययोः परतः ।
सर्वे इमे प्रशस्याः, अयं एषां अतिशयेन प्रशस्यः ज्येष्ठः ।
उभाविमौ प्रशस्यौ, अयं अनयोरतिशयेन प्रशस्यः ज्यायान् ।
अयमस्मात्ज्यायान् ।
ज्यादादीयसः (*६,४.१६०) इत्याकारः । ।


____________________________________________________________________


  1. <वृद्धस्य च># । । PS_५,३.६२ । ।



_____Sठाऱ्ठ्JKव्_५,३.६२ः

वृद्ध-शब्दस्य च ज्य इत्ययं आदेशो भवत्यजाद्योः प्रत्यययोः परतः ।
तयोश्च सत्त्वं नियमाभावेन पूर्ववज्ज्ञाप्यते ।
सर्वे इमे वृद्धाः, अयं एषां अतिशयेन वृद्धः ज्येष्ठः ।
उभाविमौ वृद्धौ, अयं अनयोरतिशयेन वृद्धः ज्यायान् ।
अयं अस्माज्ज्यायान् ।
प्रियस्थिर इत्यादिना वृद्धशब्दस्य वर्षादेशो विधीयते ।
वचनसामर्थ्यात्पक्षे सोऽपि भवति ।
वर्षिष्ठः ।
वर्षीयान् । ।


____________________________________________________________________


[#५४४]

  1. <अन्तिक-बाढयोर्नेद-साधौ># । । PS_५,३.६३ । ।



_____Sठाऱ्ठ्JKव्_५,३.६३ः

अन्तिक-बाढयोः यथासङ्ख्यं नेद साध इत्येतावादेशौ भवतोऽजाद्योः परतः ।
तयोश्च सत्त्वं पूर्ववद्विज्ञेयं ।
निमित्तभूतयोर्यथासङ्ख्यं अत्र एष्यते सर्वाणीमान्यन्तिकानि, इदमेषामतिशयेन अन्तिकं नेदिष्ठं ।
उभे इमे अन्तिके, इदं अनयोरतिशयेन अन्तिकं नेदीयः ।
इदं अस्मान्नेदियः ।
सर्वे इमे बाढमधीयते, अयं एषां अतिशयेन बाढं अधीते सधिष्ठः ।
उभाविमौ बाढं अधीयाते, अयं अनयोरतिशयेन बाढं अधीते साधीयः ।
अयं अस्मात्साधीयोऽधीते । ।


____________________________________________________________________


  1. <युव-अल्पयोः कनन्यतरस्याम्># । । PS_५,३.६४ । ।


_____Sठाऱ्ठ्JKव्_५,३.६४ः

युव-अल्प-शब्दयोः कनित्ययं आदेशो भवत्यन्यतरस्यां अजद्योः परतः ।
तयोश्च सत्त्वं पूर्ववज्ज्ञेयं ।
सर्वे इमे युवानः, अयं एषं अतिशयेन युव कनिष्ठः ।
द्वाविमौ युवानौ, अयं अनयोरतिशयेन युवा कनीयान् ।
अयं अस्मात्कनीयान् ।
यविष्ठः, यवीयानिति वा ।
सर्वे इमेऽल्पाः, अयं एषां अतिशयेन अल्पः कनिष्ठः ।
उभाविमावल्पौ, अयं अनयोरतिशयेन अल्पः कनीयान् ।
अयं अस्मात्कनीयान् ।
अल्पिष्ठः, अल्पीयानिति वा । ।


____________________________________________________________________


  1. <विन्-मतोर्लुक्># । । PS_५,३.६५ । ।



_____Sठाऱ्ठ्JKव्_५,३.६५ः

विनो मतुपश्च लुग्भवति अजाद्योः प्रत्यययोः परतः ।
इदं एव वचनं ज्ञापकं अजादिसद्भावस्य ।
सर्वे इमे स्रग्विणः, अयं एषां अतिशयेन स्रग्वी स्रजिष्ठः ।
उभाविमौ स्रग्विणौ, अयं अनयोरतिशयेन स्रग्वी स्रजियान् ।
अयं अस्मात्स्रजीयान् ।
सर्वे इमे त्वग्वन्तः, अयं एषां अतिशयेन त्वग्वान्त्वचिष्ठः ।
उभाविमौ त्वग्वन्तौ, अयं अनयोरतिशयेन त्वग्वान्त्वचीयान् ।
अयं अस्मात्त्वचीयान् । ।


____________________________________________________________________


  1. <प्रशंसायां रूपप्># । । PS_५,३.६६ । ।



_____Sठाऱ्ठ्JKव्_५,३.६६ः

प्रशंसा स्तुतिः ।
प्रकृत्यर्थस्य विशेषणं च+एतथ् ।
प्रशंसाविशिष्टेऽर्थे वर्तमानात्प्रातिपदिकात्स्वार्थे रूपप्प्रत्ययो भवति ।
स्वार्थिकाश्च प्रत्ययाः प्रकृत्यर्थविशेषस्य द्योतका भवन्ति ।
प्रशस्तो वैयाकरणो वैयाकरणरूपः ।
याज्ञिकरूपः ।
प्रकृत्यर्थस्य वैशिष्ट्ये प्रशंसा भवति ।
वृषलरूपोऽयं यः पलाण्डुना सुरां पिबति ।
चोररूपः, दस्युरूपः, योऽक्ष्णोरप्यञ्जनं हरेथ् ।

[#५४५]

तिङश्च (*५,३.५६) इत्यनुवर्तते ।
पचतिरूपं ।
पचतोरूपं ।
पचन्तिरूपं ।
क्रियाप्रधानं आख्यातं ।
एका च क्रिया इति रुपप्प्रत्ययान्ताद्द्विवचनबहुवचने न भवतः ।
नपुंसकलिङ्गं तु भवति, लोकाश्रयत्वाल्लिङ्गस्य । ।


____________________________________________________________________


  1. <ईषदसमाप्तौ कल्पब्-देश्य-देशीयरः># । । PS_५,३.६७ । ।


_____Sठाऱ्ठ्JKव्_५,३.६७ः

सम्पूर्णता पदार्थानां समाप्तिः ।
स्तोकेनासम्पूर्णता ईषदसमाप्तिः ।
प्रकृत्यर्थविशेषणं च+एतथ् ।
ईषदसमाप्तिविशेष्टेऽर्थे वर्तमानात्प्रातिपदिकात्कल्पप्देश्य देशीयरित्येते प्रत्यया भवन्ति ।
ईषदसमाप्तः पटुः पटुकल्पः, पटुदेश्यः, पटुदेशीयः ।
मृदुकल्पः, मृदुदेश्यः, मृदुदेशीयः ।
तिङश्च (*५,३.५६) इत्येव, पचतिकल्पं ।
जल्पतिकल्पं । ।


____________________________________________________________________


  1. <विभाषा सुपो बहुच्परस्तात्तु># । । PS_५,३.६८ । ।



_____Sठाऱ्ठ्JKव्_५,३.६८ः

ईषदसमाप्तिविशेष्टेऽर्थे वर्तमानात्सुबन्तात्विभषा बहुच्प्रत्ययो भवति ।
स तु पुरस्तादेव भवति, न परतः ।
चित्करणं अन्तोदात्तार्थं ।
ईषदसमाप्तः पटुः बहुपटुः ।
बहुमृदुः ।
बहुगुडो द्राक्षा ।
विभाषावचनात्कल्पबादयोऽपि भवन्ति ।
सुब्ग्रहणं तिङन्तान्मा भूदिति । ।


____________________________________________________________________


  1. <प्रकारवचने जातीयर्># । । PS_५,३.६९ । ।



_____Sठाऱ्ठ्JKव्_५,३.६९ः

सामान्यस्य भेदको विशेषः प्रकारः, तस्य वचने ।
प्रकृत्यर्थेविशेषणं च+एतथ् ।
सुबन्तात्प्रकारविशिष्टेऽर्थे वर्तमानात्प्रातिपदिकात्स्वार्थे जातीयर्प्रत्ययो भवति ।
प्रकारवति च अयं प्रत्ययः ।
थाल्पुनः प्रकारमात्र एव भवति ।
पटुप्रकारः पटुजातीयः ।
मृदुजातीयः ।
दर्शनीयजतीयः । ।


____________________________________________________________________


  1. <प्राग्-इवात्कः># । । PS_५,३.७० । ।



_____Sठाऱ्ठ्JKव्_५,३.७०ः

इवे प्रतिकृतौ (*५,३.९६) इति वक्ष्यति ।
प्राकेतस्मादिव संशब्दनाद्यानित ऊर्ध्वं अनुक्रमिष्यामः कप्रत्ययस्तेषु अधिकृतो वेदितव्यः ।
वक्ष्यति - अज्ञाते (*५,३.७३) इति ।
अश्वकः ।
गर्दभकः ।
तिङन्तादयं प्रत्ययो निष्यते, अकजिष्यते ।
तिङश्च (*५,३.५६) इत्यनुवृत्तं उत्तरसूत्रेण+एव सम्बन्धनीं । ।


____________________________________________________________________


[#५४६]

  1. <अव्यय-सर्वनाम्नां अकच्प्राक्टेः># । । PS_५,३.७१ । ।



_____Sठाऱ्ठ्JKव्_५,३.७१ः

तिङश्च (*५,३.५६) इत्येव ।
अव्ययानां सर्वनाम्नां च प्रागिवीयेष्वर्थेषु अकच्प्रत्ययो भवति, स च प्राक्टेः, न परतः ।
कस्य अपवादः ।
उच्चकैः ।
नीचकैः ।
शनकैः ।
सर्वनाम्नः खल्वपि - सर्वके ।
विश्वके ।
उभयके ।
प्रातिपदिकात्, सुपः इति द्वयं अपि इह अनुवर्तते ।
तत्र अभिधानतो व्यवस्था भवति ।
क्वचित्प्रातिपदिकस्य प्राक्टेः प्रत्ययो भवति, क्वचित्सुबन्तस्य ।
युष्मकाभिः , अस्मकाभिः, युष्मकासु, अस्मकासु, युवकयोः, आवकयोः, इत्यत्र प्रातिपदिकस्य ।
त्वयका, मयका, त्वयकि, मयकि इत्यत्र सुबन्तस्य ।
अकच्प्रकरणे तूष्णीमः काम्प्रत्ययो वक्तव्यः ।
स च मित्त्वादन्त्यातचः परो भवति ।
तुष्णीकां आस्ते ।
तूष्णीकां तिष्ठति ।
शीले को मलोपश्च वक्तव्यः ।
तूष्णींशीलः तूष्णीकः ।
तिङश्च (*५,३.५६) इति प्रकृतमत्र सम्बध्यते ।
पचतकि ।
जल्पतकि । ।


____________________________________________________________________


  1. <कस्य च दः># । । PS_५,३.७२ । ।



_____Sठाऱ्ठ्JKव्_५,३.७२ः

ककारान्तस्य प्रातिपदिकस्य अकच्सन्नियोगेन दकारादेशो भवति ।
चकारः सन्नियोगार्थः ।
सामर्थ्याच्चाव्ययग्रहणं अनुवर्तते, न सर्वनामग्रहणं ।
ककारान्तस्य सर्वनाम्नोऽसम्भवाथ् ।
धिक्- धकिथ् ।
हिरुक्- हिरकुथ् ।
पृथक्- पृथकत् । ।


____________________________________________________________________


  1. <अज्ञाते># । । PS_५,३.७३ । ।



_____Sठाऱ्ठ्JKव्_५,३.७३ः

अज्ञातविशेषः अज्ञातः ।
अज्ञातत्वोपाधिकेऽर्थे वर्तमानात्प्रातिपदिकात्तिङन्ताच्च स्वार्थे यथाविहितं प्रत्ययो भवति ।
स्वेन रूपेण ज्ञाते पदार्थे विशेषरूपेण अज्ञाते प्रत्ययविधानं एतथ् ।
कस्य अयं अश्वः इति स्वस्वामिसम्बन्धेन अज्ञाते अश्वे प्रत्ययः, अश्वकः ।
गर्दभकः ।
उष्ट्रकः ।
एवं अन्यत्र अपि यथायोगं अज्ञातता विज्ञेया ।
उच्चकैः ।
नीचकैः ।
सर्वके ।
विश्वके ।
पचतकि ।
जल्पतकि । ।


____________________________________________________________________


[#५४७]

  1. <कुत्सिते># । । PS_५,३.७४ । ।



_____Sठाऱ्ठ्JKव्_५,३.७४ः

कुत्सितो गर्हितो, निन्दितः ।
प्रकृत्यर्थविशेषणं च+एतथ् ।
कुत्सितस्वोपाधिकेऽर्थे वर्तमानात्प्रातिपदिकात्स्वार्थे यथाविहितं प्रत्ययो भवति ।
कुत्सितोऽश्वः अश्वकः ।
उष्ट्रकः ।
गर्दभकः ।
उच्चकैः ।
नीचकैः ।
सर्वके ।
विश्वके ।
पचतकि ।
जल्पतकि । ।


____________________________________________________________________


  1. <सञ्ज्ञायां कन्># । । PS_५,३.७५ । ।



_____Sठाऱ्ठ्JKव्_५,३.७५ः

कुत्सिते इत्येव ।
कुत्सितत्वोपाधिकेऽर्थे वर्तमानात्प्रातिपैद्कात्कन्-प्रत्ययो भवति, कस्य अपवादः, प्रत्ययान्तेन चेत्सञ्ज्ञा गम्यते ।
शूद्रकः ।
धारकः ।
पूर्णकः । ।


____________________________________________________________________


  1. <अनुअम्पायाम्># । । PS_५,३.७६ । ।



_____Sठाऱ्ठ्JKव्_५,३.७६ः

कारुण्येन अभ्युपपत्तिः परस्य अनुकम्पा ।
तस्या गम्यमानायां सुबन्तात्तिङन्ताच्च यथाविहितं प्रत्ययो भवति ।
पुत्रकः ।
वत्सकः ।
दुर्बलकः ।
बुभुक्षितकः ।
स्वपितकि ।
श्वसितकि । ।


____________________________________________________________________


  1. <नीतौ च तद्युक्तात्># । । PS_५,३.७७ । ।



_____Sठाऱ्ठ्JKव्_५,३.७७ः

सामदानादिरुपायो नीतिः ।
नीतौ च गम्यमानायां तद्युक्तादनुकम्पायुक्ताद्यथाविहितं प्रत्ययो भवति ।
हन्त ते धानकाः ।
हन्त ते तिलकाः ।
एहकि ।
अद्धकि ।
परस्य अनुकम्पामात्रोपादानेनाराधयति ।
पूर्वेण प्रत्यासन्नानुकम्पासम्बन्धातनुकम्प्यमानादेव प्रत्ययो विहितः ।
संप्रति व्यवहितादपि यथा स्यादिति वचनं । ।


____________________________________________________________________


  1. <बह्वचो मनुस्यनाम्नष्ठज्वा># । । PS_५,३.७८ । ।



_____Sठाऱ्ठ्JKव्_५,३.७८ः

अनुकम्पायां (*५,३.७६), नीतौ च तद्युक्तात्(*५,३.७७) इति वर्तते ।
बह्वचः प्रातिपदिकात्मनुष्यनामधेयाद्वा ठच्प्रत्ययो भवति, अनुकम्पायां गम्यमानायां नीतौ च ।
देविकः, देवदत्तकः ।
यज्ञिकः, यज्ञदत्तकः ।
बह्वचः इति किं ? दत्तकः ।
गुप्तकः ।
मनुष्यनाम्नः इति किं ? मद्रबाहुकः ।
भद्रबाहुकः । ।


____________________________________________________________________


[#५४८]

  1. <घन्-इलचौ च># । । PS_५,३.७९ । ।



_____Sठाऱ्ठ्JKव्_५,३.७९ः

अनुकम्पायां इत्यादि सर्वं अनुवर्तते ।
पूर्वेण ठचि विकल्पेन प्राप्ते वचनं ।
बह्वचो मनुस्यनाम्नो घनिलचित्येतौ प्रत्ययौ भवतः ।
चकाराद्यथाप्राप्तं च ।
देवियः, देविलः, देविकः, देवदत्तकः ।
यज्ञियः, यज्ञिलः, यज्ञिकः, यज्ञदत्तकः । ।


____________________________________________________________________


  1. <प्राचां उपादेरडज्-वुचौ च># । । PS_५,३.८० । ।



_____Sठाऱ्ठ्JKव्_५,३.८०ः

पूर्ववत्सर्वं अनुवर्तते ।
उपशब्द आदिर्यस्य तस्मादुपादेः प्रातिपदिकाद्बह्वचो मनुस्यनाम्नः ।
अडच्-वुच्-प्रत्ययौ भवतः ।
चकाराद्घनिलचौ प्रत्ययौ भवतः ठच्च वा ।
उपडः, उपकः, उपियः, उपिलः, उपिकः, उपेन्द्रदत्तकः ।
प्राचां-ग्रहणं पूजार्थं ।
वा इत्येव हि वर्तते । ।


____________________________________________________________________


  1. <जातिनाम्नः कन्># । । PS_५,३.८१ । ।



_____Sठाऱ्ठ्JKव्_५,३.८१ः

बह्वचः इति न अनुवर्तते ।
सामान्येन विधानं ।
जातिशब्दो यो मनुस्यनामधेयो व्याघ्र सिंह इत्येवं आदिः, तस्मादनुकम्पायां नीतौ च कन्-प्रत्ययो भवति ।
व्याघ्रकः ।
सिंहकः ।
शरभकः ।
वावचनानुवृत्तेर्यथादर्शनं अन्योऽपि भवति ।
व्याघ्रिलः ।
सिंहिलः ।
नाम-ग्रहणं स्वरूपनिवृत्त्यर्थं । ।


____________________________________________________________________


  1. <अजिनान्तस्य+उत्तरपदलोपश्च># । । PS_५,३.८२ । ।



_____Sठाऱ्ठ्JKव्_५,३.८२ः

कनित्यनुवर्तते, मनुस्यनाम्नः इति च ।
अजिन-शब्दान्तात्प्रातिपदिकान्मनुस्यनाम्नोऽनुकम्पायां कन्प्रत्ययो भवति, तस्य च+उत्तरपदलोपः ।
व्याघ्राजिनो नां अकश्चिन्मनुस्यः, सोऽनुकम्पितः व्याघ्रकः ।
सिंहकः । ।


____________________________________________________________________

  1. <ठ-अज्-आदावूर्ध्वं द्वितीयादचः># । । PS_५,३.८३ । ।



_____Sठाऱ्ठ्JKव्_५,३.८३ः

लोपः इत्यनुवर्तते ।
अस्मिन्प्रकरणे यः ठः अजादिश्च प्रत्ययः, तस्मिन्परतः प्रकृतेर्द्वितीयादच ऊर्ध्वं यच्छब्दरूपं तस्य लोपो भवति ।
ऊर्ध्व-ग्रहणं सर्वलोपार्थं ।
अनुकम्पितो देवदत्तः देविकः, देवियः, देविलः ।
यज्ञिकः, यज्ञिक्यः, यज्ञिलः ।
उपडः, उपक, उपियः, उपिलः, उपिकः ।
ठग्रहणमुको द्वितीयात्वे कविधानार्थं ।
अजादिलक्षणे हि माथितिकादिवत्प्रसङ्गः ।
वायुदत्तः वायुकः ।
पितृदत्तः पितृकः ।
चतुर्थादच ऊर्ध्वस्य लोपो वक्तव्यः ।
अनुकम्पितो बृहस्पतिदत्तः बृहस्पतिकः बृहस्पतियः बृहस्पतिलः ।

[#५४९]

अनजादौ विभाषा लोपो वक्तव्यः ।
देवदत्तकः, देवकः ।
यज्ञदत्तकः, यज्ञकः ।
लोपः पूर्वपदस्य च ठाजादावनजादौ च वक्तव्यः ।
दत्तिकः, दत्तिलः, दत्तियः, दत्तकः ।
विनाऽपि प्रत्ययेन पूर्वोत्तरपदयोः विभाषा लोपो वक्तव्यः ।
देवदत्तो दत्तः, देव इति वा ।
उवर्णाल्ल इलस्य च ।
भानुदत्तो भानुलः ।
वसुदत्तो वसुलः ।
चतुर्थादनजादौ च लोपः पूर्वपदस्य च ।
अप्रत्यये तथा+एव+इष्ट उवर्णाल्ल इलस्य च । ।
द्वितीयादचो लोपे सन्ध्यक्षरद्वितीयत्वे तदादेर्लोपवचनं ।
लहोडः लहिकः ।
कहोडः कहिकः ।
एकाक्षरपूर्वपदानां उत्तरपदलोपो वक्तव्यः ।
वागाशीः वाचिकः ।
स्रुचिकः ।
त्वचिकः ।
कथं षडङ्गुलिदत्तः षडिकः इति ? षषष्ठाजादिवचनात्सिद्धं । ।


____________________________________________________________________


  1. <शेवल-सुपरि-विशाला-वरुण-अर्यम-आदिनां तृतीयात्># । । PS_५,३.८४ । ।



_____Sठाऱ्ठ्JKव्_५,३.८४ः

शेवलादीनां मनुष्यनाम्नां ठाजादौ प्रत्यये परतः तृतीयादचः ऊर्ध्वस्य लोपो भवति ।
पूर्वस्य अयं अपवादः ।
अनुकम्पितः शेवलदत्तः शेवलिकः, शेवलियः, शेवलिलः ।
सुपरिकः, सुपरियः, सुपरिलः ।
विशालिकः, विशालियः, विशालिलः ।
वरुणिकः, वरुणियः, वरुणिलः ।
अर्यमिकः, अर्यमियः, अर्यमिलः ।
शेवलादीनां तृतीयादचो लोपः स चाकृतसन्धीनां इति वक्तव्यं ।
शेवलेन्द्रदत्तः, सुपर्याशीर्दत्तः शेवलिकः, सुपरिकः इति यथा स्याथ् ।
शेवल्यिकः, सुपर्यिकः इति मा भूत् । ।


____________________________________________________________________


[#५५०]

  1. <अल्पे># । । PS_५,३.८५ । ।



_____Sठाऱ्ठ्JKव्_५,३.८५ः

परिमाणापचये अल्पशब्दः ।
प्रकृतिविशेषणं च+एतथ् ।
अल्पत्वविशिष्टे अर्थे वर्तमानात्प्रातिपदिकात्यथाविहितं पत्ययो भवति ।
अल्पं तैलं तैलकं ।
घृतकं ।
सर्वकं ।
विश्वकं ।
उच्चकैः ।
नीचकैः ।
पचतकि ।
जल्पतकि । ।


____________________________________________________________________


  1. <ह्रस्वे># । । PS_५,३.८६ । ।



_____Sठाऱ्ठ्JKव्_५,३.८६ः

ह्रस्वत्वविशिष्टेऽर्थे वर्तमानात्प्रातिपदिकात्यथाविहितं प्रत्ययो भवति ।
दीर्घप्रतियोही ह्रस्वः ।
ह्रस्वो वृक्षः वृक्षकः ।
प्लक्षकः ।
स्तम्भकः । ।


____________________________________________________________________


  1. <सञ्ज्ञायां कन्># । । PS_५,३.८७ । ।



_____Sठाऱ्ठ्JKव्_५,३.८७ः

ह्रस्वे इत्येव ।
ह्रस्वत्वहेतुका या सञ्ज्ञा तस्यां गम्यमानायां कन्-प्रत्ययो भवति ।
पूर्वस्य अयं अपवादः ।
वंशकः ।
वेणुकः ।
दण्डकः । ।


