काशिकावृत्तिः/अष्टमोध्यायः

विकिस्रोतः तः
← सप्तमोध्यायः काशिकावृत्तिः
अष्टमोध्यायः
[[लेखकः :|]]
  1. प्रथमोध्यायः
  2. द्वितीयोध्यायः
  3. तृतीयोध्यायः
  4. चतुर्थोध्यायः
  5. पञ्चमोध्यायः
  6. षष्टोध्यायः
  7. सप्तमोध्यायः
  8. अष्टमोध्यायः

अष्टमोऽध्यायः प्रथमः पादः ।





[॰८८२]

सर्वस्य द्वे ॥ ८,१.१ ॥


_____ काशिकावृत्तिः८,१.१:

सर्वस्य इति च द्वे इति च+एतदधिकृतं वेदितव्यम् ।
इत उत्तरं यद्वक्ष्यामः पदस्य (*८,१.१६) इत्यतः प्राक्, सर्वस्य द्वे भवतः इत्येवं तद्वेदितव्यम् ।
वक्ष्यति नित्यवीप्सयोः (*८,१.४) इति, तत्र सर्वस्य स्थाने द्वे भवतः ।
के द्वे भवतः ? ये शब्दतश्च अर्थतश्च उभयथान्तरतमे ।
एकस्य पचतिशब्दस्य द्वौ पचतिशब्दौ हवतः ।
पचति पचति ।
ग्रामो ग्रामो रमणीयः ।
यदा तु द्विः प्रयोगो द्विर्वचनं तदा स एव पचतिशब्दो द्विरावर्तते, तस्य द्वे आवृत्ती भवतः ।
सर्वस्य इति किम् ? विस्पष्टार्थम् ।
अथ पदस्य इत्येव कस्मान्न+उच्यते ? न+एवं शक्यम्, इह हि न स्यात्प्रपचति प्रपचति इति ।
इह द्रोग्धा, द्रोढा इति घत्वढत्वयोः असिद्धत्वादकृतयोरेव तयोर्द्विवचनं प्राप्नोति, तत्र पश्चाद्विकल्पे सत्यनिष्तमपि स्यात्द्रोग्धा द्रोढा, द्रोढा द्रोग्धा इति ।
तस्माद्वक्तव्यमेतत्पूर्वत्र असिद्धीयमद्विर्वचने इति ।
सर्वस्य इत्येतदेव वा कृतं सर्वकार्यप्रतिपत्त्यर्थं द्रष्टव्यम् ॥





तस्य परमाम्रेडितम् ॥ ८,१.२ ॥


_____ काशिकावृत्तिः८,१.२:

तस्य द्विरुक्तस्य यत्परं शब्दरूपं तदाम्रेडितसञ्ज्ञं भवति ।
चौर चौर ३, वृषल वृषल ३, दस्यो दस्यो ३ घातयिष्यामि त्वा, बन्धयिष्यामि त्वा ।
आम्रेडितप्रदेशाः आम्रेडितं भर्त्सने (*८,२.९५) इत्येवमादयः ॥





अनुदात्तं च ॥ ८,१.३ ॥


_____ काशिकावृत्तिः८,१.३:

अनुदात्तं च तद्भवति यदाम्रेडितसञ्ज्ञम् ।
भुङ्क्ते भुङ्क्ते ।
पशून् प्शून् ॥




नित्यवीप्सयोः ॥ ८,१.४ ॥


_____ काशिकावृत्तिः८,१.४:

नित्ये चार्थे विप्सायां च यद्वर्तते तस्य द्वे भवतः ।
केषु नित्यता ? तिङ्क्षु नित्यता अव्ययकृत्सु च ।
कुत एतत् ।
आभीक्ष्ण्यमिह नित्यता ।
आभीक्ष्ण्यं च क्रियाधर्मः ।
यां क्रियां कर्ता प्राधान्येन अनुपरमन् करोति तन्नित्यम् ।
पचति पचति ।
जल्पति जल्पति ।
भुक्त्वा भुक्त्वा व्रजति ।
भोजं भोजं व्रजति ।
लुनीहि लुनीहि इत्येवायं लुनाति क्त्वाणमुलोर्लोटश्च द्विर्वचनापेक्षायामेव पौनःपुन्यप्रकाशने शक्तिः ।

[॰८८३]

यङ्तु तन्निरपेक्षः प्रकाशयति, पुनः पुनः पचति पापच्यते इति ।
यदा तु तत्र द्विर्वचनं तदा क्रियासमभिहारे पौनःपुन्यं द्रष्टव्यं पापच्यते पापच्यते इति ।
अथ केषु वीप्सा ? सुप्सु वीप्सा ।
का पुनर्वीप्सा ? व्याप्तिविशेषविषया प्रयोक्तुरिच्छा वीप्सा ।
का पुनः सा ? नानावाचिनामधिकरणानां क्रियागुणाभ्यां युगपत्प्रयोक्तुर्व्याप्तुमिच्छा वीप्सा ।
नानाभूतार्थवाचिनां शब्दानां यान्यधिकरणानि वाच्यानि तेषां क्रियागुणाभ्यां युगपत्प्रयोक्तुमिच्छा वीप्सा ।
ग्रामो ग्रामो रमणीयः ।
जनपदो जनपदो रमणीयः ।
पुरुषः पुरुषो निधनमुपैति ।
यत्तिडन्तं नित्यतया प्रकर्षेण च युक्तं ततः कृतद्विर्वचनात्प्रकर्षप्रत्यय इष्यते पचति पचतितरामिति ।
इह तु आढ्यतरमाढ्यतरमानय इति प्रकर्षयुक्तस्य वीप्सायोग इष्यते ॥





परेर्वर्जने ॥ ८,१.५ ॥

_____ काशिकावृत्तिः८,१.५:

परि इत्येतस्य वर्जनेऽर्थे द्वे भवतः ।
परि परि त्रिगर्तेभ्यो वृष्टो देवः ।
परि परि सौवीरेभ्यः ।
परि परि सर्वसेनेभ्यः ।
वर्जनें परिहारः ।
वर्जने इति किम् ? ओदनं परिषिञ्चति ।
परेर्वर्जनेऽसमासे वेति वक्तव्यम् ।
परि परि त्रिगर्तेभ्यो वृष्टो देवः, परि त्रिगर्तेभ्यः ।
समासे तु तेन+एव+उक्तत्वाद्वर्जनस्य न+एव भवति, परित्रिगर्तं वृष्टो देवः इति ॥





प्रसमुपोदः पादपूरणे ॥ ८,१.६ ॥


_____ काशिकावृत्तिः८,१.६:

प्र समुप उतित्येतषां पादपूरणे द्वे भवतो द्विर्वचनेन चेत्पादः पूर्वते ।
प्रप्रायमग्निर्भरतस्य शृण्वे ।
संसमिद्युवसे वृषन् ।
उपोप मे परा मृश किं नोदुदु हर्षसे दातवा उ ।
पादपूरणे इति किम् ? प्र देवं देव्या धिया ।
सामार्थ्याच्छन्दस्येव+एतद्विधानम् ।
भाषायामनर्थकं स्यात्, प्रयोगाभावात् ॥





उपर्यध्यधसः सामीप्ये ॥ ८,१.७ ॥


_____ काशिकावृत्तिः८,१.७:

उपरि अधि अधसित्येतेषां द्वे भवतः सामीप्ये विवक्षिते ।
सामीप्यं प्रत्यासत्तिः कालकृता देशकृता च ।
उपर्युपरि दुःखम् ।
उपर्युपरि ग्रामम् ।
अध्यधि ग्रामम् ।
अधोऽधो नगरम् ।
सामीप्ये इति किम् ? उपरि चन्द्रमाः ।
इह कस्मान्न भवति, उपरि शिरसो घटं धारयति ? औत्तराधर्यमेव विवक्षितं न सामीप्यमिति द्विर्वचनं न भवति ॥





[॰८८४]

वाक्यादेरामन्त्रितस्य असूयासम्मतिकोपकुत्सनभर्त्सनेषु ॥ ८,१.८ ॥


_____ काशिकावृत्तिः८,१.८:

एकार्थः पदसमूहो वाक्यम् ।
वाक्यादेरामन्त्रितस्य द्वे भवतः असूयासम्मतिकोपकुत्सनभर्त्सनेषु यदि तद्वाक्यं भवति ।
तत्र परगुणानामसहनमसूया ।
पूजा सम्मतिः ।
कोपः क्रोधः ।
निन्दनं कुत्सनम् ।
अपकारशब्दैर्भयोत्पादनं भर्त्सनम् ।
एते च प्रयोक्तृधर्माः, नाभिधेयधर्माः ।
असूयायां तावत् माणवक ३ माणवक, अभिरूपक ३ अभिरूपक, रिक्तं ते आभिरूप्यम् ।
सम्मातौ माणवक ३ माणवक, अभिरूपक ३ अभिरूपक, शोभनः खल्वसि ।
कोपे माणवक ३ माणवक, अविनीतक ३ अविनीतक, इदानीं ज्ञास्यसि जाल्म ।
कुत्सने शक्तिके ३ शक्तिके, यष्टिके ३ यष्टिके, रिक्ता ते शक्तिः ।
भर्त्सने चौर चौर ३, वृषल वृषल ३, घातयिष्यमि त्वां बन्धयिष्यामि त्वाम् ।
असूयादिषु स्वरितमाम्रेडितेऽसूयासंमतिकोपकुत्सनेषु (*८,२.१०३) इति पूर्वपदस्य प्लुतः ।
भर्त्सने तु आम्रेडितं भर्त्सने (*८,२.९५) इत्याम्रेडितस्य+एव प्लुतः ।
वाक्यादेः इति किम् ? अन्तस्य मध्यमस्य च मा भूत्, शोभनः खल्वसि माणवक ।
आमन्त्रितस्य इति किम् ? उदारो देवदत्तः ।
असूयादिषु इति किम् ? देवदत्त गामभ्याज शुक्लाम् ॥




एकं बहुव्रीहिवत् ॥ ८,१.९ ॥


_____ काशिकावृत्तिः८,१.९:

एकमित्येतच्छब्दरूपं द्विरुक्तं बहुव्रीहिवद्भवति ।
बहुव्रीहिवत्त्वे प्रयोजनं सुब्लोपपुंवद्भावौ ।
कैकमक्षरं पठति ।
एकैकया आहुत्या जुहोति ।
सर्वनामसञ्ज्ञाप्रतिषेधस्वरसमासान्ताः समासाधिकारविहिते बहुव्रीहौ विज्ञायन्ते ।
तेन अतिदेशिके बहुव्रीहौ न भवन्ति ।
एकैकस्मै ।
न बहुव्रीहौ (*१,१.१२९) इति प्रतिषेधो न भवति, बहुव्रीहिरेव यो बहुव्रीहिः इति विज्ञानात् ।
नन, सुसु, नञ्सुभ्याम् (*६,२.१७२) इत्यन्तोदात्तत्वं न भवति ।
ऋकृक्, पूः पूः, ऋक्पूः इति समासान्तो न भवति ॥





आबाधे च ॥ ८,१.१० ॥


_____ काशिकावृत्तिः८,१.१०:

आबाधनमाबाधः, पीडा प्रयोक्तृधर्मः, न अभिधेयधर्मः ।
तत्र वर्तमानस्य द्वे भवतः, बहुव्रीहिवच्चास्य कार्यं भवति ।
गतगतः ।
नष्टनष्टः ।
पतितपतितः ।
गतगता ।
नष्टनष्टा ।
पतितपतिता ।
प्रियस्य चिरगमनादिना पीड्यमानः कश्चिदेवं प्रयुङ्क्ते प्रयोक्ता ॥




[॰८८५]

कर्मधारयवदुत्तरेषु ॥ ८,१.११ ॥


_____ काशिकावृत्तिः८,१.११:

इत उत्तरेषु द्विर्वचनेषु कर्मधारयवत्कार्यं भवति इत्येतद्वेदितव्यम् ।
कर्मधारयवत्त्वे प्रयोजनं सुब्लोपपुंवद्भावान्तोदात्तत्वानि ।
सुब्लोपः पटुपटुः ।
मृदुमृदुः ।
पण्डितपण्डितः ।
पुंवद्भावः पटुपट्वी ।
मृदुमृद्वी ।
कालककालिका ।
कोपधाया अपि हि कर्मधारयवद्भावात्पुंवत्कर्मधारयः इति पुंवद्भावो भवति ।
अन्तोदात्तत्वम् पटुपटुः ।
पटुपत्वी ।
समासान्तोदात्तत्वमनेन+एव विधीयते इति परत्वदाम्रेडितानुदात्तत्वं बाध्यते ।
अधिकारेणैव सिद्धे यतुत्तरेषु इति वचनं तद्विस्पष्टार्थम् ॥





प्रकारे गुणवचनस्य ॥ ८,१.१२ ॥


_____ काशिकावृत्तिः८,१.१२:

प्रकारो भेदः सादृश्यं च ।
तदिह सादृश्यं प्रकारो गृह्यते ।
प्रकारे वर्तमानस्य गुणवचनस्य द्वे भवतः ।
पटुपटुः ।
मृदुमृदुः ।
पण्डितपण्डितः ।
अपरिपूर्णगुणः इत्यर्थः ।
परिपूर्णगुणेन न्यूनगुणस्य+उपमाने सत्येवं प्रयुज्यते ।
जातीयरोऽनेन द्विर्वचनेन बाधनं नेष्यते ।
पटुजातीयः, मृदुजातीयः इत्यपि हि भवति ।
तत्कथम् ? वक्ष्यमाणमन्यतरस्यांग्रहणमुभयोः शेषो विजायते ।
प्रकारे इति किम् ? पटुर्देवदत्तः ।
मुणवचनस्य इति किम् ? अग्निर्माणवकः ।
गौर्वाहीकः ।
यद्यप्यत्र अग्निशब्दो गोशब्दश्च मुख्यार्थसम्बन्धादवभृतभेदं तैक्ष्ण्यजाड्यादिकमर्थान्तरे गुनविशेषमेव प्रतिपादयितुं प्रवृत्तः, तथापि सर्वदा गुणवचनो न भवति इति न द्विरुच्यते ।
आनुपूर्व्ये द्वे भवत इति वक्तव्यम् ।
मूले मूले स्थूलाः ।
अग्रेऽग्रे सूक्ष्माः ।
ज्येष्ठं ज्येष्ठं प्रवेशय ।
स्वार्थेऽवधार्यमाणेऽनेकस्मिन् द्वे भवत इति वक्तव्यम् ।
अस्मात्कार्षापणादिह भवद्भ्यां माषं माषं देहि ।
स्वार्थे एतद्द्विर्वचनम्, न वीप्सायाम् ।
अत्र हि द्वावेव माषौ दीयेते, न सर्वे कार्षापणसम्बन्धिनो माषाः, तेन वीप्सा न विद्यते ।
अवधार्यमाणे इति किम् ? अस्मात्कार्षापणादिह भवद्भ्यां माषमेकं देहि, द्वौ माषौ देहि, त्रीन् वा माषान् देहि ।
अनेकस्मिनिति किम् ? अस्मात्कार्षापणादिह भवद्भ्यां माषमेकं देहि ।
चापले द्वे भवत इति वक्तव्यम् ।
सम्भ्रमेण प्रवृत्तिश्चापलम् ।
अहिरहिः, वुध्यस्व बुध्यस्व ।
नावश्यं द्वावेव शब्दौ प्रयोक्तव्यौ, किं तर्हि, यावद्भिः शब्दैः सोऽथोऽवगम्यते तावन्तः प्रयोक्तव्याः ।
अहिरहिरहिः, बुध्यस्व बुध्यस्व बुध्यस्व इति ।
क्रियासमभिहारे द्वे भवत इति वक्तव्यम् ।
स भवान् लुनीहि लुनीहि इत्येव अयं लुनाति ।

[॰८८६]

आभीक्ष्ण्ये द्वे भवत इति वक्तव्यम् ।
भुक्त्वा भुक्त्वा व्रजति ।
भोजं भोजं व्रजति ।
नित्य इत्येव सिद्ध इति तत्र+उक्तम् ।
डाचि द्वे भवत इति वक्तव्यम् ।
पटपटाकरोति ।
पटपटायते ।
अव्यक्तानुकरणे डाजन्तस्य द्विर्वचनमिष्यते ।
इह न भवति, द्वितीयाकरोति, तृतीयाकरोति ।
तदर्थं केचित्डाचि बहुलमिति पठन्ति ।
पूर्वप्रथमयोरर्थातिशयविवक्षायां द्वे भवत इति वक्तव्यम् ।
पूर्वं पूर्वं पुष्प्यन्ति ।
प्रथमं प्रथमं पच्यन्ते ।
आतिशयिकोऽपि दृश्यते, पूर्वतरं पुष्प्यन्ति, प्रथमतरं पच्यन्ते इति ।
डतरडतमयोः समसम्प्रधारणयोः स्त्रीनिगदे भवे द्वे भवत इति वक्तव्यम् ।
उभाविमावाढ्यौ ।
कतरा कतरा अनयोराढ्यता ।
सर्व इमे आढ्याः ।
कतमा कतमा एषामाढ्यता ।
डतरडतमाभ्यामन्यत्र अपि हि दृश्यते ।
उभाविमाउ आढ्यौ ।
कीदृशी कीदृशि अनयोराढ्यता ।
तथा स्त्रीनिगदाद्भावातन्यत्र अपि हि दृश्यते, उभाविमावाढ्यौ, कतरः कतरोऽन्योर्विभवः इति ।
कर्मव्यतिहारे सर्वनाम्नो द्वे भवत इति वक्तव्यं समासवच्च बहुलम् ।
यदा न समासवत्प्रथमैकवचनं तदा पूर्वपदस्य अन्यमन्यमिमे ब्राह्मणा भोजयन्ति, अन्योन्यमिमे ब्राह्मणा भोजयन्ति ।
अन्योन्यस्य ब्राह्मणा भोजयन्ति ।
इतरेतरं भोजयन्ति ।
इतरेतरस्य भोजयन्ति ।
स्त्रीनपुंसकयोरुत्तरपदस्य च अम्भावो वक्तव्यः ।
अन्योऽन्यामिमे ब्राह्मण्यौ भोजयतः ।
अन्योन्यं भोजयतः ।
इतरेतरां भोजयतः ।
इतरेतरं भोजयतः ।
अन्योन्यामिमे ब्राह्मणकुले भोजयतः ।
इतरामिमे ब्राह्मणकुले भोजयतः ।
इतरेतरमिमे ब्राह्मणकुले भोजयतः ॥





[॰८८७]

अकृच्छ्रे प्रियसुखयोरन्यतरस्याम् ॥ ८,१.१३ ॥

_____ काशिकावृत्तिः८,१.१३:

प्रिय सुख इत्येतयोः अन्यतरस्यां द्वे भवतः अकृच्छ्रे द्योत्ये ।
कृच्छ्रं दुःखम्, तदभावः अकृच्छ्रम् ।
प्रियप्रियेण ददाति ।
सुखसुखेन ददाति ।
प्रियेण ददाति ।
सुखेन ददाति ।
अखिद्यमानो ददाति इत्यर्थः ।
अकृच्छ्रे इति किम् ? प्रियः पुत्रः ।
सुखो रथः ॥





यथास्वे यथायथम् ॥ ८,१.१४ ॥


_____ काशिकावृत्तिः८,१.१४:

यो य आत्मा, यद्यदात्मीयम्, तत्तद्, यथास्वम्, तस्मिन् यथायथमिति निपात्यते ।
यथाशब्दस्य द्विर्वचनं नपुंसकलिङ्गता च निपात्यते ।
ज्ञाताः सर्वे पदार्थाः यथायथम् ।
यथास्वभावमित्यर्थः ।
सर्वेषां तु यथायथं यथात्मीयमित्यर्थः ॥





द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु ॥ ८,१.१५ ॥


_____ काशिकावृत्तिः८,१.१५:

द्वन्द्वमिति द्विशब्दस्य द्विर्वचनम्, पूर्व पदस्याम्भावः, अत्त्वं च+उत्तरपदस्य निपात्यते रहस्य मर्यादावचन व्युत्क्रमण यज्ञपात्रप्रयोग अभिव्यक्ति इत्येतेषु अर्थेषु ।
तत्र रहस्यं द्वन्द्वशब्दवाच्यम्, इतरे विषयभूताः ।
द्वन्द्वं मन्त्रयते ।
मर्यादावचने मर्यादा स्थीत्यनतिक्रमः ।
आचतुरं हीमे पशवो द्वन्द्वं मिथुनीयन्ति ।
माता पुत्रेण मिथुनं गच्छति, पौत्रेण, तत्पुत्रेण अपि इति मर्यादार्थः ।
व्युत्क्रमणे द्वन्द्वं व्युत्क्रान्ताः ।
व्युत्क्रमणं भेदः, पृथगवस्थानम् ।
द्विवर्गसम्बन्धनेन पृथगवस्थिता द्वन्व्द्वं व्युत्क्रान्ता इत्युच्यन्ते ।
यज्ञपात्रप्रयोगे द्वन्द्वं न्यञ्चि यज्ञपात्राणि प्रयुनक्ति धीरः ।
अभिव्यक्तौ द्वन्द्वं नारदपर्वतौ ।
द्वन्द्वं सङ्कर्षणवासुदेवौ ।
द्वावप्यभिव्यक्तौ साहचर्येण इत्यर्थः ।
अन्यत्र अपि द्वन्द्वमित्येतद्दृश्यते, तदर्थं योगविभागः कर्तव्यः, द्वन्द्वं युद्धं वर्तते, द्वन्द्वानि सहते धीरः, चार्थे द्वन्द्वः (*२,२.२९) इति ॥





पदस्य ॥ ८,१.१६ ॥


_____ काशिकावृत्तिः८,१.१६:

पदस्य इत्ययमधिकारः प्रागपदान्ताधिकारात् ।
यदित ऊर्ध्वमनुक्रमिष्यामः पदस्य इत्येवं तद्वेदितव्यम् ।
वक्ष्यति संयोगान्तस्य लोपः (*८,२.२३) ।
पचन् ।
यजन् ।
पदस्य इति किम् ? पचन्तौ ।
यजन्तौ ।
वक्ष्यमाणवाक्यापेक्षया पदस्य अधिकृतस्य षष्ठ्यर्थव्यवस्था द्रष्टव्याः क्वचित्स्थानषष्ठी, क्वचिदवयवषष्ठी ॥





[॰८८८]

पदात् ॥ ८,१.१७ ॥

_____ काशिकावृत्तिः८,१.१७:

पदातित्ययमधिकारः प्राक्कुत्सने च सुप्यगोत्रादौ (*८,१.६९) इत्येतस्मात् ।
यदिति ऊर्ध्वमनुक्रमिष्यामः पदातित्येवं तद्देदितव्यम् ।
वक्ष्यति आमन्त्रितस्य च (*८,१.१९) ।
आमन्त्रितस्य पदात्परस्य अनुदात्तादेशो भवति इति ।
पचसि देवदत्त ।
पदातिति किम् ? देवदत्त पचसि ॥





अनुदात्तं सर्वमपादादौ ॥ ८,१.१८ ॥


_____ काशिकावृत्तिः८,१.१८:

अनुदात्तमिति च, सर्वमिति च, अपादादौ इति च, अपादादौ इति च एतत्त्रयमधिकृतं वेदितव्यमा पादपरिसमाप्तेः ।
इत उत्तरं यद्वक्ष्यामः अनुदात्तं सर्वमपादादौ इत्येवं तद्वेदितव्यम् ।
वक्ष्यति आमन्त्रितस्य च (*७,१.१९) इति ।
पचसि देवदत्त ।
अपादादौ इति किम् ? यत्ते नियानं रजसं मृत्यो अनवधर्ष्यम् ।
बहुवचनस्य वस्नसौ (*८,१.२१) ।
ग्रामो वः स्वम्, जनपदो नः स्वम् ।
अपादादौ इति किम् ? रुद्रो विश्वेश्वरो देवो यष्माकं कुलदेवता ।
स एव नाथो भगवानस्माकं शत्रुमर्दनः ॥
पादग्रहणेनात्र ऋक्पादः श्लोकपादश्च गृह्यते ।
सर्वग्रहणं सर्वमनूद्यमानं विधीयमानं च अनुदात्तं यथा स्यातिति ।
तेन युष्मदस्मदादेशानामपि वाक्यभेदेन अनुदात्तत्वं विधीयते ।
युष्मदस्मदादेशाश्च सर्वस्य सुबन्तस्य पदस्य यथा स्युः, यत्र अपि स्वादिपदं पदसञ्ज्ञं भवति ।
ग्रामो वां दीयते ।
जनपदो नौ दीयते ॥




आमन्त्रितस्य च ॥ ८,१.१९ ॥


_____ काशिकावृत्तिः८,१.१९:

आमन्त्रितस्य पदस्य पदात्परस्य अपदादौ वर्तमानस्य सर्वमनुदात्तं भवति ।
पचसि देवदत्त ।
पचसि यज्ञदत्त ।
आमन्त्रिताद्युदात्तत्वे प्राप्ते वचनम् ।
समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः ।
इह मा भूवन्, अयं दण्डो हर अनेन, ओदनं पच तव भविष्यति, ओदनं पच मम अभविष्यति ।
इह च यथा स्यात्, इह देवदत्त माता ते कथयति, नद्यास्तिष्ठति लूके, शालीनां ते ओदनं दास्यामि इति ।
आमन्त्रितान्तं तिङन्तं युष्मदस्मदादेशाश्च यस्मात्पराणि न तेषां सामर्थ्यमिति तदाश्रया निघातयुष्मदस्मदादेशा न स्युः, समर्थः पदविधिः (*२,१.१.) इति वचनात् ॥





युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ ॥ ८,१.२० ॥


_____ काशिकावृत्तिः८,१.२०:

युष्मदस्मदित्येतयोः षष्ठीचतुर्थीद्वितीयास्थयोः यथासङ्ख्यं वां नौ इत्येतावादेशौ भवतः, तौ चानुदात्तौ ।
पदस्य, पदात्, अनुदात्तं सर्वमपादादौ इति सर्वमिह सम्बध्यते ।
ग्रामो वां स्वम् ।
जनपदो नौ स्वम् ।
ग्रामो वां दीयते ।

[॰८८९]

जनपदो नौ दीयते ।
ग्रामो वां पश्यति ।
जनपदो नौ पश्यति ।
एकवचनबहुवचनान्तयोरादेशान्तरविधानाद्द्विवचनान्तयोः एतावादेशौ विज्ञायेते ।
षष्ठीचतुर्थीद्वितीयास्थयोः इति किम् ? ग्रामे युवाभ्यां कृतम् ।
स्थग्रहणं श्रूयमाणविभक्त्यर्थम् ।
इह मा भूत्, अयं युष्मत्पुत्रः अयमस्मत्पुत्रः इति ॥




बहुवचनस्य वस्नसौ ॥ ८,१.२१ ॥


_____ काशिकावृत्तिः८,१.२१:

बहुवचनान्तयोः युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोः यथासङ्ख्यं वस्नसित्येतावादेशौ भवतः ।
ग्रामो वः स्वम् ।
जनपदो नः स्वम् ।
ग्रामो वो दीयते ।
जनपदो नो दीयते ।
ग्रामो वः पश्यति ।
जनपदो नः पश्यति ॥





तेमयावेकवचनस्य ॥ ८,१.२२ ॥


_____ काशिकावृत्तिः८,१.२२:

युष्मदस्मदोः एकवचनान्तयोः षष्थीचतुर्थीस्थयोः यथासङ्ख्यं ते मे इत्येतौ आदेशौ भवतः ।
ग्रामस्ते स्वम् ।
ग्रामो मे स्वम् ।
ग्रामस्ते दीयते ।
ग्रामो मे दीयते ।
द्वितीयान्तस्य आदेशान्तरविधानसामर्थ्यात्षष्ठीचतुर्थ्योः एवायं योगः ॥





त्वामौ द्वितीयायाः ॥ ८,१.२३ ॥

_____ काशिकावृत्तिः८,१.२३:

एकवचनस्य इति वर्तते ।
द्वितीयाया यदेकवचनं तदन्तयोः युष्मदस्मदोः यथासङ्ख्यं त्वा मा इत्येतौ आदेशौ भवतः ।
ग्रामस्त्वा पश्यति ।
ग्रामो मा पश्यति ॥





न चवाहाहैवयुक्ते ॥ ८,१.२४ ॥


_____ काशिकावृत्तिः८,१.२४:

च वा ह अह एव एभिर्युक्ते युष्मदस्मदोः वान्नावादयोः न भवन्ति ।
पुर्वेण प्रकारेण प्राप्ताः प्रतिषिध्यन्ते ।
ग्रामस्तव च स्वम्, ग्रामो मम च स्वम्, युवयोश्च स्वम्, आवयोश्च स्वम्, युष्माकं च स्वम्, अस्माकं च स्वम् ।
ग्रामस्तुभ्यां च दीयते, ग्रामो मह्यं च दीयते, युवाभ्यां च दीयते, आवाभ्यां च दीयते, युष्मभ्यं च दीयते, अस्मभ्यं च दीयते ।
ग्रामस्त्वां च पशयति, ग्रामो मां च प्शयति, युवां च पश्यति, आवां च पश्यति, युष्मांश्च पश्यति, युष्मान् वा पश्यति, अस्मान् वा पश्यति ।
वा ग्रामस्तव वा स्वम्, ग्रामो मम वा स्वम्, युवयोर्वा स्वम्, आवयोर्वा स्वम्, युष्माकं वा स्वम्, अस्माकं वा स्वम् ।
ग्रामस्तुभ्यं वा दीयते, ग्रामो मह्यं वा दीयते, युवाभ्यां वा दीयते, आवाभ्यां वा दीयते, युष्मभ्यं वा दीयते, अस्मभ्यं वा दीयते ।
ग्रामस्त्वां वा पश्यति, ग्रामो मां वा पश्यति, युवां वा पश्यति, आवां वा पश्यति, युष्मान् वा पश्यति, अस्मान् वा पश्यति ।

[॰८९०]

ह ग्रामस्तव ह स्वम्, ग्रामो मम ह स्वम्, युवयोर्ह स्वम्, आवयोर्ह स्वम्, युष्माकं ह स्वम्, अस्माकं ह स्वम् ।
ग्रामस्तुभ्यं ह दीयते, ग्रामो मह्यं ह दीयते, युवाभ्यां ह दीयते, आवाभ्यां ह दीयते, युष्मभ्यां ह दीयते, अस्मभ्यं ह दीयते ।
ग्रामस्त्वां ह पश्यति, ग्रामो मां ह पश्यति, युवां ह पश्यति, आवां ह पश्यति, युष्मान् ह पश्यति, अस्मान् ह पश्यति ।
अह ग्रामस्तव अह स्वम्, ग्रामो मम अह स्वम्, युवयोरह स्वम्, आवयोरह स्वम्, युष्माकमह स्वम्, अस्माकमह स्वम् ।
ग्रामस्तुभ्यमह दीयते, ग्रामो मह्यमह दीयते, युवाभ्यामह दीयते, आवाभ्यामह दीयते, युष्मभ्यमह दीयते, अस्मभ्यमह दीयते ।
ग्रामस्त्वामह पश्यति, ग्रामो मामह पश्यति, युवामह पश्यति, आवामह पश्यति, युष्मानह पश्यति, अस्मानह पश्यति ।
एव ग्रामस्तव+एव स्वम्, ग्रामो मम+एव स्वम्, युवयोरेव स्वम्, आवयोरेव स्वम्, युष्माकमेव स्वमस्माकमेव स्वम् ।
ग्रामस्तुभ्यमेव दीयते, ग्रामो मह्यमेव दीयते, युवाभ्यामेव दीयते, आवाभ्यामेव दीयते, युष्मभ्यमेव दीयते, अस्मभ्यमेव दीयते ।
ग्रांस्त्वामेव पश्यति, ग्रामो मामेव पश्यति, युवामेव पश्यति, आवामेव पश्यति, युष्मानेव पश्यति, अस्मानेव पश्यति ।
युक्तग्रहणं साक्षाद्योगप्रतिपत्त्यर्थम् ।
युक्तयुक्ते प्रतिषेधो न भवति ।
ग्रामश्च ते स्वम्, नगरं च मे स्वम् ॥





पश्यार्थैश्च अनालोचने ॥ ८,१.२५ ॥


_____ काशिकावृत्तिः८,१.२५:

पश्यार्थाः दर्शनार्थाः ।
दर्शनं ज्ञानम्, आलोचनम्, चक्षुर्विज्ञानम् ।
तैः पश्यार्थेरनालोचने वर्तमानैर्युक्ते युष्मदस्मदोः वान्नावादयो न भवन्ति ।
ग्रामस्तव स्वं समीक्ष्यागतः ।
ग्रामो मम स्वं समीक्ष्यागतः ।
ग्रामस्तुभ्यं दीयमानं समीक्ष्यागतः ।
ग्रामो मह्यं दीयमानं समीक्ष्यागतः ।
ग्रामस्त्वां समीक्ष्यागतः ।
ग्रामो मां समीक्ष्यागतः ।
अनालोचने इति किम् ? ग्रामस्त्वा पश्यति ।
ग्रामो मा पश्यति ।
पश्यार्थैर्युक्तयुक्तेऽपि च प्रतिषेध इष्यते ।
तथा च+एव+उदाहृतम् ॥





सपूर्वायाः प्रथमाया विभाषा ॥ ८,१.२६ ॥


_____ काशिकावृत्तिः८,१.२६:

विद्यमानपूर्वात्प्रथमान्तात्पदातुत्तरयोः युष्मदस्मदोः विभाष वान्नावादयो न भवन्ति ।
ग्रामे कम्बलस्ते स्वम्, ग्रामे कम्बलस्तव स्वम् ।
ग्रामे कम्बलो मे स्वम्, ग्रामे कम्बलो मम स्वम् ।
ग्रामे कम्बलस्ते दीयते, ग्रामे कम्बलस्तुभ्यं दीयते ।
ग्रामे कम्बलो मे दीयते, ग्रामे कम्बलो मह्यं दीयते ।
ग्रामे छात्रास्त्वा पश्यन्ति, ग्रामे छात्रास्त्वां पश्यन्ति ।
ग्रां छात्रा मा पश्यन्ति, ग्रामे छात्रा मां प्श्यन्ति ।
सुपूर्वायाः इति किम् ? कम्बलस्ते स्वम् ।
कम्बलो मे स्वम् ।
पथमायाः इति किम् ? कम्बलो ग्रामे ते स्वम् ।
कम्बलो ग्रामे मे स्वम् ।

[॰८९१]

युष्मदस्मदोर्विभाषा अनन्वादेशिति वक्तव्यम् ।
इह मा भूत्, अथो ग्रामे कम्बलस्ते स्वम्, अथो ग्रामे कम्बलो मे स्वम् ।
अपर आह सर्व एव वान्नावादयोऽनन्वादेशे विभाषा वक्तव्याः ।
कम्बलस्ते स्वम्, कम्बलस्तव स्वम् ।
कम्बलो मे स्वम्, कम्बलो मम स्वम् ।
अनन्वादेशे इति किम् ? अथो कम्बलस्ते स्वम् ।
अथो कम्बलो मे स्वम् ।
न तर्हि इदानीमिदं वक्तव्यं सपूर्वायाः प्रथमाया विभाषा इति ? वक्तव्यं च ।
किं प्रयोजनम् ? अन्वादेशार्थम् ।
अनवादेशे हि विभाषा यथा स्यात् ।
अथो ग्रामे कम्बलस्ते स्वम्, अथो ग्रामे कम्बलस्ते स्वम् ।
अथो ग्रामे कम्बलो मे स्वम्, अथो ग्रामेकम्बलो मे स्वम्, अथो ग्रामे कम्बलो मम स्वम् ॥





तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः ॥ ८,१.२७ ॥


_____ काशिकावृत्तिः८,१.२७:

तिङन्तात्पदात्पराणि गोत्रादीनि कुत्सने आभीक्ष्ण्ये चार्थे वर्तमानानि अनुदात्तानि भवन्ति ।
पचति गोत्रम् ।
जल्पति गोत्रम् ।
आभीक्ष्ण्ये पचति पचति गोत्रम् ।
जल्पति जल्पति गोत्रम् ।
ब्रुवः पचति ब्रुवम् ।
जल्पति ब्रुवम् ।
पचति पचति ब्रुवम् ।
जल्पति जल्पति ब्रुवम् ।
ब्रुवः इति ब्रुवः कन्निपातनाद्वच्यादेशाभावश्च ।
गोत्र ।
ब्रुव ।
प्रवचन ।
प्रहसन ।
प्रकथन ।
प्रत्ययन ।
प्रचक्षण ।
प्राय ।
विचक्षण ।
अवचक्षण ।
स्वाध्याय ।
भूयिष्थ ।
वा नाम ।
नाम इत्येतद्वा निहन्यते ।
पक्षे आद्युदात्तमेव भवति ।
पचति नाम ।
पठति नाम ।
तिङः इति किम् ? कुत्सितं गोत्रम् ।
गोत्रादीनि इति किम् ? पचति पापम् ।
कुत्सनाभीक्ष्ण्ययोः इति किम् ? खनति गोत्रं समेत्य कूपम् ।
कुत्सनाभीक्ष्ण्यग्रहणं च पाठविशेषणं द्रष्टव्यम् ।
तेन अन्यत्र अपि गोत्रादिग्रहणेन कुत्सनाभीक्ष्ण्ययोरेव कार्यं भवति ॥





तिङ्ङतिङः ॥ ८,१.२८ ॥


_____ काशिकावृत्तिः८,१.२८:

तिङन्तं पदमतिङन्तात्पदात्परमनुदात्तं भवति ।
देवदत्तः पचति ।
यज्ञदत्तः पचति ।
तङिति किम् ? नीलमुत्पलम् ।
शुक्लं वस्त्रम् ।
अतिङः इति किम् ? भवति पचति ॥





[॰८९२]

न लुट् ॥ ८,१.२९ ॥


_____ काशिकावृत्तिः८,१.२९:

पूर्वेण अतिप्रसक्ते प्रतिषेध आरभ्यते ।
लुडन्तं नानुदात्तं भवति ।
श्वः कर्ता ।
श्वः कर्तारौ ।
मासेन कर्तारः ।
तासेः परस्य लसार्वधातुकस्य अनुदात्तत्वे सति सर्वतासिरेव उदात्तः ।
यत्र तु टिलोपः, तत्र उदात्तनिवृत्तिस्वरो भवति ॥





निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुतम् ॥ ८,१.३० ॥


_____ काशिकावृत्तिः८,१.३०:

न इति वर्तते ।
यत्यदि हन्त कुवित्नेत्चेत्चण्कच्चित्यत्र इत्येतैर्निपातैर्युक्तं तिङन्तं नानुदात्तं भवति ।
यत् यत्करोति ।
यत्पचति ।
यदि यदि करोति ।
यदि पचति ।
हन्त हन्त करोति ।
नेत् नेज्जिह्मायन्त्यो नरकं पताम् ।
चेत् स चेद्भुङ्क्ते ।
स चेदधीते ।
चण् णिद्विशिष्टोऽयं चेदर्थे वर्तते ।
अयं च मरिष्यति ।
अयं चेन्मरिष्यति इत्यर्थः ।
समुच्चयादिषु तु यः चशब्दः, तेन योगेन विधिरयं न भवति ।
कच्चित्कच्चिद्भुङ्क्ते ।
कच्चिदधीते ।
यत्र यत्र भुङ्क्ते ।
यत्र अधीते ।
निपातैः इति किम् ? यत्कूजति शकटम् ।
गच्छत्कूजति शकटमित्यर्थः ।
इणः शतरि रूपमेतत् ।
युक्तमिति किम् ? यत्र क्व च ते मनो दक्षं दधस उत्तरम् ॥





नह प्रत्यारम्भे ॥ ८,१.३१ ॥


_____ काशिकावृत्तिः८,१.३१:

नह इत्येतेन युक्ते प्रत्यारम्भे तिङन्तं नानुदात्तं भवति ।
चोदितस्य अविधीरणे उपालिप्सया प्रतिषेधयुक्तः प्रत्यारंहः क्रियते ।
नह भोक्ष्यसे ।
नह अध्येष्यसे ।
प्रत्यारम्भे इति किम् ? नह वै तस्मिंश्च लोके दक्षिणामिच्छन्ति ॥





सत्यं प्रश्ने ॥ ८,१.३२ ॥


_____ काशिकावृत्तिः८,१.३२:

सत्यमित्यनेन युक्तं तिङन्तं न अनुदात्तं भवति प्रश्ने ।
सत्यं भोक्ष्यसे ।
सत्यमध्येष्यसे ।
प्रश्ने इति किम् ? सत्यं वक्ष्यामि नानृतम् ॥





अङ्गाप्रातिलोम्ये ॥ ८,१.३३ ॥


_____ काशिकावृत्तिः८,१.३३:

अङ्ग इत्यनेन युक्तं तिङन्तमप्रातिलोम्ये गम्यमाने नानुदात्तं भवति ।
अङ्ग कुरु ।
अङ्ग पच ।
अङ्ग पठ ।
अप्रातिलोम्ये इति किम् ? अङ्ग कूज ३ वृषल, इदानीं ज्ञास्यसि जाल्म ।
कूजनमनभिमतमसौ कुर्वन् प्रतिलोमो भवति ॥





[॰८९३]

हि च ॥ ८,१.३४ ॥


_____ काशिकावृत्तिः८,१.३४:

हि इत्यनेन युक्तं तिङन्तमप्रातिलोम्ये नानुदात्तं भवति ।
स हि कुरु ।
स हि पच ।
स हि पठ ।
अप्रातिलोम्ये इत्येव, स हि कूज वृषल, इदानीं ज्ञास्यसि जाल्म ॥





छन्दस्यनेकमपि साकाङ्क्षम् ॥ ८,१.३५ ॥


_____ काशिकावृत्तिः८,१.३५:

हि च इति वर्तते ।
छन्दसि विषये हियुक्तं तिङन्तं साकाङ्क्षंने कमपि नानुदात्तं भवति, एकमपि ।
कदाचिदेकं कदाचिदनेकमित्यर्थः ।
तत्र अनेकं तावत् अनृतं हि मत्तो वदति, पाप्मा एनं विपुनाति ।
तिङन्तद्वयमप्येतन्न निहन्यते ।
एकं खल्वपि अग्निर्हि पूर्वमुदजयत्तमिन्द्रोऽनूदजयत्तिङन्तद्वयमपि हिशब्दयुक्तमेतत् ।
तत्र एकमुदजयतित्याद्युदात्तम्, अपरमनुदात्तम् ।
अजा ह्यग्नेरजनिष्ट गर्भात्सा वा अपश्यज्जनितारमग्ने ।
अजनिष्ट इत्याद्युदात्तम्, अपश्यतित्यनुदात्तम् ॥





यावद्यथाभ्याम् ॥ ८,१.३६ ॥


_____ काशिकावृत्तिः८,१.३६:

यावत्यथा इत्येताभ्यां युक्तं तिङन्तं नानुदात्तं भवति ।
यावद्भुङ्क्ते ।
यथा भुङ्क्ते ।
यावदधीते ।
यथा अधीते ।
देवदत्तः पचति यावत् ।
देवदत्तः पचति यथा ।
परेण अपि योगे भवति प्रतिषेधः ॥





पूजायां न अनन्तरम् ॥ ८,१.३७ ॥


_____ काशिकावृत्तिः८,१.३७:

यावद्यथा इत्येताभ्यां युक्तमनन्तरं तिङन्तं पूजायं विषये नानुदात्तं न भवति, किं तर्हि ? अनुदात्तमेव ।
यावत्पचति शोभनम् ।
यथा पचति शोभनम् ।
यावत्करोति चारु ।
यथा करोति चारु ।
पूजायामिति किम् ? यावद्भुङ्क्ते ।
यथा भुङ्क्ते ।
अनन्तरमिति किम् ? यावद्देवदत्तः पचति शोभनम् ।
यथा देवदत्तः करोति चारु ।
पुर्र्वेण अत्र निघातः प्रतिषिध्यते ॥





उपसर्गव्यपेतं च ॥ ८,१.३८ ॥


_____ काशिकावृत्तिः८,१.३८:

यावद्यथाभ्यां युक्तमुपसर्गव्यपेतं च पूजायां विषये नानुदात्तं न भवति, किं तर्हि ? अनुदात्तमेव भवति ।
पूर्वमनन्तरमित्युक्तम्, उपसर्गव्यवधानार्थोऽयमारम्भः ।
यावत्प्रपचति शोभनम् ।
यथा प्रपचतिशोभनम् ।
यावत्प्रकरोति चारु ।
यथा प्रकरोति चारु ।
अनन्तरमित्येव, आवद्देवदत्तः प्रपचति ।
यथा विष्णुमित्रः प्रकरोति चारु ॥





[॰८९४]

तुपश्यपश्यताहैः पूजायाम् ॥ ८,१.३९ ॥


_____ काशिकावृत्तिः८,१.३९:

तु पश्य पश्यत अह इत्येतैर्युक्तं तिङन्तं नानुदात्तं भवति पूजायां विषये ।
तु माणवकस्तु भुङ्क्ते शोभनम् ।
पश्य पश्य माणवको भुङ्क्ते शोभनम् ।
पश्यत पश्यत माणवको भुङ्क्ते शोभनम् ।
अह अह माणवको भुङ्क्ते शोभनम् ।
पूजायामिति किम् ? पश्य मृगो धावति ।
पूजायामिति वर्तमाने पुनः पूजायामित्युच्यते निघातप्रतिषेधार्थम् ।
तद्धि प्रतिषेधस्य प्रतिषेधेन सम्बद्धमिति ॥





अहो च ॥ ८,१.४० ॥


_____ काशिकावृत्तिः८,१.४०:

अहो इत्यनेन युक्तं तिङन्तं नानुदात्तं भवति पूजायां विषये ।
अहो देवदत्तः पचति शोभनम् ।
अहो विष्णुमित्रः करोति चारु ।
पृथग्योगकरणमुत्तरार्थम् ॥