____________________________________________________________________


  1. <कुटी-शमी-शुण्डाभ्यो रः># । । PS_५,३.८८ । ।



_____Sठाऱ्ठ्JKव्_५,३.८८ः

ह्रस्वे इत्येव ।
सञ्ज्ञाग्रहणं न अनुवर्तते ।
सामान्येन विधानं ।
कुटी-शमी-शुण्डाभ्यो ह्रस्वार्थे द्योत्ये रः प्रत्ययो भवति ।
कस्य अपवादः ।
ह्रस्वा कुटी कुटीरः ।
शमीरः ।
शुण्डारः ।
स्वार्थिकत्वेऽपि पुंलिङ्गता, लोकाश्रयत्वाल्लिङ्गस्य । ।


____________________________________________________________________


  1. <कुत्वा डुपच्># । । PS_५,३.८९ । ।



_____Sठाऱ्ठ्JKव्_५,३.८९ः

ह्रस्वे इत्येव ।
कुतूशब्दाद्ह्रस्वत्वे द्योत्ये दुपच्प्रत्ययो भवति ।
कस्य अपवादः ।
ह्रस्वा कुटूः कुतुपं ।
चर्मं अयं स्नेहभाजनं उच्यते ।
कुतूः इत्यावपनस्याख्या । ।


____________________________________________________________________


  1. <कासू-गोणीभ्यां ष्टरच्># । । PS_५,३.९० । ।



_____Sठाऱ्ठ्JKव्_५,३.९०ः

ह्रस्वे इत्येव ।
कासू-गोणी-शब्दाभ्यां ह्रस्वस्वे द्योत्ये ष्टरच्प्रत्ययो भवति ।
कस्य अपवादः ।
षकारो ङीषर्थः ।
ह्रस्वा कासूः कासूतरी ।
गोणीतरी ।
कासूः इति शक्तिः, आयुधविशेसः उच्यते । ।


____________________________________________________________________


[#५५१]

  1. <वत्स-उक्ष-अश्व-र्षभेभ्यश्च तनुत्वे># । । PS_५,३.९१ । ।



_____Sठाऱ्ठ्JKव्_५,३.९१ः

ह्रस्वे इति निवृत्तं ।
वत्स उक्षनश्व ऋषभ इत्येतेभ्यः तनुत्वे द्योत्ये ष्टरच्-प्रत्ययो भवति ।
यस्य गुणस्य हि भावाद्द्रव्ये शब्दनिवेशः तस्य तनुत्वे प्रत्ययः ।
वत्सतरः ।
उक्षतरः ।
अश्वतरः ।
ऋषभतरः ।
प्रथमवया वत्सः, तस्य तनुत्वं द्वितीयवयःप्राप्तिः ।
तरुण उक्षा, तस्य तनुत्वं तृतीयवयःप्राप्तिः ।
अश्वेन अश्वायां उत्पन्नोऽस्वः, तस्य तनुत्वं अन्यपितृकता ।
अनुड्वानृषभः, तस्य तनुत्वं भारवहने मन्दशक्तिता । ।

____________________________________________________________________


  1. <किं-यत्-तदो निर्धारणे द्वयोरेकस्य डतरच्># । । PS_५,३.९२ । ।



_____Sठाऱ्ठ्JKव्_५,३.९२ः

किं यत्ततित्येतेभ्यः प्रातिपदिकेभ्य द्वयोरेकस्य निर्धारणे डतरच्प्रत्ययो भवति ।
निर्धार्यमाणवाचिभ्यः स्वार्थे प्रत्ययः ।
जात्या, क्रियया, गुनेन, सञ्ज्ञया वा समुदायादेकदेशस्य पृथक्करणं निर्धारणं ।
कतरो भवतोः कठः ।
कतरो भवतोः कारकः ।
कतरो भवतोः पटुः ।
कतरो भवतोर्देवदत्तः ।
यतरो भवतोः कारकः ।
यतरो भवतोः पतुः ।
यतरो भवतोर्देवदत्तः, ततर आगच्छतु ।
महाविभाषया चात्र प्रत्ययो विकल्प्यते ।
को भवतोर्देवदत्तः, स आगच्छतु ।
निर्धारणे इति विसयसप्तमीनिर्देशः ।
द्वयोः इति समुदायान्निर्धारणविभक्तिः ।
एकस्य इति निर्देशः निर्धर्यमाणनिर्देशः । ।


____________________________________________________________________


  1. <वा बहूनां जातिपरिप्रश्नो डतमच्># । । PS_५,३.९३ । ।



_____Sठाऱ्ठ्JKव्_५,३.९३ः

किंयत्तदः इति वर्तते निर्धारने, एकस्य इति च ।
बहूनां इति निर्धारने षष्ठी ।
बहुनां मध्ये एकस्य निर्धारने गम्यमाने जातिपरिप्रश्नविषयेभ्यः किमादिभ्यः वा डतमच्प्रत्ययो भवति ।
कतमो भवतां कठः ।
यतमो भवतां कठः, ततम आगच्छतु ।
वावचनं अकजर्थं ।
यको भवतां कठः, सक आगच्छतु ।
महाविभाषा च प्रत्ययविकलोपार्था अनुवर्तते एव ।
को भवतां कठः ।
यो भवतां कठः, स आगच्छतु ।
जातिपरिप्रश्ने इति किं ? को भवतां देवदत्तः ।
परिप्रश्नग्रहणं च किम एव विशेषणं, न यत्तदोः, असम्भवाथ् ।
जातिग्रहणं तु सर्वैरेव सम्बद्यते ।
किमोऽस्मिन्विषये डतरं अपि इच्छन्ति केचित्, कतरो भवतां कालापः इति ।
तत्र कतरकतमौ जातिअपरिप्रश्ने (*२,१.६३) इति वचनात्सिद्धं । ।


____________________________________________________________________


  1. <एकाच्च प्राचाम्># । । PS_५,३.९४ । ।



_____Sठाऱ्ठ्JKव्_५,३.९४ः

एकशब्दात्प्राचां आचार्याणां मतेन डतरच्डतमचित्येतौ प्रत्ययौ भवतः स्वस्मिन्विष्यए ।
चकारो डतरचोऽनुकर्सणार्थः ।
द्वयोर्निर्धारने डतरच्, बहूनां निर्धारने डतमछ् ।
जातिपरिप्रश्ने इति न अनुवर्तते ।
सामान्येन विधानं ।
एकतरो भवतोर्देवदत्तः ।
एकतमो भवतां देवदत्तः ।
प्राचां-ग्रहणं पूजार्थं, विकल्पोऽनुवर्तते एव । ।


____________________________________________________________________


[#५५२]

  1. <अवक्षेपणे कन्># । । PS_५,३.९५ । ।


_____Sठाऱ्ठ्JKव्_५,३.९५ः

अवक्षियते येन तदवक्षेपणं ।
तस्मिन्वर्तमानात्प्रतिपदिकात्कन्प्रत्ययो भवति ।
व्याकरणकेन नाम त्वं गर्वितः ।
याज्ञिक्यकेन नाम त्वं गर्वितः ।
परस्य कुत्सार्थं यदुपादीयते तदिह+उदाहरणं ।
यत्पुनः स्वयं एव कुत्सितं तत्र कुत्सिते (*५,३.७४) इत्यनेन कन्प्रत्ययो भवति, देवदत्तकः, यज्ञदत्तकः इति ।
प्रागिवीयस्य पूर्णोऽवधिः । ।


____________________________________________________________________


  1. <इवे प्रतिकृतौ># । । PS_५,३.९६ । ।



_____Sठाऱ्ठ्JKव्_५,३.९६ः

कनित्यनुवर्तते ।
इवार्थे यत्प्रातिपदिकं वर्तते तस्मात्कन्प्रत्ययो भवति ।
इवार्थः सादृश्यं, तस्य विशेसणं प्रतिकृतिग्रहणं ।
प्रतिकृतिः प्रतिरूपकं, प्रतिच्छन्दकं ।
अश्व इव अयं अश्वप्रतिकृतिः अश्वकः ।
उष्ट्रकः ।
गर्दभकः ।
प्रतिकृतौ इति किं ? गौरिव गवयः । ।


____________________________________________________________________


  1. <सञ्ज्ञायां च># । । PS_५,३.९७ । ।



_____Sठाऱ्ठ्JKव्_५,३.९७ः

इव इत्यनुवर्तते, कनिति च ।
इवार्थे गम्यमाने कन्प्रत्ययो भवति, समुदायेन चेत्सञ्ज्ञा गम्यते ।
अप्रतिकृत्यर्थ आरम्भः ।
अश्वसदृशस्य सञ्ज्ञा अश्वकः ।
उष्ट्रकः ।
गर्दभकः । ।


____________________________________________________________________


  1. <लुम्-मनुस्ये># । । PS_५,३.९८ । ।



_____Sठाऱ्ठ्JKव्_५,३.९८ः

सञ्ज्ञायां इत्येव ।
सञ्ज्ञायां विहितस्य कनो मनुस्येऽभिधेये लुब्भवति ।
चञ्चेव मनुष्यः चञ्चा ।
दासी ।
खरकुटी ।
मनुस्ये इति किं ? अश्वकः ।
उष्ट्रकः ।
गर्दभकः ।
देवपथादेराकृतिगणत्वात्तस्य+एव अयं प्रपञ्चो वेदितव्यः । ।


____________________________________________________________________


  1. <जीविकार्थे चापण्ये># । । PS_५,३.९९ । ।



_____Sठाऱ्ठ्JKव्_५,३.९९ः

जीविकार्थं यदपण्यं तस्मिन्नभिधेये कनो लुब्भवति ।
विक्रीयते यत्तत्पण्य ।
वासुदेवः ।
शिवः ।
स्कन्दः ।
विष्णुः ।
आदित्यः ।
देवलकादीनां जीविकार्था देवप्रतिकृतय उच्यन्ते ।
अपण्ये इति किं ? हस्तिकान्विक्रीणीते ।
अश्वकान् ।
रथकान् ।
देवपथादेरेव अयं प्रपञ्चः । ।


____________________________________________________________________


  1. <देवपथादिभ्यश्च># । । PS_५,३.१०० । ।


_____Sठाऱ्ठ्JKव्_५,३.१००ः

इवे प्रतिकृतौ (*५,३.९६), सञ्ज्ञायां च (*५,३.९७) विहितस्य कनो देवपथादिभ्य उत्तरस्य लुब्भवति ।
आदिशब्दः प्रकारे ।
आकृतिगणश्च अयं ।
देवपथः ।
हंसपथः ।

[#५५३]

अर्चासु पूजनार्थासु चित्रकर्मध्वजेषु च ।
इवे प्रतिकृतौ लोपः कनो देवपथादिषु । ।
अर्चासु तावत्- शिवः ।
विष्णुः ।
चित्रकर्मणि - अर्जुनः ।
दुर्योधनः ।
ध्वजेषु - कपिः ।
गरुडः ।
सिंहः ।
देवपथ ।
हंस्पथ ।
वारिपथ ।
जलपथ ।
राजपथ ।
शतपथ ।
सिंहगति ।
उष्ट्रग्रीवा ।
चामरज्जु ।
रज्जु ।
हस्त ।
इन्द्र ।
दण्द ।
पुष्प ।
मत्स्य । ।


____________________________________________________________________


  1. <वस्तेर्धञ्># । । PS_५,३.१०१ । ।



_____Sठाऱ्ठ्JKव्_५,३.१०१ः

इव इत्यनुवर्तते ।
इतः प्रभृति प्रत्ययाः सामान्येन भवन्ति, प्रतिकृतौ चप्रतिकृतौ च ।
वस्तिशब्दादिवार्थे द्योत्ये ठञ्प्रत्ययो भवति ।
वस्तिरिव वास्तेयः ।
वास्तेयी । ।


____________________________________________________________________


  1. <शिलाया ढः># । । PS_५,३.१०२ । ।



_____Sठाऱ्ठ्JKव्_५,३.१०२ः

शिलाशब्दादिवार्थे ढः प्रत्ययो भवति ।
शिलेव शिलेयं दधि ।
केचिदत्र ढञं अपि इच्छन्ति, तदर्थं योगविभागः कर्तव्यः ।
शिलायाः ढञ्प्रत्ययो भवति ।
शैलेयं ।
ततो धः ।
शिलेयं । ।


____________________________________________________________________


  1. <शाखादिभ्यो यत्># । । PS_५,३.१०३ । ।



_____Sठाऱ्ठ्JKव्_५,३.१०३ः

शाखा इत्येवं आदिभ्यः प्रातिपदिकेभ्यः पत्प्रत्ययो भवति इवार्थे शाखेव शख्यः ।
मुख्यः ।
जघन्यः ।
शाखा ।
मुख ।
जघन ।
शृङ्ग ।
मेघ ।
चरण ।
स्कन्ध ।
शिरस् ।
उरस् ।
अग्र ।
शरन ।
शाखादिः । ।


____________________________________________________________________


  1. <द्रव्यं च भव्ये># । । PS_५,३.१०४ । ।


_____Sठाऱ्ठ्JKव्_५,३.१०४ः

द्रव्यशब्दो विपात्यते भव्येऽभिधेये ।
द्रुशब्दादिवार्थे यत्प्रत्ययो निपात्यते ।
द्रव्यम्, भव्यः, आत्मवानधिप्रेतानां अर्थनां पात्रभूत उच्यते ।
द्रव्योऽयं राजपुत्रः ।
द्रव्योऽयं माणवकः । ।


____________________________________________________________________


  1. <कुशाग्राच्छः># । । PS_५,३.१०५ । ।



_____Sठाऱ्ठ्JKव्_५,३.१०५ः

कुशाग्रशब्दादिवार्थे छः प्रत्ययो भवति ।
कुशाग्रं इव सूक्ष्मत्वात्कुशाग्रीया बुद्धिः ।
कुशाग्रीयं शस्त्रं । ।


____________________________________________________________________


[#५५४]

  1. <समासाच्च तद्विषयात्># । । PS_५,३.१०६ । ।



_____Sठाऱ्ठ्JKव्_५,३.१०६ः

तदित्यनेन प्रकृत इवार्थो निर्देश्यते ।
इवार्थविषयात्समासादपरस्मिन्निवार्थे एव छनः प्रत्ययो भवति ।
कालतालीयं ।
अजाकृपाणीयं ।
अन्धकवर्तकीयं ।
अतर्कितोपनतं चित्रीकरणमुच्यते ।
तत्कथं ? काकस्यागमनं यादृच्छिकम्, तालस्य पतनं च ।
तेन तलेन पतता काकस्य वधःकृतः ।
एवं एव देवदत्तस्य तत्रागमनं, दस्यूनां च उपनिपातः ।
तैश्च तस्य वधः कृतः ।
तत्र यो देवदत्तस्य दस्यूनां च समागमः, स काकतालसमागमसदृशः इत्येकः उपमार्थः, अतश्च देवदत्तस्य वधः, स कालतालवधसदृशः इति द्वितीयः उपमार्थः ।
तत्र प्रथमे समासः, द्वितीये प्रत्ययः ।
समासश्च अयं अस्मादेव ज्ञापकात्, न ह्यस्य अपरं सक्षणं अस्ति ।
सुप्सुपेति वा समासः ।
स च+एवं विषय एव । ।


____________________________________________________________________


  1. <शर्करा-आदिभ्योऽण्># । । PS_५,३.१०७ । ।



_____Sठाऱ्ठ्JKव्_५,३.१०७ः

शर्करा इत्येवं आदिभ्यः प्रातिपदिकेभ्यः इवार्थे अण्प्रत्ययो भवति ।
शर्करा इव शार्करं ।
कापालिकं ।
शर्करा ।
कपालिका ।
पिष्टिक ।
पुण्डरीक ।
शतपत्र ।
गोलोमन् ।
गोपुच्छ ।
नरालि ।
नकुला ।
सिकता ।
शर्करादिः । ।


____________________________________________________________________


  1. <अङ्गुल्यादिभ्यष्ठक्># । । PS_५,३.१०८ । ।



_____Sठाऱ्ठ्JKव्_५,३.१०८ः

अङ्गुल्यादिभ्यः इवार्थे ठक्प्रत्ययो भवति ।
अङ्गुलीव आङ्गुलिकः ।
भारुजिकः ।
अङ्गुलि ।
भरुज ।
बभ्रु ।
वल्गु ।
मण्डर ।
मण्डल ।
शष्कुल ।
कपि ।
उदश्विथ् ।
गोणी ।
उरस् ।
शिखर ।
कुलिश ।
अङ्गुल्यादिः । ।


____________________________________________________________________


  1. <एकशालायाष्ठजन्यतरस्याम्># । । PS_५,३.१०९ । ।



_____Sठाऱ्ठ्JKव्_५,३.१०९ः

एकशालाशब्ददिवार्थेऽन्यतरस्यां ठच्प्रत्ययो भवति ।
अन्यतरस्यांग्रहणेन अनन्तरः ठक्प्राप्यते ।
एकशालेव एकशालिकः, ऐकशालिकः । ।


____________________________________________________________________

[#५५५]

  1. <कर्क-लोहितादीकक्># । । PS_५,३.११० । ।



_____Sठाऱ्ठ्JKव्_५,३.११०ः

कर्क-लोहित-शब्दाभ्यां इवार्थे ईकक्प्रत्ययो भवति ।
कर्कः शुक्लोऽश्वः, तेन सदृशः कार्कीकः ।
लौहितीकः स्फटिकः ।
स्वयमलोहितोऽप्युपाश्रयवशात्तथा प्रतीयते । ।


____________________________________________________________________


  1. <प्रत्न-पूर्व-विश्व-इमात्थाल्छन्दसि># । । PS_५,३.१११ । ।



_____Sठाऱ्ठ्JKव्_५,३.१११ः

प्रत्न पूर्व विश्व इम इत्येतेभ्यः इवार्थे थाल्प्रत्ययो भवति छन्दसि विषये ।
तं प्रत्नथा पूर्वथा विश्वथेमथा । ।


____________________________________________________________________


  1. <पूगाञ्ञ्योऽग्रामणीपूर्वात्># । । PS_५,३.११२ । ।



_____Sठाऱ्ठ्JKव्_५,३.११२ः

इवार्थे इति निवृत्तं ।
नानाजातिया अनियतवृत्तयोऽर्थकां अप्रधानाः सङ्घाः पूगाः ।
पूगवाचिनः प्रातिपदिकातग्रामणीपूर्वात्स्वार्थे ञ्यः प्रत्ययो भवति ।
लौहध्वज्यः, लौहध्वज्यौ, लोहध्वजाः ।
शैव्यः, शैब्यौ, शिबयः ।
चातक्यः, चातक्यौ, चातकाः ।
अग्रामणीपूर्वातिति किं ? देवदत्तो ग्रामणीरेषां त इमे देवदत्तकाः ।
यज्ञदत्तकाः । ।


____________________________________________________________________


  1. <व्रात-च्फञोरस्त्रियाम्># । । PS_५,३.११३ । ।



_____Sठाऱ्ठ्JKव्_५,३.११३ः

नानाजातियाः अनियतवृत्तयः उत्सेधजीविनः सङ्घाः व्राताः ।
व्रातवाचिभ्यः प्रातिपदिकेभ्यः च स्वार्थे ञ्यः प्रत्ययो भवत्यस्त्रियां ।
कापोतपाक्यः, कापोतपाक्यौ, कपोतपाकाः ।
व्रैहिमत्यः, व्रैहिमत्यौ, व्रीहिमताः ।
च्फञः खल्वपि - कौञ्जायन्यः, कौञ्जायनयौ, कौञ्जायनाः ।
ब्राध्नायन्यः, ब्राध्नायन्यौ, ब्राध्नयनाः ।
अस्त्रियां इति किं ? कपोतपाकी ।
व्रीहिमती ।
कौञ्जायनी ।
ब्राध्नायनी । ।


____________________________________________________________________


  1. <आयुध-जीविसङ्क्घाञ्ञ्यड्-वाहीकेष्वब्राह्मण-राजन्यात्># । । PS_५,३.११४ । ।



_____Sठाऱ्ठ्JKव्_५,३.११४ः

आयुधजीविनां सङ्घः आयुधजीविसङ्घः ।
स वाहीकैर्विशेष्यते ।
वाहीकेषु य आयुधजीविसङ्घः, तद्वाचिनः प्रातिपदिकात्ब्राह्मणराजन्यवर्जितात्स्वार्थे ञ्यट्प्रत्ययो भवति ।
ब्राह्मणे तद्विशेषग्रहणं ।
राजन्ये तु स्वरूपग्रहणं एव ।
टकारो ङीबर्थः, तेन अस्त्रियां इति न अनुवर्तते ।
कौण्डिबृस्यः, कौण्डीवृस्यौ, कौण्डीवृसाः ।
क्षौद्रक्यः, क्षौद्रक्यौ, क्षुद्रकाः ।
मालव्यः, मालव्यौ, मालवाः ।
स्त्रियां - कौण्दिवृसी ।
क्षौद्रकी ।
मालवी ।
आयुधजीविग्रहणं किं ? मल्लाः ।
शयण्डाः ।
सङ्घग्रहणं किं ? सम्राठ् ।
वाहीकेसु इति किं ? शबराः ।
पुलिन्दाः ।
अब्राह्मणराजन्यातिति किं ? गोपालवा ब्राह्मणाः ।
शालङ्कायना राजन्याः । ।


____________________________________________________________________


[#५५६]

  1. <वृकाट्टेण्यण्># । । PS_५,३.११५ । ।



_____Sठाऱ्ठ्JKव्_५,३.११५ः

आयुधजीविसङ्घातिति वर्तते ।
वृकशदातायुधजीविनः स्वार्थे टेण्यण्प्रत्ययो भवति ।
टकारो ङीबर्थो, णकारो वृद्ध्यर्थः ।
वार्केण्यः, वार्केण्यौ, वृकाः ।
आयुधजीविसङ्घविशेषणं, जातिशब्दान्मा भूथ् ।
कामक्रोधौ मनुस्याणां खादितारौ वृकाविव । ।


____________________________________________________________________


  1. <दामन्यादि-त्रिगर्तष्ठाच्छः># । । PS_५,३.११६ । ।



_____Sठाऱ्ठ्JKव्_५,३.११६ः

आयुधजीविसङ्घातिति वर्तते ।
दामन्यादिभ्यः प्रातिपदिकेभ्यः त्रिगर्तषष्ठेभ्यः च आयुधजीविसङ्घवाचिभ्यः स्वार्थे छः प्रत्ययो भवति ।
येषां आयुधजीविनां सङ्घानां षडन्तवर्गास्तेषां च त्रिगर्तः षष्ठः ।
त्रिगर्तः षष्ठो येषां ते त्रिगर्तषष्ठाः इत्युच्यन्ते ।
तेषु च+इयं स्मृतिः -- आहुस्त्रिगर्तषष्ठांस्तु कौण्डोपरथदाण्डकी ।
क्रौष्टकिर्जालमानिश्च ब्राह्मगुप्तोऽर्थ जानकिः । ।
इति ।
दामन्यादिभ्यस्तावत्- दामनीयः, दामनीयौ, दामनयः ।
औलपीयः, औलपीयौ, उलपयः ।
त्रिगर्तषष्ठेभ्यः खल्वपि - कोण्डोपरथीयः, कौण्डोपरथीयौ, कौण्डोपरथाः ।
दाण्डकीयः, दाण्डकीयौ, दाण्डकयः ।
कौष्टकीयः ।
जालमानीयः ।
ब्रहमगुप्तीयः ।
जानकीयः ।
दामनी ।
औलपि ।
आकिदन्ती ।
काकरन्ति ।
काकदन्ति ।
शत्रुन्तपि ।
सार्वसेनि ।
बिन्दु ।
मौञ्जायन ।
उलभ ।
सावित्रीपुत्र ।
दामन्यादिः । ।