शेषे विभाषा ॥ ८,१.४१ ॥


_____ काशिकावृत्तिः८,१.४१:

अहो इत्यनेन युक्तं तिङन्तं शेषे विभाषा नानुदात्तं भवति ।
कश्च शेषः ? यदन्यत्पूजायाः ।
कटमहो करिष्यसि ।
मम गेहमेष्यसि ।
असूयावचनमेतत् ।
पूजायामित्यसय्पूर्वत्र च अनुकृष्टत्वादनधिकारे सिद्धे शेषवचनं विस्पष्टार्थम् ॥




पुरा च परीप्सायाम् ॥ ८,१.४२ ॥


_____ काशिकावृत्तिः८,१.४२:

पुरा इत्यनेन युक्तं तिङन्तं परीप्सायामर्थे विभाषा नानुदात्तं भवति ।
परीप्सा त्वरा ।
अधीष्व मानवक, पुरा विद्योतते विद्युत् ।
पुरा स्तनयति स्तनयित्नुः ।
पुराशब्दोऽत्र भविष्यदासत्तिं द्योतयति ।
पईप्सायामिति किम् ? नडेन स्म पुरा अधीयते ।
अत्र भूतकालविप्रकर्षं पुराशब्दो द्योतयति ।
ऊर्णया स्म पुरा अधीयते ॥





नन्वित्यनुज्ञैषणायाम् ॥ ८,१.४३ ॥

_____ काशिकावृत्तिः८,१.४३:

ननु इत्यनेन युक्तं तिङन्तं नानुदात्तं भवति ।
अनुज्ञैषणायां विषये ।
अनुज्ञाया एषणा प्रार्थना अनुज्ञैषणा ।
अनुज्ञाप्रार्थना इत्यर्थः ।
ननु करोमि भोः ।
अनुजानीष्व मां करणं प्रति इत्यर्थः ।
अनुज्ञैषणायामिति किम् ? अकार्षीः कटं देवदत्त ? ननु करोमि भोः ।
पृष्टप्रतिवचनमेतत्, न अनुज्ञैषणा ॥





[॰८९५]

किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम् ॥ ८,१.४४ ॥


_____ काशिकावृत्तिः८,१.४४:

किमित्येतत्क्रियाप्रश्ने यदा वर्तते तदानेन युक्तं तिङन्तमनुपसर्गमप्रतिषिद्धं नानुदात्तं भवति ।
किं देवदत्तः पचति, आहोस्विद्भुङ्क्ते ।
किं देवदत्तः शेते, आहोस्विदधीते ।
अत्र केचिदाहुः, पूर्वं किंयुक्तमिति तन्न निहन्यते, उत्तरं तु न किंयुक्तमिति तन्निहन्यत एव इति ।
अपरे त्वाहुः, यद्यप्येकस्य आख्यातस्य समीपे किंशब्दः श्रूयते, तथापि सर्वस्य संशयविषयस्य तेन योगः इति उभयत्र प्रतिषेधेन भवितव्यमिति ।
क्रियाग्रहणं किम् ? साधनप्रश्ने मा भूत्, किं देवदत्तः ओदनं पचति, आहोस्विच्छाकमिति ।
प्रश्न इति किम् ? किमधीते देवदत्तः ।
क्षेपे किंशब्दोऽयम्, न प्रश्ने ।
अनुपसर्गमिति किम् ? किं देवदत्तः प्रपचति, आहोस्वित्प्रकरोति ।
अप्रतिषिद्धमिति किम् ? किं देवदत्तो न पठति, आहोस्विन्न करोति ॥





लोपे विभाषा ॥ ८,१.४५ ॥


_____ काशिकावृत्तिः८,१.४५:

किमो लोपे क्रियाप्रश्ने तिङन्तमनुपसर्गमप्रतिषिद्धं विभाषा नानुदात्तं भवति ।
क्व च अस्य लोपः ? यत्र गम्यते चार्थः, न च प्रयुज्यते किंशब्दः ।
देवदत्तः पचति, आहोस्वित्पठति ।
विनैव किमा प्रश्नोऽवगम्यते ।
प्राप्तविभाषेयं किमर्थेन योगात् ।
पूर्ववत्प्रत्युदाहरणानि ॥





एहि मन्ये प्रहासे लृट् ॥ ८,१.४६ ॥


_____ काशिकावृत्तिः८,१.४६:

एहि मन्ये इत्यनेन युक्तं लृडन्तं नानुदात्तं भवति प्रहासे ।
प्रकृष्टो हासः प्रहासः, क्रीडा ।
एहि मन्ये ओदनं भोक्ष्यसे, न हि भोक्ष्यसे, भुक्तः सोऽतिथिभिः ।
एहि मन्ये रथेन यास्यसि, न हि यास्यसि, यातस्तेन ते पिता ।
प्रहासे इति किम् ? एहि मन्यसे ओदनं भोक्ष्ये इति ।
सुष्ठु मन्यसे ।
साधु मन्यसे ।
गत्यर्थलोटा लृटित्येव सिद्धे सत्यारम्भो नियमार्थः, एहिमन्येयुक्ते प्रहासे एव यथा स्यात्, अन्यत्र मा भूतिति , एहि मन्यसे ओदनं भोक्ष्ये इति ।
एहि मन्ये इत्युत्तमोपादानमतन्त्रम् ।
प्रहासे एव हि मन्यतेरुत्तमो विहितः, ततोऽन्यत्र मध्यम एव भवति ।
तत्र अनेन नियमेन निवृत्तिः क्रियते, एहि मन्यसे ओदनं भोक्ष्ये इति ॥





जात्वपूर्वम् ॥ ८,१.४७ ॥

_____ काशिकावृत्तिः८,१.४७:

जातु इत्येतदविद्यमानपूर्वम्, तेन युक्तं तिङन्तं नानुदात्तं भवति ।
जातु भोक्ष्यसे ।
जातु करिष्यामि ।
अपूर्वमिति किम् ? कटं जातु करिष्यति ॥





[॰८९६]

किंवृत्तं च चिदुत्तरम् ॥ ८,१.४८ ॥


_____ काशिकावृत्तिः८,१.४८:

किमो वृत्तं किंवृत्तम् ।
किंवृत्तग्रहणेन तद्विभक्त्यन्तं प्रतीयात्, डतरडतमौ च प्रत्ययौ ।
तत्किंवृत्तं चिदुत्तरमविद्यमानपूर्वं यत्तेन युक्तं तिङन्तं नानुदात्तं भवति ।
कश्चिद्भुङ्क्ते ।
कश्चिद्भोजयति ।
कश्चिदधीते ।
केनचित्करोति ।
कस्मैचिद्ददाति ।
कतरश्चित्करोति ।
कतमश्चिद्भुङ्क्ते ।
चिदुत्तरमिति किम् ? को भुङ्क्ते ।
अपूर्वमित्येव, देवदत्तः किञ्चित्पठति ॥





आहो उताहो च अनन्तरम् ॥ ८,१.४९ ॥

_____ काशिकावृत्तिः८,१.४९:

निघातप्रतिषेधोऽनुवर्तते, अपूर्वमिति च ।
आहो उताहो इत्येताभ्यामपूर्वाभ्यां युक्तमनन्तरं तिङन्तं नानुदात्तं भवति ।
आहो भुङ्क्ते ।
उताहो भुग्क्ते ।
आहो पठति ।
उताहो पठन्ति ।
अनन्तरमिति किम् ? शेषे विभाषां वक्ष्यति ।
अपूर्वमित्येव, देवदत्त आहो भुङ्क्ते ।
देवदत्त उताहो भुङ्क्ते ॥





शेषे विभाषा ॥ ८,१.५० ॥


_____ काशिकावृत्तिः८,१.५०:

आहो उताहो इत्येताभ्यां युक्तं तिङन्तं नानुदात्तं शेषे विभाषा भवति ।
कश्च शेषः ? यदन्यदननतरात् ।
आहो देवदत्तः पचति, पचति ।
उताहो देवदत्तः पचति, पचति ।
आहो देवदत्तः पठति, पठति ।
उताहो देवदत्तः पठति, पठति ॥





गत्यर्थलोटा लृण्न चेत्कारकं सर्वान्यत् ॥ ८,१.५१ ॥


_____ काशिकावृत्तिः८,१.५१:

गमिना समानार्था गत्यर्थाः ।
गत्यर्थानां लोट्गत्यर्थलोट् ।
तेन गत्यर्थलोटा युक्तं लृडन्तं तिङन्तं नानुदात्तं भवति, न चेत्कारकं सर्वान्यद्भवति ।
यत्र+एव कारके कर्तरि कर्मणि वा लोट्, तत्र+एव यदि लृडपि भवति इत्यर्थः ।
कर्तृकर्मणी एव अत्र तिङन्तवाच्ये कारकग्रहणेन गृह्येते, न करणादि कारकान्तरम् ।
आगच्छ देवदत्त ग्रामम्, द्रक्ष्यसि एनम् ।
आगच्छ देवदत्त ग्रामम्, ओदनं भोक्ष्यसे ।
उह्यन्तां देवदत्तेन शालयः, तेन+एव भोक्ष्यन्ते ।
उह्यन्तां देवदत्तेन शालयः, यज्ञदत्तेन भोक्ष्यन्ते ।
गत्यर्थग्रहणं किम् ? पच देवदत्त ओदनम्, भोक्ष्यसे एनम् ।
लोटा इति किम् ? आगच्छेः देव्दत्त ग्रामम्, द्रक्ष्यसि एनम् ।
लृटिति किम् ? आगच्छ देवदत्त ग्रामम्, पश्यसि एनम् ।
न चेत्कारकं सर्वान्यतिति किम् ? आगच्छ देवदत्त ग्रामम्, पिता ते ओदनं भोक्ष्यते ।

[॰८९७]

उह्यन्तां देवदत्तेन शालयः, सक्तवः तेन पास्यन्ते ।
सर्वग्रहणं किम् ? आगच्छ देवदत्त ग्रामम्, त्वं चाहं च द्रक्ष्यावः एनमित्यत्र अपि निघातप्रतिषेधो यथा स्यात् ।
लृडन्तवाच्ये हि सर्वस्मिन् कारके अन्यस्मिन्न भवितव्यम्, इह तु यत्लोडन्तस्य कारकं तच्चान्यच्च लृडन्तेन उच्यते इति ॥





लोट्च ॥ ८,१.५२ ॥


_____ काशिकावृत्तिः८,१.५२:

लोडन्तं तिङन्तं गत्यर्थलोटा युक्तं नानुदात्तं भवति, न चेत्कारकं सर्वान्यद्भवति ।
लोडन्तयोरेकं कारकं यदि भवति इत्यर्थः ।
आगच्छ देवदत्त, ग्रामं पश्य ।
आगच्छ विष्णुमित्र, ग्रामं शाधि ।
आगम्यतां देवदत्तेन, ग्रामो दृश्यतां यज्ञदत्तेन ।
गत्यर्थानामित्येव, पच देवदत्तौदनम्, भुङ्क्ष्व एनम् ।
लोटा इत्येव, आगच्छेः देवदत्त ग्रामम्, पश्य एनम् ।
न चेत्कारकं सर्वान्यतित्येव, आगच्छ देवदत्त ग्रामम्, पश्यतु एनं यज्ञदत्तः ।
सर्वग्रहणानुवृत्तेस्तु इह भवत्येव, आगच्छ देवदत्त ग्रामं त्वं चाहं च पश्याव ।
पृथग्योगकरणमुत्तरार्थम् ॥




विभाषितं सोपसर्गमनुत्तमम् ॥ ८,१.५३ ॥


_____ काशिकावृत्तिः८,१.५३:

पूर्वं सर्वमनुवर्तते ।
प्राप्तविभाषा इयम् ।
लोडन्तं सोपसर्गमुत्तमवर्जितं गत्यर्थलोओता युक्तं तिङन्तं विभाषितं नानुदात्तं भवति, न चेत्कारकं सर्वान्यद्भवति ।
आगच्छ देवदत्त, ग्रामं प्रविश, प्रविश ।
आगच्छ देवदत्त, ग्रामं प्रशाधि, प्रशाधि ।
सोपसर्गमिति किम् ? आगच्छ देवदत्त, ग्रामं पश्य ।
अनुत्तममिति किम् ? आगच्छानि देवदत्त, ग्रामं प्रविशानि ॥





हन्त च ॥ ८,१.५४ ॥


_____ काशिकावृत्तिः८,१.५४:

पूर्वं सर्वमनुवर्तते गत्यर्थलोटं वर्जयित्वा ।
हन्त इत्यनेन युक्तं लोडन्तं सोपसर्गमुत्तमवर्जितं विभाषितं नानुदात्तं भवति ।
हन्त प्रविश, प्रविश ।
हन्त प्रशाधि, प्रशाधि ।
सोपसर्गमित्येव, हन्त कुरु ।
निपातैर्यद्यदिहन्त इति नित्यमत्र निघातप्रतिषेधो भवति ।
अनुत्तममित्येव, हन्त प्रभुनजावहै ।
हन्त प्रभुनजामहै ॥




आम एकान्तरमामन्त्रितमनन्तिके ॥ ८,१.५५ ॥


_____ काशिकावृत्तिः८,१.५५:

आमः उत्तरमेकपदान्तरमामन्त्रितान्तमनन्तिके नानुदात्तं भवति ।
आं पचसि देवदत्त ३ ।
आं भो देवदत्त ३ ।
भो इत्यामन्त्रितान्तमपि, नामन्त्रिते समानाधिकरणे सामान्यवचनमिति नाविद्यमानवद्भवति ।
आमः इति किम् ? शाकं पचसि देवदत्त ३ ।
एकान्तरमिति किम् ? आं प्रपचसि देवदत्त ३ ।
आमन्त्रितमिति किम् ? आं पचति देवदत्तः ।
अनन्तिके इति किम् ? आं देवदत्त ।

[॰८९८]

आम एकान्तरमामन्त्रितं यत्तस्य एकश्रुतेरनुदात्तस्य च प्रतिषेध इष्यते ।
तदुभयमनेन क्रियते इति केचिदाहुः ।
प्लुतोदात्तः पुनरसिद्धत्वान्न प्रतिषिद्यते ।
अपरेषां दर्शनम्, अनन्तिके इत्यनेन यन्न दूरं न सन्निकृष्टं तत्परिगृह्यते, तेन अस्मिन्नेकद्श्रुतेः प्राप्तिरेव न अस्ति, प्लुतोदात्तोऽपि नोदाहर्तव्यः इति ॥





यद्धितुपरं छन्दसि ॥ ८,१.५६ ॥


_____ काशिकावृत्तिः८,१.५६:

आमन्त्रितमित्येतदस्वरितत्वान्नानुवर्तते ।
तिङिति वर्तते एव ।
यत्परं, हिपरं, तुपरं च तिङन्तं छन्दसि नानुदात्तं भवति ।
यत्परं तावत् गवां गोत्रमुदसृजो यदङ्गिरः ।
हिपरम् इन्दवो वामुशन्ति हि तुपरम् आख्यास्यामि तु ते ।
निपातैर्यद्यदिहन्त इति, हि च (*८,१.३४) इति, तुपश्यपश्यताहैः इति च निघातप्रतिषेधे सिद्धे वचनमिदं नियमार्थम्, एभिरेव परैर्योगे प्रतिषेधो भवति, नान्यैः इति ।
इह न भवति, जाये स्वो रोहावैहि ।
एहि इत्यनेन गत्यर्थलोटा युक्तस्य रोहाव इत्यस्य लोडन्तस्य हिघातो भवत्येव ॥




चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः ॥ ८,१.५७ ॥


_____ काशिकावृत्तिः८,१.५७:

चन चिदिव गोत्रादि तद्धित आम्रेडित इत्येतेषु परतः अगतेः उत्तरं तिङन्तं नानुदात्तं भवति ।
चन देवदत्तः पचति चन ।
चित् देवदत्तः पचति चित् ।
इव देवदत्तः पचतीव ।
गोत्रादि देवदत्तः पचति गोत्रम् ।
देवदत्तः पचति ब्रुवम् ।
देवदत्तः पचति प्रवचनम् ।
इह अपि गोत्रादयः कुत्सनाभिक्ष्ण्ययोः एव गृह्यन्ते ।
तद्धित देवदत्तः पचतिकल्पम् ।
देवदत्तः पचतिरूपम् ।
अनुदात्तः तद्धित इह उदाहरणम्, अन्यत्र तद्धितस्वरेण तिङ्स्वरो बाध्यते, पचतिदेश्यः ।
आम्रेडित देवदत्तः पचति पचति ।
अगतेः इति किम् ? देवदत्तः प्रपचति चन ।
अत्र अगतिग्रहणे, सगतिरपि तिङित्यत्र च उपसर्गग्रहणं द्रष्टव्यम् ।
इह मा भूत्, शुक्लीकरोति चन ।
यत्काष्ठं शुक्ली करोति ।
यत्काष्ठं कृष्णीकरोति ॥





चादिषु च ॥ ८,१.५८ ॥


_____ काशिकावृत्तिः८,१.५८:

चादिषु च परतः तिङन्तमगतेः परं नानुदात्तं भवति ।
चादयः न चवाहाहैवयुक्ते (*८,१.२४) इत्यत्र ये निर्दिष्टाः, ते इह परिगृह्यन्ते ।
चशब्दे तावत् देवदत्तः पचति च खादति च ।
वा देवदत्तः पचति वा खादति वा ।
ह देवदत्तः पचति ह खादति ह ।
अह देवदत्तः पचत्यह खादत्यह ।
एव देवदत्तः पचत्येव खादत्येव ।
अगतेरित्येव, देवदत्तः प्रपचति च प्रखादति च प्रखादति च ।
प्रथमस्यात्र तिङन्तस्य चवायोगे प्रथमा इति निघातः प्रतिषिद्यते एव, परं तु निहन्यते ॥





[॰८९९]

चवायोगे प्रथमा ॥ ८,१.५९ ॥


_____ काशिकावृत्तिः८,१.५९:

अगतेः इति पूर्वसूत्रे च अनुकृष्टमित्यत्र नानुवर्तते ।
च, वा इत्येताभ्यां योगे प्रथमा तिङविभक्तिर्नानुदात्ता भवति ।
गर्दर्भाश्च कालयति, वीणां च वादयति ।
गर्दभान् वा कालयति, वीणां वा वादयति ।
योगग्रहणं पूर्वाभ्यामपि योगे निघातप्रतिषेधो यथा स्यातिति ।
प्रथमाग्रहणं द्वितीयादेः तिङन्तस्य मा भूतिति ।
चवायोगो हि द्विसमुच्चये विकल्पे च सति भवति, स च अनेकस्य धर्म इति ॥





हेति क्षियायाम् ॥ ८,१.६० ॥


_____ काशिकावृत्तिः८,१.६०:

ह इत्यनेन युक्ता प्रथमा तिङ्विभक्तिः नानुदात्ता भवति क्षियायां गम्यमानायाम् ।
क्षिया धर्मव्यतिक्रमः, आचारभेदः ।
स्वयं ह रथेन याति ३, उपाध्यायं पदातिं गमयति ।
स्वयं ह ओदनं भुङ्क्ते ३, उपाध्यायं सक्तून् पाययति ।
प्रथमस्य तिङन्तस्य अत्र निघातः प्रतिषिध्यते ।
क्षियाशीःप्रैषेषु तिङाकाङ्क्षम् (*८,२.१०४) इति च प्लुतो भवति ॥





अह+इति विनियोगे च ॥ ८,१.६१ ॥


_____ काशिकावृत्तिः८,१.६१:

अह इत्यनेन युक्ता प्रथमा तिङ्विभ्क्तिर्नानुदात्ता भवति विनियोगे गम्यमाने, चशब्दाद्क्षियायां च ।
नानाप्रयोजनो नियोगो विनियोगः ।
त्वमह ग्रामं गच्छ ।
त्वमह अरण्यं गच्छ ।
क्षियायाम् स्वयमह रथेन याति ३, उपाध्यायं पदातिं गमयति ।
स्वयमह ओदनं भुङ्क्ते ३, उपाध्यायं सक्तून् पाययति ।
पूर्ववन्निघातप्रतिषेधः, प्लुतश्च ॥





चाहलोप एव+इत्यवधारणम् ॥ ८,१.६२ ॥


_____ काशिकावृत्तिः८,१.६२:

चलोपे अहलोपे प्रथमा तिङ्विभक्तिः नानुदात्ता भवति ।
एव इति एतच्चेदवधारणार्थं प्रयुज्यते, क्व च अस्य लोपः ? यत्र गम्यते चार्थः, न च प्रयुज्यते, तत्र लोपः ।
तत्र चशब्दः समुच्चयार्थः, आहशब्दः केवलार्थः इति समानकर्तृके चलोपः, नानाकर्तृके अहलोपः ।
चलोपे देवदत्त एव ग्रामं गच्छतु, स देवदत्त एवारण्यं गच्छतु ।
ग्रामं चारण्यं च गच्छतु इत्यर्थः ।
अहलोपे देवदत्त एव ग्रामं गच्छतु, यज्ञदत्त एवारण्यं गच्छतु ।
ग्रामं केवलम्, अरण्यं देवलमित्यर्थः ।
अवधारणमिति किम् ? देवदत्तः क्वेव भोक्ष्यते ।
अनवक्लृप्तावयमेवशब्दः ।
न क्व चिद्भोक्ष्यते इत्यर्थः ।
एवे चानियोगे इति पररूपम् ॥





चदिलोपे विभाषा ॥ ८,१.६३ ॥


_____ काशिकावृत्तिः८,१.६३:

चादयः, न चवाहाहैवयुक्ते (*८,१.२४) इति सूत्रनिर्दिष्टा गृह्यन्ते ।
तेषां लोपे प्रथमा तिङ्विभक्तिः नानुदात्ता भवति विभाषा ।

[॰९००]

चलोपे शुक्ला व्रीहयो भवन्ति, भवन्ति, अवेता गा आज्याय दुहन्ति ।
भवन्ति इत्येतद्विकल्पेन न निहन्यते ।
वालोपे व्रीहिभिर्यजेत, यजेत, यवैर्यजेत ।
एवं शेषेष्वपि यथादर्शनमुदाहार्यम् ॥





वैवाव+इति च च्छन्दसि ॥ ८,१.६४ ॥


_____ काशिकावृत्तिः८,१.६४:

वै वाव इत्येताभ्यां युक्ता प्रथमा तिङ्विभक्तिः विभाषा नानुदात्ता भवति छन्दसि विषये ।
अहर्वै देवानामासीद्रात्रिरसुराणाम् ।
बृहस्पतिर्वै देवानां पुरोहित आसीच्छण्डामर्कावसुराणाम् ।
वाव अथं वाव हस्त आसीत्, नेतर आसीत् ॥




एकान्याभ्यां समर्थाभ्याम् ॥ ८,१.६५ ॥


_____ काशिकावृत्तिः८,१.६५:

एक अन्य इत्येताभ्यां समर्थाभ्यां युक्ता प्रथमा तिङ्विभक्तिः विभाषा नानुदात्ता भवति छन्दसि विषये ।
प्रजामेका जिन्वत्यूर्जमेका राष्ट्रमेका रक्षति देवयूनाम् ।
जिन्वति इत्येतत्पक्षे न निहन्यते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभि चाकशीति ।
अत्ति इत्येतत्पक्षे न निहन्यते ।
समर्थाभ्यामिति किम् ? एको देवानुपातिष्ठत् ।
एक इति सङ्ख्यापदमेतत्, अन्यार्थे न वर्तते ।
एकशब्दस्य व्यवस्थार्थं च समर्थग्रहणम्, व्यभिचारित्वात्तस्य ॥





यद्वृत्तान्नित्यम् ॥ ८,१.६६ ॥


_____ काशिकावृत्तिः८,१.६६:

प्रथमा, छन्दसि इति निवृत्तम् ।
निघातप्रतिषेध इत्येव ।
यदो वृत्तं यद्वृत्तम् ।
यत्र पदे यच्छब्दो वर्तते तत्सर्वं यद्वृत्तम् ।
इह वृत्तग्रहणेन तद्विभक्त्यन्तं प्रतीयात् ।
डतरडतमौ च प्रत्ययौ इत्येतन्न अश्रीयते ।
तस्माद्यद्वृत्तादुत्तरं तिङन्तं नानुदात्तं भवति नित्यम् ।
यो भुङ्क्ते ।
यं भोजयति ।
येन भुङ्क्ते ।
यस्मै ददाति ।
यत्कामास्ते जुहुमः ।
यद्रियङ्वायुर्वाति यद्वायुः पवते ।
पञ्चमीनिर्देशेऽप्यत्र व्यवहिते कार्यमिष्यते ।
याथाकाम्ये वेति वक्तव्यम् ।
यत्र क्वचन यजन्ते ॥





[॰९०१]

पूजनात्पूजितमनुदात्तं काष्ठादिभ्यः ॥ ८,१.६७ ॥


_____ काशिकावृत्तिः८,१.६७:

पूजनेभ्यः काष्ठादिभ्यः उत्तरपदं पूजितमनुदात्तं भवति ।
काष्ठ काष्ठाध्यापकः ।
काष्ठाभिरूपकः ।
दारुण दारुणाध्यापकः ।
दारुणाभिरूपकः ।
अमातापुत्र अमातापुत्राध्यापकः ।
अयुत अयुताभिरूपकः ।
अयुताध्यापकः ।
अद्भुत अद्भुताध्यापकः ।
अनुक्त अनुक्ताध्यापकः ।
भृश भृशाध्यापकः ।
घोर घोराध्यापकः ।
परम परमाध्यापकः ।
सु स्वध्यापकः ।
अति अत्यध्यापकः ।
मलोपश्च ।
इति वार्तिककारमतम् ।
मयूरव्यंसकादित्वात्समासः ।
समासे च+एतदनुदात्तत्वम् ।
समासान्तोदात्तत्वापवाद इष्यते ।
दारुणमध्यापकः इत्येवमादिषु न भवति ।
मलोपश्च इत्यनेन अप्ययमेव विषय आख्यायते, यत्र विभक्तेरभावात्मकारो न श्रूयते तत्र औदात्तत्वमिति ।
असमासे हि मलोपो न+एव+इष्यते ।
दारुणंधीते दारुणमध्यायकः इति ।
पूजनातित्येव पूजितपरिग्रहे सिद्धे पूजितग्रहणमनन्तरपूजितप्रतिपत्त्यर्थं ।
एतदेव ज्ञापकमिह प्रकरणे पञ्चमीनिर्देशेऽपि नानन्तर्यमाश्रीयते इति ।
तथा च यद्वृत्तान्नित्यम् (*८,१.६६) इत्यत्र उदाहृतम् ।
अनुदात्तमिति वर्तमाने पुनरनुदात्तग्रहणं प्रतिषेधनिवृत्त्यर्थम् ॥





सगतिरपि तिङ् ॥ ८,१.६८ ॥


_____ काशिकावृत्तिः८,१.६८:

सगतिरगतिरपि पूजनेभ्यः काष्ठादिभ्यः परं पूजितं तिङन्तमनुदात्तं भवति ।
यत्काष्ठं पचति ।
यत्काष्ठं प्रपचति ।
यद्दारुणं पचति ।
यद्दारुणं प्रपचति ।
तिङ्ङतिङः (*८,१.२८) इति निघातस्य, निपातैर्यद्यदिहन्त इति प्रतिषेधे प्राप्ते पुनर्विधानम् ।
सगतिग्रहणाच्च गतिरपि निहन्यते ।
गतिग्रहणे च अत्र उपसर्गग्रहणमिष्यते ।
इह न भवति, यत्काष्ठं शुक्लीकरोति ।
यत्काष्ठं कृष्णीकरोति ॥





कुत्सने च सुप्यगोत्रादौ ॥ ८,१.६९ ॥


_____ काशिकावृत्तिः८,१.६९:

पदातिति निवृत्तम् ।
सगतिरपि तिङिति वर्तते ।
कुत्सने च सुबन्ते गोत्रादिवर्जिते परतः सगतिरपि तिङगतिरपि अनुदात्तो भवति ।
पचति पूति ।
प्रपचति पूति ।
पचति मिथ्या ।
प्रपचति मिथ्या ।
कुत्सने इति किम् ? पचति शोभनम् ।
सुपि इति किम् ? पचति क्लिश्नाति ।
अगोत्रादौ इति किम् ? पचति गोत्रम् ।
पचति ब्रुवम् ।
पचति प्रवचनम् ।
क्रियाकुत्सन इति वक्तव्यम् ।
कर्तुः कुत्सने मा भूत्, पचति पूतिर्देवदत्तः ।
प्रपचतिपूतिः ।
पूतिश्चानुबन्धो भवति इति वक्तव्यम् ।
तेन अयं चकारानुबन्धकत्वादन्तोदात्तो भवति ।

[॰९०२]

विभाषितं च अपि बह्वर्थमनुदात्तं भवति इति वक्तव्यम् ।
पचन्ति पूतिः, पचन्ति पूतिः ।
प्रपचन्ति पूतिः, प्रपचन्ति पूतिः ।
सुपि कुत्सने क्रियाया मलोप इष्टोऽतिङि इति चोक्तार्थम् ।
पूतिश्च चानुबन्धो विभाषितं च अपि बह्वर्थम् ॥





गतिर्गतौ ॥ ८,१.७० ॥


_____ काशिकावृत्तिः८,१.७०:

गतिः गतौ परतः अनुदात्तो भवति ।
अभ्युद्धरति ।
समुदानयति ।
अभिसम्पर्याहरति ।
गतिः इति किम् ? देवदत्तः प्रपचति ।
गतौ इति किम् ? आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः ।
याहि इत्येतत्प्रति क्रियायोगादाङित्येष गतिः, तस्य गतौ इत्येतस्मिन्न सति गतिः इत्यनाश्रितपरनिमित्तकमनुदात्तत्वं स्यात् ॥





तिङि च+उदात्तवति ॥ ८,१.७१ ॥


_____ काशिकावृत्तिः८,१.७१:

गतिः इति वर्तते ।
तिङन्ते उदात्तवति परतो गतिरनुदात्तो भवति ।
यत्प्रपचति ।
यत्प्रकरोति ।
तिङ्ग्रहणमुदात्तवतः परिमाणार्थम् ।
अन्यथा हि यं प्रति गतिः, तत्रानुदात्तो भवति इति धातौ एव उदात्तवति स्यात्, प्रत्यये न स्यात्यत्प्रकरोति इति ।
यत्क्रियाप्रयुक्ताः प्रादयस्तेषां तं प्रति गत्युपसर्गसञ्ज्ञे भवतः इति तिङन्ते धातुमेव प्रति गतिसञ्ज्ञा ।
आमन्ते तर्हि न प्राप्नोति, प्रपचतितराम्, प्रपचतितमामिति ? अत्र केचिदामन्तेन गतः समासं कुर्वन्ति ।
तेषामव्ययपूर्वपदप्रकृतिस्वरत्वे सत्यक्रियमाणेऽपि तिङ्ग्रहणे परमनुदात्तवद्भवति इति गतिनिघातो नैव सिध्यति ।
अथ तरबन्तस्य्गतिसमासः ? एवमपि सतिशिष्टत्वादाम एव स्वरे सति गतेः अनुदात्तं पदमेकवर्जम् (*६,१.१५८) इत्येवानुदात्तत्वं सिद्धम् ।
येषां गतिकारकोपपदानां कृद्भिः समासवचनं प्राक्सुबुत्पत्तेः इत्यनेन वचनेन कृदन्तेन+एव प्राक्सुबुत्पत्तेः समासो भवति, न अन्येन, इति दर्शनम्, तेषामेवंविधे विषयेसमासेन न+एव भवितव्यमिति ।
पृथक्स्वरप्रवृत्तौ सत्यामनेन निघातेन प्रयोजनमस्ति ।
तदर्थं यत्नः कर्तव्यः ।
उदात्तवति इति किम् ? प्रपचति ।
प्रकरोति ॥





आमन्त्रितं पूर्वमविद्यमानवत् ॥ ८,१.७२ ॥


_____ काशिकावृत्तिः८,१.७२:

आमन्त्रितं पूर्वमविद्यमानवद्भवति, तस्मिन् सति यत्कार्यं तन भवति, असति यत्तद्भवति ।
कानि पुनरविद्यमानवत्त्वे प्रयोजनानि ।
आमन्त्रिततिङ्निघातयुष्मदस्मदादेशाभावाः ।
देवदत्त, यज्ञदत्त इत्यत्र आमन्त्रितस्य पदात्परस्य इति निघातो न भवति ।
षष्टिकामन्त्रिताद्युदात्तत्वं भवति ।
देवदत्त पचसि इत्यत्र तिङ्ङन्तिङः (*८,१.२८) इति निघातो न भवति ।
देवदत्त तव ग्रामः स्वम्, देवदत्त मम ग्रामः स्वमित्येवमादिसु युष्मदस्मदादेशा न भवन्ति ।

[॰९०३]

पूजायामनन्तरप्रतिषेधः प्रयोजनम् ।
यावद्देवदत्त पचसि इत्यत्र अपि पूजायां नानन्तरमित्येव प्रतिषेधो भवति ।
जात्वपूर्वम् (*८,१.४७) तियेतत्, देवदत्त जातु पचसि इत्यत्र अपि भवति ।
आहो उताहो चानन्तरम् (*८,१.४९) इति, आहो देवदत्त पचसि, उताहो देवदत्त पचसि इत्यत्र अपि भवति ।
आम एकान्तरमामन्त्रितमनन्तिके (*८,१.५५) इति, आं भो पचसि देवदत्त इत्यत्र अपि भवति ।
आमन्त्रितमिति किम् ? देवदत्तः पचति ।
पूर्वमिति किम् ? देवदत्त इत्येतस्य आमन्त्रिताद्युदात्तत्वे कर्तव्ये न अविद्यमानवद्भवति ।
पूर्वत्वं च परापेक्षं भवति इति परस्य+एव कार्ये स्वनिमित्तेऽन्यनिमित्ते वा तदविद्यमानवद्भवति, न तु स्वकार्ये ।
देवदत्त पचसि इत्यत्र अपि हि आमन्त्रिताद्युदात्तत्वं भवत्येव ।
इह इमं मे गङ्गे यमुने सरस्वति इति गङ्गेशब्दः पूर्वमानन्त्रितम्, ततः परस्य यमुनेशब्दस्य अनुदात्तत्वे कर्तव्ये स्वयमविद्यमानवत्त्वान्निमित्तं न भवति ।
मेशब्दस्य निमित्तभावं न प्रतिबध्नाति ॥





न आमन्त्रिते समानाधिकरणे सामान्यवचनम् ॥ ८,१.७३ ॥


_____ काशिकावृत्तिः८,१.७३:

अविद्यमानवत्त्वस्य प्रतिषेधः आमन्त्रितान्ते समानाधिकरने परतः पूर्वमामन्त्रितान्तं सामान्यवचनं न अविद्यमानवद्भवति ।
किं तर्हि ? विद्यमानवदेव ।
अग्ने गृहपते ।
माणवक जटिलकाध्यापक ।
पूर्वस्य विद्यमानवत्त्वात्परमनुदात्तमेव भवति ।
आमन्त्रिते इति किम् ? देवदत्त पचसि ।
समानाधिकरने इति किम् ? देवदत्त पण्डित यज्ञदत्त ।
अत्र यज्ञदत्तविशेषनं पण्डितशब्दः, न पूर्वेण समानाधिकरनः ।
सामान्यवचनमिति किम् ? पर्यायेषु मा भूत्, अध्न्ये, देवि, सरस्वति, ईडे, काव्ये, विहव्ये ।
पर्यायशब्दा एते ।
एवं हि उक्तम्, एता ते अघ्न्ये नामानि इति ॥





विभाषितं विशेषवचने बहुवचनम् ॥ ८,१.७४ ॥


_____ काशिकावृत्तिः८,१.७४:

पूर्वेण विद्यमानवत्त्वे प्रतिषेद्धे विकल्प उच्यते ।
विशेषवचने समानाधिकरने आमन्त्रितान्ते परतः पूर्वमामन्त्रितं बहुवचनान्तं विभाषितमविद्यमानवद्भवति ।
देवाः शरण्याः, देवाः शरण्याः ।
ब्राहमणा वैयाकरणाः, ब्राह्मणाः वैयाकरणाः ।
सामान्यवचनाधिकारदेव विशेषवचने इति सिद्धे विशेषवचनग्रहणं विस्पष्टार्थम् ।
भुवचनमिति किम् ? माणवक जटिलक ।
नित्यमेतद्विद्यमानवदेव ॥
इति वामनकाशिकायां वृत्तौ अष्टमस्य अध्यायस्य प्रथमः पादः ॥




अष्टमाध्यायस्य द्वितीयः पादः ।





[॰९०४]

पूर्वत्र असिद्धम् ॥ ८,२.१ ॥


_____ काशिकावृत्तिः८,२.१:

पूर्वत्र असिद्धमित्यधिकारोऽयमा अध्यायपरिसमाप्तेः ।
यदित ऊर्ध्वमनुक्रमिष्यामः पूर्वत्र असिद्धमित्येवं तद्वेदितव्यम् ।
तत्र येयं सपादसप्ताध्यायी अनुक्रान्ता, एतस्यामयं पादोनोऽध्यायोऽसिद्धो भवति ।
इत उत्तरं च उत्तर उत्तरो योगः पूर्वत्र पूर्वत्र असिद्धो भवति असिद्धवद्भवति ।
सिद्धकार्यं न करोति इत्यर्थः ।
तदेतदसिद्धत्ववचनमादेशलक्षणप्रतिषेधार्थम्, उत्सर्गलक्षणभावार्थं च ।
अस्मा उद्धर, द्वा अत्र, द्वा आनय, असा आदित्यः इत्यत्र व्यलोपस्य शसिद्धत्वात्, आद्गुणः (*६,१.८७) इति, अकः सवर्णे दीर्घः (*६,१.१०१) इति च न भवति ।
अमुष्मै, अमुष्मात्, अमुष्मिनिति उत्वस्य असिद्धत्वात्स्मायादयो भवन्ति ।
शुष्किका शुष्कजङ्घा च क्षामिमानौजढत्तथा ।
मतोर्वत्त्वे झलां जश्त्वे गुडलिण्मान्निदर्शनम् ॥
शुष्किका इत्यत्र शुषः कः (*८,२.५१) इत्यस्य असिद्धत्वादुदीचामातः स्थाने यकपूर्वायाः (*७,३.४६) इत्येतन्न भवति ।
शुष्कजङ्घा इति न कोपधायाः (*६,३.३७) इति पुंवद्भावप्रतिषेधो न भवति ।
क्षामिमानिति क्षामस्य अपत्यं क्षामिः, क्षामो वा अस्य अस्ति इति क्षामी, क्षामिः क्षामी वा यस्य अस्ति इति क्षामिमान् ।
क्षायो मः इत्यस्य असिद्धत्वान्मादुपधायाश्च इति वत्वं न भवति ।
औजढतिति वहेर्निष्ठायामूढः, तमाख्यतिति णिच्, तदन्ताल्लुङ्, चङि (*६,१.११) इति द्विर्वचने कर्तव्ये ढत्वधत्वष्टुत्वढलोपानामसिद्धत्वाण्णौ च यः टिलोपः, तस्य स्थानिवद्भावात्थ इत्येतद्द्विरुच्यते ।
अनग्लोपे इति प्रतिषेधात्सन्वदित्त्वं न अस्ति, तेन औजढतिति भवति ।
औजिढतित्येतत्तु क्तिन्नन्तस्य उढिशब्दस्य भवति ।
गुडलिण्मानिति गुडलिहोऽस्य सन्ति इति मतुप्, तत्र ढत्वजश्त्वयोरसिद्धत्वात्झयः (*८,२.१०) इति वत्वं न भवति ।

[॰९०५]
येऽत्र षष्थीनिर्देशाः, सप्तमीनिर्देशाः, पञ्चमीनिर्देशाश्च, तेषां षष्ठी स्थानेयोगा (*१,१.४९), तस्मिन्निति निर्दिष्टे पूर्वस्य (*१,१.६०), तस्मादित्युत्तरस्य इति च कर्तव्ये न असिद्धत्व भवति, कार्यकालं हि सञ्ज्ञापरिभाषमिति पूर्वत्वमासां परिभाषाणां न अस्ति इति ।
विप्रतिषेधे परमित्येषा च परिभाषा येन पूर्वेण लक्षणेन सह स्पर्धते, परं लक्षणं तत्प्रति तस्य असिद्धत्वान्न प्रवर्तते ।
तथा च विस्फोर्यम्, अगोर्यमिति गुणः परेण हलि च (*८,२.७७) इति दीर्घत्वेन न बाध्यते ।
अपवादस्य तु परस्य अपि उत्सर्गे कर्तव्ये वचनप्रामण्यादसिद्धत्वं न भवति ।
तेन दोग्धा, दोग्धुमित्यत्र घत्वस्य असिद्धत्वाधो ढः (*८,२.३१) इति न भवति ॥





नलोपः सुप्स्वरसञ्ज्ञातुग्विधिषु कृति ॥ ८,२.२ ॥


_____ काशिकावृत्तिः८,२.२:

नलोपः पूर्वत्र असिद्धो भवति सुब्विधौ, स्वरविधौ, सज्ञाविधौ, तुग्विधौ च कृति ।
विधिशब्दोऽयं प्रत्येकमभिसम्बध्यमानः स्वरसञ्ज्ञातुकां विधेयत्वात्तैः कर्मषष्ठीयुक्तैः भावसाधनोऽभिसम्बध्यते ।
सुपा तु सम्बन्धसामान्यवचनषष्ठ्यन्तेन कर्मसाधनः ।
तेन सुपः स्थाने यो विधिः, सुपि च परभूते, सर्वोऽसौ सुब्विधिः इति सर्वत्रासिद्धत्वं भवति ।
सुब्विधौ तावत्राजभिः, तक्षभिः इत्यत्र नलोपस्य असिद्धत्वाततो भिस ऐस्(*७,१.९) इति न भवति ।
राजभ्याम्, तक्षभ्याम्, राजसु, तक्षसु इति सुपि च (*७,३.१०२) इति, बहुवचने झल्येत्(*७,३.१०३) इति दीर्घत्वमेत्वं च न भवति ।
स्वरविधौ राजवती इत्यत्र नलोपस्य असिद्धत्वातन्तोऽवत्याः (*६,१.२२०) इति न भवति ।
पञ्चार्मम्, दशार्मम्, इत्यत्र नलोपस्य असिद्धत्वातर्मे चावर्णं द्व्यच्त्र्यच्(*६,२.९०) इति पूर्वपदस्य आद्युदात्तत्वं न भवति ।
पञ्चदण्डी इत्यत्र नलोपस्य असिद्धत्वादिगन्ते द्विगौ इति पूर्वपदप्रकृतिस्वरो न भवति ।
सञ्ज्ञाविधौ पञ्च ब्राह्मण्यः, दश ब्राह्मण्यः इति नलोपस्य असिद्धत्वात्ष्णान्ता षट्(*१,१.२४) इति षट्सञ्ज्ञा भवति, ततश्च न षट्स्वस्रादिभ्यः (*४,१.१०) इति टापः प्रतिषेधो भवति ।
तदेतत्प्रयोजनं कथं भवति ? यदि प्रतिकार्यं सञ्ज्ञाप्रवृत्तिः इत्येतद्दर्शनम् ।
या हि जश्शसोर्लुगर्था षट्सञ्ज्ञा प्रवृत्ता, तया स्त्रीप्रत्ययप्रतिषेधो न क्रियते इति सा पुनः प्रवर्तयितव्या इति ।
तुग्विधौ वृत्रहभ्याम्, वृत्रहभिः इति नलोपस्य असिद्धत्वाथ्रस्वस्य पिति कृति तुक्(*६,१.७१) इति तुग्न भवति ।
अत्र केचित्सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति तुकं प्रति नलोपस्य अनिमित्तत्वात्, बहिरङ्गलक्षणेन वा असिद्धत्वात्, तुग्विधिग्रहणमनर्थकमिति प्रतिपन्नाः ।
तत्तु क्रियते परिभाषद्वयस्य अनित्यत्वं ज्ञापयितुम् ।

[॰९०६]

कृति इति किम् ? वृत्रहच्छत्रम्, वृत्रहच्छाया, छे च (*६,१.७३) इति तुग्भवति ।
अत्र सिद्धे सत्यारम्भो नियमार्थः, एतेष्वेव नलोपो असिद्धो भवति, न अन्यत्र ।
तेन राजीयति, राजायते, राजाश्वः इति ईत्वम्, दीर्घत्वम्, एकदेशश्च सिद्धो भवति ॥