____________________________________________________________________


  1. <पर्श्वादि-यौधेयादिभ्यां अण्-अञौ># । । PS_५,३.११७ । ।


_____Sठाऱ्ठ्JKव्_५,३.११७ः

आयुधजीविसङ्घातित्येव ।
पर्श्वादिभ्यः यौधेयादिभ्यश्च प्रातिपदिकेभ्यः आयुधजीविसङ्घवाचिभ्यः स्वार्थेऽणञौ प्रत्ययौ भवतः ।
पार्शवः, पर्शवौ, पार्शवः ।
आसुरः, आसुरौ, असुराः ।
यौधेयः ।
शौक्रेयः ।
पर्शु ।
असुर ।
रक्षस् ।
बाह्लीक ।
वयस् ।
मरुथ् ।
दशार्ह ।
पिशाच ।
विशाल ।
अशनि ।
कार्षापण ।
सत्वथ् ।
वसु ।
पर्श्वादिः ।
यौधेय ।
कौशेय ।
क्रौशेय ।
शौक्रेय ।
शौभ्रेय ।
धार्तेय ।
वार्तेय ।
जाबालेय ।
त्रिगर्त ।
भरत ।
उशीनर ।
यौधेयादिः । ।


____________________________________________________________________

  1. <अभिजिद्-विदभृच्-छालावच्-छिखावच्-छमीवद्-ऊर्णावच्-छरुमद्-अणो यञ्># । । PS_५,३.११८ । ।



_____Sठाऱ्ठ्JKव्_५,३.११८ः

आयुधजीविसङ्घातिति निवृत्तं ।
अभिजिदादिभ्योऽणन्तेभ्यः प्रातिपदिकेभ्यः स्वार्थे यञ्प्रत्ययो भवति ।
अभिजितोऽपत्यं इत्यण्, तदन्ताद्यञ् ।

[#५५७]

आभिजित्यः, आभिजित्यौ, आभिजिताः ।
वैदभृत्यः, वैदभृत्यौ, वैदभृताः ।
शालावत्यः, शालावत्यौ, शालावताः ।
शैखावत्यः ।
शामीवत्यः ।
और्णावत्यः ।
श्र्ॐअत्यः ।
गोत्रप्रत्ययस्य अत्र अणो ग्रहणं इष्यते ।
अभिजितो मुहुर्तः, आभिजितःस्थालीपाकः इत्यत्र न भवति । ।


____________________________________________________________________


  1. <ञ्यादयस्तद्राजाः># । । PS_५,३.११९ । ।



_____Sठाऱ्ठ्JKव्_५,३.११९ः

पूगाञ्ञ्योऽग्रामणीपूर्वात्(*५,३.११२) इत्यतः प्रभृति ये प्रत्ययाः, ते तद्राजसञ्ज्ञा भवन्ति ।
तथा च+एव+उदाहृतं ।
तद्राजप्रदेशाः - तद्राजस्य बहुसु इत्येवं आदयः । ।
इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ पञ्चमाध्यायस्य तृतीयः पादः

______________________________________________________

पञ्चमाध्यायस्य चतुर्थः पादः ।


____________________________________________________________________


[#५५८]

  1. <पादशतस्य सङ्ख्यादेर्वीप्सायां वुन्लोपश्च># । । PS_५,४.१ । ।



_____Sठाऱ्ठ्JKव्_५,४.१ः

पादशतान्तस्य सङ्ख्यादेः प्रातिपदिकस्य वीप्सायां द्योत्यायां वुन्प्रत्ययो भवति ।
तत्सन्नियोगेन चान्तस्य लोपो भवति ।
यस्य+इति लोपेन+एव सिद्धे पुनर्वचनं अनैमित्तिकार्थं ।
यस्य+इति लोपः परनिमित्तकः ।
तस्य स्थानिवद्भावात्पादः पत्(*६,४.१३०) इति पद्भावो न स्याथ् ।
अस्य त्वनैमित्तिकत्वान्न स्थानिवत्त्वं ।
द्वौ द्वौ पादौ ददाति द्विपदिकां ददाति ।
द्वे द्वे शते ददाति द्विशतिकां ददाति ।
तद्धितार्थ इति समासः ।
ततः प्रत्ययः ।
स्वभावाच्च वुन्प्रत्ययान्तं स्त्रियां एव वर्तते ।
पादशतस्य इति किं ? द्वौ द्वौ माषौ ददाति ।
सङ्ख्यादेः इति किं ? पादं पादं ददाति ।
वीप्सायां इति किं ? द्वौ पादौ ददाति ।
द्वे शते ददाति ।
पादशतग्रहणं अनर्थकं ।
अन्यत्र अपि दर्शनाथ् ।
द्विमोदकिकां ददाति त्रिमोदकिकां ददाति । ।


____________________________________________________________________


  1. <दण्ड-व्यवसर्गयोश्च># । । PS_५,४.२ । ।


_____Sठाऱ्ठ्JKव्_५,४.२ः

दमनं दण्डः ।
दानं व्यवसर्गः ।
दण्डव्यवसर्गयोः गम्यमानयोः पादशतान्तस्य प्रातिपदिकस्य सङ्ख्यादेः वुन्प्रत्ययो भवति, अन्तलोपश्च ।
अवीप्सार्थोऽयं आरम्भः ।
द्वौ पादौ दण्डितः द्विपदिकां दण्डितः ।
द्वौ पादौ व्यवसृजति द्विपदिकां व्यवसृजति ।
द्विशतिकां दण्डितः ।
त्रिशतिकां ।
द्विशतिकां व्यवसृजति ।
त्रिशतिकां । ।


____________________________________________________________________


  1. <स्थूलादिभ्यः प्रकारवचने कन्># । । PS_५,४.३ । ।



_____Sठाऱ्ठ्JKव्_५,४.३ः

स्थूलादिभ्यः प्रकारवचने द्योत्ये कन्प्रत्ययो भवति ।
जातीयरः अपवादः ।
प्रकारो विशेषः ।
स्थूलप्रकारः स्थूलकः ।
अणुकः ।
माषकः ।
कन्प्रकरणे चञ्चद्बृहतोरुपसङ्ख्यानं ।
चञ्चत्प्रकारः चञ्चत्कः ।
बृहत्कः ।
चञ्चद्बृहयोः इति केचित्पठन्ति ।
तेषां चञ्चकः, बृहकः इति उदाहरणं द्रष्टव्यं ।
स्थूल ।
अणु ।
माष ।
इषु ।
कृष्ण तिलेषु ।
यव व्रीहिषु ।
पाद्यकालावदाताः सुरायां ।
गोमूत्र आच्छादने ।
सुराया अहौ ।
जीर्ण शालिषु ।
पत्रमूले समस्तव्यस्ते ।
कुमारीपुत्र ।
कुमार ।
श्वशुर ।
मणि ।
इति स्थूलादिः । ।


____________________________________________________________________


[#५५९]

  1. <अनत्यन्तगतौ क्तात्># । । PS_५,४.४ । ।



_____Sठाऱ्ठ्JKव्_५,४.४ः

अत्यन्तगतिः अशेषसम्बन्धः, तदभावोऽन्त्यन्तगतिः ।
अनत्यन्तगतौ गम्यमानायां क्तान्तात्कन्प्रत्ययो भवति ।
भिन्नकः ।
छन्नकः ।
अनत्यन्तगतौ इति किं ? भिन्नं ।
छिन्नं । ।


____________________________________________________________________


  1. <न सामिवचने># । । PS_५,४.५ । ।



_____Sठाऱ्ठ्JKव्_५,४.५ः
सामिवचने उपपदे क्तान्तात्कन्प्रत्ययो न भवति ।
सामिकृतं ।
सामिभुक्तं ।
वानग्रहणं पर्यायार्थं ।
अर्धकृतं ।
नेमकृतं ।
सामिवचने प्रतिषेधानर्थक्यम्, प्रकृत्याभिहितत्वात्? एवं तर्हि न+एव अयं अनत्यन्तगतौ विहितस्य कनः प्रतिषेधः, किं तर्हि, स्वार्थिकस्य ।
केन पुनः स्वर्थिकः कन्विहितः ? एतदेव ज्ञापकं भवति स्वार्थे कनिति ।
तत्र यदेतदुच्यते, एवं हि सूत्रं अभिन्नतरकं भवति, एतैर्हि बहुतरकं व्याप्यते इत्येवं आदि, तदुपपन्नं भवति । ।


____________________________________________________________________


  1. <बृहत्या आच्छादने># । । PS_५,४.६ । ।



_____Sठाऱ्ठ्JKव्_५,४.६ः

कन्ननुवर्तते, न प्रतिषेधः ।
बृहतीशब्दादाच्छादने वर्तमानात्स्वार्थे कन्प्रत्ययो भवति ।
बृहतिका ।
आच्छादने इति किं ? बृहतीछन्दः । ।


____________________________________________________________________


  1. <अषडक्ष-आशितङ्ग्व्-अलङ्कर्म-अलम्पुरुष-अध्युत्तरपदात्खः># । । PS_५,४.७ । ।



_____Sठाऱ्ठ्JKव्_५,४.७ः

अषडक्ष आशितङ्गु अलग्कर्म अलम्पुरुष इत्येतेभ्यः अध्युत्तरपदात्च स्वार्थे खः प्रत्ययो भवति ।
अविद्यमानानि षड्क्षीणि अस्य इति बहुव्रीहिः ।
बहुव्रीहौ सक्थ्यक्ष्णोः इति षच्, ततः खप्रत्ययः ।
अषडक्षीणो मन्त्रः ।
यो द्वाभ्यं एव क्रियते न बहुभिः ।
आशिता गावोऽस्मिन्नरण्ये आशितङ्गवीनं अरण्यं ।
निपातनात्पूर्वपदस्य मुमागमः ।
अकङ्कर्मन्, अलम्पुरुषः इति पर्यादयो ग्लानद्यर्थे चतुर्थ्या इति समासः ।
अलं कर्मणे अलङ्ककर्मीणः ।
अलं पुरुषाय अलंपुरुषीणः ।
अध्युत्तरपदस्तत्पुरुसः ।
अधिशब्दः शौण्डादिसु पठ्यते ।
राजाधीनः ।
नित्यश्च अयं प्रत्ययः, उत्तरत्र विभाषाग्रहणाथ् ।
अन्येऽपि स्वार्थिका नित्याः प्रत्ययाः स्मर्यन्ते, तमबादयः प्रक्क्नः, ञ्यादयः प्राग्वुनः, आमादयः प्राङ्मयटः, बृहतीजात्यन्ताः समानान्ताश्च इति । ।


____________________________________________________________________


[#५६०]

  1. <विभाषा-अञ्चेरदिक्ष्त्रियाम्># । । PS_५,४.८ । ।



_____Sठाऱ्ठ्JKव्_५,४.८ः

अञ्चत्यन्तात्प्रातिपदिकातदिक्ष्त्रियां वर्तमानात्स्वार्थे विभाषा खः प्रत्ययो भवति ।
प्राक्प्राचीनं ।
अर्वाक्, अर्वाचीनं ।
अदिक्ष्त्रियां इति किं ? प्राची दिक् ।
प्रतीची दिक् ।
दिग्ग्रहणं किं ? प्राचीना ब्राह्मणी ।
अवाचीना ।
स्त्रीग्रहणं किं ? प्राचीनं दिग्रमणीयं ।
उदीचीनं दिग्ररमणीयं । ।


____________________________________________________________________


  1. <जात्यन्ताच्छ बन्धुनि># । । PS_५,४.९ । ।


_____Sठाऱ्ठ्JKव्_५,४.९ः

जात्यन्तात्प्रातिपदिकात्बन्धुनि वर्तमानात्स्वार्थे छः प्रत्ययो भवति ।
बध्यतेऽस्मिञ्जातिः इति बन्धुशब्देन द्रव्यं उच्यते ।
येन ब्राह्मणत्वादिजातिर्व्यज्यते तद्बन्धु द्रव्यं ।
ब्राह्मणमातीयः, क्षत्रियजातीयः, वैश्यजातीयः इति ब्राह्मणादिरेव+उच्यते ।
बन्धुनि इति किं ? ब्राह्मणजातिः शोभना । ।


____________________________________________________________________


  1. <स्थानान्ताद्विभाषा सस्थानेन+इति चेत्># । । PS_५,४.१० । ।



_____Sठाऱ्ठ्JKव्_५,४.१०ः

स्थानान्तात्प्रातिपदिकात्विभाषा छः प्रत्ययो भवति सस्थानेन चेत्स्थानान्तमर्थवद्भवति ।
सस्थानः इति तुल्य उच्यते, समानं स्थानं अस्य इति कृत्वा ।
पित्रा तुल्यः पितृस्थानीयः, पितृस्थानः ।
मातृस्थानीयः, मातृस्थानः ।
राजस्थानीयः, राजस्थानः ।
सस्थानेन इति किं ? गोस्थानं ।
अश्वस्थानं ।
इतिकरणो विवक्षार्थः ।
तेन बहुव्रीहिः सस्थानशब्दार्थं उपस्थापयति, न तत्पुरुषः ।
चेच्छब्दः सम्बन्धार्थः ।
द्व्योर्विभाषयोर्नित्या विधयः इति पूर्वत्र नित्यविधयः । ।


____________________________________________________________________


  1. <किम्-एत्-तिङ्-अव्यय-घाद्-आंव्-अद्रव्यप्रकर्षे># । । PS_५,४.११ । ।



_____Sठाऱ्ठ्JKव्_५,४.११ः

किम एकारान्तात्तिङन्तादव्ययेभ्यश्च यो विहितो घः स किमेत्तिङव्ययघः, तदन्तात्प्रातिपदिकातद्रव्यप्रकर्षे आमुप्रत्ययो भवति ।
यद्यपि द्रव्यस्य स्वतः प्रकर्षो न अस्ति, तथा अपि क्रियागुणस्थः प्रकर्षो यदा द्रव्ये उपचर्यते तदाऽयं प्रतिषेधः ।
क्रियागुणयोरेव अयं प्रकर्षे प्रत्ययः ।
किंतरां ।
किंतमां ।
पूर्वाह्णेतरां ।
पूर्वाह्णेतमां ।
पचतितरां ।
पचतितमां ।
उच्चैस्तरां ।
उच्चैस्तमां ।
अद्रव्यप्रकर्षे इति किं ? उच्चैस्तरः ।
उच्चैस्तमः । ।


____________________________________________________________________


[#५६१]

  1. <अमु च च्छन्दसि># । । PS_५,४.१२ । ।



_____Sठाऱ्ठ्JKव्_५,४.१२ः

किमेत्तिङव्ययघादद्रव्यप्रकर्षे अमु प्रत्ययो भवति छन्दसि विषये ।
चकारादामु च ।
प्रतरं न आयुः ।
प्रतरां नय ।
स्वरादिषु अं आं इति पठ्यते, तस्मात्तदन्तस्य अव्ययत्वं । ।


____________________________________________________________________


  1. <अनुगादिनष्ठक्># । । PS_५,४.१३ । ।



_____Sठाऱ्ठ्JKव्_५,४.१३ः

अनुगदति इति अनुगादि ।
अनुगादिन्शब्दात्स्वार्थे ठक्प्रत्ययो भवति ।
आनुगादिकः । ।


____________________________________________________________________


  1. <णचः स्त्रियां अञ्># । । PS_५,४.१४ । ।



_____Sठाऱ्ठ्JKव्_५,४.१४ः

कर्मव्यतिहारे णच्स्त्रियां (*३,३.४३) ।
इति णच्विहितः, तदन्तात्स्वार्थे अञ्प्रत्ययो भवति स्त्रियां विषये ।
व्यावक्रोशी ।
व्यावहासी वर्तते ।
स्त्रीग्रहणं किमर्थम्, यावता णच्स्त्रियां एव विहितः, ततः स्वार्थिकस्तत्र+एव भविष्यति ? एवं तर्ह्येतज्ज्ञापयति - स्वार्थिकाः प्रत्यया प्रकृतितो लिङ्गवचनान्यतिवर्तन्तेऽपि इति ।
तेन गुडकल्पा द्राक्षा, तैलकल्पा प्रसन्ना, देव एव देवता इत्येवं आदि उपपन्नं भवति । ।


____________________________________________________________________


  1. <अणिनुणः># । । PS_५,४.१५ । ।



_____Sठाऱ्ठ्JKव्_५,४.१५ः

अभिविधौ भाव इनुण्(*३,३.४४) विहितः, तदन्तात्स्वार्थे अण्प्रत्ययो भवति ।
सांराविणं वर्तते ।
सांकूटिनं । ।


____________________________________________________________________

  1. <विसारिणो मत्स्ये># । । PS_५,४.१६ । ।



_____Sठाऱ्ठ्JKव्_५,४.१६ः

विसरति इति विसारी ।
विसारिन्शब्दात्स्वार्थे अण्प्रत्ययो भवति मत्स्येऽभिधेये ।
वैसारिणो मत्स्यः ।
मत्स्ये इति किं ? विसारी देवदत्तः । ।


____________________________________________________________________


  1. <सङ्क्यायाः क्रिया-अभ्यावृत्तिगणने कृत्वसुच्># । । PS_५,४.१७ । ।



_____Sठाऱ्ठ्JKव्_५,४.१७ः

सङ्ख्याशब्देभ्यः क्रियाभ्यावृत्तिगणने वर्तमानेभ्यः स्वार्थे कृत्वसुच्प्रत्ययो भवति ।
पौनःपुन्यं अभ्यावृत्तिः ।
एकककार्तृणां तुल्यजातीयानां क्रियाणां जन्मसङ्ख्यानं क्रियाभ्यावृत्तिगणनं, तत्र प्रत्ययः ।
पञ्चवारान्भुङ्क्ते पञ्चकृत्वः ।
सप्तकृत्वः ।
सङ्ख्यायाः इति किं ? मूरीन्वारान्भुङ्क्ते ।
क्रियाग्रहणं किमर्थम्, यावता अभ्यवृत्तिः क्रियाया एव सम्भवति, न द्रव्यगुणयोः ? उत्तरार्थं क्रियाग्रहणं ।
एकस्य सकृच्च (*५,४.१९) इत्यत्र क्रिय+एव गण्यते, न अभ्यावृत्तिः, असम्भवाथ् ।
अभ्यावृत्तिग्रहणं किं ? क्रियामात्रग्रहणे मा भूथ् ।
पञ्च पाकाः ।
दश पाकाः ।

[#५६२]

गणनग्रहणं किमर्थम्, यावता गणनात्मिकैव सङ्ख्या ? अक्रियमाणे गणनग्रहणे क्रियाभ्यावृत्तौ वर्तमानेभ्यः सङ्ख्येयवचनेभ्य एव प्रत्ययः स्यात्, शतवारान्भुङ्क्ते शतकृत्वः इति ? इह न स्यात्, शतं वाराणां भुङ्क्ते इति ? न ह्यत्र अभ्यावृत्तौ शतशब्दः, सङ्ख्यानमात्रवृत्तित्वाथ् ।
गणनग्रहणात्तु सर्वत्र सिद्धं भवति । ।


____________________________________________________________________

  1. <द्वि-त्रि-चतुर्भ्यः सुच्># । । PS_५,४.१८ । ।



_____Sठाऱ्ठ्JKव्_५,४.१८ः

द्वि त्रि चतुरित्येतेभ्यः सङ्ख्याशब्देभ्यः क्रियाभ्यावृत्तिगणने वर्तमानेभ्यः सुच्प्रत्ययो भवति ।
कृत्वसुचोऽपवादः ।
द्विर्भुङ्क्ते ।
त्रिर्भुङ्क्ते ।
चत्रुभुक्तं ।
चकारः स्वरार्थः । ।


____________________________________________________________________


  1. <एकस्य सकृच्च># । । PS_५,४.१९ । ।



_____Sठाऱ्ठ्JKव्_५,४.१९ः

एकशब्दस्य सकृतित्ययं आदेशो भवति सुच्च प्रत्ययः क्रियागणेन ।
कृत्वसुचोऽपवादः ।
अभ्यावृत्तिस्त्विह न सम्भवति ।
सकृद्भुङ्क्ते ।
सकृदधीते ।
एकः पाकः इत्यत्र न भवति, अनभिधानात् । ।


____________________________________________________________________


  1. <विभाषा बहोर्धाऽविप्रक्र्ष्टकाले># । । PS_५,४.२० । ।



_____Sठाऱ्ठ्JKव्_५,४.२०ः

बहुशब्दात्क्रियाभ्यावृतिगणने वर्तमानात्विभाषा धा प्रत्ययो भवति ।
कृत्वसुचोऽपवादः ।
पक्षे सोऽपि भवति ।
अविप्रकृष्टग्रहणं क्रियाभ्यावृत्तिविशेषणं ।
क्रियाणामुत्पत्तयश्चेदासन्नकालाः भवन्ति, न विप्रकृष्टकालाः ।
बहुधा दिवसस्य भुङ्क्ते, बहुकृत्वो दिवसस्य भुङ्क्ते ।
अविप्रकृष्टकाले इति किं ? बहुकृत्वो मासस्य भुङ्क्ते । ।


____________________________________________________________________


  1. <तत्प्रकृतवचने मयट्># । । PS_५,४.२१ । ।



_____Sठाऱ्ठ्JKव्_५,४.२१ः

तदिति प्रथमासमर्थविभक्तिः ।
प्राचुर्येण प्रस्तुतं प्रकृतं ।
प्रथमासमर्थात्प्रकृतोपाधिकेऽर्थे वर्तमानात्स्वार्थे मयट्प्रत्ययो भवति ।
टकारो ङीबर्थः ।
अन्नं प्रकृतं अन्नमयं ।
अपूपमयं ।
अपरे पुनरेवं सूत्रार्थं आहुः ।
प्रक्र्तं इति उच्यतेऽस्मिनिति प्रकृतवचनं ।
तदिति प्रथमासमर्थात्प्रकृतवचनेऽभिधेये मयट्प्रत्ययो भवति ।
अन्नं प्रकृतं अस्मिनन्नमयो यज्ञः ।
अपूपमयं पर्व ।
वटकमयी यात्रा ।
द्वयं अपि प्रमाणम्, उभयथा सूत्रप्रणयनात् । ।


____________________________________________________________________


  1. <समूहवच्च बहुषु># । । PS_५,४.२२ । ।



_____Sठाऱ्ठ्JKव्_५,४.२२ः

तत्प्रकृतवचने इत्येव ।
बहुसु प्रकृतेषु उच्यमानेसु समूहवत्प्रत्यया भवन्ति ।
चकारात्मयट्च ।
मोदकाः प्रकृताः प्राचुर्येण प्रस्तुताः मौदकिकम्, मोदकमयं ।
शाष्कुलिकम्, शष्कुलीमयं ।
अतिवर्तन्तेऽपि स्वार्थिकाः प्रकृतितो लिङ्गवचनानि ।