न मु ने ॥ ८,२.३ ॥


_____ काशिकावृत्तिः८,२.३:

मुभावो नाभावे कर्तव्ये न असिद्धो भवति ।
किं तर्हि ? सिद्ध एव ।
अमुना ।
मुभावस्य असिद्धत्वात्घिलक्षणो नाभावो न स्यात् ।
कृते तु नाभावे मुभावस्य असिद्धत्वात्, सुपि च (*७,३.१०२) इति दीर्घत्वं यत्प्राप्नोति, तत्सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति न भवति ।
अथवा योगद्वयमिदमुभयार्थं तन्त्रेण+उच्चारितम् ।
अथ वा ने परतो यत्प्राप्नोति तस्मिन् कर्तव्ये मुभावो न असिद्धः इत्येष एव अत्र सूत्रार्थः ।
ने तु कर्तव्ये मुभावस्य यत्सिद्धत्वं तदर्थात्सङ्गृहीतम् ।
तेन अत्र मुभावस्य सिद्धत्वात्नाभावश्च भवति, दीर्घत्वं च न भवति ।
एकादेशस्वरोऽन्तरङ्गः सिद्धो वक्तव्यः ।
किं प्रयोजनम् ? अयायावेकादेशशतृस्वरैकाननुदात्तसर्वानुदात्तार्थम् ।
वृक्ष इदम्, प्लक्ष इदम् ।
अत्र प्रातिपदिकान्तसप्तम्येकवचनयोरुदात्तानुदात्तयोरेकादेशः ।
स एकादेशस्वरोऽन्तरङ्गः सिद्धो वक्तव्यः ।
किं प्रयोजनम् ? अयायावेकादेशशतृस्वरैकाननुदत्तसर्वानुदात्तार्थम् ।
वृक्ष इदम्, प्लक्ष इदम् ।
अत्र प्रातिपदिकान्तसप्तम्येकवचनयोरुदात्तानुदात्तयोरेकादेशः ।
स एकादेश उदात्तेन+उदात्तः (*८,२.५) इत्युदात्तः ।
तस्य ? सिद्धत्वं वक्तव्यम् ।
आन्तर्यतः अयादेशः उदात्तो यथा स्यात् ।
आय् कुमार्या इदम् ।
कथमिदमुदाहरणं यदि उदात्तयणो हल्पूर्वात्(*६,१.१७४) इत्युदात्तत्वे कृते विभक्तेः आटश्च (*६,१.९०) एकादेशः, तदा भवति इदमुदाहरणम् ।
अथ तु कृते एकादेशे उदात्तयणो हल्पूर्वात्(*६,१.१७४) इति स्वरः, तदा न+एतदस्य प्रयोजनं भवति ।
आव् वृक्षाविदम् ।
प्लक्षाविदम् ।
एकादेशः स्वरः गाङ्गेऽनूप इति गाङ्गेशब्दे एकारः एकादेश उदात्तेन+उदात्तः (*८,२.५) इति उदात्तः ।
तस्य सिद्धत्वात्य पुनः एङः पदान्तादति (*६,१.१०९) इति एकादेशः स एकादेश उदात्तेन+उदात्तः (*८,२.५) इति, अत स्वरितो वाऽनुदात्ते पदादौ (*८,२.६) इत्येतद्भवति ।
शतृस्वरः तुदती ।
नुदती ।
अदुपदेशातिति लसार्वधातुकानुदत्तत्वे कृते एकादेशः, तदुदात्तस्य सिद्धत्वात्शतुरनुमो नद्यजादी (*६,१.१७३) अन्तोदात्तातित्येष स्वरो भवति ।
अनुम इति प्रतिषेधो ज्ञापकः, एकादेशस्वरः शतृस्वरे सिद्धः इति ।
नहि सनुंकं शत्रन्तं शत्रन्तं किञ्चिदेकादेशस्वरमन्तरेण अन्तोदात्तमस्ति ।
एकाननुदात्तः तुदन्ति ।
लिखन्ति ।
एकदेशस्वरस्य सिद्धत्वात्तेन अनुदात्तं पदमेकवर्जम् (*६,१.१५८) इति वर्ज्यमानता भवति ।
सर्वानुदात्तः ब्राह्मणास्तुदन्ति ।
ब्राह्मणाः लिखन्ति ।
एकादेशस्वरस्य सिद्धत्वात्कृते तस्मिन् तिङ्ङतिङः (*८,१.२७) इति निघातो भवति ।
अन्तरङ्ग इति वचनाद्बहिरङ्गस्य असिद्धत्वमेव, पचतीति, प्रपचतीति ।

[॰९०७]

संयोगान्तलोपो रोरुत्वे सिद्धो वक्तव्यः ।
किं प्रयोजनम् ? हरिवो मेदिनं त्वा ।
हरिवः इति मतुबन्तमेतत्, तत्र छन्दसीरः (*८,२.१५) इति वत्त्वे, संयोगान्तस्य लोपे च कृते, मतुवसो रु मम्बुद्धौ छन्दसि (*८,३.१) इति रुत्वम्, तस्य संयोगान्तस्य लोपस्य असिद्धत्वाथशि च (*६,१.११४) इति उत्वं न प्राप्नोति ।
सिज्लोप एकादेशे सिद्धो वक्तव्यः ।
अलावीत् ।
अपावीत् ।
इट ईटि (*८,२.२९) इति सिज्लोपस्य सिद्धत्वात्सवर्णदीर्घत्व भवति ।
निष्ठादेशः षत्वस्वरप्रत्ययेड्विधिषु सिद्द्ः वक्तव्यः ।
वृक्णः ।
वृक्णवान् ।
निष्ठादेशस्य सिद्धत्वात्झलि इति षत्वं न भवति ।
कुत्वं तु प्रति असिद्ध एव इति तद्भवति ।
स्वरप्रत्ययविधीड्विधिषु क्षीबशब्द उदाह्रियते ।
तत्र च निपातनमनेकधा समाश्रीयते ।
यदा क्षीबेर्निष्ठायामिटि कृते इत्शब्दलोपो निपात्यते, तदा क्षीबः इति सञ्ज्ञायामित्शब्दलोपस्य असिद्धत्वात्निष्ठा च द्व्यजनात्(*६,१.२०५) इत्येष स्वरो न प्राप्नोति, क्षीबेन तरति क्षीबिकः इति द्व्यजलक्षणष्ठन्न प्रप्नोति ।
यदा तु तकारलोपो निपात्यते, तदा तस्य असिद्धत्वातिडागमः प्राप्नोति ।
प्लुतविकारस्तुग्विधौ छे सिद्धो वक्तव्यः ।
अग्ना३इच्छत्रम् ।
पटा३उच्छत्रम् ।
प्लुतविकारस्य असिद्धत्वत्छे च (*६,१.७३) इति ह्रस्वलक्षणो नित्यस्तुग्न प्राप्नोति ।
श्चुत्वं धुटि सिद्धं वक्तव्यम् ।
श्च्युतिर्क्षरणे इत्ययं धातुः सकारादिः पठ्यते, तस्य श्चुत्वस्य असिद्धत्वातट्श्च्योतति, रट्श्च्योतति इति डः सि ढुट्(*८,३.२१) इति प्राप्नोति ।
अटति इति अड्, रटति इति रड्, क्विबन्तोऽयम् ।
किमर्थं पुनः सकारादिः पठ्यते ? इह मधु श्च्योतति इति मधुश्च्युत्, क्विबन्तः, मधुश्च्युतमाचष्टे इति णिच्, मधुश्च्ययति, मधुश्च्ययतेः पुनः क्विपि कृते संयोगादित्वात्सलोपः, संयोगान्तत्वाद्यलोपः, चकारस्य कुत्वम्, मधुगिति सिद्धम् ।

[॰९०८]

शकारादौ पुनरेतस्मिन् संयोगान्तलोपेन यकारचकारयोः लुप्तयोः शकारस्य षत्वे सति मधुडिति स्यात् ।
अभ्यासजश्त्वचर्त्वे एत्वतुकोः सिद्धे वक्तव्ये ।
बभणतुः ।
बभणुः ।
अभ्यासजश्त्वस्यासिद्धत्वातनादेशादेः इति एत्वं प्राप्नोति ।
छिदेः विचिच्छित्सति, उच्छेः उचिच्छिषति इति अभ्यासादेशस्य असिद्धत्वात्छे च (*६,१.७३) इति तुक्न प्राप्नोति ।
द्विर्वचने परसवर्नवं सिद्धं वक्तव्यम् ।
सय्ं य्ं यन्ता, सव्ं व्ं, वत्सरः, यल्ं ल्ं, लोकम्, तल्ं ल्ं लोकमिति परसवर्णस्यासिद्धत्वाद्यरः इति द्विर्वचनं न स्यात् ।
पदाधिकारश्चेल्लत्वघत्वढत्वनत्वरुत्वषत्वणत्वानुनासिकछत्वानि सिद्धानि वक्तव्यानि ।
लत्वम् गलो हलः, गरो गरः ।
घत्वम् द्रोग्धा द्रोग्धा ।
ढत्वम् द्रोढा द्रोढा ।
नत्वम् नुन्नो नुन्नः, नुत्तो नुत्तः ।
रुत्वम् अभिनोऽभिनः, अभिनदभिनत् ।
षत्वम् मातुःष्वसा मातुःष्वसा, मातुःस्वसा मतुःस्वसा ।
पितुःष्वसा पितुःष्वसा, पितुःस्वसा पितुःस्वसा ।
णत्वम् माषवापाणि माषवापाणि, माषवापानि माशवापानि ।
अनुनासिकम् वाङ्नयनं बाङ्नयनम्, वाग्नयनं वाग्नयनम् ।
छत्वम् वक्च्छयनं वाक्च्छयनम्, वाक्शयनं वाक्शयनम् ।
लत्वादीनां विकल्पितानामसिद्धत्वात्कृते द्विर्वचने सत्युपरिष्टद्विकल्पे सिति गरो गलः, गलो गरः इत्येवं रूपमपि द्विरुक्तं स्यात् ।
तदेतत्सर्वं न मु ने इति योगविभागेन साध्यते ।
न इत्येतावदनिष्टे विषये पूर्वत्र असिद्धस्य प्रतिषेधार्थम् ।
ततो मु ने इति ।
नेत्येतदनुवर्तते ॥





उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य ॥ ८,२.४ ॥


_____ काशिकावृत्तिः८,२.४:

उदात्तयणः स्वरितयणश्च परस्य अनुदात्तस्य स्वरितः आदेशो भवति ।
उदात्तयणः कुमार्यौ ।
कुमार्यः ।
उदात्तनिवृत्तिस्वरेण अयमीकारः उदात्तः, तस्य स्थाने यणादेशः स उदात्तयण्, तस्मात्परस्य अनुदात्तस्य स्वरितः आदेशो भवति ।
स्वरितयणः सकृल्ल्व्याशा ।
खलप्व्याशा ।
सकृल्लूः, खलपूः इति कृत्स्वरेण अन्तोदातौ, तयोः रोः सुपि (*८,३.१६) इति यणादेशः, स उदात्तयण्, ततः परस्य सप्तम्येकवचनस्य स्वरितत्वम्, तस्य यणादेशः स्वरितयण्, तस्मात्स्वरितयणः परस्य आशाशब्दाकारस्य अनुदात्तस्य स्वरितो भवति ।
ननु च सप्तम्येकवचनस्य यदुदात्तयणः इति स्वरितत्वम्, तदसिद्धं यणादेशे, तत्कथमयं स्वरितयण्भवति ? आश्रयात्सिद्धत्वं भविष्यति ।

[॰९०९]

यदि एवम्, उदात्तादनुदात्तस्य स्वरितः (*८,४.६६) इत्येतस्य अपि आश्रयात्सिद्धत्वं प्राप्नोति, ततश्च दध्यशा इत्यत्र अपि स्वरितः स्यात्? तस्मादयमेव यण्स्वरो यणादेशे सिद्धो वक्तव्यः ।
केचित्तु ब्रुवते, उदात्तात्स्वरितयणोऽपि परस्य अनुदात्तस्य स्वरितत्वं दृश्यते ।
तथा च तैत्तिरीयके शाखान्तरे पठ्यते यास्ते विश्वाः समिधः सन्त्यग्ने इति ।
अग्ने इत्ययमकारः स्वरितः पठ्यते ।
तथा ब्राह्मणेऽपि दध्याशयति इत्याकारः स्वरितः पठ्यते इति ।
यथा तु वार्तिकं भाश्यं च, तथा उदात्तात्स्वरितयणः परस्य अनुदात्तस्य अनेन स्वरितत्वं न भवति इति स्थितम् ।
तथा च भाष्ये स्वरितयण्ग्रहणमिदं प्रत्याख्यायते ।
सकृल्ल्व्याशा इत्येवमादौ उदात्तयणः इत्येव स्वरितस्य सिद्धत्वात् ।
स्वरितयण्व्यवधानमव्यवधानमेव, स्वरिविधौ व्यञ्जनमविद्यमानवतिति ।
तत्तु क्रियते, पूर्वस्मादपि विधौ स्थानिवद्भावात्व्यवधानमस्ति, स्वरदीर्घयलोपेषु च लोपाजादेशस्य स्थानिवद्भावः प्रतिषिध्यते इति ।
उदात्तस्वरितयोः इति किम् ? वैदी आशा वैद्याशा ।
शार्ङ्गरव्याशा ।
अनुदात्तयणादेशोऽयम् ।
अनुदात्तस्य इति किम् ? कुमार्यत्र ।
किशोर्यत्र ।
अत्र इत्ययमाद्युदात्तो लित्स्वरेण ॥





एकादेश उदातेन+उदात्तः ॥ ८,२.५ ॥


_____ काशिकावृत्तिः८,२.५:

उदातेन सह अनुदात्तस्य य एकादेशः स उदात्तो भवति ।
अनुदात्तस्य इति वर्तते ।
अग्नी ।
वायू ।
वृक्षैः ।
प्लक्षै ।
उदात्तेन इति किम् ? पचन्ति ।
यजन्ति ।
लसार्वधातुकानुदात्तत्वे कृते द्वयोरनुदात्तयोः अयमेकादेशः, पररूपे कर्तव्ये स्वरितस्य असिद्धत्वात् ॥





स्वरितो वाऽनुदात्ते पदादौ ॥ ८,२.६ ॥


_____ काशिकावृत्तिः८,२.६:

अनुदात्ते पदादौ उदात्तेन सह य एकादेशः स स्वरितो वा भवति उदात्तो वा ।
सु उत्थितः सूत्थितः, सूत्थितः ।
वि ईक्षते वीक्षते, वीक्षते ।
वसुकः असि वसुकोऽसि, वसुकोऽसि ।
सूत्थितः इति सुशब्दः सुः पूजायाम् (*१,४.९४) इति कर्मप्रवचनीयः, तस्य प्रादित्वात्समासे सति अव्ययपूर्वप्रकृतिस्वरत्वेन आद्युदात्तः, शेषमनुदात्तमिति च अनुदात्ते पदादौ एकादेशो भवति ।
वीक्षते, वसुकोऽसि इत्यत्र अपि तिङ्ङतिङः (*८,१.२८) इति निघाते कृतेऽनुदात्ते पदादावेकादेशः ।

[॰९१०]

स्वरितग्रहणं विस्पष्टार्थम् ।
उदात्ते हि विकल्पिते तस्मिन्नसत्यान्तर्यत एव स्वरितो भविष्यति इति ।
अनुदात्ते इति किम् ? देवदत्तोऽत्र ।
पदादौ इति किम् ? वृक्षौ ।
वृक्षाः ॥





नलोपः प्रातिपदिकान्तस्य ॥ ८,२.७ ॥


_____ काशिकावृत्तिः८,२.७:

पदस्य इति वर्तते ।
प्रातिपदिकस्य पदस्य योऽन्त्यो नकारः तस्य लोपो भवति ।
राजा ।
राजभ्याम् ।
राजभिः ।
राजता ।
राजतरः ।
राजतमः ।
प्रातिपदिकग्रहणं किम् ? अहन्नहिम् ।
अन्तग्रहणं किम् ? राजानौ ।
राजानः ।
प्रातिपदिकग्रहणमसमस्तमेव सुपां सुलुकिति षष्ठ्या लुका निर्दिष्टम् ।
अह्नो नलोपप्रतिषेधो वक्तव्यः ।
अहः ।
अहोभ्याम् ।
अहोभिः ।
रोऽसुपि (*८,२.६९), अहन् (*७,२.६८) इति रेफरुत्वयोरसिद्धत्वात्नलोपः प्राप्नोति, सावकाशं तदुभयं सम्बुद्धौ, हेऽहः, हे दीर्घातो निदाघेति ? तत्र समाधिमाहुः ।
अहनिति रुविधौ यदुपादीयते प्रथमैकवचनान्तमकृतनलोपं तदावर्त्यते, तत्र एकया आवृत्त्या तदेवं रूपं नलोपाभावार्थमन्वाख्यायते, द्वितीययापि तस्य रुः विधीयते ॥





न ङिसम्बुद्ध्योः ॥ ८,२.८ ॥


_____ काशिकावृत्तिः८,२.८:

ङौ परतः सम्बुद्धौ च नकारलोपो न भवति ।
आर्द्रे चर्मन् ।
लोहिते चर्मन् ।
सुपां लुकिति ङेर्लुक् ।
सम्बुद्धौ हे राजन् ।
हे तक्षन् ।
एतस्मादेव नलोपप्रतिषेधवचनातप्रत्ययः इति प्रत्ययलक्षणेन प्रातिपदिकसञ्ज्ञा न प्रतिषिध्यते इति ज्ञाप्यते, भसञ्ज्ञा च न भवति इति ।
तथा च राज्ञः पुरुषः राजपुरुषः इत्यत्र नलोपश्च भवति, अल्लोपश्च न भवति ।
ङावुत्तरपदे प्रतिषेधस्य प्रतिषेधो वक्तव्यः ।
चर्मणि तिला अस्य चर्मतिलः ।
हे राजन् वृन्दारक इत्यत्र समुदायार्थसम्बोधनम्, न पूर्वपदार्थसम्बोधनं प्रतीयते इति सम्बुद्ध्यन्तं पूर्वपदं न+एव समस्यते ।
वा नपुंसकानामिति वक्तव्यम् ।
हे चर्मन्, हे चर्म ॥





[॰९११]

मादुपधायाश्च मतोर्वोऽयवादिभ्यः ॥ ८,२.९ ॥


_____ काशिकावृत्तिः८,२.९:

मतोः इह कार्यित्वेन उपादानात्सामर्थ्यलब्धं प्रातिपदिकं तत्मातिति मकारावर्णाभ्यां विशिष्यते ।
मकारावर्णविशिष्टया च उपधया इत्ययमर्थो भवति ।
मकारान्तात्मकारोपधातवर्णान्तादवर्णोपधात्च उत्तरस्य मतोः वः इत्ययमादेशो भवति, यवादिभ्यस्तु परतो न भवति ।
मकारान्तात्तावत्किंवान् ।
शंवान् ।
मकारोपधात् शमीवान् ।
दाडिमीवान् ।
अवर्णान्तात् वृक्षवान् ।
प्लक्षवान् ।
खट्वावान् ।
मालावान् ।
अवर्णोपधात् पयस्वान् ।
यशस्वान् ।
भास्वान् ।
मादुपधायाश्च इति किम् ? अग्निमात् ।
वायुमान् ।
अयवादिभ्यः इति किम् ? यवमान् ।
दल्मिमान् ।
ऊर्मिमान् ।
यव ।
दल्मि ।
ऊर्मि ।
भूमि ।
कृमि ।
क्रुञ्चा ।
वशा ।
द्राक्षा ।
एतेषां मादुपधायाश्च ।
इति प्राप्नोति ।
ध्रजि, ध्वजि, सञ्जि इत्येतेषां छन्दसीरः (*८,२.१५) इति ।
हरित्, ककुत्, गरुतित्येतेषां झयः (*८,२.१०) इति ।
इक्षु, मधु, द्रुम, मण्ड, धूम इत्येतेषां सञ्ज्ञायाम् (*८,२.११) इति ।
आकृतिगणश्च यवादिः ।
अकृतवत्त्वो मतुब्यवादिषु द्रष्टव्यः ।
यस्य सति निमित्ते मतुपो वत्त्वं न दृश्यते स यवादिषु द्रष्टव्यः इह नृमतः इदं नार्मतमिति बहिरङ्गलक्षणत्वातवर्णोपधस्य मतुपो वत्त्वं न भवति ॥




झयः ॥ ८,२.१० ॥


_____ काशिकावृत्तिः८,२.१०:

झयन्तादुत्तरस्य मतोः वः इत्ययमादेशो भवति ।
अग्निचित्वान् ग्रामः ।
विद्युत्वान् बलाहकः ।
इन्द्रो मरुत्वान् ।
दृषद्वान् देशः ॥





सञ्ज्ञायाम् ॥ ८,२.११ ॥


_____ काशिकावृत्तिः८,२.११:

सञ्ज्ञायां विषये मतोः वः इत्ययमादेशो भवति ।
अहीवती ।
कपीवती ।
ऋषीवती ।
मुनीवती ॥





[॰९१२]

आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मण्वती ॥ ८,२.१२ ॥


_____ काशिकावृत्तिः८,२.१२:

आसन्दीवतष्ठीवत्चक्रीवत्कक्षीवत्चर्मण्वती इत्येतानि सञ्ज्ञायां निपात्यन्ते ।
वत्त्वं पूर्वेण+एव सिद्धम्, आदेशाथानि निपातनानि ।
आसन्दीवतिति आसनशब्दस्य आसन्दीभावो निपात्यते ।
आसन्दीवान् ग्रामः ।
आसन्दीवदहिस्थलम् ।
आसनवानित्येव अन्यत्र ।
अपरे तु आहुः, आसन्दीशब्दोऽपि प्रकृत्यन्तरमेव अस्ति, तथा चोक्तम्, औदुम्बरी राजासन्दी भवति इति ।
तस्य सञ्ज्ञायाम् (*८,२.११) इति वत्त्वेन सिद्धम् ।
आसन्दीवतित्येत प्रपञ्चार्थमिह पठ्यते ।
अष्ठीवतिति अस्थ्नोऽष्ठीभावः ।
अष्ठीवानिति शरीरैकदेशसञ्ज्ञा ।
अस्थिमानित्येव अन्यत्र ।
चक्रीवतिति चक्रशब्दस्य चक्रीभावो निपात्यते ।
चक्रीवान् राजा ।
चक्रवानित्येव अन्यत्र ।
चक्रीवन्ति सदो हविर्धानानि भवन्ति इत्येतत्तु छान्दसत्वादनुगन्तव्यम् ।
कक्षीवतिति कक्ष्यायाः सम्प्रसारणं निपात्यते ।
कक्षीवान्नाम ऋषिः ।
कक्ष्यावानित्येव अन्यत्र ।
रुमण्वतिति लवणशब्दस्य रुमण्भावो निपात्यते ।
लवणवानित्येव अन्यत्र ।
अपरे तु आहुः, रुमनिति प्रकृत्यन्तरमस्ति, तस्य एतन्निपातनं नकारलोपाभावार्थम्, णत्वार्थं च ।
मतोर्वा नुडर्थमिति ।
चर्मण्वती इति चर्मणो नलोपाभावो णत्वं च निपात्यते ।
मतोर्वा नुडागमः ।
चर्मण्वती नाम नदी ।
चर्मवती इत्येव अन्यत्र ॥





उदन्वनुदधौ च ॥ ८,२.१३ ॥


_____ काशिकावृत्तिः८,२.१३:

उदन्वानिति उदकशब्दस्य मतावुदन्भावो निपात्यते उदधावर्थे, सञ्ज्ञायां विषये च ।
उदन्वान्नाम ऋषिः यस्य औदन्वतः पुत्रः ।
उदधौ उदन्वान् ।
यस्मिन्नुदकं धीयते स एवमुच्यते ।
उदधाउ इति किम् ? उदकवान् घटः इत्यत्र तु दधात्यर्थो न विवक्ष्यते ।
किं तर्हि ? उदकसत्तासम्बन्धसामान्यम् ॥





राजन्वान् सौराज्ये ॥ ८,२.१४ ॥


_____ काशिकावृत्तिः८,२.१४:

राजन्वानिति निपात्यते सौराज्ये गम्यमाने ।
शोभनो राजा यस्मिन्निति स राजन्वान् देशः ।
राजन्वती पृठ्वी ।
राजवानित्येव अन्यत्र ॥