[#५६३]

द्वितीये सूत्रार्थे - मोदकाः प्रकृताः अस्मिन्यज्ञे मौदकिको यज्ञः, मोदकमयः ।
शाष्कुलिकः, शष्कुलीमयः । ।


____________________________________________________________________


  1. <अनन्त-आवसथ-इतिह-भेषजाञ्ञ्यः># । । PS_५,४.२३ । ।



_____Sठाऱ्ठ्JKव्_५,४.२३ः

अनन्तादिभ्यः स्वार्थे ञ्यः प्रत्ययो भवति ।
अनन्त एव आनन्त्यं ।
आवसथ एव आवसथ्यं ।
इति ह ऐतिह्यं ।
निपातसमुदायोऽयं उपदेशपारम्पर्ये वर्तते ।
भेषजं एव भैषज्यं ।
महाविभाषया विकल्पते प्रत्ययः । ।


____________________________________________________________________


  1. <देवतान्तात्तादर्थ्ये यत्># । । PS_५,४.२४ । ।



_____Sठाऱ्ठ्JKव्_५,४.२४ः

देवताशब्दान्तात्प्रातिपदिकात्चतुर्थीसमर्थात्तादर्थे यत्प्रत्ययो भवति ।
तदर्थ एव तादर्थ्यं ।
चातुवर्ण्यादित्वात्ष्यञ् ।
तदिति प्रकृत्यर्थे निर्दिश्यते ।
आग्निदेवतायै इदं अग्निदेवत्यं ।
पितृदेवत्यं ।
वायुदेवत्यं । ।


____________________________________________________________________


  1. <पाद-अर्घाभ्यां च># । । PS_५,४.२५ । ।



_____Sठाऱ्ठ्JKव्_५,४.२५ः

तादर्थ्ये इत्येव ।
पादार्घशब्दाभ्यां चतुर्थीसमर्थाभ्यां तादर्थ्ये अभिधेये यत्प्रत्ययो भवति ।
पादर्थमुदकं पाद्यं ।
अर्घ्यं ।
अनुक्तसमुच्चयार्थश्चकारः ।
यथादर्शनं अन्यत्र अपि प्रत्ययो भवति ।
एष वै छन्दस्यः प्रजापतिः ।
वसु, अपस्, ओक, कवि, क्षेम, उदक, वर्चस्, निष्केवल, उक्थ, जन, पूर्व, नव, सूर, मर्त, यविष्ठ इत्येतेभ्यः छन्दसि स्वार्थे यत्प्रत्ययो भवति ।
अग्निरीशे वसव्यस्य ।
अपस्यो वसानाः ।
द्वितीयाबहुवचनस्य अलुक् ।
अपो वसानाः इत्यर्थः ।
स्व ओक्ये ।
कव्योऽसि कव्यवाहनः ।
क्षेम्यमध्यवस्यति ।
वायुर्वर्चस्यः ।
निष्केवल्यं शंसन्ति ।
उक्थ्यं शंसति ।
जन्यं ताभिः ।
पूर्व्या विदुः ।
स्तोमं जनयामि नव्यं ।
सूर्यः ।
मत्यः ।
यविष्ठ्यः ।
आमुष्यायणामुष्यपुत्रिकेत्युपसङ्ख्यानं ।

[#५६४]

समशब्दादावतुप्रत्ययो वक्तव्यः ।
समावद्वसति ।
नवस्य नू आदेशस्त्नप्तनप्खाश्च प्रत्ययाः ।
नूत्नम्, नूतनम्, नवीनं ।
नश्च पुराणे प्राथ् ।
पुराने वर्तमानात्प्रशब्दान्नप्रत्ययो भवति ।
चकारान्नप्तनप्खाश्च ।
प्रणम्, प्रत्नम्, प्रतनम्, प्रीणं ।
भागरूपनामभ्यो धेयः प्रत्ययो वक्तव्यः ।
भागधेयं ।
रूपधेयं ।
नामधेयं ।
मित्राच्छन्दसि ।
मित्रधेये यतस्व ।
आग्नीघ्रासाधरणादञ् ।
आग्नीघ्रं ।
साधारणं ।
स्त्रियां ङीप्- आग्नीघ्री साधारणी ।
वाप्रकरनाच्च विकल्पन्ते एतान्युपसंख्यानानि, तेन यथाप्राप्तं अपि भवति, आग्नीघ्रा शाला, साधारणा भूः इति ।
अयवसमरुद्भ्यां छन्दस्यञ्वक्तव्यः ।
आयवसे रमन्ते ।
मारुतं शर्धाः । ।


____________________________________________________________________


  1. <अतिथेर्ञ्यः># । । PS_५,४.२६ । ।


_____Sठाऱ्ठ्JKव्_५,४.२६ः

तादर्थ्ये इत्येव ।
अतिथिशब्दात्चतुर्थिसमर्थात्तादर्थ्ये अभिधेये ञ्यः प्रत्ययो भवति ।
अतिथये इदं आतिथं । ।


____________________________________________________________________


  1. <देवात्तल्># । । PS_५,४.२७ । ।



_____Sठाऱ्ठ्JKव्_५,४.२७ः

तादर्थ्ये इति निवृत्तं ।
देवशब्दात्स्वार्थे तल्प्रत्ययो भवति ।
देव एव देवता । ।


____________________________________________________________________


[#५६५]

  1. <अवेः कः># । । PS_५,४.२८ । ।



_____Sठाऱ्ठ्JKव्_५,४.२८ः

अविशब्दात्स्वार्थे कः प्रत्ययो भवति ।
अविरेव अविकः । ।


____________________________________________________________________


  1. <यावादिभ्यः कन्># । । PS_५,४.२९ । ।


_____Sठाऱ्ठ्JKव्_५,४.२९ः

याव इत्येवं आदिभ्यः स्वार्थे कन्प्रत्ययो भवति ।
याव एव यावकः ।
माणिकः ।
याव ।
मणि ।
अस्थि ।
चण्ड ।
पीत ।
स्तम्ब ।
ऋतावुष्णशीते ।
पशौ लूनवियाते ।
अणु निपुणे ।
पुत्र कृत्रिमे ।
स्नात वेदसमाप्तौ ।
शून्य रिक्ते ।
दान कुत्सिते ।
तनु सूत्रे ।
ईयसश्च ।
श्रेयस्कः ।
ज्ञात ।
कुमारीक्रीडनकानि च ।
यावादिः । ।


____________________________________________________________________


  1. <लोहितान्मणौ># । । PS_५,४.३० । ।



_____Sठाऱ्ठ्JKव्_५,४.३०ः

लोहितशब्दात्मणौ वर्तमानात्स्वार्थे कन्प्रत्ययो भवति ।
लोहितो मणिः लोहितकः ।
मणौ इति किं ? लोहितः । ।

____________________________________________________________________


  1. <वर्णे च अनित्ये># । । PS_५,४.३१ । ।



_____Sठाऱ्ठ्JKव्_५,४.३१ः

अनित्ये वर्णे वर्तमानात्लोहितशब्दात्स्वार्थे कन्प्रत्ययो भवति ।
लोहितकः कोपेन ।
लोहितकः पीडनेन ।
अनित्ये इति किं ? लोहितो गौः ।
लोहितं रुधिरं ।
लोहिताल्लिङ्गबाधनं वा वक्तव्यं ।
लोहितिका कोपेन ।
लोहिनिका कोपेन । ।


____________________________________________________________________


  1. <रक्ते># । । PS_५,४.३२ । ।



_____Sठाऱ्ठ्JKव्_५,४.३२ः

लाक्षादिना रक्ते यो लोहितशब्दः, तस्मात्कन्प्रत्ययो भवति ।
लोहितकः कम्बलः ।
लोहितकः पटः ।
लिङ्गबाधनं वा इत्येव, लोहितिका, कोहिनिका शाटी । ।


____________________________________________________________________


  1. <कालाच्च># । । PS_५,४.३३ । ।


_____Sठाऱ्ठ्JKव्_५,४.३३ः

वर्ने च अनित्ये (*५,४.३१), रक्ते (*५,४.३२) इति द्वयं अप्यनुवर्तते ।
कालशब्दातनित्ये वर्तमानात्रक्ते च कन्प्रत्ययो भवति ।
कालकं मुखं वैलक्ष्येण ।
रक्ते - कालकः पटः ।
कालिका शाटी । ।


____________________________________________________________________


[#५६६]

  1. <विनयादिभ्यष्ठक्># । । PS_५,४.३४ । ।



_____Sठाऱ्ठ्JKव्_५,४.३४ः

विनय इत्येवं आदिभ्यः स्वार्थे ठक्प्रत्ययो भवति ।
विनय एव वैनयिकः ।
सामयिकः ।
औपयिकः ।
विभाषाग्रहणेन प्रत्ययो विकल्प्यते ।
विनय ।
समय ।
उपायाद्घ्रस्वत्वं च ।
सङ्गति ।
कथञ्चिथ् ।
अकस्माथ् ।
समयाचार ।
उपचार ।
समाचार ।
व्यवहार ।
सम्प्रदान ।
समुत्कर्ष ।
समूह ।
विशेष ।
अत्यय ।
विनयादिः । ।


____________________________________________________________________


  1. <वाचो व्याहृत-अर्थायाम्># । । PS_५,४.३५ । ।



_____Sठाऱ्ठ्JKव्_५,४.३५ः

व्याहृतः प्रकाशितोऽर्थो यस्यास्तस्यां वाचि वर्तमानाद्वाच्शब्दात्स्वार्थे ठक्प्रत्ययो भवति ।
पूर्वम्न्येन+उक्तार्थत्वात्सन्देशवाग्व्याहृतार्था इत्युच्यते ।
वाचिकं कथयति ।
वाचिकं श्रद्दधे ।
व्याहृतार्थायां इति किं ? मधुरा वाक्देवदत्तस्य । ।


____________________________________________________________________


  1. <तद्युक्तात्कर्मणोऽण्># । । PS_५,४.३६ । ।



_____Sठाऱ्ठ्JKव्_५,४.३६ः

व्याहृतार्थया वाचा यत्कर्म युक्तं, तदभिधायिनः कर्मशब्दात्स्वार्थे अण्प्रत्ययो भवति ।
कर्म एव कार्मणं ।
वाचिकं श्रुत्वा तथैव यत्कर्म क्रियते तत्कार्मणं इत्युच्यते ।
अण्प्रकरणे कुलालवरुडनिषादकर्मारचण्डालमित्रामित्रेभ्यश्छन्दस्युपसङ्ख्यानं ।
कुलाल एव कौलालः ।
वारुडः ।
नैषादः ।
कार्मारः ।
चाण्डालः ।
मैत्रः ।
आमित्रः ।
सान्नायानुजावरानुषूकाष्टुभचातुष्प्राश्यराक्षोघ्न- वैयातवैकृतवारिवस्कृताग्रायणाग्रहायणसान्तपनाः ।
एतेऽणन्ताः स्वार्थिकाश्छन्दसि भाषायां चेष्यन्ते ।
सान्नाय्यं ।
आनुजावरः ।
आनुषूकः ।
आष्टुभः ।
चातुष्प्राश्यः ।
राक्षोघ्नं ।
वैयातः ।
वैकृतः ।
वारिवस्कृतः ।
आग्रायणः ।
आग्रहायणः ।
सान्तपनः । ।


____________________________________________________________________


  1. <ओषधेरजातौ># । । PS_५,४.३७ । ।



_____Sठाऱ्ठ्JKव्_५,४.३७ः

ओषधिशब्दादजातौ वर्तमानात्स्वार्थेऽण्प्रत्ययो भवति ।
औषधं पिबति ।
औषधं ददाति ।
अजातौ इति किं ? ओषधयः क्षेत्रे रूढा भवन्ति । ।


____________________________________________________________________


[#५६७]

  1. <प्रज्ञादिभ्यश्च># । । PS_५,४.३८ । ।



_____Sठाऱ्ठ्JKव्_५,४.३८ः

प्रजानाति इति प्रज्ञः ।
प्रज्ञ इत्येवं आदिभ्यः प्रातिपदिकेभ्यः स्वार्थे अण्प्रत्ययो भवति ।
प्रज्ञ एव प्राज्ञः ।
प्राज्ञी स्त्री ।
यस्य अस्तु प्रज्ञा विद्यते सा प्राज्ञा प्रज्ञा-श्रद्धा-अर्चा-वृत्तिभ्यो णः (*५,२.१०१) इति ।
विदन्नित्यत्र पठ्यते ।
विदेः शत्रन्तस्य ग्रहणं, विदेः शतुर्वसुः (*७,२.३६) इत्यत एव ज्ञापकात्पाक्षिको वस्वादेशः ।
अन्यतरस्यांग्रहणं वा तत्र अनुवर्तते, तु-ह्योस्तातङाशिष्य्-अन्यतरस्यां (*७,१.३५) इति ।
प्रज्ञ ।
वणिज् ।
उशिज् ।
उष्णिज् ।
प्रत्यक्ष ।
विद्वस् ।
विदन् ।
षोडन् ।
षोडश ।
विद्या ।
मनस् ।
श्रोत्र शरीरे - श्रौत्रं ।
जुह्वत्कृष्णमृगे ।
चिकीर्षथ् ।
चोर ।
शत्रु ।
योध ।
चक्षुस् ।
वक्षस् ।
धूर्त ।
वस् ।
एथ् ।
मरुथ् ।
क्रुङ् ।
राजा ।
सत्वन्तु ।
दशार्ह ।
वयस् ।
आतुर ।
रक्षस् ।
पिशाच ।
अशनि ।
कार्षापण ।
देवता ।
बन्धु ।
प्रज्ञादिः । ।


____________________________________________________________________


  1. <मृदस्तिकन्># । । PS_५,४.३९ । ।



_____Sठाऱ्ठ्JKव्_५,४.३९ः

मृच्छब्दात्स्वार्थे तिकन्प्रत्ययो भवति ।
विकल्पः स्र्वत्रानुवर्तते ।
मृदेव मृत्तिका । ।


____________________________________________________________________


  1. <सस्नौ प्रशंसायां># । । PS_५,४.४० । ।



_____Sठाऱ्ठ्JKव्_५,४.४०ः

प्रशंसोपाधिकेऽर्थे वर्तमानान्मृच्छब्दात्स स्न इत्येतौ प्रत्ययौ भवतः ।
रूपपः अपवादः ।
प्रशस्ता मृद्मृत्सा, मृत्स्ना ।
नित्यश्च अयं प्रत्ययः, उत्तरसूत्रेऽन्यतरस्यां ग्रहणात् । ।


____________________________________________________________________

  1. <वृक-ज्येष्ठाभ्यां तिल्-तातिलौ च छन्दसि># । । PS_५,४.४१ । ।



_____Sठाऱ्ठ्JKव्_५,४.४१ः

प्रशंसायां इत्येव ।
वृक-ज्येष्ठाभ्यां प्रशंसोपाधिकेऽर्थे वर्तमानाभ्यां यथासङ्ख्यं तिल्-तातिलौ प्रत्ययौ भवतः छन्दसि विषये ।
रूपपोऽपवादौ ।
वृकतिः ।
ज्येष्ठतातिः । ।


____________________________________________________________________


  1. <बह्व्-अल्प-अर्थाच्छस्कारकादन्यतरस्याम्># । । PS_५,४.४२ । ।



_____Sठाऱ्ठ्JKव्_५,४.४२ः

बह्वर्थातल्पार्थाच्च कारकाभिधायिनः शब्दात्शस्प्रत्ययो भवति अन्यतरस्यां ।
विशेषानभिधानाच्च सर्वं कर्मादिकारकं गृह्यते ।
बहूनि ददाति बहुशो ददाति ।
अल्पं ददाति अल्पशो ददाति ।
बहुभिर्ददाति बहुशो ददाति ।
अल्पेन, अल्पशः ।
बहुभ्यः, बहुशः ।
अल्पाय, अल्पशः इत्येवं आद्युदाहार्यं ।
बह्वल्पार्थातिति किं ? गां ददाति ।

[#५६८]

अश्वं ददाति ।
कारकातिति किं ? बहूनां स्वामी ।
अल्पानां स्वामी ।
अर्थग्रहणात्पर्यायेभ्योऽपि भवति ।
भूरिशो ददाति ।
स्तोकशो ददाति ।
बह्वल्पार्थान्मङ्गलामङ्गलवचनं ।
यत्र मङ्गलं गम्यते तत्र अयं प्रत्यय इस्यते ।
बहुशो ददाति इति आभ्युदयिकेषु कर्मसु ।
अल्पशो ददाति इति अनिष्टेषु कर्मसु । ।


____________________________________________________________________


  1. <सङ्ख्या-एकवचनाच्च वीप्सायाम्># । । PS_५,४.४३ । ।



_____Sठाऱ्ठ्JKव्_५,४.४३ः

सङ्ख्यावाचिभ्यः प्रातिपदिकेभ्यः एकवचनाच्च वीप्सायां द्योत्यायां शस्प्रत्ययो भवति अन्यतरस्यां ।
द्वौ द्वौ मोदकौ ददाति द्विशः ।
त्रिशः ।
एकवचनात्खल्वपि - कार्षापणं कार्षापणं ददाति कर्षापणशः ।
माषशः ।
पादशो ददाति ।
एकोऽर्थ उच्यते येन तदेकवचनं ।
कार्षापणादयश्च परिमाणशब्दाः वृत्तावेकार्था एव भवन्ति ।
सङ्ख्यैकवचनातिति किं ? घटं घटं ददाति ।
वीप्सायां इति किं ? द्वौ ददाति ।
कार्षापणं ददाति ।
कारकातित्येव, द्वयोर्द्वयोः स्वामी ।
कार्षापणस्य कार्षापणस्य स्वामी । ।


____________________________________________________________________


  1. <प्रतियोगे पञ्चम्यास्तसिः># । । PS_५,४.४४ । ।



_____Sठाऱ्ठ्JKव्_५,४.४४ः

प्रतिना कर्मप्रवचनीयेन योगे या पञ्चमी विहिता तदन्तात्तसिः प्रत्ययो भवति ।
प्रद्युम्नो वासुदेवतः प्रति ।
अभिमन्युरर्जुनतः प्रति ।
वाग्रहणानुवृत्तेर्विकल्पेन भवति ।
वासुदेवादर्जुनादित्यपि भवति ।
तसिप्रकरण आद्यादिभ्य उपसङ्ख्यानं ।
आदौ आदितः ।
मद्यतः ।
पार्श्वतः ।
पृष्ठतः ।
आकृतिगणश्च अयं । ।


____________________________________________________________________


  1. <अपादाने च अहीय-रुहोः># । । PS_५,४.४५ । ।



_____Sठाऱ्ठ्JKव्_५,४.४५ः

अपादाने या पञ्चमी तस्याः पञ्चम्याः वा तसिः प्रत्ययो भवति, तच्चेदपादानं हीयरुहोः सम्बन्धि न भवति ।
ग्रामतः आगच्छति, ग्रामाथ् ।
चोरतः बिभेति, चोराथ् ।
अध्ययनतः पराजयते, अध्ययनाथ् ।
अहीयरुहोः इति किं ? सार्थाद्हीयते ।
पर्वतादवरोहति ।
हीयते इति क्विकारनिर्देशो जहातेः प्रतिपत्त्यर्थः, जिहीतेर्मा भूत्, भूमित उज्जिहीते, भूमेरुज्जिहीते ।
कथं मन्त्रो हीनः स्वरतो वर्णतो वा इति ।
न+एषा पञ्चमी ।
किं तर्हि, तृतीया ।
स्वरेण वर्णेन वा हीनः इत्यर्थः । ।


____________________________________________________________________


[#५६९]

  1. <अतिग्रह-अव्यथन-क्षेपेष्वकर्तरि तृतीयायाः># । । PS_५,४.४६ । ।



_____Sठाऱ्ठ्JKव्_५,४.४६ः

अतिक्रम्य ग्रहः अतिग्रहः ।
अचलनं अव्यथनं ।
क्षेपो निन्दा ।
अतिग्रहादिविषये या तृतीया तदन्ताद्वा तसिः प्रत्ययो भवति, सा चेत्कर्तरि न भवति ।
वृत्तेन अतिगृह्यते वृत्ततोऽतिगृह्यते ।
चारित्रेण अतिगृह्यते चारित्रतोऽतिगृह्यते ।
सुष्ठुवृत्तवानन्यानतिक्रम्य वृत्तेन गृह्यते इत्यर्थः ।
अव्यथने - वृत्तेन न व्यथते वृत्ततो न व्यथते ।
चारित्रेण न व्यथते चारित्रतो न व्यथते ।
वृत्तेन न चलति इत्यर्थः ।
क्षेपे - वृत्तेन क्षिप्तो वृत्ततः क्षिप्तः ।
चारित्रेण क्षिप्तः चारित्रतः क्षिप्तः ।
वृत्तेन निन्दितः इत्यर्थः ।
अकर्तरि इति किं ? देवदत्तेन क्षिप्तः । ।


____________________________________________________________________


  1. <हीयमान-पापयोगाच्च># । । PS_५,४.४७ । ।



_____Sठाऱ्ठ्JKव्_५,४.४७ः

अकर्तरि तृतीयायाः (*५,४.४६) इत्येव ।
हीयमानेन पापेन च योगो यस्य तद्वाचिनः शब्दात्परा या तृतीया विभक्तिरकर्तरि तदन्ताद्वा तसिः प्रत्ययो भवति ।
वृत्तेन हीयते वृत्ततो हीयते ।
चारित्रेण हीयते चारित्रतो हीयते ।
पापयोगात्- वृत्तेन पापः वृत्ततः पापः ।
चारित्रेण पापः चारित्रतः पापः ।
क्षेपस्य च अविवक्षायां तत्त्वाख्यायां इदं उदाहरणं ।
क्षेपे हि पूर्वेण+एव सिद्धं ।
अकर्तरि इत्येव, देवदत्तेन हीयते । ।

____________________________________________________________________


  1. <षष्ठ्या व्याश्रये># । । PS_५,४.४८ । ।



_____Sठाऱ्ठ्JKव्_५,४.४८ः

नानापक्षसमाश्रयो व्याश्रयः ।
व्याश्रये गम्यमाने षष्ठ्यन्ताद्वा तसिः प्रत्ययो भवति ।
देवा अर्जुनतोऽभवन् ।
आदित्याः कर्णतोऽभवन् ।
षष्ठी च अत्र पक्षापेक्षैव ।
अर्जुनस्य पक्षे, कर्णस्य पक्षे इत्यर्थः ।
व्याश्रये इति किं ? वृक्षस्य शाखा । ।


____________________________________________________________________


  1. <रोगाच्च अपनयने># । । PS_५,४.४९ । ।


_____Sठाऱ्ठ्JKव्_५,४.४९ः

रोगो व्याधिः ।
तद्वाचिनः शब्दाद्या षष्थी विभक्तिः, तदन्ताद्वा तसिः प्रत्ययो भवति अपनयने गम्यमाने ।
अपनयनं प्रतीकारः ।
चिकित्सा इत्यर्थः ।
प्रवाहिकातः कुरु ।
कासतः कुरु ।
छर्दिकातः कुरु ।
प्रतीकारमस्याः कुरु इत्यर्थः ।
अपनयने इति किं ? प्रवाहिकायाः प्रकोपनं कुरु । ।


____________________________________________________________________

[#५७०]