छन्दसि इरः ॥ ८,२.१५ ॥


_____ काशिकावृत्तिः८,२.१५:

छन्दसि विषये इवर्णान्ताद्रेफान्ताच्च+उत्तरस्य मतोर्वत्त्वं भवति ।
इवर्णान्तात्तावत् त्रिवती याज्यानुवाक्या भवति ।
हरिवो मेदिनं त्वा ।
अधिपतिवती जुहोति चरुरग्निवानिव ।
आ रेवानेतु मा विशत् ।

[॰९१३]

रयेर्मतौ इति सम्प्रसारणम् ।
सरस्वतीवान् भारतीवान् ।
दधीवांश्चरुः ।
छन्दसि सर्वे विधयो विकल्प्यन्ते इति इह न भवति, सप्तर्षिमन्तम्, ऋषिमान्, ऋतीमान्, सूर्यं ते द्यावापृथिवीमन्तमिति ।
रेफान्तात्गीर्वान् ।
धूर्वान् ।
आशीर्वान् ॥





अनो नुट् ॥ ८,२.१६ ॥


_____ काशिकावृत्तिः८,२.१६:

छन्दसि इति वर्तते ।
अनन्तादुत्तरस्य मतोः नुडागमो भवति छन्दसि विषये ।
अक्षण्वन्तः कर्णवन्तः सखायः ।
अस्थन्वन्तं यदनस्था बिभर्ति ।
अक्षण्वता लाङ्गलेन ।
शीर्षण्वती ।
मूर्धन्वती ।
नुटः असिद्धत्वात्तस्य च वत्वं न भवति, ततः परस्य च भवति ॥





नाद्घस्य ॥ ८,२.१७ ॥


_____ काशिकावृत्तिः८,२.१७:

नकारान्तातुत्तरस्य घसञ्ज्ञाकस्य नुडागमो भवति छन्दसि विषये ।
सुपथिन्तरः ।
दस्युहन्तमः ।
भूरिदाव्नस्तुड्वक्तव्यः ।
भूरिदावत्तरः ।
ईद्रथिनः ।
रथिनः ईकारान्तादेशो धे परतः ।
रथीतरः ।
रथशब्दादेव वा मत्वर्थीयोऽयमीकारः छन्दसीवनिपौ इति ॥





कृपो रो लः ॥ ८,२.१८ ॥

_____ काशिकावृत्तिः८,२.१८:

कृपेः धातोः रेफस्य लकारादेशो भवति ।
रः इति श्रुतिसामान्यमुपादीयते ।
तेन यः केवलो रेफो, यश्च ऋकारस्थः, तयोर्द्वयोरपि ग्रहणम् ।
लः इत्यपि सामन्यमेव ।
ततोऽयं केवलस्य रेफस्य स्थाने लकारादेशो विधीयते ।
ऋकारस्य अप्येकदेशविकारद्वारेण लृकारः, एवं च लुटि च क्लृपः (*१,३.९३) इत्येवमादयो निर्देशा उपपद्यन्ते ।
कल्प्ता ।
कल्प्तारौ ।
कल्प्तारः ।
चिक्लृप्सति ।
क्लृप्तः ।
क्लृप्तवान् ।
कृपा इत्येततृपेः सम्प्रसारणं च इति भिदादिषु पाठाद्भवति ।
तस्य हि कृतसम्प्रसारणस्य लाक्षणिकत्वातिह कृपः इति ग्रहणं न अस्ति ।
कृपणकृपीटक्रपूरादयोऽपि क्रपेरेव द्रष्टव्याः ।
उणादयो बहुलम् (*३,३.१) इति वा कृपेरेव लत्वाभावः ।

[॰९१४]

वालमूललघ्वसुरालमङ्गुलीनां वा रो लमापद्यत इति वक्तव्यम् ।
वालः, वारः ।
मूलम्, मूरम् ।
लघु, रघु ।
असुरः, असुलः ।
अलम्, अरम् ।
अङ्गुलिः, अङ्गुरिः ।
कपिलकादीनां सञ्ज्ञाछन्दसोर्वा रो लमापद्यत इति वक्तव्यम् ।
कपिरकः, कपिलकः ।
तिल्पिलीकम्, तिर्पिरीकम् ।
लोमानि, रोमाणि ।
पांशुरम्, पांशुलम् ।
कर्म, कल्म ।
शुक्रः, शुक्लः ।
रलयोरेकत्वस्मरणमिति केचित् ।
किमिदमेकत्वस्मरणमिति ? समानविषयत्वमेव तयोः स्मर्यते इत्यर्थः ॥





उपसर्गय अयतौ ॥ ८,२.१९ ॥


_____ काशिकावृत्तिः८,२.१९:

अयतौ परतः उपसर्गस्य यो रेफः तस्य लकारः आदेशो भवति ।
प्लायते ।
पलायते ।
अत्र च योऽयमेकादेशः, तस्य स्थानिवद्भावादयतेः उपसर्गस्य च विभागे सति, यदि अयतिग्रहणं रेफस्य विशेषणम्, तदा येन न अव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यातिति एकेन वर्णेन व्यवधानेऽपि लत्वं भवति ।
तथा च पल्ययते इत्यत्र अपि भवति ।
उपसर्गविशेषणे तु अयतिग्रहणे सिद्धमेव+एतत्सर्वम्, प्रतेरपि तु व्यवहितेऽपि प्राप्नोति ।
तत्र केषांचिद्दर्शनं भवितव्यमेव प्लत्ययते इति ।
प्रथमपक्षदर्शनाभिनिष्टास्तु प्रत्ययते इत्येव भवति इति मन्यन्ते ।
अपरे तु प्रतिशब्दोपसृष्टस्य अयतेः प्रयोगमेव न+इच्छन्ति ।
निस्दुसित्येतयोस्तु रुत्वस्य असिद्धत्वाल्लत्वेन न+एव भवितब्यम् ।
निरयणम् ।
दुरयणम् ॥





ग्रो यङि ॥ ८,२.२० ॥


_____ काशिकावृत्तिः८,२.२०:

गॄ इत्येतस्य धातोः रेफस्य लकार आदेशो भवति यङि परतः ।
निजेगिल्यते, निजेगिल्येते, निजेगिल्यन्ते ।
भावगर्हायां ग्रो यङ्विहितः ।
केचिद्ग्रः इति गिरतेः गृणातेश्च सामान्येन ग्रहणमिच्छन्ति ।
अपरे तु गिरतेरेव, न गृणातेः ।
गृणातेर्हि यङेव न अस्ति, अनभिधानादिति ।
यङि इति किम् ? निगीर्यते ॥





अचि विभाषा ॥ ८,२.२१ ॥


_____ काशिकावृत्तिः८,२.२१:

अजादौ प्रत्यये परतो ग्रो रेफस्य विभाषा लकारादेशो भवति ।
निगिरति, निगिलति ।
निगरणम्, निगलनम् ।
निगारकः, निगालकः ।
इयं तु व्यवस्थितविभाषा ।
तेन गलः इति प्राण्यङ्गे नित्यं लत्वं भवति, गरः इति विषे नित्यं न भवति ।
निगार्यते,

[॰९१५]

निगाल्यते इति णिलोपस्य स्थानिवद्भावातचि विभाषा इति लत्वविकल्पः ।
पूर्वत्र असिद्धे न स्थानिवतिति एतदपि सापवादमेव, तस्य दोषः संयोगादिलोपलत्वणत्वेषु इति ।
अन्तरङ्गत्वाद्वा कृते लत्वविकल्पे णिलोपो भविष्यति ।
गिरौ, गिरः इत्यत्र धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानमिति लत्वं न भवति ।
गिरतिर्वा लत्वविधावधिकृतः, गृणातेरेतद्रूपम् ॥




परेश्च घाङ्कयोः ॥ ८,२.२२ ॥


_____ काशिकावृत्तिः८,२.२२:

परि इत्येतस्य यो रेफः तस्य घशब्दे अङ्कशब्दे च परतो विभाषा लकार आदेशो भवति ।
परिघः परिघः ।
पर्यङ्कः, पल्यङ्कः ।
घ इति स्वरूपग्रहणमत्रेष्यते, न तरप्तमपौ इति ।
योगे चेति वक्तव्यम् ।
परियोगः, पलियोगः ॥





संयोगान्तस्य लोपः ॥ ८,२.२३ ॥


_____ काशिकावृत्तिः८,२.२३:

संयोगान्तस्य पदस्य लोपो भवति ।
गोमान् ।
यवमान् ।
कृतवान् ।
हतवान् ।
इह श्रेयान्, भूयानिति रुत्वं परमपि असिद्धत्वात्संयोगान्तसय्लोपं न बाधते ।
जश्त्वे तु नाप्राप्ते तदारभ्याते इति तस्य बाधकं भवति, यशः, पयः इति ।
दध्यत्र, मध्वत्र, इत्यत्र तु यणादेशस्य बिहिरङ्गलक्षणस्य असिद्धत्वात्संयोगान्तलोपो न भवति ॥





रात्सस्य ॥ ८,२.२४ ॥

_____ काशिकावृत्तिः८,२.२४:

संयोगान्तपदस्य यो रेफः तस्मादुत्तरस्य अन्तस्य सकारस्य लोपो भवति ।
गोभिरक्षाः ।
प्रत्यञ्चमत्साः ।
क्षरतेः त्सरतेश्च लुङि सिचः छान्दसत्वादीडभावः बहुलं छन्दसि (*७,३.९७) इति वचनात् ।
दीर्घे सति रूपमेतत् ।
मातुः, पितुः इति ऋत उत्(*६,१.१११) इति उत्त्वे कृते रपरत्वे च सति रात्सस्य इति सलोपः ।
सिद्धे सत्यारम्भो नियमार्थः, रात्सस्य एव लोपो भवति, न अन्यस्य इति ।
ऊर्जेः क्विप् ऊर्क् ।
मृजेः लङि अमार्ट् ॥





धि च ॥ ८,२.२५ ॥


_____ काशिकावृत्तिः८,२.२५:

धकारादौ प्रत्यये परतः सकारस्य लोपो भवति ।
अलविध्वम्, अलविढ्वम् ।
अपविध्वम्, अपविढ्वम् ।
यद्यत्र सकारलोपो न स्यात्, सिचः षत्वे जश्त्वे च विभाषेटः (*८,३.७९) इति मूर्धन्याभावपक्षेऽपि न धकारः श्रूयेत ।
इतः प्रभृति सिचः सकारस्य लोप इष्यते ।
इह न भवति, चकाद्धि पलितं शिरः इति ।
तथा पयो धावति इत्येवमादावपि न भवति ।
सग्धिः, बब्धामिति छान्दसो वर्ण लोपः ।
भाष्यकारस्त्वाह, चकाधि इत्येव भवितव्यमिति ।
तेन पयो धावति इत्येवमादौ यत्नानतरमास्थेयम् ।

[॰९१६]

धि सकारे सिचो लोपश्चकाद्धीति प्रयोजनम् ।
आशाध्वं तु कथं जश्त्वं सकारस्य भविष्यति ॥
सर्वमेवं प्रसिद्धं स्याच्छ्रु तिश्चापि न भिद्यते ।
लुङश्चापि न मुर्धन्ये ग्रहणं सेटि दुष्यति ॥
घसिभसोर्न सिध्येत तस्मात्सिज्ग्रहणं न तत् ।
छान्दसो वर्णलोपो वा यथेष्कर्तारमध्वरे ॥
निष्कर्तारमध्वरस्य इत्येवं प्राप्ते ॥





झलो झलि ॥ ८,२.२६ ॥


_____ काशिकावृत्तिः८,२.२६:

झलः उत्तरस्य सकारस्य झलि परतो लोपो भवति अभित्त ।
अभित्थाः ।
अच्छित्त ।
अच्छित्थाः ।
अवात्ताम्, अवात्त इत्यत्र वा सिचः सकारलोपस्य असिद्धत्वात्सः स्यार्धधातुके (*७,४.४९) इति सकारस्य तकारः ।
झलः इति किम् ? अमंस्त ।
अमंस्थाः ।
झलि इति किम् ? अभित्साताम् ।
अभित्सत ।
अयमपि सिच एव लोपः, तेन+इह न भवति, सोमसुत्स्तोता, दृष्त्स्थानमिति ॥





ह्रस्वादङ्गात् ॥ ८,२.२७ ॥


_____ काशिकावृत्तिः८,२.२७:

ह्रस्वान्तादङ्गादुत्तरस्य लोपो भवति झलि परतः ।
अकृत ।
अकृथाः ।
अहृत ।
अहृथाः ।
ह्रस्वातिति किम् ? अच्योष्ट ।
अप्लोष्ट ।
अङ्गातिति किम् ? अलाविष्टाम् ।
अलाविषुः ।
झलि इत्येव, अकृषाताम् ।
अकृषत ।
अयमपि सिच एव लोपः, तेन+इह न भवति, द्विष्टराम्, द्विष्टमामिति ।
सुजन्ताद्द्विशब्दात्तरप्तमपौ, अद्रव्यप्रकर्षे आतिशयिकः आं प्रत्ययः ॥





इट ईटि ॥ ८,२.२८ ॥


_____ काशिकावृत्तिः८,२.२८:

इटः उत्तरस्य सकारस्य लोपो भवति ईटि परतः ।
अदावीत् ।
अलावीत् ।
असेवीत् ।
अकोषीत् ।
अमोषीत् ।
इटः इति किम् ? अकार्षीत् ।
अहार्षीत् ।
ईटि इति किम् ? अलाविष्टाम् ।
अलाविषुः ॥





[॰९१७]

स्कोः संयोगाद्योरन्ते च ॥ ८,२.२९ ॥

_____ काशिकावृत्तिः८,२.२९:

पदस्य अन्ते यः संयोगः, झलि परतो वा यः संयोगः, तदाद्योः सकारककारयोर्लोपो भवति ।
लस्जेः लग्नः ।
लग्नवान् ।
साधुलक् ।
मस्जेः मग्नः ।
ककारस्य तक्षेः तट् ।
तष्टः ।
तष्टवान् ।
काष्ठतत् ।
झलि सङीति वक्तव्यम् ।
किमिदं सिङि इति ? सनः सप्रभृति महिङो ङकारेण प्रत्याहारः ।
इह मा भूत्, कष्ठशक्ष्थाता इति ।
थकारे झलि ककारस्य संयोगादेर्लोपः प्राप्नोति ।
तदत्र शकेः क्विबन्तस्य प्रयोग एव न अस्ति इत्याह काष्ठशगेव न अस्ति, कुतोऽयं काष्ठशकि तिष्ठेतिति ।
वास्यर्थम्, काक्वर्थमित्यत्र अपि बहिरङ्गलक्षणस्य यणादेशस्य असिद्धत्वात्संयोगादिलोपो न भवति ।
स्कोः इति किम् ? नर्नर्ति ।
वर्वर्ति ।
संयोगाद्योः इति किम् ? पयःशक् ।
अन्ते च इति किम् ? तक्षितः ।
तक्षकः ॥





चोः कुः ॥ ८,२.३० ॥


_____ काशिकावृत्तिः८,२.३०:

चवर्गस्य कवर्गादेशो भवति झलि परतः, पदान्ते च ।
पक्ता ।
पक्तुम् ।
पक्तव्यम् ।
ओदनपक् ।
वक्ता ।
वक्तुम् ।
वक्तव्यम् ।
वाक् ।
क्रुञ्चा इत्यत्र सिङि इति वचनाद्ञकारस्य चकारे झलि कुत्वं न भवति, युजिक्रुञ्चां च इति निपातनाद्वा ।
नकारोपधो वा धातुरयं रेफरहितश्च क्रुञ्च कौटिल्याल्पीभावयोः इति पठ्यते ।
नकारलोपे हि निकुचितिः इति दृश्यते ।
युजिक्रुञ्चां च इति तस्यैव रेफोऽधिको नकारस्य लोपाभावश्च इति निपात्यते ।
तत्र अनुस्वारस्य परसवर्णस्य च असिद्धत्वात्ञकार एव न अस्ति इति कुत्वं न भविष्यति ॥





हो ढः ॥ ८,२.३१ ॥


_____ काशिकावृत्तिः८,२.३१:

हकारस्य ढकारदेशो भवति झलि परतः पदान्ते च ।
सोढा ।
सोढुम् ।
सोढव्यम् ।
जलाषात् ।
वोढा ।
वोढुम् ।
वोढव्यम् ।
प्रष्ठवाट् ।
दिव्यवाट् ॥





दादेर्धातोर्घः ॥ ८,२.३२ ॥


_____ काशिकावृत्तिः८,२.३२:

दकारादेः धातोः हकारस्य घकारादेशो भवति झलि परतः पदान्ते च ।
दग्धा ।
दग्धुम् ।
दग्धव्यम् ।
काष्ठधक् ।
दोग्धा ।
दोग्धुम् ।
दोग्धव्यम् ।
गोधुक् ।
दादेः इति किम् ? लेढा ।
लेढुम् ।
लेढव्यम् ।
गुडलिट् ।
धातोः इति दादिसमानाधिकरणमेतन्न, किं तर्हि, तद्विशेषणमवयवषष्ठ्यन्तम्, धातोरवयवो यो दादिः शब्दस्तदवयवस्य हकारस्य इति ।

[॰९१८]

किं कृतं भवति ? अधोकित्यत्र अपि घकारः सिद्धो भवति ।
कथं दोग्धा, दोग्धुमिति ? व्यपदेशिवद्भावात् ।
अथ वा धातूपदेशे यो दादिः इत्येवं विज्ञायते ।
तथा च दामलिहमिच्छति दामलिह्यति, दामलिह्यतेः क्विप्प्रत्ययः दामलिटित्यत्र अपि न भवति ॥





वा द्रुहमुहष्णुहष्णिहाम् ॥ ८,२.३३ ॥


_____ काशिकावृत्तिः८,२.३३:

द्रुह मुह ष्णुह ष्णिह इत्येतेषां धातूनां हकारस्य वा घकारादेशो भवति झलि परतः पदान्ते च ।
द्रुह द्रोग्धा, द्रोढा ।
मित्रध्रुक्, मित्रध्रुट् ।
मुह उन्मोग्धा, उन्मोढा ।
उन्मुक्, उन्मुङ् ।
ष्णुह उत्स्नोग्धा, उत्स्नोढा ।
उत्स्नुक्, उत्स्नुट् ।
ष्णिह स्नेग्धा, स्नेढा ।
स्निक्, स्निट् ।
द्रुहेः दादित्वाद्घत्वंनित्यं प्राप्तम्, इतरेषामप्राप्तमेव घत्वं विकल्प्यते ॥





नहो धः ॥ ८,२.३४ ॥


_____ काशिकावृत्तिः८,२.३४:

नहो हकारस्य धकारादेशो भवति झलि परे पदान्ते च ।
नद्धम् ।
नद्धुम् ।
नद्धव्यम् ।
उपानत् ।
परीणत् ॥





आहस्थः ॥ ८,२.३५ ॥


_____ काशिकावृत्तिः८,२.३५:

आहो हकारस्य थकारादेशो भवति झलि परतः ।
इदमात्थ ।
किमात्थ ।
आदेशान्तरकरणं झषस्तथोर्धोऽधः (*८,२.४०) इत्यस्य निवृत्त्यर्थम् ।
झलि इत्येव, आह, आहतुः, आहुः ।
हृग्रहोर्भश्छन्दसि हस्येति वक्तव्यम् ।
गर्दभेन सम्भरति ।
ग्रभीता ।
जभ्रिरे ।
उद्ग्राभं च निग्राभं च ब्रह्म देवा अवीवृधन् ॥





व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः ॥ ८,२.३६ ॥


_____ काशिकावृत्तिः८,२.३६:

व्रश्च भ्रस्ज सृज मृज यज राज भ्राज इत्येतेषाम्, छकारान्तानाम्, शकारान्तानां च षकारः आदेशो भवति झलि परतः पदान्ते च ।
व्रश्च व्रष्टा ।
व्रष्टुम् ।
व्रष्टव्यम् ।
मूलवृट् ।
भ्रस्ज भ्रष्टा ।
भ्रष्टुम् ।
भ्रष्टव्यम् ।
धानाभृट् ।
सृज स्रष्ट ।
स्रष्टुम् ।
स्रष्टव्यम् ।
रज्जुसृट् ।
मृज मार्ष्टा ।
मार्ष्टुम् ।
मार्ष्टव्यम् ।
कंसपरिमृट् ।
यज यष्टा ।
यष्टुम् ।
यष्टव्यम् ।
उपयट् ।
राज सम्राट् ।
स्वराट् ।
विराट् ।
भ्राज विभ्राट् ।
राजभ्राजोः पदान्तार्थं ग्रहणम्, झलादिराभ्यामिटा पर्यवपद्यते ।
केचित्तु राष्टिः, भ्राष्टिः इति क्विन्नन्तमिच्छन्ति ।
छकारान्तानाम् प्रच्छ प्रष्टा ।
प्रष्टुम् ।
प्रष्टव्यम् ।
शब्दप्राट् ।
च्छ्वोः शूडनुनासिके च (*६,४.१९) इत्यत्र क्ङिति इत्यनुवर्तते इति छग्रहणमिह क्रियते ।
शकारान्तानां लिश् लेष्टा ।
लेष्टुम् ।
लेष्टव्यम् ।
लिट् ।
विश् वेष्टा ।
वेष्तुम् ।
वेष्टव्यम् ।
विट् ॥





[॰९१९]

एकाचो बशो भष्झषन्तस्य स्ध्वोः ॥ ८,२.३७ ॥


_____ काशिकावृत्तिः८,२.३७:

धातोरवयवो य एकाच्झषन्तः तदवयवस्य बशः स्थाने भषादेशो भवति झलि सकारे ध्वशब्दे च परतः पदान्ते च ।
अत्र चत्वरो बशः स्थानिनो भषादेशाश्चत्वार एव, तत्र सङ्ख्यातानुदेशे प्राप्ते डकारस्य स्थानिनोऽभावात्ढकारादेशो न भवति ? आन्तर्यतो व्यवस्था विज्ञास्यते ।
बुध भोत्स्यन्ते ।
अभुद्ध्वम् ।
अर्थभुत् ।
गुह निघोक्ष्यते ।
न्यघूढ्वम् ।
पर्णघुट् ।
दुह धोक्ष्यते ।
अधुग्ध्वम् ।
गोधुक् ।
अजर्घाः गुधेः यङ्लुगन्तस्य लङि सिपि लभूपधगुणे कृते सिपो हल्ङ्यादिलोपे च धातोः अवयवस्य एकाचो बशः स्थाने भष्भावः, ततो धकारस्य जश्त्वम्, दश्च (*८,२.७५) इति रुत्वम्, रो रि (*८,३.१४) इति पूर्वरेफस्य लोपः, ढ्रलोपे पूर्वस्य दीर्घोऽणः (*६,३.१११) इति दीर्घत्वम् ।
गदर्भयतेः अप्रत्ययः गर्धप् ।
एकाचः इति किम् ? दामलिहमिच्छति दामलिह्यति, दामलिह्यतेरप्रत्ययः, दामलिट् ।
असति ह्येकाज्ग्रहणे धातोः इत्येतद्बशो विशेषणं स्यात् ।
बशः इति किम् ? क्रुध क्रोत्स्यति ।
झषन्तस्य इति किम् ? दास्यति ।
स्ध्वोः इति किम् ? बोद्धा ।
वोद्धुम् ।
बोद्धव्यम् ।
धकारस्य बकारोपसृष्टस्य ग्रहणं किम् ? दादद्धि ।
दध धारणे इत्येतस्य यङ्लुकि लोटि हुझल्भ्यो हेर्धिः (*६,४.१०१) इति धिभावे सत्येतद्भवति ॥





दधस्तथोश्च ॥ ८,२.३८ ॥


_____ काशिकावृत्तिः८,२.३८:

दधः इति दधतिः कृतद्विर्वचनो निर्दिश्यते ।
तस्य झलन्तस्य बशः स्थाने भषादेशो भवति तकारथकारयोः परतः, चकारात्स्ध्वोश्च परतः ।
धत्तः ।
धत्थः ।
धत्से ।
धद्ध्वम् ।
वचनसामर्थ्यादातो लोपस्य स्थानिवद्भावो न भवति ।
अभ्यासजश्त्वस्य च असिद्धत्वम् ।
तथोः इति किम् ? आनन्तर्यात्स्ध्वोरेव विज्ञायेत ।
चकारः तयोरनुवृत्त्यर्थः ।
झषन्तस्य इत्येव, दधाति ॥





झलां जशोऽन्ते ॥ ८,२.३९ ॥


_____ काशिकावृत्तिः८,२.३९:

झलां जशः आदेशा भवन्ति पदस्यान्ते वर्तमानानाम् ।
वागत्र ।
श्वलिडत्र ।
अग्निचिदत्र ।
त्रिष्टुबत्र ।
अन्तग्रहणं झलि इत्येतस्य निवृत्त्यर्थम् ।
वस्ता ।
वस्तव्यम् ॥





झषस्तथोर्धोऽधः ॥ ८,२.४० ॥


_____ काशिकावृत्तिः८,२.४०:

झष उत्तरयोः तकारथकारयोः स्थाने धकारः आदेशो भवति, दधातिं वर्जयित्वा ।
लब्धा ।
लब्धुम् ।
लब्धव्यम् ।
अलब्ध ।
अलब्धाः ।
दुह दोग्धा ।
दोग्धुम् ।
दोग्धव्यम् ।
अदुग्ध ।
अदुग्धाः ।
लिह लेढा ।
लेढुम् ।
लेढव्यम् ।
अलीढ ।
अलीढाः ।
बुध बोद्धा ।
बोद्धुम् ।
बोद्धव्यम् ।
अबुद्ध ।
अबुद्धाः ।
अधः इति किम् ? धत्तः ।
धत्थः ॥





[॰९२०]

षढोः कः सि ॥ ८,२.४१ ॥


_____ काशिकावृत्तिः८,२.४१:

षकारढकारयोः ककारादेशो भवति सकारे परतः ।
षकारस्य पिष् पेक्ष्यति अपेक्ष्यत् ।
पिपक्षति ।
धकारस्य लिह लेक्ष्यति ।
अलेक्ष्यत् ।
लिलिक्षति ।
सि इति किम् ? पिनष्ति ।
लेढि ॥





रदाभ्यां निष्थातो नः पूर्वस्य च दः ॥ ८,२.४२ ॥


_____ काशिकावृत्तिः८,२.४२:

रेफदकाराभ्यामुत्तरस्य निष्थातकारस्य नकारः आदेशो भवति पूर्वस्य च दकारस्य ।
रेफान्तात्तावत् आस्तीर्णम् ।
विस्तीर्णम् ।
विशीर्णम् ।
निगीर्णम् ।
अवगूर्णम् ।
दकारात् भिन्नः ।
भिन्नवान् ।
धिन्नः ।
छिन्नवान् ।
रदाभ्यामिति किम् ? कृतः ।
कृतवान् ।
रः इत्यत्र रश्रुतिसामन्यं न+उपादीयते, किं तर्हि, व्यञ्जनमात्रम् ।
रेफसामान्यनिर्देशेऽपि सति रेफात्परा याऽज्भक्तिस्तद्व्यवधानान्नत्वं न भवति ।
निष्था इति किम् ? कर्ता ।
हर्ता ।
तः इति किम् ? चरितम् ।
मुदितम् ।
पूर्वस्य इति किम् ? परस्य मा भूत्, भिन्नवद्भ्याम् ।
भिन्नवद्भिः ।
इह कृतस्य अपत्यं कार्तिः इति वृद्धेः बहिरङ्गलक्षणाया असिद्धत्वान्नत्वे कर्तव्ये रेफस्य असिद्धत्वम् ॥





संयोगादेरातो धातोर्यण्वतः ॥ ८,२.४३ ॥


_____ काशिकावृत्तिः८,२.४३:

संयोगादिः यो धातुराकारान्तो यण्वान्, तस्मादुत्तरस्य निष्थातकारस्य नकारदेशो भवति ।
प्रदाणः ।
प्रदाणवान् ।
म्लानः ।
म्लानवान् ।
संयोगादेः इति किम् ? यातः ।
यातवान् ।
आतः इति किम् ? च्युतः ।
च्युतवान् ।
ल्पुतः ।
प्लुतवान् ।
धातोः इति किम् ? निर्यातः ।
निर्वातः ।
यण्वतः इति किम् ? स्नातः ।
स्नातवान् ॥





ल्वादिभ्यः ॥ ८,२.४४ ॥


_____ काशिकावृत्तिः८,२.४४:

लूञ्छेदने इत्येतत्प्रभृति वॄञ्वरणे इति यावत्वृत्करणेन समापिता ल्वादयो गृह्यन्ते ।
तेभ्यः उत्तरस्य निष्ठातकारस्य नकारादेशो भवति ।
लूनः ।
लूनवान् ।
धूनः ।
धूनवान् ।
जीनः ।
जीनवान् ।
ऋकारल्वादिभ्यः क्तिन्निष्ठावद्भवति इति वक्तव्यम् ।
कीर्णिः ।
गीर्णिः ।
शीर्णिः ।
लूनिः ।
पूनिः ।

[॰९२१]

दुग्वोर्दिर्घश्च+इति वक्तव्यम् ।
दु आदूनः ।
दु विगूनः ।
पूञो विनाश इति वक्तव्यम् ।
पूना यवाः ।
विनष्टाः इत्यर्थः ।
विनाशे इति किम् ? पूतं धान्यम् ।
सिनोतेर्ग्रासकर्मकर्तृकस्य+इति वक्तव्यम् ।
सिनो ग्रासः स्वयमेव ।
ग्रासकर्मकर्तृकस्य इति किम् ? सिता पाशेन सूकरी ।
ग्रासोऽपि यदा कर्मैव भवति न कर्मकर्ता, तदा न भवति, सितो ग्रासो देवदत्तेन इति ॥





ओदितश्च ॥ ८,२.४५ ॥


_____ काशिकावृत्तिः८,२.४५:

ओकारेतो धातोरुत्तरस्य निष्ठातकारस्य नकारादेशो भवति ।
ओलस्जी लग्नः ।
लग्नवान् ।
ओविजी उद्विग्नः ।
उद्विग्नवान् ।
ओप्यायी वृद्धौ आपीनः ।
आपीनवान् ।
स्वादय ओदितः ।
षूङ् सूनः ।
सूनवान् ।
दूङ् दूनः ।
दूनवान् ।
दीङ् दीनः ।
दीनवान् ।
डीङ् डीनः ।
डीनवान् ।
धीङ् धीनः ।
धीनवान् ।
मीङ् मीनः ।
मीनवान् ।
रीङ् रीणः ।
रीणवान् ।
लीङ् लीनः ।
लीनवान् ।
व्रीङ् व्रीणः ।
व्रीणवान् ॥





क्षियो दीर्घात् ॥ ८,२.४६ ॥


_____ काशिकावृत्तिः८,२.४६:

क्षियो धातोः दीर्घादुत्तरस्य निष्थातकारस्य नकारादेशो भवति ।
क्षीणाः क्लोशाः ।
क्षीणः जाल्मः ।
क्षीणः तपस्वी ।
क्षियः निष्ठायामण्यदर्थे (*६,४.६०), वा+आक्रोशादैन्ययोः (*६,४.६१) इति दीर्घत्वं भवति ।
दीर्घातिति किम् ? अक्षितमसि मामेक्षेष्ठाः ।
अक्षितमिति क्तप्रत्ययो भावे, भावश्च ण्यदर्थः इति दीर्घाभावः ।
ह्रस्वस्य अपि हि धात्वनुकरणस्य इह इयङा निर्देशः ।
क्षियः निष्थायामण्यदर्थे (*६,४.६०) इत्यत्र दीर्घग्रहणं क्रियते ।
विपराभ्यां जेः (*१,३.१९) इत्येवमादौ तु धातुत्वमनुकार्यगतं सदप्यविवक्षितत्वाद्जिरुपसामान्यानुकरणं द्रष्टव्यम् ॥





श्योऽस्पर्शे ॥ ८,२.४७ ॥


_____ काशिकावृत्तिः८,२.४७:

श्यायतेः उत्तरस्य निष्थातकारस्य अस्पर्शे नकारः आदेशो भवति ।
शीनं घृतम् ।
शीनं मेदः ।
शीना वसा ।
अस्पर्शे इति किम् ? शीतं वर्तते ।
शीतो वायुः ।
शीतमुदकमित्यत्र गुणभूतोऽपि स्पर्शः नत्वप्रतिषेधस्य सम्प्रसारणस्य च निमित्तं भवति ।
गुणे च स्पर्शे प्रतिषेधोऽयम्, न रोगे, तेन प्रतिषीनः इत्यत्र नत्वं भव्त्येव ॥





[॰९२२]

अञ्चोऽनपादाने ॥ ८,२.४८ ॥


_____ काशिकावृत्तिः८,२.४८:

अञ्चतेः उत्तरपदस्य निष्थातकारस्य नकारादेशो भवति न चेदपादानं तत्र भवति ।
समक्नौ शकुनेः पादौ ।
तस्मात्पशवो न्यक्नाः ।
अनपादाने इति किम् ? उदक्तमुदकं कूपात् ।
व्यक्तमित्येतदञ्जेः रूपम् ॥





दिवोऽविजिगीषायाम् ॥ ८,२.४९ ॥


_____ काशिकावृत्तिः८,२.४९:

दिवः उत्तरस्य निष्थातकारस्य नकारादेशो भवति अविजिगीषायमर्थे ।
अद्यूनः ।
परिद्यूनः ।
अविजिगीषायामिति किम् ? द्यूतं वर्तते ।
विजिगीषया हि तत्र अक्षपातनादि क्रियते ॥




निर्वाणोऽवाते ॥ ८,२.५० ॥


_____ काशिकावृत्तिः८,२.५०:

निर्वाणः इति निस्पूर्वाद्वातेरुत्तरस्य निष्थतकारस्य नकारो निपात्यते, न चेद्वाताधिकरणो वात्यर्थो भवति ।
निर्वाणः अग्निः ।
निर्वाणः प्रदीपः ।
निर्वाणः भिक्षुः ।
अवाते इति किम् ? निर्वातः वातः ।
निर्वातं वातेन ।
निर्वाणः प्रदीपो वातेन इत्यत्र तु प्रदीपाधिकरणो वात्यर्थः, वातस्तु तस्य करणमिति भवत्येव नत्वम् ॥





शुषः कः ॥ ८,२.५१ ॥


_____ काशिकावृत्तिः८,२.५१:

शुषेः धातोरुत्तरस्य निष्थातकारस्य ककारादेशो भवति ।
शुष्कः ।
शुष्कवान् ॥





पचो वः ॥ ८,२.५२ ॥


_____ काशिकावृत्तिः८,२.५२:

पचेः धातोरुत्तरस्य निष्थातकारस्य वकारादेशो भवति ।
पक्वः ।
पक्ववान् ॥





क्षायो मः ॥ ८,२.५३ ॥


_____ काशिकावृत्तिः८,२.५३:

क्षैधातोः उत्तरस्य निष्थातकारस्य मकारादेशो भवति ।
क्षामः ।
क्षामवान् ॥





[॰९२३]

प्रस्त्योऽन्यतरस्याम् ॥ ८,२.५४ ॥


_____ काशिकावृत्तिः८,२.५४:

प्रपूर्वात्स्त्यायतेः उत्तरस्य निष्थातकारस्य अन्यतरस्यां मकारादेशो भवति ।
प्रस्तीमः ।
प्रस्तीमवान् ।
प्रस्तीतः ।
प्रस्तीतवान् ।
यदा मत्वं न अस्ति, तदा संयोगादेरातो धातोर्यण्वतः (*८,२.४३) इत्यस्य पूर्वत्र असिद्धत्वात्संप्रसारणं प्रथमं क्रियते, तत्र कृते निमित्तव्याघातान्नत्वं न भवति ॥





अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः ॥ ८,२.५५ ॥

_____ काशिकावृत्तिः८,२.५५:

फुल्ल क्षीब कृश उल्लाघ इत्येते निपात्यन्ते, न चेदुपसर्गादुत्तरा भवन्ति ।
फुल्लः इति ञिफला विशरणे इत्येतस्माद्धातोरुत्तरस्य निष्ठातकारस्य लकारो निपात्यते ।
उत्वमिडभावश्च सिद्ध एव ।
क्तवत्वन्तस्य अप्येतल्लत्वमिष्यते, फुल्लः, फुल्लवानिति ।
क्षीबकृशोल्लाधाः इति क्षीबिकृशिभ्यामुत्पूर्वाच्च लाघेः क्त प्रत्ययस्य तलोपः इडभावश्च निपात्यते ।
कृते व इटि इच्छब्दलोपः ।
क्षीबः ।
कृशः ।
उल्लाघः ।
अनुपसर्गातिति किम् ? प्रफुल्ताः सुमनसः ।
प्रक्षीबितः ।
प्रकृशितः ।
प्रोल्लाधितः ।
लाघेरुदोऽन्यः उपसर्ग प्रतिषिध्यते ।
उत्फुल्लसम्फुल्लयोरिति वक्तव्यम् ।
उत्फुल्लः ।
सम्फुल्लः ।
परिकृशः इत्यत्र यः परिशब्दः स क्रियान्तरयोगात्कृशिं प्रत्यनुपसर्ग एव, परिगतः कृशः परिकृशः इति ॥





नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् ॥ ८,२.५६ ॥


_____ काशिकावृत्तिः८,२.५६:

नुद विद उन्द त्रा घ्रा ह्री इत्येतेभ्यः उत्तरस्य निष्ठातकारस्य नकार आदेशो भवति अन्यतरस्याम् ।
नुद नुन्नः, नुत्तः ।
विद विन्नः, नित्तः ।
उन्द समुन्नः, समुत्तः ।
त्रा त्राणः, त्रातः ।
घ्रा घ्राणः, घ्रातः ।
ह्री ह्रीणः, ग्रीतः ।
ह्री इत्येतस्मादप्राप्तं नत्वम्, इतरेषां नित्यं प्राप्तं विकल्प्यते ।
विद विचारणे इत्यस्य विदेरिह ग्रहणमिष्यते ।
एवं ह्युक्तम् वेत्तेस्तु विदितो निष्ठा विद्यतेर्विन्न इष्यते ।
विनतेर्विन्नश्च वित्तश्च भोगवित्तश्च विन्दतेः ॥
इति ॥





न ध्याख्यापॄमूर्च्छिमदाम् ॥ ८,२.५७ ॥


_____ काशिकावृत्तिः८,२.५७:

ध्या ख्या पॄ मूर्च्छि मद इत्येतेषां निष्ठातकारस्य नकारादेशो न भवति ।
ध्यातः ।
ध्यातवान् ।
ख्यातः ।
ख्यातवान् ।
पूर्तः ।
पूर्तवान् ।
मूर्तः ।
मूर्तवान् ।
मत्तः ।
मत्तवान् ।
रदाभ्याम्, संयोगादेः इति च प्राप्तः प्रतिषिध्यते ॥





[॰९२४]

वित्तो भोगप्रत्यययोः ॥ ८,२.५८ ॥


_____ काशिकावृत्तिः८,२.५८:
वित्तः इति विदेर्लाभार्थातुत्तरस्य क्तस्य नत्वाभावो निपात्यते भोगे प्रत्यये च अभिधेये ।
वित्तमस्य बहु ।
धनमस्य बहु इत्यर्थः ।
धनं हि भुज्यते इति भोगोऽभिधीयते ।
प्रत्यये वित्तोऽयं मनुष्यः ।
प्रतीतः इत्यर्थः ।
प्रतीयते इति प्रत्ययः ।
भोगप्रत्यययोः इति किम् ? विन्नः ॥





भित्तं शकलम् ॥ ८,२.५९ ॥


_____ काशिकावृत्तिः८,२.५९:

भित्तमिति निपात्यते शकलं चेत्तद्भवति ।
भित्तं तिष्ठति ।
भित्तं प्रपतति ।
शकलपर्यायोऽयम् ।
अत्र भिदिक्रिया शब्दव्युत्पत्तेरेव निमित्तम् ।
भिदिक्रियाविवक्षायां हि शकलविषये भिन्नं भित्तमित्येव भवति ॥





ऋणमाधमर्ण्ये ॥ ८,२.६० ॥

_____ काशिकावृत्तिः८,२.६०:

ऋणमिति ऋ इत्येतस्माद्धातोरुत्तरस्य निष्ठातकारस्य नकारो निपात्यते आधमर्ण्यविषये ।
अधमः ऋणे अधमर्णः, एतस्मादेव निपातनात्सप्तम्यन्तेन उत्तरपदेन समासः, तद्भावः आधमर्ण्यम् ।
यद्येवम्, उत्तमर्णः इति न सिध्यति ? न+एष दोषः ।
कालान्तरदेयविनिमयोपलक्षणार्थं चेदमुपात्तम् ।
तेन उत्तमर्णः इत्यपि हि भवति ।
ऋणं ददाति ।
ऋणं धारयति ।
आधमर्ण्ये इति किम् ? ऋतं वक्ष्यामि नानृतम् ॥





नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि छन्दसि ॥ ८,२.६१ ॥


_____ काशिकावृत्तिः८,२.६१:

नसत्त निषत्त अनुत्त प्रतूर्त सूर्त गूर्त इत्येतानि छन्दसि विषये निपात्यन्ते ।
नसत्त, निषत्त इति सदेः नण्पूर्वात्निपूर्वाच्च नत्वाभावो निपात्यते ।
नसत्तमञ्जसा ।
नसन्नमिति भषायाम् ।
निषत्तः ।
निषण्णः इति भाषायाम् ।
अनुत्तमिति उन्देः नञ्पूर्वस्य निपातनम् ।
अनुत्तमा ते मघवन् ।
अनुन्न इति भाषायाम् ।
प्रतुर्तमिति त्वरतेः तुर्वी इत्येतस्य वा निपातनम् ।
प्रतूर्तं वाजिन् ।
प्रतूर्णमिति भाषायाम् ।
सूर्तमिति सृ इत्येतस्य उत्वं निपात्यते ।
सूर्ता गावः ।
सृता गावः इति भाषायाम् ।
गूर्तमिति गूरी इत्येतस्य नत्वाभावो निपात्यते ।
गूर्ता अमृतस्य ।
गूर्णमिति भाषायाम् ॥





[॰९२५]
क्विन्प्रत्ययस्य कुः ॥ ८,२.६२ ॥


_____ काशिकावृत्तिः८,२.६२:

पदस्य इति वर्तते ।
क्विन्प्रत्ययस्य सर्वत्र पदान्ते कुत्वमिष्यते ।
क्विन् प्रत्ययो यस्माद्धातोः स क्विन्प्रत्ययः, तस्य पदस्यालोऽन्त्यस्य कवर्गादेशो भवति ।
स्पृशोऽनुदके क्विन् (*३,२.५८) ।
घृतस्पृक् ।
हलस्पृक् ।
मन्त्रस्पृक् ।
क्विनः कुः इति वक्तव्ये प्रत्ययग्रहणं कृतं बहुव्रीहिविज्ञानार्थम् ।
क्विन् प्रत्ययो यस्माद्विहितस्तस्मादन्यस्मिन्नपि प्रत्यये कुत्वं यथा स्यात् ।
मा नो अस्राक् ।
मा नो अद्राक् ।
सृजिदृशिभ्यां हि क्विन् विहितः, तयोर्लुङि कुत्वमेतत् ।
माङ्योगेऽपि छन्दसत्वादडागमः ।
ईट्च न भवति, बहुलं छन्दसि (*७.३.९७) इति ।
तथा दृग्भ्याम्, दृग्भिः इति क्विबन्तस्य अपि दृशेः कुत्वं भवति ।
एवं च सति रज्जुसृड्भ्यामित्यत्र अपि कुत्वं प्राप्नोति ।
अथ तु न+इष्यते, प्रतिविधानं कर्तव्यमिति ॥





नशेर्वा ॥ ८,२.६३ ॥


_____ काशिकावृत्तिः८,२.६३:

पदस्य इति वर्तते ।
नशेः पदस्य वा कवर्गादेशो भवति ।
सा वै जीवनगाहुतिः ।
स वे जीवनडा हुतिः ।
नशेरयं सम्पदादित्वाद्भावे क्विप् ।
जीवस्य नाशो जीवनक्, जीवनट् ।
षत्वे प्राप्ते कुत्वविकल्पः ॥





मो नो धातोः ॥ ८,२.६४ ॥


_____ काशिकावृत्तिः८,२.६४:

मकारन्तस्य धातोः पदस्य नकारादेशो भवति ।
प्रशान् प्रतान् ।
प्रदान् ।
शमितमिदमादीनां क्विप्, अनुनासिकस्य क्विझलोः क्ङिति (*६,४.१५) इति दीर्घत्वम् ।
नत्वस्य असिद्धत्वान्नलोपो न भवति ।
मः इति किम् ? भित् ।
छित् ।
धातोः इति किम् ? इदम् ।
किम् ।
पदस्य इत्येव, प्रतामौ ।
प्रतामः ॥





म्वोश्च ॥ ८,२.६५ ॥


_____ काशिकावृत्तिः८,२.६५:

मकारवकारयोश्च परतः मकारान्तस्य धातोः नकारादेशो भवति ।
अगन्म तमसः पारम् ।
अगन्व ।
गमेर्लङि बहुलं छन्दसि इति शपो लुक् ।
जगन्वान् ।
विभाषा गमहनजनविदविशाम् (*७,२.६८) इति क्वसौ इडागमस्य अभावः ।
अपदान्तार्थः आरम्भः ॥





[॰९२६]

ससजुषो रुः ॥ ८,२.६६ ॥


_____ काशिकावृत्तिः८,२.६६:

सकारान्तस्य पदस्य सजुषित्येतस्य च रुः भवति ।
सकारान्तस्य अग्निरत्र ।
वायुरत्र ।
सजुषः सजूरृतुभिः ।
सजूर्देवेभिः ।
जुषेः क्विपि सपूर्वस्य रुपमेतत् ॥