  1. <अभूततद्भावे कृ-भ्व्-अस्तियोगे सम्पद्यकर्तरि च्विः># । । PS_५,४.५० । ।



_____Sठाऱ्ठ्JKव्_५,४.५०ः

कारणस्य विकाररूपेण अभूतस्य तदात्मना भावः अभूततद्भावः ।
सम्पद्यतेः कर्ता सम्पद्यकर्ता ।
सम्पद्यकर्तरि वर्तमानात्प्रातिपदिकातभूततद्भावे गम्यमाने कृभ्वस्तिभिर्धातुभिर्योगे च्विः प्रत्ययो भवति ।
अशुक्लः शुक्लः सम्पद्यते, तं करोति शुक्लीकरोति ।
मलिनं शुक्लीकरोति ।
शुक्लीभवति ।
शुक्लीस्याथ् ।
घटीकरोति मृदं ।
घटीभवति ।
घटीस्याथ् ।
अभूततद्भावे इति किं ? शुक्लं करोति ।
न अत्र प्रकृतिर्विवक्षिता ।
कृभ्वस्तियोगे इति किं ? अशुक्लः शुक्लो जायते ।
सम्पद्यक्र्तरि इति किम्, यावता अभूततद्भावसामर्थ्याल्लब्धं एव सम्पद्यकर्तृत्वं ? कारकान्तरसम्पत्तौ मा भूत्, अदेवगृहे देवगृहे सम्पद्यते ।
देवगृहस्याधेयविशेषसम्बन्धेन अभूततद्भावः सत्त्वाधिकरणस्य, न कर्तुः इति ? । ।


____________________________________________________________________


  1. <अरुर्-मनश्-चक्षुश्-चेतो-रहो-रजसां लोपश्च># । । PS_५,४.५१ । ।



_____Sठाऱ्ठ्JKव्_५,४.५१ः


अरुःप्रभ्र्तीनां अन्तस्य लोपो भवति च्विश्च प्रत्ययः ।
अत्र सर्वविशेषणसम्बन्धात्पूर्वेण+एव प्रत्ययः सिद्धः, लोपमात्रार्थ आरम्भः ।
अनरुररुः सम्पद्यते, तं करोति अरूकरोति ।
अरूभवति ।
अरूस्याथ् ।
मनस्- उन्मनीकरोति ।
उन्मनीभवति ।
उन्मनीस्याथ् ।
चक्षुस्- उच्चक्षूकरोति ।
उच्चक्षूभवति ।
उच्चक्षूस्याथ् ।
चेतस्- विचेतीकरोति ।
विचेतीभवति ।
विचेतीस्याथ् ।
रहस्- विरहीकरोति ।
विरहीभवति ।
विरहीस्याथ् ।
रजस्- विरजीकरोति ।
विरजीभवति ।
विरजीस्यात् । ।


____________________________________________________________________


  1. <विभाषा साति कार्त्स्न्ये># । । PS_५,४.५२ । ।



_____Sठाऱ्ठ्JKव्_५,४.५२ः

अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि इति सर्वं अनुवर्तते ।
अस्मिन्विषये विभाष सातिः प्रययो भवति कार्त्स्न्ये गम्यमाने ।
यदि प्रक्र्तिः कृत्स्नां विकारात्मतामापद्यते इत्यर्थः ।
अग्निसाद्भवति शस्त्रम्, अग्नीभवति शस्त्रं ।
उदकसाद्भवति, उदकीभवति लवणं ।
कार्त्स्न्ये इति किं ? एकदेशेन पटः शुक्लीभवति ।
विभाषाग्रहणं च्वेः प्रापकं ।
प्रत्ययविकल्पस्तु महाविभाषय+एव सिद्धः । ।


____________________________________________________________________

  1. <अभिविधौ सम्पदा च># । । PS_५,४.५३ । ।



_____Sठाऱ्ठ्JKव्_५,४.५३ः

अभिविधिः अभिव्याप्तिः ।
अभिविधौ गम्यमाने च्विविषये सातिः प्रत्ययो भवति सम्पदा योगे, चकारात्कृभ्वस्तिभिश्च ।
विभाषाग्रहणानुवृत्तेः च्विरप्यभ्यनुज्ञायते ।
स तु कृभ्वस्तिभिरेव योगे भवति, न सम्पदा ।
अग्निसात्सम्पद्यते, अग्निसाद्भवति ।
उदकसात्सम्पद्यते, उदकसाद्भवति लवणं ।
अग्नीभवति ।
उदकीभवति ।

[#५७१]

अथाभिविधेः कार्त्स्न्यस्य च को विशेषः ? यत्र+एकदेशेन अपि सर्वा प्रकृतिर्विकारं आपद्यते सोऽभिविधिः, यथा+अस्यां सेनायां उत्पातेन सर्वं शस्त्रं अग्निसात्सम्पद्यते, वर्षासु सर्वं लवणमुदकसात्सम्पद्यते इति ।
कार्त्स्न्यं तु सर्वात्मना द्रव्यस्य विकाररूपापत्तौ भवति । ।


____________________________________________________________________


  1. <तदधीनवचने># । । PS_५,४.५४ । ।



_____Sठाऱ्ठ्JKव्_५,४.५४ः

अभूततद्भावे इति निवृत्तम्, अर्थान्तरोपादानाथ् ।
कृभ्वस्तियोगे सम्पदा च इति वर्तते ।
तदधीनं तदायत्तं, तत्स्वामिकं इत्यर्थः ।
स्वामिसामान्यम्, ईशितव्यसामान्यं च तदधीनशब्देन निर्दिश्यते ।
स्वामिविशेषवाचिनः प्रातिपदिकातीशितव्येऽभिधेये सातिः प्रत्ययो भवति कृभ्वस्तिभिः सम्पदा च योगे ।
राजाधीनं करोति राजसात्करोति ।
राजसाद्भवति ।
राजसत्स्याथ् ।
राजसात्सम्पद्यते ।
ब्राह्मणसत्करोति ।
ब्राह्मणसाद्भवति ।
ब्राह्मणसात्स्याथ् ।
ब्राह्मणसात्सम्पद्यते । ।


____________________________________________________________________


  1. <देये त्रा च># । । PS_५,४.५५ । ।



_____Sठाऱ्ठ्JKव्_५,४.५५ः

तदधीनवचने च इति अनुवर्ते ।
तस्य विशेषणं देयग्रहणं ।
दातव्यं देयं ।
तदधीने देये त्रा प्रत्ययो भवति, चकारात्सातिश्च कृभ्वस्तिभिः सम्पदा च योगे ।
ब्राह्मनेभ्यो देयं इति यद्विज्ञातम्, तद्यदा तेषा समर्पणेन तदधीनं क्रियते तदात्रा प्रत्ययः ।
ब्राह्मणाधीनं देयं करोति ब्राह्मणसात्करोति ।
ब्राह्मणत्रा करोति ।
ब्राह्मणत्रा भवति ।
ब्राह्मणत्रा स्याथ् ।
ब्राह्मणत्रा सम्पद्यते ।
देये इति किं ? राजसाद्भवति राष्ट्रं । ।


____________________________________________________________________


  1. <देव-मनुष्य-पुरुष-पुरु-मर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम्># । । PS_५,४.५६ । ।



_____Sठाऱ्ठ्JKव्_५,४.५६ः

सातिर्निवृत्तः, त्रा प्रत्ययोऽनुवर्तते ।
देवादिभ्यः प्रातिपदिकेभ्यः द्वितीयासप्तम्यन्तेभ्यः त्रा प्रत्ययो भवति बहुलं ।
कृभ्वस्तिभिः इति न अत्र सम्बध्यते ।
सामान्येन विधानं ।
देवान्गच्छति देवत्रा गच्छति ।
देवेषु वस्ति देवत्रा वसति ।
मनुष्यान्गच्छति मनुष्यत्रा गच्छति ।
मनुष्येषु वसति मनुष्यत्रा वसति ।
एवं अन्येष्वप्युदाहार्यं ।
पुरुषान्गच्छति पुरुत्रा गच्छति ।
मर्त्यान्गच्छति मर्त्यत्रा गच्छति ।
मर्त्येषु वसति मर्त्यत्रा वसति ।
बहुलवचनादन्यत्र अपि भवति, बहुत्रा जीवतो मनः इति । ।


____________________________________________________________________


  1. <अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच्># । । PS_५,४.५७ । ।



_____Sठाऱ्ठ्JKव्_५,४.५७ः

यत्र ध्वनावकारादयो वर्णा विशेषरूपेण न व्यज्यन्ते सोऽव्ह्यक्तः ।
तस्य अनुकरणं अव्यक्तानुकरणं ।
द्व्यचवरार्धं यस्य तद्द्व्यजवरार्धं ।
अवरशब्दोऽपकर्षे ।
यस्य अपकर्षे क्रियमाणे सुष्ठु न्यूनमर्धं द्व्यच्कं सम्पद्यते, तस्मादव्यक्तानुकरणादनितिपराड्डाच्प्रत्ययो भवति ।

[#५७२]

कृभ्वस्तियोगे इत्यनुवर्तते ।
यस्य च द्विर्वचने कृते द्व्यजवरार्धं ततः प्रत्ययः ।
डाचि बहुलं द्वे भवतः इति विषयसप्तमी ।
डाचि विवक्षिते द्विर्वचनं एव पूर्वं क्रियते, पश्चात्प्रत्ययः ।
पटपटाकरोति ।
पटपटाभवति ।
पटपटास्याथ् ।
दमदमाकरोति ।
दमदमाभवति ।
दमदमास्याथ् ।
अव्यक्तानुकरणातिति किं ? दृषत्करोति ।
द्वजवरार्धातिति किं ? श्रत्करोति ।
अवरग्रहणं किं ? खरटखरटाकरोति ।
त्रपटत्रपटाकरोति ।
अनितौ इति किं ? पटिति करोति ।
चकारः स्वरार्थः, स्वरितबाधनार्थः ।
पटपटासि, अत्र स्वरितो वाऽनुदात्ते पदादौ (*८,२.६) इति स्वरितो न भवति ।
केचिद्द्व्यजवरार्ध्यादिति यकारं पठन्ति, स स्वर्थिको विज्ञेयः । ।


____________________________________________________________________


  1. <कृञो द्वितीय-तृतीय-शम्ब-बीजात्कृषौ># । । PS_५,४.५८ । ।



_____Sठाऱ्ठ्JKव्_५,४.५८ः

द्वितीय-तृतीयादिभ्यः शब्देभ्यः कृषावभिधेयायां डाच्प्रत्ययो भवति कृञो योगे, न अन्यत्र ।
पुनः कृञ्ग्रहणं भ्वस्त्योर्निवृत्त्यर्थं ।
द्वितीयाकरोति ।
द्वितीयं कर्षणं विलेखनं करोति इत्यर्थः ।
तृतीयाकरोति ।
शम्बाकरोति ।
अनुलोमकृष्टं क्षेत्रं पुनः प्रतिलोमं कृषति इत्यर्थः ।
बीजाकरोति ।
सह बीजेन विलेहनं करोति इत्यर्थः ।
कृषौ इति किं ? क्वितीयं करोति पदं । ।


____________________________________________________________________


  1. <सङ्ख्यायाश्च गुणान्तायाः># । । PS_५,४.५९ । ।



_____Sठाऱ्ठ्JKव्_५,४.५९ः

कृञः इति अनुवर्तते, कृषौ इति च ।
सङ्ख्यावाचिनः शब्दस्य गुनशब्दोऽन्ते समीपे यत्र सम्भवति सा सङ्ख्या गुणान्ता इत्युच्यते ।
तादृशात्प्रातिपदिकात्कृषावभिधेयायां डाच्प्रत्ययो भवति कृञो योगे ।
द्विगुणं विलेखनं करोति क्षेत्रस्य द्विगुणाकरोति क्षेत्रं ।
त्रिगुणाकरोति ।
कृषौ इति किं ? क्विगुणां करोति रज्जुं । ।


____________________________________________________________________


  1. <समयाच्च यापनायाम्># । । PS_५,४.६० । ।



_____Sठाऱ्ठ्JKव्_५,४.६०ः

कृञः इत्येव ।
कृषौ इति निवृत्तं ।
कर्तव्यस्यावसरप्राप्तिः समयः, तस्य अतिक्रमणं यापना ।
समयशब्दाद्यापनायां गम्यमानायां डाच्प्रत्ययो भवति कृञो योगे ।
समयाकरोति ।
समयं यापयति, कालक्षेपं करोति इत्यर्थः ।
यापनायां इति किं ? समयं करोति । ।


____________________________________________________________________


[#५७३]

  1. <सपत्र-निष्पत्रादतिव्यथने># । । PS_५,४.६१ । ।



_____Sठाऱ्ठ्JKव्_५,४.६१ः

कृञः इत्येव ।
सपत्र-निष्पत्र-शब्दाभ्यां अतिव्यथने डाच्प्रत्ययो भवति कृञो योगे सति ।
अतिव्यथनं अतिपीडनं ।
सपत्राकरोति मृगं व्याधः ।
सपत्रं शरमस्य शरीरे प्रवेशयति इत्यर्थः ।
निष्पत्राक्रोति ।
शरीराच्छरमपरपार्श्वे निष्क्रामयति इत्यर्थः ।
अतिव्यथने इति किं ? सप्त्रं वृक्षं करोति जलसेचकः ।
निष्पत्रं वृक्षतलं करोति भूमिशोधकः । ।


____________________________________________________________________


  1. <निष्कुलान्निष्कोषणे># । । PS_५,४.६२ । ।



_____Sठाऱ्ठ्JKव्_५,४.६२ः

कृञः इत्येव ।
निष्कुलशब्दात्निष्कोषने वर्तमानात्कृञो योगे डाच्प्रत्ययो भवति ।
निष्कोषणं अन्तरवयवानां बहिर्निष्कासनं ।
निष्कुलाकरोति पशून् ।
निष्कुष्णाति इत्यर्थः ।
निष्कोषणे इति किं ? निष्कुलान्करोति शत्रून् । ।


____________________________________________________________________


  1. <सुख-प्रियादानुलोम्ये># । । PS_५,४.६३ । ।



_____Sठाऱ्ठ्JKव्_५,४.६३ः

सुख-प्रिय-शब्दाभ्यां आनुलोम्ये वर्तमानाभ्यां कृञो योगे डाच्प्रत्ययो भवति ।
आनुलोम्यं अनुकूलता, आराध्यचित्तानुवर्त्तनं ।
सुखाकरोति ।
प्रियाकरोति ।
स्वाम्यादेः चित्तमाराधयति इत्यर्थः ।
सुखं प्रियं वा कुर्वन्नप्यानुलोम्येऽवस्थित एवं उच्यते ।
आनुलोम्ये इति किं ? सुखं करोति, प्रियं करोति औषधपानं । ।

____________________________________________________________________


  1. <दुःखात्प्रातिलोम्ये># । । PS_५,४.६४ । ।



_____Sठाऱ्ठ्JKव्_५,४.६४ः

कृञः इत्येव ।
दुःखशब्दात्प्रातिपदिकात्प्रातिलोम्ये गम्यमाने डाच्प्रत्ययो भवति कृञो योगे ।
प्रातिकूल्यं प्रतिकूलता ।
स्वाम्यादेश्चित्तपीडनं ।
कुःखाकरोति भृत्यः ।
प्रातिलोम्ये इति किं ? दुःखं करोति कदन्नं । ।


____________________________________________________________________


  1. <शूलात्पाके># । । PS_५,४.६५ । ।



_____Sठाऱ्ठ्JKव्_५,४.६५ः

कृञः इत्येव ।
शूलशब्दात्पाकविषये डाच्प्रत्ययो भव्ति कृञो योगे ।
शूले पचति शूलाकरोति मांसं ।
पाके इति किं ? शूलं करोति कृदन्नं । ।


____________________________________________________________________


[#५७४]

  1. <सत्यादशपथे># । । PS_५,४.६६ । ।


_____Sठाऱ्ठ्JKव्_५,४.६६ः

कृञः इत्येव ।
सत्यशब्दातशपथे डाच्प्रत्ययो भवति कृञो योगे ।
सत्यशब्दोऽनृतप्रतिपक्षवचनः ।
क्वचित्तु शपथे च वर्तते, सत्येन शापयेद्द्विजं इति, तस्य अयं प्रतिषेधः ।
सत्याकरोति वणिक्भाण्डं ।
मयैतत्क्रेतव्यं इति तथ्यं करोति ।
अशपथे इति किं ? सत्यं करोति ब्राह्मणः । ।


____________________________________________________________________


  1. <मद्रात्परिवापणे># । । PS_५,४.६७ । ।



_____Sठाऱ्ठ्JKव्_५,४.६७ः

कृञः इत्येव ।
मद्रशब्दात्परिवापणे डाच्प्रत्ययो भवति कृञो योगे ।
परिवापणं मुण्डनं ।
मद्रशब्दो मङ्गलार्थः ।
मङ्गलं मण्डनं करोति मद्राकरोति ।
भद्राच्च+इति वक्तव्यं ।
भद्राकरोति नापितः कुमारं ।
परिवापणे इति किं ? भद्रं करोति । ।


____________________________________________________________________


  1. <समासान्ताः># । । PS_५,४.६८ । ।



_____Sठाऱ्ठ्JKव्_५,४.६८ः

अधिकारोऽयं ।
आपादपरिसमाप्तेः ये प्रत्ययाः विहितास्ते समासान्तावयवा एकदेशाः भवन्ति, तद्ग्रहणेन गृह्यन्ते इति वेदितव्यं ।
प्रयोजनं - अव्ययीभाव-द्विगु-द्वन्द्व-तत्पुरुष-बहुव्रीहि-सञ्ज्ञाः ।
उपराजं ।
अधिराजं ।
न अव्ययीभावातित्येष विधिर्भवति, अनश्च (*५,४.१०८) इति टछ् ।
द्विपुरी, तिर्पुरी इति ।
द्विगोः (*४,१.२१) इति ङीप्भवति ।
कटकवलयिनी ।
शङ्खनूपुरिणी ।
कोशनिषदिनी ।
स्रक्त्वचिनी ।
द्वन्द्वोपतापगर्ह्यातिति इनिर्भवति ।
विधुरः ।
प्रधुरः ।
तत्पुरुषे तुल्यार्थ इत्येष स्वरो भवति ।
उच्चैर्धुरः ।
नीचैर्धुरः ।
बहुव्रीहौ प्रकृत्या पूर्वपदं (*६,२.१) इत्येतद्भवति । ।


____________________________________________________________________


  1. <न पूजनात्># । । PS_५,४.६९ । ।



_____Sठाऱ्ठ्JKव्_५,४.६९ः

यान्शब्दानुपादाय समासान्ता विधीयन्ते राज-अहः-सखिभ्यष्टच्(*५,४.९१) इत्येवं आदीन्, यदा ते पूजनात्पूजनवचनात्परे भवन्ति तदा समासान्तो न भवति ।
सुराजा ।
अतिराजा ।
सुगौः ।
अतिगौः ।
पूजायां स्वतिग्रहणं कर्तव्यं ।
इह मा भूत्, परमराजः, परमगवः इति ।
प्राग्बहुव्रीहिग्रहणं च कर्तव्यं ।
बहुव्रीहौ सक्थ्यक्ष्णोः इत्येवं आदौ प्रतिषेधो न भवति ।
सुसक्थः ।
अतिसक्थः ।
स्वक्षः ।
अत्यक्षः । ।


____________________________________________________________________


[#५७५]

  1. <किमः क्षेपे># । । PS_५,४.७० । ।



_____Sठाऱ्ठ्JKव्_५,४.७०ः

क्षेपे यः किंशब्दः ततः परस्य समासान्तो न भवति ।
किंराजा यो न रक्षति ।
किंसखा योऽभिद्रुह्यति ।
किंगौर्यो न वहति ।
किं क्षेपे (*२,१.६४) इति समासः ।
क्षेपे इति किं ? कस्य राजा किंराजः ।
किं सखः ।
किंगवः । ।


____________________________________________________________________


  1. <नञस्तत्पुरुषात्># । । PS_५,४.७१ । ।



_____Sठाऱ्ठ्JKव्_५,४.७१ः

नञः परे वक्ष्यमाणा ये राजादयस्तदन्तात्तत्पुरुषात्समासान्तो न भवति ।
अराजा असखा ।
अगौः ।
तत्पुर्षातिति किं ? अनृचो माणवकः ।
अधुरं शकटं । ।

____________________________________________________________________


  1. <पथो विभाषा># । । PS_५,४.७२ । ।



_____Sठाऱ्ठ्JKव्_५,४.७२ः

नञः परो यः पथिन्शब्दः, तदन्तात्तत्पुरुषात्समासान्तो विभाषा न भवति ।
पुर्वेण नित्यः प्रतिसेधः प्राप्तो विकल्प्यते ।
अपथम्, अपन्थाः । ।


____________________________________________________________________


  1. <बहुव्रीहौ सङ्ख्येये डजबहु-गणात्># । । PS_५,४.७३ । ।



_____Sठाऱ्ठ्JKव्_५,४.७३ः

सङ्ख्येये यो बहुव्रीहिर्वर्तते तस्मादबहु-गण-अन्तात्डच्प्रत्ययो भवति ।
सङ्ख्ययाव्ययासन्न इति यो बहुव्रीहिः तस्य+इदं ग्रहणं ।
उपदशाः ।
उपविंशाः ।
उपत्रिंशाः ।
आसन्नदशाः ।
अदूरदशाः ।
अधिकदशाः ।
द्वित्राः ।
पञ्चषाः ।
पञ्चदशाः ।
सङ्ख्येये इति किं ? चित्रगुः ।
शबलगुः ।
अबहुगणातिति किं ? उपबहवः ।
उपगणाः ।
अत्र स्वरे विशेषः ।
डच्प्रकरणे सङ्ख्यायास्तत्पुरुषस्य+उपसङ्ख्यानं कर्तव्यं निस्त्रिंशाद्यर्थं ।
निर्गतानि त्रिंशतः निस्त्रिंशानि वर्षाणि देवदत्तस्य ।
निश्चत्वारिंशानि यज्ञदत्तस्य ।
निर्गतस्त्रिंशतोऽङ्गुलिभ्यो निस्त्रिंशः खड्गः । ।


____________________________________________________________________


  1. <ऋक्-पूर्-अब्-धूः-पथां आनक्षे># । । PS_५,४.७४ । ।



_____Sठाऱ्ठ्JKव्_५,४.७४ः

बहुव्रीहौ इति न स्वर्यते ।
सामान्येन विधानं ।
ऋक्पुरप्धुर्पथिनित्येवं अन्तानां समासानां अकारः प्रत्ययो भवति समासान्तोऽक्षे न ।
सामर्थ्याद्धुर एतद्विशेषणम्, ऋगादीनां न भवति ।
अक्षेसम्बन्धिनी या धूः तदन्तस्य न भवति ।
अनृचः ।
बह्वृचः ।
अर्धर्चः ।
पुर्- ललाटपुरं ।
नान्दीपुरं ।
अप्- द्वीपं ।
अन्तरीपं ।
समीपं ।
धुर्- राजधुरा ।
महाधुरः ।
पथिन्- स्थलप्थः ।
जलपथः ।
अनृचो अनक्षे इति किं ? अक्षस्य धूः अक्षधूः ।
दृढधूः अक्षः ।
अनृचो माणवको ज्ञेजो, बः वृचश्चरणाख्यायां ।
माणवकः ।
बह्वृचो ब्राह्मणः ।
अनृक्कं साम, बह्वृक्कं सूक्तं इत्यत्र न भवति । ।

____________________________________________________________________


[#५७६]

  1. <अच्प्रत्य्-अन्व्-अवपूर्वात्साम-लोम्नः># । । PS_५,४.७५ । ।



_____Sठाऱ्ठ्JKव्_५,४.७५ः

प्रति अनु अव इत्येवं पूर्वात्सामान्तात्लोमान्तात्च समासादच्प्रत्ययो भवति ।
प्रतिसामं ।
अनुसामं ।
अवसामं ।
प्रतिलोमं ।
अनुलोमं ।
अवलोमं ।
कृश्णोदक्पाण्डुपूर्वाया भूमेरच्प्रत्ययः स्मृतः ।
गोदावर्याश्च नद्याश्च सङ्ख्याया उत्तरे यदि । ।
कृष्णभूमः ।
पाण्डुभूमः ।
उदग्भूमः ।
पञ्चनदं ।
पञ्चगोदावरं ।
नदीभिश्च इति अव्ययीभावः ।
भूमेरपि सङ्ख्यापूर्वायाः अच्प्रत्यय इष्यते - द्विभूमः प्रासादः ।
त्रिभूमः ।
दशभूमकं सुत्रं अन्यत्र अपि च दृश्यते - पद्मनाभः ।
ऊर्णनाभः ।
दीर्घरात्रः ।
समरात्रः ।
अरात्रः ।
तदेतत्सर्वं इह योगविभागं कृत्वा साधयन्ति । ।


____________________________________________________________________


  1. <अक्ष्णोऽदर्शनात्># । । PS_५,४.७६ । ।



_____Sठाऱ्ठ्JKव्_५,४.७६ः

अचित्यनुवर्तते ।
दर्शनादन्यत्र योऽक्षिशब्दः तदन्तातच्प्रत्ययो भवति ।
लबणाक्षं ।
पुष्कराक्षं ।
उपमितं व्याघ्रादिभिः इति समासः ।
अदर्शनातिति किं ? ब्राह्मणाक्षि ।
कथं कबराक्षम्, गवाक्षं इति ? अश्वादीनां मुखप्रच्छादनार्थं बहुच्छिद्रं कबराक्षम्, तेन अपि हि दृश्यते, गवाक्षेण च ? न+एष दोषः ।
चक्षुःपर्यायवचनो दर्शनशब्दः प्राण्यङ्गवचन इह अश्रीयते । ।


____________________________________________________________________


  1. <अचतुर-विचतुर-सुचतुर-स्त्रीपुंस-धेन्वनडुह-र्क्षाम-वाङ्मनस-अक्षिभ्रुव-दारगव-ऊर्वष्ठीव-पदष्ठीव-नक्तंदिव-रात्रिंदिव-अहर्दिव-सरजस-निःश्रेयस-पुरुषायुष-द्व्यायुष-त्र्यायुष-र्ग्यजुष-जातोक्ष-महोक्ष-वृद्धोक्ष-उपशुन-गोष्ठश्वाः># । । PS_५,४.७७ । ।



_____Sठाऱ्ठ्JKव्_५,४.७७ः

अच्प्रत्ययान्ता एते शब्दा निपात्यन्ते ।
समासे व्यवस्था अपि निपातनादेव प्रतिपत्तव्या ।
आद्यास्त्रयो बहुव्रीहयः ।
अदृश्यानि अविद्यमानानि वा चत्वारि यस्य सोऽचतुरः ।
विगतानि चत्वारि यस्य स विचतुरः ।
शोभनानि चत्वारि यस्य स सुचतुरः ।
अतः परे एकादश द्वन्द्वाः ।
स्त्री च पुमांश्च स्त्रीपुंसौ ।
इह न भवति, स्त्रियाः पुमानिति ।
धेनुश्च अनड्वांश्च धेन्वनडुहौ ।
ऋक्च साम च ऋक्षामे ।
वाक्च मनश्च वाङ्मनसे ।
अक्षि च भ्रुवौ च अक्षिभ्रुवं ।
दाराश्च गावश्च दारगवं ।

[#५७७]

ऊरू च अष्ठीवन्तौ च ऊर्वष्ठीवं ।
टिलोपो निपात्यते ।
पादौ च अष्ठीवन्तौ च पदष्ठीवं ।
पादस्य पद्भावो निपात्यते ।
नक्तं च दिवा च नक्तंदिवं ।
दप्तम्यर्थवृत्तयोरव्यययोः समासोऽपि निपातनादेव ।
रात्रौ च दिवा च रात्रिंदिवं ।
पूर्वपदस्य मान्तत्वं निपात्यते ।
अहनि च दिवा च अहर्दिवं ।
ननु च पर्यायावेतौ, कथं अनयोर्द्वन्द्वः ? वीप्सायां द्वन्द्वो निपात्यते ।
अहन्यहनि इत्यर्थः ।
एकोऽव्यव्यीभावः साकल्ये - सरजसमभ्यवहरति ।
बहुव्रीहौ न भवति, सह रजसा सरजः पङ्कजं इति ।
ततः तत्पुरुषः - निश्चितं श्रेयो निःश्रेयसं ।
निःश्रेयस्कः पुरुषः इत्यत्र न भवति ।
ततः षष्ठीसमासः - पुरुषस्य आयुः पुरुषायुषं ।
द्वन्द्वे न भवति, पुरुषश्च आयुश्च पुरुषायुषी ।
ततो द्विगू - द्वे आयुषी समाहृते द्व्यायुषं ।
त्र्यायुषं ।
इह न भवति, द्व्योरायुः द्व्यायुः त्र्यायुः इति ।
ततो द्वन्द्वः - ऋक्च यजुश्च ऋग्यजुषं ।
इह न भवति, ऋग्यजुरस्य उन्मुग्धस्य ऋग्यजुरुन्मुग्धः ।
जातादिपूर्वपदा उक्षशब्दान्तास्त्रयः कर्मधारयाः - जातोक्षः ।
महोक्षः ।
वृद्धोक्षः ।
बहुव्रीहौ न भवति, जातोक्षा ब्राह्मणः ।
महोक्षा, वृद्धोक्षा इति ।
ततोऽव्ययीभावः - शुनः समीपं उपशुनं ।
टिलोपाभावः सम्प्रसारणं च निपातनादेव ।
ततः सप्तमीसमासः - गोष्ठे श्वा गोष्ठश्वः ।
चतुरोऽच्प्रकरणे त्र्युपाभ्यां उपसङ्ख्यानं ।
त्रिचतुराः ।
उपचतुराः । ।


____________________________________________________________________

  1. <ब्रह्महस्तिभ्यां वर्चसः># । । PS_५,४.७८ । ।



_____Sठाऱ्ठ्JKव्_५,४.७८ः

ब्रह्महस्तिभ्यां परो यो वर्चःशब्दस्तदन्तात्समासादच्प्रत्ययो भवति ।
ब्रह्मवर्चसं ।
हस्तिवर्चसं ।
पल्यराजभ्यां च+इति वक्तव्यं ।
पल्यवर्चसं ।
राजवर्चसं । ।


____________________________________________________________________


  1. <अव-सम्-अन्धेभ्यस्तमसः># । । PS_५,४.७९ । ।



_____Sठाऱ्ठ्JKव्_५,४.७९ः

अव सं अन्ध इत्येतेभ्यो यः परः तमस्शब्दः तदन्तात्समासातच्प्रत्ययो भवति ।
अवतमसं ।
सन्तमसं ।
अन्धतमसं । ।


____________________________________________________________________


  1. <श्वसो वसीयः-श्रेयसः># । । PS_५,४.८० । ।



_____Sठाऱ्ठ्JKव्_५,४.८०ः

श्वसः परौ यौ वसीयस्-श्रेयस्-शब्दौ तदन्तात्समासातच्प्रत्ययो भवति ।
श्वोवसीयसं ।
श्वःश्रेयसं ।
मयूरव्यंसकादित्वात्समासः ।
स्वभावाच्च+इह श्वःशब्दः उत्तरपदार्थस्य प्रशंसामाशीर्विषयां आचश्टे, श्वःश्रेयसं ते भूयथ् ।
शोभनं श्रेयस्ते भूयातित्यर्थः ।
श्वोवसीयसं इत्यस्य+एव अयं पर्यायः । ।


____________________________________________________________________


[#५७८]

  1. <अन्व्-अव-तप्ताद्रहसः># । । PS_५,४.८१ । ।



_____Sठाऱ्ठ्JKव्_५,४.८१ः

अनु अव तप्त इत्येतेभ्यः परो यो रहस्शब्दः तदन्तात्समासादच्प्रत्ययः भवति ।
अनुरहसं ।
अवरहसं ।
तप्तरहसं । ।


____________________________________________________________________


  1. <प्रतेरुरसः सप्तमीस्थात्># । । PS_५,४.८२ । ।


_____Sठाऱ्ठ्JKव्_५,४.८२ः

प्रतेः परो य उरस्शब्दः तदन्तात्समासातच्प्रत्ययो भवति, स चेदुरस्शब्दः सप्तमीस्थो भवति ।
सप्तम्यर्थे वर्तते इत्यर्थः ।
उरसि वर्तते ।
विभक्त्यर्थे अव्ययं इति समासः ।
प्रत्युरसं ।
सप्तमीस्थातिति किं ? प्रतिगतं उरः प्रत्युरः । ।

____________________________________________________________________


  1. <अनुगवं आयामे># । । PS_५,४.८३ । ।



_____Sठाऱ्ठ्JKव्_५,४.८३ः

अनुगवं इत्यच्प्रत्ययान्तं निपात्यते आयमेऽभिधेये ।
अनुगवं यानं ।
यस्य चायामः (*२,१.१६) इति समासः ।
आयमे इति किं ? गवां पश्चदनुगु । ।


____________________________________________________________________


  1. <द्विस्तावा तिर्स्तावा वेदिः># । । PS_५,४.८४ । ।



_____Sठाऱ्ठ्JKव्_५,४.८४ः

द्विस्तावा त्रिस्तावा इति वेदिश्चेदभिधेया भवति ।
अच्प्रत्ययः, टिलोपः, समासश्च निपात्यते ।
यावती प्रकृतौ वेदिः ततो द्विगुणा वा त्रिगुणा वा कस्यांचिद्विकृतौ तत्र+इदं निपातनं ।
द्विस्तावा वेदिः ।
त्रिस्तावा वेदिः ।
वेदिः इति किं ? द्विस्तावती, त्रिस्तावती रज्जुः । ।


____________________________________________________________________


  1. <उपसर्गादध्वनः># । । PS_५,४.८५ । ।



_____Sठाऱ्ठ्JKव्_५,४.८५ः

उपसर्गात्परो योऽध्वन्शब्दः तदन्तात्समासातच्प्रत्ययो भवति ।
प्रगतोऽध्वानं प्राध्वोरथः ।
प्राध्वं शकटं ।
निरध्वं ।
प्रत्यध्वं ।
उपसर्गातिति किं ? परमाध्वा ।
उत्तमध्वा । ।


____________________________________________________________________


  1. <तत्पुरुषस्य अङ्गुलेः सङ्ख्या-अव्ययादेः># । । PS_५,४.८६ । ।



_____Sठाऱ्ठ्JKव्_५,४.८६ः

अङ्गुलिशब्दान्तस्य तत्पुरुषस्य सङ्ख्यादेः अव्ययादेश्च अच्प्रत्ययो भवति ।
द्वे अङ्गुली प्रमानं अस्य द्व्यङ्गुलं ।
त्र्यङ्गुलं ।
तद्धितार्थ इति समासः ।
प्रमाणे लो द्विगोर्नित्यं (*६,२.१२) इति मात्रचो लोपः ।
अव्ययादेः - निर्गतं अङ्गुलिभ्यः निरङ्गुलं ।
अत्यङ्गुलं ।
तत्प्रुषस्य इति किं ? पञ्चाङ्गुलिः ।
अत्यङ्गुलिः पुरुषः ।
तत्पुरुषाधिकारश्च द्वन्द्वाच्चुदषहान्तातिति यावत् । ।


____________________________________________________________________


[#५७९]

  1. <अहः-सर्व-एकदेश-सङ्ख्यात-पुण्याच्च रात्रेः># । । PS_५,४.८७ । ।



_____Sठाऱ्ठ्JKव्_५,४.८७ः
अहरादिभ्यः परो यो रात्रिशब्दः तदन्तस्य तत्पुरुषस्य अच्प्रत्ययो भवति, चकारात्सङ्ख्यादेः अव्ययादेश्च ।
अहर्ग्रहणं द्वन्द्वार्थं ।
अहश्च रात्रिश्च अहोरात्रः ।
सर्वरात्रः ।
एकदेशे पूर्वं रात्रेः पूर्वरात्रः ।
अपररात्रः ।
पूर्वपरावर इति समासः ।
सङ्ख्याता रात्रिः सङ्ख्यातरात्रः ।
विशेषणं विशेष्येण इति समासः ।
एवं पुण्या रत्रिः पुण्यरात्रः ।
सङ्ख्याव्यायदेः खल्वपि - द्वे रात्री समाहृते द्विरात्रः ।
त्रिरात्रः ।
अतिक्रान्तो रात्रिं अतिरात्रः ।
नीरात्रः । ।


____________________________________________________________________


  1. <अह्नोऽह्न एतेभ्यः># । । PS_५,४.८८ । ।



_____Sठाऱ्ठ्JKव्_५,४.८८ः

राज-अहः-सखिभ्यष्टच्(*५,४.९१) इति वक्ष्यति, तस्मिन्परभूते अहनित्येतस्य अह्नः इत्ययं आदेशो भवति एतेभ्य उत्तरस्य ।
सङ्ख्याव्ययादयःप्रक्रान्ताः सर्वनाम्ना प्रत्यवमृश्यन्ते ।
सामर्थ्याच्चाहःशब्दः पूर्वत्वेन नाश्रीयते ।
परिशिष्टानां ग्रहणं ।
न हि अहःशब्दात्परोऽहःशब्दः सम्भवति ।
सङ्ख्यायास्तावत्- द्व्योरह्नोर्भवः द्व्यह्नः ।
त्र्यह्नः ।
अव्ययात्- अहरतिक्रान्तः अत्यह्नः ।
निरह्नः ।
सर्वाह्णः ।
पूर्वह्णः ।
अपराह्णः ।
सङ्ख्याताह्नः ।
पुण्यशब्दात्प्रतिषेधं वक्ष्यति । ।

____________________________________________________________________


  1. <न सङ्ख्यादेः समाहारे># । । PS_५,४.८९ । ।



_____Sठाऱ्ठ्JKव्_५,४.८९ः

सङ्ख्यादेस्तत्पुरुषस्य समाहारे वर्तमानस्य अहःशब्दस्य अह्नादेशो न भवति ।
पूर्वेण प्राप्तः प्रतिषिद्यते ।
द्वे अहनी समाहृते द्व्यहः ।
त्र्यहः ।
समाहारे इति किं ? द्वयोरह्नोः भवः द्व्यह्नः ।
त्र्यह्नः ।
तद्धितार्थ इति समासे कृते अणः आगतस्य द्विगोर्लुगनपत्ये (*४,१.८८) इति लुक् । ।


____________________________________________________________________


  1. <उत्तम-एकाभ्यां च># । । PS_५,४.९० । ।



_____Sठाऱ्ठ्JKव्_५,४.९०ः

उत्तमैकाभ्यां च परस्य अह्नः इत्ययं आदेशो न भवति ।
उत्तमशब्दोऽन्यवचनः पुण्यशब्दं आचष्टे ।
पुण्यग्रहणं एव न कृतं वैचित्र्यार्थं पुण्याहः ।
एकाहः ।
केचित्तु उपोत्तमस्य अपि प्रतिपत्त्यर्थं वर्णयन्ति ।
तेन सङ्ख्यातशब्दादपि परस्य न भवति, सङ्ख्याताहः इति । ।


____________________________________________________________________


[#५८०]

  1. <राज-अहः-सखिभ्यष्टच्># । । PS_५,४.९१ । ।



_____Sठाऱ्ठ्JKव्_५,४.९१ः

राजनहन्सखि इत्येवं अन्तात्प्रातिपदिकात्टच्प्रत्ययो भवति ।
महाराजः ।
मद्रराजः ।
परमाहः ।
उत्तमाहः ।
राज्ञः सखा राजसखः ।
ब्राह्मणसखः ।
इह कस्मान्न भवति, मद्राणां राज्ञी मद्रराज्ञी ? लिङ्गविशिष्टपरिभाषया प्राप्नोति ? लघ्वक्षरस्य पूर्वनिपाते प्राप्ते राजशब्दस्य सवर्णदीर्घार्थं प्रथमं प्रयोगं कुर्वन्नेतद्ज्ञापयति यस्य अकारेण सवर्णदीर्घत्वं सम्भवति तस्य+इदं ग्रहणं इति । ।


____________________________________________________________________


  1. <गोरतद्धित-लुकि># । । PS_५,४.९२ । ।



_____Sठाऱ्ठ्JKव्_५,४.९२ः

गोशब्दान्तात्तत्पुरुषात्टच्प्रत्ययो भवति, स चेत्तपुरुषस्तद्धित-लुग्-विषयो न भवति ।
परमगवः ।
उत्तमगवः ।
पञ्चगवं ।
दशगवं ।
अतद्धितलुकि इति किं ? पञ्चभिर्गोभिः क्रीतः पण्चगुः ।
दशगुः ।
तेन क्रीतं (*५,१.३७) इत्यागतस्य आर्हीयस्य ठकोऽध्यर्धपूर्वाद्द्विगोः इति लुक् ।
तद्धितग्रहणं किं ? सुब्लुकि प्रतिषेधो मा भूथ् ।
राजगवमिच्छति राजगवीयति ।
लुग्ग्रहणं किं ? तद्धित एव मा भूथ् ।
पञ्चभ्यो गोभ्यः आगतं पञ्चगवरूप्यम्, पञ्चगवमयं ।
दशगवरूप्यम्, दशगवमयं । ।


____________________________________________________________________


  1. <अग्र-आख्यायां उरसः># । । PS_५,४.९३ । ।



_____Sठाऱ्ठ्JKव्_५,४.९३ः

उरस्शब्दान्तात्तत्पुरुषाट्टच्प्रत्ययो भवति, स चेदुरस्शब्दः अग्राख्यायां भवति ।
अग्र प्रधानं उच्यते ।
यथा शरीरावयवानां उच्यते उरः प्रधानम्, एवं अन्योऽपि प्रधानभूत उरस्शब्देन+उच्यते ।
अश्वानां उरः अश्वोरसं ।
हस्त्युरसं ।
रथोरसं ।
अग्राख्यायां इति किं ? देवदत्तस्य उरः देवदत्तोरः । ।


____________________________________________________________________


  1. <अनोऽश्म-अयस्-सरसां जाति-सञ्ज्ञायोः># । । PS_५,४.९४ । ।



_____Sठाऱ्ठ्JKव्_५,४.९४ः

अनसश्मनयस्सरसित्येवं अन्तात्तत्पुरुसात्टच्प्रत्ययो भवति जातौ सञ्ज्ञायान्च विषये ।
उपानसं इति जातिः ।
महानसं इति सञ्ज्ञा ।
अमृताश्म इति जातिः ।
पिण्डाश्म इति सञ्ज्ञा ।
कालायसं इति जातिः ।
लोहितायसं इति सञ्ज्ञा ।
मण्डूकसरसं इति जातिः ।
जलसरसं इति सञ्ज्ञा ।
जातिसञ्ज्ञयोः इति किं ? सदनः ।
सदश्मा ।
सत्सरः । ।

____________________________________________________________________


  1. <ग्राम-कौटाभ्यां च तक्ष्णः># । । PS_५,४.९५ । ।


_____Sठाऱ्ठ्JKव्_५,४.९५ः

जातिसञ्ज्ञयोः इति न अनुवर्तते ।
ग्रामकौटाभ्यां परो यः तक्षन्शब्दः तदन्तात्तत्पुरुषात्टच्प्रत्ययो भवति ।
ग्रामस्य तक्ष ग्रामतक्षः ।
बहूनं साधारणः इत्यर्थः ।
कुट्यां भवः कौटः, तस्य तक्षा कौटतक्षः ।
स्वतन्त्रः कर्मजीवी, न कस्य चित्प्रतिबद्धः इत्यर्थः ।
ग्रामकाउटाभ्यां इति किं ? राजतक्षा । ।


____________________________________________________________________


[#५८१]

  1. <अतेः शुनः># । । PS_५,४.९६ । ।



_____Sठाऱ्ठ्JKव्_५,४.९६ः

अतिशब्दात्परः यः श्वन्शब्दः तदन्तात्तत्पुरुषात्टच्प्रत्ययो भवति ।
अतिक्रान्तः श्वानं अतिश्वो वराहः ।
जववानित्यर्थः ।
अतिश्वः सेवकः ।
सुष्ठु स्वामिभक्तः इत्यर्थः ।
अतिश्वी सेवा ।
अतिनीचा इत्यर्थः । ।


____________________________________________________________________

  1. <उअप्मानादप्राणिषु># । । PS_५,४.९७ । ।



_____Sठाऱ्ठ्JKव्_५,४.९७ः

उपमानवाची यः श्वन्शब्दोऽप्राणिषु वर्तते तदन्तात्तत्पुरुषात्टच्प्रत्ययो भवति ।
आकर्षः श्वेव आकर्षश्वः ।
फलकश्वः ।
उपमितं व्याघ्रादिभिः इति समासः ।
उपमानातिति किं ? न श्वा अश्वा लोष्टः ।
अप्राणिषु इति किं ? वानरः श्वेव वानरश्वा । ।


____________________________________________________________________


  1. <उत्तरमृगपूर्वाच्च सक्थ्नः># । । PS_५,४.९८ । ।



_____Sठाऱ्ठ्JKव्_५,४.९८ः

उत्तर मृग पूर्व इत्येतेभ्यः परो यः सक्थिशब्दः, चकारादुपमानं च, तदन्तात्तत्पुरुषाट्टच्प्रत्ययो भवति समासान्तः ।
उत्तरसक्थं ।
मृगसक्थं ।
पूर्वस्क्थं ।
उपमानात्खल्वपि - फलकं इव सक्थि फलकसक्थं । ।


____________________________________________________________________


  1. <नावो द्विगोः># । । PS_५,४.९९ । ।



_____Sठाऱ्ठ्JKव्_५,४.९९ः

नौशब्दान्तात्द्विगोः टच्प्रत्ययो भवति समासान्तः ।
द्वे नावौ समाहृते द्विनावं ।
त्रिनावं ।
द्विनावधनः ।
पञ्चनावप्रियः ।
द्वाभ्यां नौभ्यामागतं द्विनावरूप्यं ।
द्विनावमयं ।
द्विगोः इति किं ? राजनौः ।
अतद्धितलुकि इत्येव, पञ्चभिर्नौभिः क्रीतः पञ्चनौः ।
दशनौः । ।


____________________________________________________________________


  1. <अर्धाच्च># । । PS_५,४.१०० । ।



_____Sठाऱ्ठ्JKव्_५,४.१००ः

अर्धशब्दात्परो यो नौशब्दः तदन्तात्तत्पुरुषाट्टच्प्रत्ययो भवति ।
अर्धं नावः अर्धनावं ।
अर्धं नपुंसकं (*२,२.२) इति समासः ।
परवल्लिङ्गं न भवति, लोकाश्रयत्वात्लिङ्गस्य । ।


____________________________________________________________________


  1. <खार्याः प्राचाम्># । । PS_५,४.१०१ । ।



_____Sठाऱ्ठ्JKव्_५,४.१०१ः

द्विगोः, अर्धच्च इति द्वयं अप्यनुवर्तते ।
खारीशब्दान्तात्द्विगोरर्धाच्च परो यः खारीशब्दः तदन्तात्तत्पुरुषाट्टच्प्रत्ययो भवति प्राचां आचार्याणां मतेन ।
द्वे खर्यौ समाहृते द्विखारम्, द्विखारि ।
त्रिखारम्, त्रिखारि ।
अर्धं खार्याः अर्धखारम्, अर्धखारि । ।

____________________________________________________________________


[#५८२]

  1. <द्वि-त्रिभ्यां अञ्जलेः># । । PS_५,४.१०२ । ।



_____Sठाऱ्ठ्JKव्_५,४.१०२ः

द्वित्रिभ्यां परो योऽञ्जलिशब्दः तदन्तात्तत्पुरुषात्टच्प्रत्ययो भवति ।
द्वावञ्जली समाहृतौ द्व्यञ्जलं ।
त्र्यञ्जलं ।
द्विगोः इत्येव, द्व्योरञ्जलिः द्व्यञ्जलिः ।
अतद्धितलुकि इत्येव, द्वाभ्यां अञ्जलिभ्यां क्रीतः द्व्यञ्जलिः ।
त्र्यञ्जलिः ।
प्राचां इत्येव, द्व्यञ्जलिप्रियः । ।


____________________________________________________________________


  1. <अन्-अस्-अन्तान्नपुंसकाच्छन्दसि># । । PS_५,४.१०३ । ।



_____Sठाऱ्ठ्JKव्_५,४.१०३ः

अन्नन्तातसन्तात्च नपुंसकलिङ्गात्तत्पुरुषात्टच्प्रत्ययो भवति छन्दसि विषये ।
हस्तिचर्मे जुहोति ।
ऋषभचर्मेऽभिषिच्यते ।
असन्तात्देवच्छन्दसानि ।
मनुष्यच्छन्दसं ।
अनसन्तातिति किं ? बिल्वादारु जुहोति ।
नपुंसकातिति किं ? सुत्रामाणं पृथिवीं द्यामनेहसं ।
अनसन्तान्नपुंसकाच्छन्दसि वावचनं ।
ब्रहमसाम, ब्रहमसामं ।
देवच्छन्दः, देवच्छन्दसं । ।

____________________________________________________________________


  1. <ब्रह्मणो जानपदाख्यायाम्># । । PS_५,४.१०४ । ।



_____Sठाऱ्ठ्JKव्_५,४.१०४ः

ब्रह्मन्शब्दानतात्तत्पुरुषाट्टच्प्रत्ययो भवति समासेन चेद्ब्रह्मणो जानपदत्वं आख्यायते ।
जनपदेषु भवः जानपदः ।
यस्य तत्प्रुषस्य जनपदशब्दः पूर्वपदं तस्मादेतत्प्रत्ययविधानं ।
सुराष्ट्रेषु ब्रह्मा सुराष्ट्रब्रहमः ।
अवन्तिब्रह्मः ।
योगविभागात्सप्तमीसमासः ।
जानपदाख्यायं इति किं ? देवब्रह्मा नारदः । ।


____________________________________________________________________


  1. <कु-महद्भ्यां अन्यतरस्याम्># । । PS_५,४.१०५ । ।



_____Sठाऱ्ठ्JKव्_५,४.१०५ः

कुमहद्भ्यां परो यो ब्रह्मा तदन्तात्तत्पुरुषाट्टच्प्रत्ययो भवत्यन्यतरस्यां ।
कुब्रह्मः, कुब्रह्मा ।
महाब्रह्मः, महाब्रह्मा ।
ब्रह्मणपर्यायो ब्रह्मन्शब्दः । ।


____________________________________________________________________


  1. <द्वन्द्वाच्चु-द-ष-ह-अन्तात्समाहारे># । । PS_५,४.१०६ । ।



_____Sठाऱ्ठ्JKव्_५,४.१०६ः
तत्पुरुषाधिकारो निवृत्तः ।
द्वन्द्वात्चवर्गान्तात्, दकारान्तात्, षकारान्तात्, हकारान्तात्च टच्प्रत्ययो भवति, स चेद्द्वन्द्वः समाहारे वर्तते, न+इतरेतरयोगे ।
वाक्च त्वक्च वाक्त्वचं ।
स्रक्च त्वक्च स्रक्त्वचं ।
श्रीस्रजं ।
इडूर्जं ।
वागूर्जं ।
समिद्दृषदं ।
सम्पद्विपदं ।
वाग्विप्रुषं ।
छत्रोपानहं ।
धेनुगोदुहं ।
द्वन्द्वातिति किं ? तत्पुरुषान्मा भूत्, पञ्च वाचः समाहृताः पञ्चवाक् ।
चुदषहान्तातिति किं ? वाक्षमिथ् ।
समाहारे इति किं ? प्रावृट्शरदौ । ।


____________________________________________________________________


[#५८३]

  1. <अव्ययीभावे शरत्-प्रभृतिभ्यः># । । PS_५,४.१०७ । ।



_____Sठाऱ्ठ्JKव्_५,४.१०७ः

शरतित्येवं आदिभ्यः प्रातिपदिकेभ्यः टच्प्रत्ययो भवति अव्ययीभावे ।
शरदः समीपं उपशरदं ।
प्रतिशरदं ।
उपविपाशं ।
प्रतिविपाशं अव्ययीभावे इति किं ? पारमशरथ् ।
येऽत्र ज्ञयन्तः पठ्यन्ते तेषां नित्यार्थं ग्रहणं ।
स्वर्यते च+इदं अव्ययीभावग्रहणं प्राग्बहुव्रीहेः ।
शरथ् ।
विपाश् ।
अनस् ।
मनस् ।
उपानः ।
दिव् ।
हिमवथ् ।
अनडुः ।
दिश् ।
दृश् ।
उअतुर् ।
यद् ।
तद् ।
जराया जरश्च ।
सदृश् ।
प्रतिपरसमनुभ्योऽक्ष्णः ।
पथिन् ।
प्रत्यक्षं ।
परोक्षं ।
समक्षं ।
अन्वक्षं ।
प्रतिपथं ।
परपथं ।
संपथं ।
अनुपथं । ।


____________________________________________________________________


  1. <अनश्च># । । PS_५,४.१०८ । ।



_____Sठाऱ्ठ्JKव्_५,४.१०८ः

अन्नन्तादव्ययीभावात्टच्प्रत्ययो भवति समासान्तः ।
उपराजं ।
प्रतिराजं ।
अध्यात्मं ।
प्रत्यात्मं । ।


____________________________________________________________________


  1. <नपुंसकादन्यतरस्याम्># । । PS_५,४.१०९ । ।



_____Sठाऱ्ठ्JKव्_५,४.१०९ः

अनः इत्येव ।
नपुंसकग्रहणं उत्तरपदविशेषणं ।
अन्नन्तं यद्नपुंसकं तदन्तादव्ययीभावातन्यतरस्यां टच्प्रत्ययो भवति समासान्तः ।
पूर्वेण नित्ये प्राप्ते विकल्प्यते ।
प्रतिचर्मम्, प्रतिचर्म ।
उपचर्मम्, उपचर्म । ।


____________________________________________________________________


  1. <नदी पौर्णमास्य्-आग्रहायणीभ्यः># । । PS_५,४.११० । ।



_____Sठाऱ्ठ्JKव्_५,४.११०ः

नदी पौर्णमासी आग्रहायणी इत्येवं अन्तादव्ययीभावातन्यतरस्यां टच्प्रत्ययो भवति ।
नद्याः समीपं उपनदम्, उपनदि ।
उपपौर्णमासम्, उपपौर्णमासि ।
उपाग्रहायणम्, उपाग्रहायणि । ।


____________________________________________________________________


  1. <ज्ञयः># । । PS_५,४.१११ । ।



_____Sठाऱ्ठ्JKव्_५,४.१११ः

ज्ञयः इति प्रयाहारग्रहणं ।
ज्ञयन्तादव्ययीभावादन्यतरस्यां टच्प्रत्ययो भवति ।
उपसमिमिधम्, उपसमिथ् ।
उपदृषदम्, उपदृषत् । ।


____________________________________________________________________


  1. <गिरेश्च># । । PS_५,४.११२ । ।



_____Sठाऱ्ठ्JKव्_५,४.११२ः

गिरिशब्दान्तातव्ययीभावाट्टच्प्रत्ययो भवति सेनकस्य आचार्यस्य मतेन ।
अन्तर्गिरम्, अन्तर्गिरि ।
उपगिरम्, उपगिरि ।
सेनकग्रहणं पूजार्थं ।
विकल्पोऽनुवर्तते एव । ।


____________________________________________________________________


[#५८४]

  1. <बहुव्रीहौ सक्थ्य्-अक्ष्णोः स्वाङ्गात्षच्># । । PS_५,४.११३ । ।



_____Sठाऱ्ठ्JKव्_५,४.११३ः

स्वाङ्गवाची यः सक्थिशब्दः अक्षिशब्दश्च तदन्तात्बहुव्रीहेः षच्प्रत्ययो भवति समासान्तः ।
अयं अर्थोऽभिप्रेतः ।
सूत्रे तु दुःश्लिष्टविभक्तीनि पदानि ।
दीर्घं सक्थि यस्य दीर्घसक्थः ।
कल्याणाक्षः ।
लोहिताक्षः ।
विशालाक्षः ।
बहुव्रीहौ इति किं ? परमसक्थिः ।
परमाक्षिः ।
सक्थ्यक्ष्णोः इति किं ? दीर्घजानुः ।
सुबाहुः ।
स्वाङ्गातिति किं ? दीर्घस्क्थि शकटं स्थुलाक्षिः इक्षुः ।
टचि प्रकृते षज्ग्रहणं स्वरार्थं ।
चक्रसक्थी स्त्री ।
दीर्घसक्थी स्त्री ।
सक्थं चाक्रान्तात्(*६,२.१९८) इति विभाषयोत्तरपदस्य अन्तोदात्तता विधीयते ।
तत्र यस्मिन्पक्षे न अस्त्युदात्तत्वं तत्र ङीपि सति उदात्तनिवृत्तिस्वरस्य अभावादनुदात्तः श्रूयेत ।
ङीषि तु सर्वत्र+उदात्तः सिद्धो भवति ।
बहुव्रीहिग्रहणं आ पादपरिसमाप्तेरनुवर्तते । ।


____________________________________________________________________


  1. <अङ्गुलेर्दारुणि># । । PS_५,४.११४ । ।



_____Sठाऱ्ठ्JKव्_५,४.११४ः

अङ्गुलिशब्दान्ताद्बहुव्रीहेः षच्प्रत्ययो भवति समासान्तः दारुणि समासार्थे ।
द्व्यङ्गुलं दारु ।
त्र्यङ्गुलं दारु ।
पञ्चाङ्गुलं दारु ।
अङ्गुलिसदृशावयवं धान्यादीनां विक्षेपणकाष्ठं उच्यते ।
यस्य तु द्वे अङ्गुली प्रमाणं दारुणः तत्र तद्धितार्थ इति समासे इऋते तत्प्रुषस्य अङ्गुलेः इत्यचा भवितव्यं ।
दारुणि इति किं ? पञ्चाङ्गुलिर्हस्तः । ।


____________________________________________________________________


  1. <द्वि-त्रिभ्यां ष मूर्ध्नः># । । PS_५,४.११५ । ।



_____Sठाऱ्ठ्JKव्_५,४.११५ः
द्वित्रिभ्यां परो यो मूर्धन्शब्दः तदन्ताद्बहुव्रीहेः षप्रत्ययः भवति समासान्तः ।
द्विमूर्धः ।
त्रिमूर्धः ।
द्वित्रिभ्यां इति किं ? उच्चैर्मूर्धा । ।


____________________________________________________________________


  1. <अप्पूरणी-प्रमाण्योः># । । PS_५,४.११६ । ।



_____Sठाऱ्ठ्JKव्_५,४.११६ः

पूरणप्रत्याअन्ताः स्त्रीलिङ्गाः शब्दाः पूरणीग्रहणेन गृह्यन्ते ।
प्रमाणी इति स्वरूपग्रहणं ।
पूरण्यनतात्प्रमाण्यन्तात्च भुव्रीहेः अप्प्रत्ययो भवति समासान्तः ।
कल्याणी पञ्चमी आसां रात्रीणां ताः कल्याणीपञ्चमा रात्रयः ।
कल्याणीदशमा रात्रयः ।
स्त्री प्रमाणी एशां स्त्रीप्रमाणाः कुटुम्बिनः ।
भार्याप्रधानाः इत्यर्थः ।
अपि प्रधानपूरणीग्रहणं कर्तव्यं ।
यत्र अन्यपदार्थे पूरणी अनुप्रविशति न केवलं वर्तिपदार्थ एव, तत्र पूरण्याः प्राधान्यं ।
पुंबद्भावप्रतिषेधेऽपि प्रधानपूरण्येव गृह्यते ।
इह न भवति, कल्याणी पञ्चमी अस्मिन्पक्षे कल्याणपञ्चमीकः पक्षः इति ।
नेतुर्नक्षत्र उपसङ्ह्यानं ।

[#५८५]

मृगो नेता आसां रात्रीणां मृगनेत्रा रात्रयः ।
पुष्यनेत्राः ।
नक्षत्रे इति किं ? देवदत्तनेतृकाः ।
छन्दसि च नेतुरुपसङ्ख्यानं ।
वृहस्पतिनेत्रा देवाः ।
सोमनेत्राः ।
मासाद्भृतिप्रत्ययपूर्वपदाट्ठज्विधिः ।
पञ्चको मासोऽस्य पञ्चकमासिकः कर्मकरः ।
दशकमासिकः ।
सोऽस्यांशवस्नभुऋतयः (*५,१.५६) इति सङ्ख्याया अतिशदन्तायाः कन्(*५,१.५२) । ।


____________________________________________________________________


  1. <अन्तर्-बहिर्भ्यां च लोम्नः># । । PS_५,४.११७ । ।



_____Sठाऱ्ठ्JKव्_५,४.११७ः

अन्तर्बहिसित्येताभ्यां परो यो लोमन्शब्दः तदन्ताद्बहुव्रीहेः अप्प्रत्ययो भवति ।
अन्तर्गतानि लोमानि अस्य अन्तर्लोमः प्रावारः ।
बहिर्लोमः पतः । ।


____________________________________________________________________


  1. <अञ्नासिकायाः सञ्ज्ञायां नसं च अस्थूलात्># । । PS_५,४.११८ । ।



_____Sठाऱ्ठ्JKव्_५,४.११८ः

नासिकान्तात्बहुव्रीहेः अच्प्रत्ययो भवति, नासिकाशब्दश्च न समादेशं आपद्यते ।
अस्थूलातिति नासिकाविशेषणं, न चेत्स्थूलशब्दात्परा नासिका भवति इति ।
सञ्ज्ञायां इति समुदायोपाधिः ।
द्रुरिव नासिका अस्य द्रुणसः ।
वाद्ग्रीणसः ।
पूर्वपदात्सञ्ज्ञायां अगः (*८,४.३) इति णत्वं ।
गोनसः ।
सञ्ज्ञायां इति किं ? तुङ्गनासिकः ।
अस्थूलातिति किं ? स्थूलनासिको वराहः ।
खुरखराभ्यां नस्वक्तव्यः ।
खुरणाः ।
खरणाः ।
पक्षेऽच्प्रत्ययोऽपि इष्यते ।
खुरणसः ।
खरणसः ।
शितिनाः, अहिनाः, अर्चनाः इति निगम इष्यते । ।


____________________________________________________________________


  1. <उपसर्गाच्च># । । PS_५,४.११९ । ।



_____Sठाऱ्ठ्JKव्_५,४.११९ः

उपसर्गात्परो यो नासिकाशब्दः तदन्तात्बहुव्रीहेः अच्प्रत्ययो भवति, नासिकाशब्दश्च न समापद्यते ।
असञ्ज्ञार्थं वचनं ।
उन्नता नासिका अस्य उन्नसः ।
प्रनसः ।
उपसर्गाद्बहुलं (*८,४.२८) इति णत्वं ।
वेर्ग्रो वक्तव्यः ।
विगता नासिका अस्य विग्रः । ।


____________________________________________________________________


[#५८६]

  1. <सुप्रात-सुश्व-सुदिव-शारिकुक्ष-चतुरश्र-एणीपदाजपद-प्रोष्ठपदाः># । । PS_५,४.१२० । ।



_____Sठाऱ्ठ्JKव्_५,४.१२०ः

सुप्रातादयो बहुव्रीहिसमासा अच्प्रत्ययान्ता निपात्यन्ते ।
अन्यदपि च टिलोपादिकं निपातनादेव सिद्धं ।
शोभनं प्रातरस्य सुप्रातः ।
शोभनं श्वोऽस्य सुश्वः ।
शोभनं दिवा अस्य सुदिवः ।
शारेरिव कुक्षिरस्य शारिकुक्षः ।
चतस्रोऽश्रयोऽस्य चतुरश्रः ।
एण्या इव पादौ अस्य एणीपदः ।
अजस्य+इव पादावस्य अजपदः ।
प्रोष्थो गोः, तस्य+इव पादावय प्रोष्ठपदः । ।


____________________________________________________________________


  1. <नञ्-दुः-सुभ्यो हलि-सक्थ्योरन्यारस्याम्># । । PS_५,४.१२१ । ।



_____Sठाऱ्ठ्JKव्_५,४.१२१ः

नञ्दुस्सु इत्येतेभ्यः परौ यौ हलि-सक्थि-शब्दौ तदन्तद्बहुव्रीहेरन्यतरस्यां अच्प्रत्ययो भवति समासान्तः ।
अविद्यमाना हलिरस्य अहलः, अहलिः ।
दुर्हलः, दुर्हलिः ।
सुहलः, सुहलिः ।
अविद्यमानं सक्थि अस्य असक्थः, असक्थिः ।
दुःसक्थः, दुःसक्थिः ।
सुसक्थः, सुसक्थिः ।
हलिशक्त्योः इति केचित्पठन्ति ।
अविद्यमाना शक्तिः अस्य अशक्तः, अशक्तिः ।
विरूपा शक्तिः अस्य दुःशक्तः, दुःशक्तः, दुःशक्तिः ।
शोभना शक्तिः अस्य सुशक्तः, सुशक्तिः । ।


____________________________________________________________________


  1. <नित्यं असिच्प्रजा-मेधयोः># । । PS_५,४.१२२ । ।



_____Sठाऱ्ठ्JKव्_५,४.१२२ः

नञ्दुस्सुभ्यः इत्येव ।
नञ्दुस्सु इत्येतेभ्यः परौ यौ प्रजा-मेधा-शब्दौ तदन्ताद्बहुव्रीहेः नित्यं असिच्प्रत्ययो भवति समासान्तः ।
अविद्यमाना प्रजा अस्य अप्रजाः ।
दुष्प्रजाः ।
सुप्रजाः ।
अविद्यमाना मेधा यस्य अमेधाः ।
दुर्मेधाः ।
सुमेधाः ।
नित्यग्रहणं किम्, यावता पूर्वसूत्रेऽन्यतरस्यां ग्रहणं न+एव स्वर्यते ? एवं तर्हि नित्यग्रहणादन्यत्र अपि भवति इति सूच्यते ।
श्रोत्रियस्य+इव ते राजन्मन्दकस्याल्पमेधसः ।
अनुवाकहता बुद्धिर्न+एषा तत्त्वार्थदर्शिनी । ।


____________________________________________________________________


  1. <बहुप्रजाश्च्छन्दसि># । । PS_५,४.१२३ । ।



_____Sठाऱ्ठ्JKव्_५,४.१२३ः

बहुप्रजाः इति छन्दसि निपात्यसे ।
बहुप्रजा निरृतिमाविवेश ।
छन्दसि इति किं ? बहुप्रजो ब्राह्मणः । ।


____________________________________________________________________


  1. <धर्मादनिच्केवलात्># । । PS_५,४.१२४ । ।



_____Sठाऱ्ठ्JKव्_५,४.१२४ः

केवलाद्यो धर्मशब्दः तदन्ताद्बहुव्रीहेः अनिच्प्रत्ययो भवति समासन्तः ।
कल्याणो धर्मोऽस्य कल्याणधर्मा ।
प्रियधर्मा ।
केवलातिति इं ? परमः स्वो धर्मः अस्य परमस्वधर्मः ।
यद्येवं त्रिपदे बहुव्रीहौ प्राप्नोति, परमः स्वो धर्मः अस्य इति ? एवं तर्हि केवलातिति पूर्वपदं निर्दिश्यते, केवलात्पदाद्यो धर्मशब्दो न पदसमुदायात्, तदन्ताद्भौव्रीहेः प्रत्ययः । ।


____________________________________________________________________

[#५८७]

  1. <जम्भा सुहरिततृणसोमेभ्यः># । । PS_५,४.१२५ । ।



_____Sठाऱ्ठ्JKव्_५,४.१२५ः

बहुव्रीहौ समासे स्वादिभ्यः परं जम्भा इति कृतसमासान्तं उत्तरपदं निपात्यते जम्भशब्दः अभ्यवहार्यवची दन्तविशेषवाची च ।
शोभनो जम्भः अस्य सुजम्भा देवदत्तः ।
शोभनाभ्यवहार्यः शोभनदन्तो वा ।
एवं हरितजम्भा ।
तृणजम्भा ।
सोमजम्भा ।
दन्तवचने - तृणं इव जम्भः अस्य, सोम इव जम्भः अस्य इति विग्रहीतव्यं ।
सुहरिततृणसोमेभ्यः इति किं ? पतितजम्भः । ।


____________________________________________________________________


  1. <दक्षिणेर्मा लुब्धयोगे># । । PS_५,४.१२६ । ।



_____Sठाऱ्ठ्JKव्_५,४.१२६ः

दक्षिणेर्मा इति कृतस्मासान्तः निपात्यते बहुव्रीहौ समासे लुब्धयोगे ।
दक्षिणं ईर्मं अस्य दक्षिणेर्मा मृगः ।
ईर्मं व्रणं उच्यते ।
दक्षिणं अङ्गं व्रणितं अस्य व्याधेन इत्यर्थः ।
लुब्धयोगे इति किं ? दक्षिणेर्म शकटं । ।


____________________________________________________________________


  1. <इच्कर्मव्यतिहारे># । । PS_५,४.१२७ । ।


_____Sठाऱ्ठ्JKव्_५,४.१२७ः

कर्मव्यतिहारे यो बहुव्रीहिः तस्मादिच्प्रत्ययो भवति ।
तत्र तेन+इदं इति सरूपे (*२,२.२७) इत्ययं बहुव्रीहिर्गृह्यते ।
केशेसु केशेसु गृहीत्वा इदं युद्धं प्रवृत्तं केशाकेशि ।
कचाकचि ।
मृसलैश्च मुसलैश्च प्रहृत्य इदं युद्धं प्रवृत्तं मुसलामुसलि ।
दण्डादण्डि ।
तिष्ठद्गुप्रभृतिषु अयं इच्प्रत्ययः पठ्यते । ।


____________________________________________________________________


  1. <द्विदण्ड्यादिभ्यश्च># । । PS_५,४.१२८ । ।



_____Sठाऱ्ठ्JKव्_५,४.१२८ः

द्विदण्ड्यादयः शब्दाः इच्प्रत्ययान्ताः साधवो भवन्ति ।
द्विदण्ड्यादिभ्यः इति तादर्थ्ये एषा चतुर्थी, न पञ्चमी ।
द्विदण्ड्याद्यर्थं इच्प्रत्ययो भवति तथा भवति यथा द्विदण्ड्यादयः सिद्द्यन्ति इत्यर्थः ।
समुदायनिपातनाच्च अर्थविशेषेऽवरुध्यन्ते ।
द्विदण्डि प्रहरति ।
द्विमुसलि प्रहरति ।
इह न भवति, द्विदण्डा शाला इति ।
बहुव्रीह्यधिकारेऽपि तत्पुरुषात्क्वचिद्विधानं इच्छन्ति ।
निकुच्य कर्णौ धावति निकुच्यकर्णि धावति ।
प्रोह्य पादौ हस्तिनं वाहयति प्रोद्यपादि हस्तिनं वाहयति ।
मयूरव्यंसकादित्वात्समासः । ।
द्विदण्डि ।
द्विमुसलि ।
उभाञ्जलि ।
उभयाञ्जलि ।
उभाकर्णि ।
उभयाकर्णि ।
उभादन्ति ।
उभयादन्ति ।
उभाहस्ति ।
उभयाहस्ति ।
उभापाणि ।
उभयापाणि ।
उभाबाहु ।
उभयाबाहु ।
एकपदि ।
प्रोह्यपदि ।
आढ्यपदि ।
सपति ।
निकुच्यकर्णि ।
संहतपुच्छि ।
उभाबाहु, उभयाबाहु इति निपातनादिच्प्रत्ययलोपः ।
प्रत्ययलक्षणेन अव्ययीभावसञ्ज्ञा । ।


____________________________________________________________________


[#५८८]

  1. <प्र-संभ्यां जानुनोर्ज्ञुः># । । PS_५,४.१२९ । ।



_____Sठाऱ्ठ्JKव्_५,४.१२९ः

प्र सं इत्येताभ्यां उत्तरस्य जानुशब्दस्य ज्ञुरादेशो भवति समासान्तो बहुव्रीहौ ।
प्रकृष्टे जानुनी अस्य प्रज्ञुः ।
सञ्ज्ञौः । ।


____________________________________________________________________


  1. <ऊर्ध्वाद्विभाषा># । । PS_५,४.१३० । ।



_____Sठाऱ्ठ्JKव्_५,४.१३०ः
ऊर्ध्वशब्दादुत्तरस्य जानुशब्दस्य विभाषा ज्ञुः इत्ययं आदेशो भवति ।
ऊर्ध्वे जानुनी अस्य ऊर्ध्वजानुः, ऊर्ध्वज्ञुः । ।


____________________________________________________________________


  1. <ऊधसोऽनङ्># । । PS_५,४.१३१ । ।



_____Sठाऱ्ठ्JKव्_५,४.१३१ः

ऊधस्शब्दान्तस्य बहुव्रीहेः अनङादेशो भवति समासान्तः ।
कुण्डं इव ऊधः अस्याः सा कुण्दोध्नी ।
घटोध्नी ।
ऊधसोऽनङि स्त्रीग्रहणं कर्तव्यं ।
इह मा भूत्, महोधाः पर्जन्यः ।
घटोधो धैनुकं । ।


____________________________________________________________________


  1. <धनुषश्च># । । PS_५,४.१३२ । ।



_____Sठाऱ्ठ्JKव्_५,४.१३२ः

धनुःशब्दान्तस्य बहुव्रीहेः अनङादेशो भवति समासान्तः ।
शार्ङ्गं धनुरस्य शार्ङ्गधन्वा ।
गाण्डीवधन्वा ।
पुष्पधन्वा ।
अधिज्यधन्वा । ।


____________________________________________________________________


  1. <वा सञ्ज्ञायाम्># । । PS_५,४.१३३ । ।



_____Sठाऱ्ठ्JKव्_५,४.१३३ः

धनुःशब्दान्ताद्बहुव्रीहेरन्डादेशो वा भवति सञ्ज्ञायां विषये ।
पूर्वेण नित्यः प्रप्तः विकल्प्यते ।
शतधनुः, शतधन्वा ।
दृढधनुः, दृढधन्वा । ।

____________________________________________________________________


  1. <जायाया निङ्># । । PS_५,४.१३४ । ।



_____Sठाऱ्ठ्JKव्_५,४.१३४ः

जायाशब्दान्तस्य बहुव्रीहेर्निङादेशः भवति ।
युवतिः जाया यस्य युवजानिः ।
वृद्धजानिः । ।


____________________________________________________________________


[#५८९]

  1. <गन्धस्य+इदुत्-पूति-सु-सुरभिभ्यः># । । PS_५,४.१३५ । ।



_____Sठाऱ्ठ्JKव्_५,४.१३५ः

उत्पूति सु सुरभि इत्येतेभ्यः परस्य गन्धशब्दस्य इकारादेशो भवति समासान्तो बहुव्रीहौ समासे ।
तकार उच्चारणार्थः ।
उद्गतो गन्धोऽस्य उद्गन्धिः ।
पूतिगन्धिः ।
सुगन्धिः ।
सुरभिगन्धिः ।
एतेभ्यः इति किं ? तीव्रगन्धो वातः ।
गन्धस्येत्वे तदेकान्तग्रहणं ।
तेन शोभनः गन्धः अस्य सुगन्धः आपणिकः । ।


____________________________________________________________________


  1. <अल्प-आख्यायाम्># । । PS_५,४.१३६ । ।



_____Sठाऱ्ठ्JKव्_५,४.१३६ः

अल्पाख्यायां योगन्धशब्दः तस्य इकारादेशो भवति समासान्तो बहुव्रीहौ समासे ।
सूपोऽल्पोऽस्मिन्सूपगन्धि भोजनं ।
अल्पं अस्मिन्भोजने घृतं घृतगन्धि ।
क्षीरगन्धि ।
अल्पपर्यायो गन्धशब्दः । ।


____________________________________________________________________


  1. <उपमानाच्च># । । PS_५,४.१३७ । ।



_____Sठाऱ्ठ्JKव्_५,४.१३७ः

उपमानात्परो यो गन्धशब्दः तस्य इकारादेशो भवति समासान्तो बहुव्रीहौ समासे ।
पद्मस्य इव गन्धोऽस्य पद्मगन्धिः ।
उत्पलगन्धिः ।
करीषगन्धिः । ।


____________________________________________________________________

  1. <पादस्य लोपोऽहस्त्यादिभ्यः># । । PS_५,४.१३८ । ।



_____Sठाऱ्ठ्JKव्_५,४.१३८ः

उपमानातित्येव ।
उपमानातिहस्त्यादिवर्जितात्परस्य पादशब्दस्य लोपो भवति समासान्तो बहुव्रीहौ समासे ।
स्थानिद्वारेण लोपस्य समासान्तता विज्ञायते ।
व्याघ्रस्य+इव पादौ अस्य व्यघ्रपाथ् ।
संहपाथ् ।
अहस्त्यादिभ्यः इति किं ? हस्तिपादः ।
कटोलपादः ।
हस्तिन् ।
कटोल ।
गण्डोल ।
गण्डोलक ।
महिला ।
दासी ।
गणिका ।
कुसूल । ।


____________________________________________________________________


  1. <कुम्भपदीषु च># । । PS_५,४.१३९ । ।



_____Sठाऱ्ठ्JKव्_५,४.१३९ः

कुम्भपदीप्रभृतयः कृतपादलोपाः समुदाया एव पठ्यन्ते ।
तत्र एवं सूत्रं ज्ञेयं ।
पादस्य लोपो भवति कुम्भपद्यादिविषये यथा कुम्भपद्यादयः ।
सिध्यन्ति ।
समुदायपाठस्य च प्रयोजनं विषयनियमः - स्त्रियां एव, तत्र ङीप्प्रत्यये एव, न अन्यदा ।
कुम्भपदी ।
शतपदी ।
यच्च इह उपमानपूर्वं सङ्ख्यापूर्वं च पठ्यते, तस्य सिद्धे लोपे नित्यङीबर्थं वचनं ।
पादोऽन्यतरस्यां (*४,१.८) इति विकओपो न भवति ।

[#५९०]

कुम्भपदी ।
शतपदी ।
अष्टापदी ।
जालपदी ।
एकपदी ।
मालापदी ।
मुनिपदी ।
गोधापदी ।
गोपदी ।
कलशीपदी ।
घृतपदी ।
दासीपदी ।
निष्पदी ।
आर्द्रपदी ।
कुणपदी ।
कृष्णपदी ।
द्रोणपदी ।
द्रुपदी ।
शकृत्पदी ।
सूपपदी ।
पज्चपदी ।
अर्वपदी ।
स्तनपदी ।
कुम्भपद्यादिः । ।


____________________________________________________________________


  1. <सङ्ख्या-सुपूर्वस्य># । । PS_५,४.१४० । ।



_____Sठाऱ्ठ्JKव्_५,४.१४०ः

सङ्ख्यापूर्वस्य सुपूर्वस्य च बहुव्रीहेः पादशब्दान्तस्य लोपो भवति समासान्तः ।
द्वौ पादौ अस्य द्विपाथ् ।
त्रिपाथ् ।
शोभनौ पादौ अस्य सुपात् । ।


____________________________________________________________________


  1. <वयसि दन्तस्य दतृ># । । PS_५,४.१४१ । ।



_____Sठाऱ्ठ्JKव्_५,४.१४१ः

सङ्ख्यापूर्वस्य सुपूर्वस्य च बहुव्रीहेर्यो दन्तशब्दः, तस्य दतृ इत्ययं आदेशो भवति समासान्तः वयसि गम्यमाने ।
ऋकार उगित्कार्यार्थः ।
द्वौ दन्तौ अस्य द्विदन् ।
त्रिदन् ।
चतुर्दन् ।
शोभना दन्ताः अस्य समस्ताः जाताः सुदन्कुमारः ।
वयसि इति किं ? द्वैदन्तः कुञ्जरः ।
सुदन्तो दाक्षिणात्यः । ।


____________________________________________________________________


  1. <छन्दसि च># । । PS_५,४.१४२ । ।



_____Sठाऱ्ठ्JKव्_५,४.१४२ः

छन्दसि च दन्तशदस्य दतृ इत्ययं आदेशो भवति समासान्तः बहुव्रीहौ समासे ।
पत्रदतमालभेत ।
उभयादतः आलभते । ।


____________________________________________________________________

  1. <स्त्रियां सञ्ज्ञायाम्># । । PS_५,४.१४३ । ।



_____Sठाऱ्ठ्JKव्_५,४.१४३ः

स्त्रियां अन्यपदार्थे सञ्ज्ञायां विषये दन्तशब्दस्य दतृ इत्ययं आदेशो भवति ।
अयोदती ।
फालदती ।
सञ्ज्ञायां इति किं ? समदन्ती ।
स्निग्धदन्ती । ।


____________________________________________________________________


  1. <विभाषा श्याव-अरोकाभ्याम्># । । PS_५,४.१४४ । ।



_____Sठाऱ्ठ्JKव्_५,४.१४४ः

श्याव अरोक इत्येताभ्यां परस्य दन्तशब्दस्य दतृ इत्ययं आदेशो भवति विभाषा समासान्तो बहुव्रीहौ ।
श्यावदन्, श्यावदन्तः ।
अरोकदन्, अरोकदन्तः ।
अरोको निर्दीप्तिः ।
सञ्ज्ञायां इत्येव, श्यवदन्तः ।
अरोकदन्तः । ।


____________________________________________________________________


[#५९१]

  1. <अग्रान्त-शुद्ध-शुभ्र-वृष-वराहेभ्यश्च># । । PS_५,४.१४५ । ।



_____Sठाऱ्ठ्JKव्_५,४.१४५ः
विभाषा इत्येव ।
अग्रान्तात्शब्दात्शुद्ध शुभ्र वृष वराह इत्येतेभ्यश्च परस्य दन्तशब्दस्य विभाषा दतृ इत्ययं आदेशो भवति समासान्तो बहुव्रीहौ समासे ।
कुड्मलाग्रदन्,कुड्मलाग्रदन्तः ।
शुद्धदन्, शुद्धदन्तः ।
शुभ्रदन्, शुभ्रदन्तः ।
वृषदन्, वृषदन्तः ।
वराहदन्, वराहदन्तः ।
अनुक्तसमुच्चयार्थः चकारः ।
अहिदन्, अहिदन्तः ।
मूषिकदन्, मूषिकदन्तः ।
गर्दभदन्, गर्दभदन्तः ।
शिखरदन्, शिखरदन्तः । ।


____________________________________________________________________


  1. <ककुदस्य अवस्थायां लोपः># । । PS_५,४.१४६ । ।



_____Sठाऱ्ठ्JKव्_५,४.१४६ः

ककुदशब्दान्तस्य बहुव्रीहेर्लोपो भवति समासान्तः अवस्थायां गम्यमानायां ।
कालादिकृता वस्तुधर्मा वयःप्रभृतयः अवस्था इत्युच्यते ।
असञ्जातं ककुदं अस्य असञ्जातककुथ् ।
बालः इत्यर्थः ।
पूर्णककुथ् ।
मध्यमवयाः इत्यर्थः ।
उन्नतककुथ् ।
वृद्धवयाः इत्यर्थः ।
स्थूलककुथ् ।
वलवानित्यर्थः ।
यष्टिककुथ् ।
नातिस्थूलो नातिकृशः इत्यर्थः ।
अवस्थायां इति किं ? श्वेतककुदः । ।


____________________________________________________________________

  1. <त्रिककुत्पर्वते># । । PS_५,४.१४७ । ।



_____Sठाऱ्ठ्JKव्_५,४.१४७ः

त्रिककुदि बहुव्रीहौ ककुदशब्दस्य लोपः समासान्तो निपात्यते पर्वतेऽभिधेये ।
त्रीणि ककुदान्यस्य त्रिककुत्पर्वतः ।
ककुदाकारं पर्वतस्य शृङ्गं ककुदं इत्युच्यते ।
न च सर्वस्त्रिशिखरः पर्वतः त्रिककुथ् ।
किं तर्हि ? सञ्ज्ञैषा पर्वतविशेषस्य ।
पर्वते इति किं ? त्रिककुदोऽन्यः । ।


____________________________________________________________________


  1. <उद्-विभ्यां काकुदस्य># । । PS_५,४.१४८ । ।



_____Sठाऱ्ठ्JKव्_५,४.१४८ः

उत्वि इत्येताभ्यां परस्य काकुदशब्दस्य लोपो भवति बहुव्रीहौ समासे ।
उद्गतं काकुदं अस्य उत्का कुथ् ।
विकाकुथ् ।
तालु काकुदं उच्यते । ।


____________________________________________________________________


  1. <पूर्णाद्विभाषा># । । PS_५,४.१४९ । ।



_____Sठाऱ्ठ्JKव्_५,४.१४९ः

पूर्णात्परस्य काकुदशब्दस्य विभाषा लोपो भवति बहुव्रीहौ समासे ।
पूर्णं काकुदं अस्य पूर्णकाकुत्पूर्णकाकुदः । ।

____________________________________________________________________


[#५९२]

  1. <सुहृद्-दुर्हृदौ मित्र-अमित्रयोः># । । PS_५,४.१५० । ।



_____Sठाऱ्ठ्JKव्_५,४.१५०ः

सुहृत्दुर्हृतिति निपात्यते यथासङ्ख्यं मित्र-अमित्रयोरभिधेययोः ।
सुशब्दात्परस्य हृदयशब्दस्य हृद्भावो निपात्यते बहुव्रीहौ, तथा दुःशब्दात्परस्य ।
शोभनं हृदयं अस्य सुहृत्मित्रं ।
दुष्टं हृदयं अस्य दुर्हृतमित्रं ।
मित्रामित्रयोः इति किं ? सुहृदयः कारुणिकः ।
दुर्हृदयः चोरः । ।


____________________________________________________________________


  1. <उरःप्रभृतिभ्यः कप्># । । PS_५,४.१५१ । ।



_____Sठाऱ्ठ्JKव्_५,४.१५१ः

उरःप्रभृत्यन्तात्बहुव्रीहेः कप्प्रत्ययो भवति ।
व्यूढं उरः अस्य व्यूढोरस्कः ।
प्रियसर्पिष्कः ।
अवमुक्तोपानत्कः ।
पुमाननड्वान्पयः नौः लक्ष्मीः इति विभक्त्यन्ताः पठ्यन्ते, न प्रातिपदिकानि ।
तत्र+इदं प्रयोजनं - एकवचनान्तानां एव ग्रहणं इह विज्ञायेत, द्विवचन-बहुवचन-अन्तानां मा भूतिति ।
तत्र शेषद्विभाषा (*५,४.१५४) इति विकल्प एव भवति इति ।
द्विपुमान्, द्विपुंस्कः ।
बहुपुमान्, बहुपुंस्कः ।
उरस् ।
सर्पिस् ।
उपानः ।
पुमान् ।
अनड्वान् ।
नौः ।
पयः ।
लक्ष्मीः ।
दधि ।
मधु ।
शालि ।
अर्थान्नञः अनर्थकः । ।


____________________________________________________________________


  1. <इनः स्त्रियाम्># । । PS_५,४.१५२ । ।



_____Sठाऱ्ठ्JKव्_५,४.१५२ः

इन्नन्ताद्बहुव्रीहेः कप्प्रत्ययो भवति स्त्रियां विषये ।
बहवो दण्दिनः अस्यां शालायां बहुदण्दिका शाला ।
बहुच्छत्रिका ।
बहुस्वामिका नगरी ।
बहुवाग्मिका सभा ।
स्त्रियां इति किं ? बहुदण्डी राजा, बहुदण्डिकः ।
शेषद्विभाषा (*५,४.१५४) इत्येतद्भवति । ।


____________________________________________________________________


  1. <नद्य्-ऋतश्च># । । PS_५,४.१५३ । ।



_____Sठाऱ्ठ्JKव्_५,४.१५३ः

नद्यन्तात्बहुव्रीहेः ऋकारान्तात्च कप्प्रत्ययो भवति ।
बह्व्यः कुमार्य अस्मिन्देशे बहुकुमारीकः देशः ।
बहुब्रह्मबन्धूकः ।
ऋतः खल्वपि - बहुकर्तृकः ।
तकारः मुखसुखार्थः । ।


____________________________________________________________________


  1. <शेषाद्विभाषा># । । PS_५,४.१५४ । ।



_____Sठाऱ्ठ्JKव्_५,४.१५४ः

यस्माद्बहुव्रीहेः समासान्तो न विहितः स शेषः तस्माद्विभाषा कप्प्रत्ययो भवति ।
बह्व्यः खट्वाः अस्मिन्बहुखट्वकः ।
बहुमालकः ।
बहुवीणकः ।
बहुखट्वाकः ।
बहुमालाकः ।
बहुवीणाकः ।
बहुखट्वः ।
बहुमालः ।
बहुवीणः ।
कथं अनृक्कं साम, बह्वृक्कं सूक्तं इति, यावता विहितोऽत्र सामान्येन समासान्तः ऋष्पूः इति ।
न+एतदस्ति ।
विशेषे स इष्यते, अनृचो माणदको ज्ञेयो बह्वृचश्चरणाख्यायां इति ।
शेषातिति किं ? प्रियपथः ।
प्रियधुरः । ।


____________________________________________________________________


[#५९३]

  1. <न सञ्ज्ञायाम्># । । PS_५,४.१५५ । ।


_____Sठाऱ्ठ्JKव्_५,४.१५५ः

सञ्ज्ञायां विषये बहुव्रीहौ समासे कप्प्रत्ययो न भवति ।
पूर्वेण प्राप्तः प्रतिषिध्यते ।
विश्वे देवा अस्य विश्वदेवः ।
विश्वयशाः । ।


____________________________________________________________________


  1. <ईयसश्च># । । PS_५,४.१५६ । ।



_____Sठाऱ्ठ्JKव्_५,४.१५६ः

ईयसन्ताद्बहुव्रीहेः कप्प्रत्ययो न भवति ।
सर्वा प्राप्तिः प्रतिषिध्यते ।
बहवः श्रेयांसः अस्य बहुश्रेयान् ।
शेषाद्विभाषा (*५,४.१५४) इत्यस्य प्रतिषेधः ।
बह्व्यः श्रेयस्यः अस्य बहुश्रेयसी ।
नद्यृतश्च (*५,४.१५३) इत्यसय्प्रतिषेधः ।
ह्रस्वत्वं अपि न भवति, ईयसो बहुव्रीहौ पुंवतिति वचनात् । ।


____________________________________________________________________


  1. <वन्दिते भ्रातुः># । । PS_५,४.१५७ । ।



_____Sठाऱ्ठ्JKव्_५,४.१५७ः

वन्दितेऽर्थे यो भ्रातृशब्दो वर्तते तदन्ताद्बहुव्रीहेः कप्प्रत्ययो न भवति ।
वन्दितः स्तुतः पूजितः इत्युच्यते ।
शोभनो भ्राता अस्य सुभ्राता ।
वन्दितः इति किं ? मूर्खभ्रातृकः ।
दुष्टभ्रातृकः । ।

____________________________________________________________________


  1. <ऋतश्छन्दसि># । । PS_५,४.१५८ । ।



_____Sठाऱ्ठ्JKव्_५,४.१५८ः

ऋवर्नान्ताद्बहुव्रीहेः छन्दसि विषये कप्प्रत्ययो न भव्ति ।
हता माता अस्य हतमाता ।
हतपिता ।
हतस्वसा ।
सुहोता । ।


____________________________________________________________________


  1. <नाडी-तन्त्र्योः स्वाङ्गे># । । PS_५,४.१५९ । ।



_____Sठाऱ्ठ्JKव्_५,४.१५९ः

स्वाङ्गे यौ नाडीत्-अन्त्री-शब्दौ तदन्ताद्बहुव्रीहेः कप्प्रत्ययो न भवति ।
बह्व्यः नाड्यः अस्य बहुनाडिः कायः ।
बहुतन्त्री ग्रीवा ।
धमनीवचनस्तन्त्रीशबः ।
स्वाङ्गे इति किं ? बहुनाडीकः स्तम्भः ।
बहुतन्त्रीका वीणा । ।


____________________________________________________________________


  1. <निष्प्रवाणिश्च># । । PS_५,४.१६० । ।



_____Sठाऱ्ठ्JKव्_५,४.१६०ः
निष्प्रवाणिः इति नदीलक्षणस्य कपः प्रतिषेधो निपात्यते ।
प्रोयतेऽस्यां इति प्रवाणी ।
प्रवयन्ति तया वा इति प्रावाणी ।
करणसाधनोऽयं ल्युठ् ।
तन्तुवायशलाका भ्ण्यते ।
निर्गता प्रवाणी अस्य निष्प्रवाणिः पटः ।
निष्प्रवाणिः कम्बलः ।
अपनीतशलाकः समाप्तवानः प्रत्यग्रो नवकः उच्यते । ।
इति श्रीवामनविरचितायां काशिकायां वृत्तौ पञ्चमाध्यायस्य चतुर्थः पदः