अवयाः श्वेतवाः पूरोडाश्च ॥ ८,२.६७ ॥


_____ काशिकावृत्तिः८,२.६७:

अवयाः श्वेतवाः पुरोडाः इत्येते निपात्यन्ते ।
अवपूर्वस्य यजेः अवेतपूर्वस्य वहेः, पुरस्पूर्वस्य दाशतेः मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् (*३,२.७१), अवे यजः (*३,२.७२) इति ण्विनि कृते, श्वेतवहादीनां डस्पदस्य इति डस्प्रत्यये निपातनानि एतानि ।
किमर्थं तर्हि निपातनं यावता पूर्वेण+एव रुः सिद्धः, दीर्घत्वमपि अत्वसन्तस्य चाधातोः (*६,४.१४) इति ? सम्बुद्धौ दीर्घार्थमेते निपात्यन्ते ।
अत्वसन्तस्य चाधातोः (*६,४.१४) इत्यत्र हि असम्बुद्धौ इति वर्तते ।
हे अवयाः ।
हे श्वेतवाः ।
हे पुरोडाः ।
चकारोऽनुक्तसमुच्वयार्थः ।
हे उक्थशाः ॥




अहन् ॥ ८,२.६८ ॥


_____ काशिकावृत्तिः८,२.६८:

अहनित्येतस्य पदस्य रुः भवति ।
अहोभ्याम् ।
अहोभिः ।
नलोपमकृत्वा निर्देशो ज्ञापकः नलोपाभावो यथा स्यातिति ।
दीर्घाहा निदाधः, हे दीर्घाहोऽत्र इति ।
अहनित्यत्र तु लाक्षणिकत्वादहन्शब्दस्य रुः न भवति ।
अह्नो रुविधौ रूपरात्रिरथन्तरेषूपसङ्ख्यानं कर्तव्यम् ।
अहोरूपम् ।
अहोरात्रः ।
अहोरथन्तरम् ।
रोऽसुपि (*८,२.६९) इत्यस्य अपवादो रुत्वमुपसङ्ख्यायते ।
अपर आह सामान्येन रेफादौ रुत्वं भवति, अहोरम्यम्, अहोरत्नानि इति ॥





रोऽसुपि ॥ ८,२.६९ ॥


_____ काशिकावृत्तिः८,२.६९:

अहनित्येतस्य रेफादशो भवति असुपि परतः ।
अहर्ददाति ।
अहर्भुङ्क्ते ।
असुपि इति किम् ? अहोभ्याम् ।
अहोभिः ।
ननु चत्र अपि प्रत्ययलक्षणेन सुबस्ति, अहर्ददाति, अहर्भुङ्क्ते इति ? न+एतदस्ति ।
उक्तमेतत् अह्नोरविधौ लुमता लुप्ते प्रत्ययलक्षणं न भवति इति ।
नायमहःशब्दः सुप्परो भवति ।
यत्र तु लोपशब्देन लुप्यते तत्र प्रत्ययलक्षणं भवत्येव, यथा हे दीर्घहोऽत्र, दीर्घाहो निदाघ इति ।
अत्र हि हल्ङ्याब्भ्यः इति लोपेन प्रत्ययस्य निवृत्तिः ॥





[॰९२७]

अम्नरूधरवरित्युभयथा छन्दसि ॥ ८,२.७० ॥


_____ काशिकावृत्तिः८,२.७०:

अम्नसूधसवसित्येतेषां छन्दसि विषये उभयथा भवति, रुर्वा रेफो वा ।
अम्नस् अम्न एव, अम्नरेव ।
ऊधस् ऊध एव, ऊधरेव ।
अवस् अवः एव, अवेरेव ।
यदा रुत्वं तदा भोभगोऽघोऽपूर्वस्य योऽशि (*८,३.१७) इति यकारः ।
छन्दसि भाषायां च विभाषा प्रचेतसो राजन्युपसङ्ख्यानं कर्तव्यम् ।
प्रचेता राजन्, प्रचेतो राजन् ।
अहरादीनां पत्यादिषु उपसङ्ख्यानं कर्तव्यम् ।
अहर्पतिः, अहः पतिः ।
गीर्पतिः, गीःपतिः ।
धूर्पतिः, धूःपतिः ।
विसर्जनीयबाधनार्थमत्र पक्षे रेफस्य+एव रेफो विधीयते ॥





भुवश्च महाव्याहृतेः ॥ ८,२.७१ ॥


_____ काशिकावृत्तिः८,२.७१:

भुवसित्येतस्य महाव्याहृतेः छन्दसि विषये उभयथा भवति, रुर्वा रेफो वा ।
भुव इत्यन्तरिक्षम्, भुवरित्यन्तरिक्षम् ।
महाव्याहृतेः इति किम् ? भुवो विश्वेषु सवनेषु यज्ञियः ।
भुवः इत्येतदव्यव्यमन्तरिक्षवाचि महाव्याहृतिः ॥




वसुस्रंसुध्वंस्वनडुहां दः ॥ ८,२.७२ ॥


_____ काशिकावृत्तिः८,२.७२:

ससजुषो रुः (*८,२.६६) इत्यतः सः इति वर्तते, तेन सम्भवात्व्यभिचाराच्च वसुरेव विशेष्यते, न स्रंसुध्वंसू, व्यभिचाराभावात्, असम्भवाच्च न अनडुह्, शब्दः ।
वस्वन्तस्य पदस्य सकारान्तस्य स्रंसु, ध्वंसु, अनडुः इत्येतेषां च दकारादेशो भवति ।
वसु विद्वद्भ्याम् ।
विद्वद्भिः ।
पपिवद्भ्याम् ।
पपिवद्भिः ।
स्रंसु उरवास्रद्भ्याम् ।
उरवास्रद्भिः ।
ध्वंसु पर्णध्वद्भ्याम् ।
पर्णध्वद्भिः ।
अनडुः अनडुद्भ्याम् ।
अनडुद्भिः ।
सः इत्येव, विद्वान् ।
पपिवान् ।
नकारस्य न भवति ।
रुत्वे नाप्राप्ते इदमारभ्यते इति तद्बाध्यते ।
संयोगान्तलोपस्तु न+एवमिति तेन एतदेव दत्वं बाध्यते ।
अनडुहोऽपि ढत्वमनेन बाध्यते ।
नुमस्तु विधानसामर्थ्यान्न भवति, अनड्वान्, हे अनड्वनिति ।
पदस्य इत्येव, विद्वांसौ ।
विद्वांसः ॥




तिप्यनस्तेः ॥ ८,२.७३ ॥


_____ काशिकावृत्तिः८,२.७३:

तिपि परतः सकारान्तस्य पदस्य अनस्तेः दकार आदेशो भवति ।
अचकाद्भवान् ।
अन्वशाद्भवान् ।
तिपि इति किम् ? चकास्तेः क्विप्, चकाः ।
अनस्तेः इति किम् ? आप एव+इदं सलिलं सर्वमाः ।
आः इत्यस्तेः लङि तिपि बहुलं छन्दसि (*७,३.९७) इति ईड्न कृतः ॥





[॰९२८]

सिपि धातो रुर्वा ॥ ८,२.७४ ॥


_____ काशिकावृत्तिः८,२.७४:

सिपि परतः सकारान्तस्य पदस्य धातोः रुः इत्ययमादेशो भवति, दकारो वा ।
अचकाः त्वम्, अचकात्त्वम् ।
अन्वशाः त्वम्, अन्वशात्त्वम् ।
धातुग्रहणं च+उत्तरार्थं रुग्रहणं च ॥





दश्च ॥ ८,२.७५ ॥


_____ काशिकावृत्तिः८,२.७५:

दकारान्तस्य धातोः पदस्य सिपि परतो रुः भवति, दकारो वा ।
अभिनः त्वम्, अभिनत्त्वम् ।
अच्छिनः त्वम्, अच्छिनत्त्वम् ॥





र्वोरुपधाया दीर्घ इकः ॥ ८,२.७६ ॥


_____ काशिकावृत्तिः८,२.७६:

रेफवकारान्तस्य धातोः पदस्य उपधायाः इकः दीर्घो भवति ।
गीः ।
धूः ।
पूः आशीः ।
वकारग्रहणमुत्तरार्थम् ।
उपधाग्रहणं किम् ? अबिभर्भवान् ।
अभ्यासेकारस्य मा भूत् ।
इकः इति किम् ? अत्र+एव प्रत्युदाहरणे भशब्दाकारस्य मा भूत् ।
धातोः इत्येव, अग्निः ।
वायुः ।
पदस्य इत्येव, गिरौ ।
गिरः ॥





हलि च ॥ ८,२.७७ ॥


_____ काशिकावृत्तिः८,२.७७:

हलि च परतो रेफवकारान्तस्य धातोः उपधायाः इकः दीर्घः भवति ।
आस्तीर्णम् ।
विस्तीर्णम् ।
विशीर्णम् ।
अवगूर्णम् ।
वकारान्तस्य दीव्यति ।
सिव्यति ।
धातोः इत्येव, दिवमिच्छति दिव्यति ।
चतुरः इच्छति चतुर्यति ।
इकः इत्येव, स्मर्यते ।
भव्यम् ।
अपदान्तार्थोऽयमारम्भः ॥





उपधायां च ॥ ८,२.७८ ॥


_____ काशिकावृत्तिः८,२.७८:

हलि इति अनुवर्तते ।
धातोः उपधाभूतौ यौ रेफवकारौ हल्परौ तयोः उपधायाः इको दीर्घो भवति हुर्च्छा हूर्च्छिता ।
मुर्च्छा मूर्छिता ।
उर्वी ऊर्विता ।
धुर्वी धूर्विता ।
हलि इत्येव, चिरि, जिरि चिरिणोति ।
जिरिणोति ।
इह कस्मान्न भवति, री गतौ रिर्यतुः, रिर्युः, वी गत्यादिषु विव्यतुः विव्युः इति ? यणादेशस्य स्थानिवत्त्वातसिद्धत्वाच्च बहिरङ्गलक्षणत्वेन हल्परौ रेफवकारौ न भवतः ।
चतुर्यिता इत्यत्र अपि बहिरङ्गलक्षणत्वाततो लोपस्य धातोः उपधाभूतो रेफो न भवति ।
प्रतिदीव्ना इत्यत्र तु हलि च (*८,२.७७) इति दीर्घत्वम्, दीर्घविधौ लोपाजादेशस्य स्थानिवद्भावप्रतिषेधात् ।
असिद्धं बहिरङ्गमन्तरङ्गे इत्येतत्तु नाश्रयितव्यम् ।
उणादयोऽव्युत्पन्नानि प्रातिपदिकानि इति जिव्रिः, कर्योः, गिर्योः इत्येवमादिषु दीर्घो न भवति ॥





[॰९२९]

न भकुर्छुराम् ॥ ८,२.७९ ॥

_____ काशिकावृत्तिः८,२.७९:

रेफवकारान्तस्य भस्य कुर्छुरित्येतयोस्च दीर्घो न भवति ।
धुरं वहति धुर्यः ।
धुरि साधुः धुर्यः ।
दिव्यम् ।
कुर् कुर्यात् ।
छुर् धुर्यात् ।
रेफवकाराभ्यां भविशेषणं किम् ? प्रतिदीव्ना ।
प्रतिदीव्ने ॥





अदसोऽसेर्दादु दो मः ॥ ८,२.८० ॥


_____ काशिकावृत्तिः८,२.८०:

अदसोऽसकारान्तस्य वर्णस्य दात्परस्य उवर्णादेशो भवति, दकारस्य च मकारः ।
अमुम्, अमू, अमून् ।
अमुना, अमूभ्याम् ।
भाव्यमानेन अप्युकारेण सवर्णानां ग्रहणमिष्यते इति एकमात्रिकस्य मात्रिकः, द्विमात्रिकस्य द्विमात्रिकः आदेशो भवति ।
असेः इति किम् ? अदः इच्छति अदस्यति ।
अदसोऽनोस्र इति वक्तव्यम् ।
ओकाररेफयोरपि प्रतिषेधो यथा स्यातिति ।
अदोऽत्र ।
अदः ।
तदर्थं केचित्सूत्रं वर्णयन्ति, अः सेः यस्य सोऽयमसिः, यत्र सकारस्य अकारः क्रियते इति, तेन त्यदाद्यत्वविधाने एतदन्यत्र न भवितव्यमेव इति ।
अद्र्यादेशे कथम् ? अदसोऽद्रेः पृथङ्मुत्वं केचिदिच्छन्ति लत्ववत् ।
केचिदन्त्यसदेशस्य नेत्येकेऽसेर्हि दृश्यते ॥
इति ।
यैः असेः इति सकारस्य प्रतिषेधः क्रियते, अनन्त्यविकारे अन्त्यसदेशस्य इति च परिभाषा न अश्रीयते, तेषामुभयोरपि मुत्वेन भवितव्यम्, अमुमुयङ्, अमुमुयञ्चौ, अमुमुयञ्चः इति , यथा चलीक्लृप्यते इति लत्वम् ।
ये तु परिभाषामाश्रयन्ति तेषामन्त्यसदेशस्य एव भवितव्यम्, अदमुयङ्, अदमुयञ्चौ, अदमुयञ्चः इति ।
येषं तु त्यदाद्यत्वविषय एव मुत्वेन भवितव्यमिति दर्शनं तेषामत्र न भवितव्यम्, अदद्र्यङ्, अदद्र्यञ्चौ, अदद्र्यञ्चः इति ।
दातिति किम् ? अलोऽन्त्यस्य मा भूत्, अमुया ।
अमुयोः ॥





एत ईद्बहुवचने ॥ ८,२.८१ ॥


_____ काशिकावृत्तिः८,२.८१:

अदसो दकारादुत्तरस्य एकारस्य ईकारादेशो भवति, दकारस्य च मकारः, बहुवचने बहूनामर्थानामुक्तौ ।
अमी ।
अमीभिः ।
अमीभ्यः ।
अमीषाम् ।
अमीषु ।
बहुवचने इत्यर्थनिर्देशोऽयम्, पारिभाषिकस्य हि बहुवचनस्य ग्रहणे अमी इत्यत्र न स्यात् ॥





[॰९३०]

वाक्यस्य टेः प्लुत उदात्तः ॥ ८,२.८२ ॥


_____ काशिकावृत्तिः८,२.८२:

अधिकारोऽयम् ।
वाक्यस्य टेः इति, प्लुतः इति च, उदात्तः इति च, एतत्त्रयमप्यधिकृतं वेदितव्यमापादपरिसमाप्तेः ।
यतिति ऊर्ध्वमनुक्रमिष्यामः वाक्यस्य टेः प्लुत उदत्तः इत्येवं तद्वेदितव्यम् ।





वक्ष्यति प्रत्यभिवादेऽशूद्रे ॥ ८,२.८३ ॥


_____ काशिकावृत्तिः८,२.८३:

अभिवादये देवदत्तोऽहम्, भो आयुष्मानेधि देवदत्त३ ।
पदाधिकारोऽनुवर्तते एव ।
वाक्यग्रहणमनन्त्यस्य पदस्य प्लुतनिवृत्त्यर्थम् ।
टिग्रहणं व्यञ्जनान्त्यस्य अपि टेरचः प्लुतो यथा स्यात्, अग्निचि३तिति ॥
प्रत्यभिवादेऽशूद्रे (*८,२.८३) ।
प्रत्यभिवादो नाम यदभिवाद्यमानो गुरुराशिषं प्रयुङ्क्ते, तत्र अशूद्रविषये यद्वाक्यं वर्तते तस्य टेः प्लुत उदात्तो भवति ।
अभिवादये देवदत्तोऽहम्, भो आयुष्मानेधि देवदत्त३ ।
अशूद्रे इति किम् ? अभिवादये तुषजकोऽहन्, भो अयुष्मानेधि तुषजक ।
स्त्रियामपि प्रतिषेधो वक्तव्यः ।
अभिवादये गार्ग्यहम्, भो आयुष्मती भव गार्गि ।
असूयकेऽपि केचित्प्रतिषेधमिच्छन्ति, अभिवादये स्थाल्यहं भोः, आयुष्मानेधि स्थालिन् ।
यावच्च तस्य असूयकत्वं न ज्ञायते तावदेव प्रत्यभिवादवाक्यम् ।
तस्मिंस्त्वसूयकत्वेन निर्ज्ञाते प्रत्यभिवादः एव न अस्ति, कुतः प्लुतः ।
तथा ह्युक्तम् असूयकस्त्वं जाल्म, न त्वं प्रत्यभिवादनमर्हसि, भिद्यस्व वृषल स्थालिनिति ।
अभिवादनवाक्ये यत्सङ्कीर्तितं नाम गोत्रं वा, तद्यत्र प्रत्यभिवादवाक्यान्ते प्रयुज्यते तत्र प्लुतिः इष्यते ।
इह न भवति, देवदत्त कुशल्यसि, देवदत्त आयुष्मानेधि इति ।
भो राजन्यविशाः वेति वक्तव्यम् ।
भो अभिवादये देवदत्तोऽहम्, आयुष्मानेधि देवदत्त भोः३, आयुष्मनेधि देवदत्त भोः ।
राजन्य अभिवादये इन्द्रवर्मा अहं भोः, आयुष्मानेधि इन्द्रवर्म३न्, आयुष्मानेधि इन्द्रवर्मन् ।
विश् अभिवादये इन्द्रपालितोऽहं भोः, आयुस्मानेधि इन्द्रपालित३, आयुष्मानेधि इन्द्रपालित ॥





दूराद्धूते च ॥ ८,२.८४ ॥


_____ काशिकावृत्तिः८,२.८४:

दूराद्धूते यद्वाक्यं वर्तते तस्य टेः प्लुतो भवति, स च+उदात्तः ।
आह्वानं हूतम्, शब्देन सम्बोधनम् ।
आगच्छ भो माणवक देवदत्त३ ।
आगच्छ भो माणवक यज्ञदत्त३ ।
दूरं यद्यप्यपेक्षाभेदादनवस्थितम्, तथापि हूतापेक्षं यत्तदाश्रीयते इति यत्र प्राकृतात्प्रयत्नाद्यत्नविशेषे आश्रीयमाणे शब्दः श्रूयते तद्दूरम् ।
हूतग्रहण च सम्बोधनमात्रोपलक्षणार्थं द्रष्टव्यम् ।
तेन यत्र अप्याह्वानं न अस्ति तत्र अपि प्लुतिर्भवति, सक्तून् पिब देवदत्त३, पलायस्व देवदत्त३ इति ।
अस्याश्च प्लुतेरेकश्रुत्या समावेशः इष्यते ।
दूरातिति किम् ? आगच्छ भो माणवक देवदत्त ।
दूरादाह्वाने वाक्यस्यान्ते यत्र सम्बोधनपदं भवति तत्र अयं प्लुतः इष्यते, तेन+इह न भवति, देवदत्त आगच्छ ॥





[॰९३१]

हैहेप्रयोगे हैहयोः ॥ ८,२.८५ ॥


_____ काशिकावृत्तिः८,२.८५:

हैहेप्रयोगे यद्वाक्यं वर्तते तत्र हैहयोः एव प्लुतो भवति ।
है३ देवदत्त ।
हे३ देवदत्त ।
देवदत्त है३ ।
देवदत्त हे३ ।
पुनर्हैहयोर्ग्रहणमन्त्ययोरपि यथा स्यात् ॥





गुरोरनृतोऽनन्त्यस्य अप्येकैकस्य प्राचाम् ॥ ८,२.८६ ॥


_____ काशिकावृत्तिः८,२.८६:

प्रत्यभिवादेऽशूद्रे (*८,२.८३) इत्येवमादिना यः प्लुतो विहितः, तस्य+एव अयं स्थानिविशेषः उच्यते ।
ऋकारवर्जितस्य गुरोः अनन्त्यस्य, अपिशब्दादन्त्यस्य अपि टेः एकैकस्य सम्बोधने वर्तमानस्य प्लुतो भवति प्राचामाचार्याणां मतेन ।
देस्३वदत्त, देवद३त्त, देवदत्त३ ।
य३ज्ञदत्त, यज्ञद३त्त, यज्ञदत्त३ ।
गुरोः इति किम् ? वकारात्परस्य मा भूत् ।
अनृतः इति किम् ? कृष्णमि३त्र, कृष्णमित्र३ ।
एकैकग्रहणं पर्यायार्थम् ।
प्राचामिति ग्रहणं विकल्पार्थम् ।
आयुष्मानेधि देवदत्त ।
तदनेन यदेतदुच्यते, सर्व एव प्लुतः साहसमनिच्छता विभाषा कर्तव्यः इति तदुपपन्नं भवति ॥





ओमभ्यादाने ॥ ८,२.८७ ॥


_____ काशिकावृत्तिः८,२.८७:

अभ्यादानं प्रारम्भः, तत्र यः ओंशब्दः तस्य प्लुतो भवति ।
ओ३मग्निमील्ले पुरोहितम् ।
अभ्यादाने इत्किम् ? ओमित्येतदक्षरमुद्गीथमुपासीत ॥





ये यज्ञकर्मणि ॥ ८,२.८८ ॥


_____ काशिकावृत्तिः८,२.८८:

ये इत्येतस्य यज्ञकर्मणि प्लुतो भवति ।
ये३ यजामहे ।
यज्ञकर्मणि इति किम् ? ये यजामह इति पञ्चाक्षरमिति स्वध्यायकाले मा भूत् ।
ये यजामहे इत्यत्र+एव अयं प्लुतः इष्यते ।
इह हि न भवति, ये देवासो दिव्येकादश स्थ इति ॥




प्रणवष्टेः ॥ ८,२.८९ ॥


_____ काशिकावृत्तिः८,२.८९:

यज्ञकर्मणि इति वर्तते ।
यज्ञकर्मणि तेः प्रणवः आदेशो भवति ।
क एष प्रणवो नाम ? पादस्य वा अर्धर्चस्य वा अन्त्यमक्षरमुपसंगृह्य तदाद्यक्षरशेषस्य स्थाने त्रिमात्रमोकारमोङ्कारं वा विदधति तं प्रणव इत्याचक्षते ।
अपां रेतांसि जिन्वतो३म् ।
देवान् जिगाति सुम्न्यो३म् ।
टिग्रहणं सर्वदेशर्थम् ।
ओकारः सर्वादेशो यथा स्यात्, व्यञ्जनान्ते अन्त्यस्य मा भूतिति ।
यज्ञकर्मणि इत्येव, आपं रेतांसि जिन्वति ॥





[॰९३२]

याज्यान्तः ॥ ८,२.९० ॥


_____ काशिकावृत्तिः८,२.९०:

याज्या नाम ये याज्याकाण्डे पठ्यन्ते मन्त्राः, तेषामन्त्यो यः टिः स प्लवते यज्ञकर्मणि ।
स्तोमैर्विधेमाग्नये३ ।
जिह्वामग्ने चकृषे हव्यवाह३म् ।
अन्तग्रहणं किम् ? याज्या नाम ऋचः काश्चिद्वाक्यसमुदायरूपः, तत्र यावन्ति वाक्यानि तेषां सर्वेषां टेः प्लुतः प्राप्नोति ।
सर्वान्त्यस्य+एव इष्यते, तदर्थमन्तग्रहणम् ॥





ब्रूहिप्रेष्यश्रौषड्वौषडावहानामादेः ॥ ८,२.९१ ॥

_____ काशिकावृत्तिः८,२.९१:

ब्रूहि प्रेष्य श्रौषट्वौषटावह इत्येतेषामादेः प्लुतो भवति यज्ञकर्मणि ।
अग्नयेऽनुब्रू३हि ।
प्रेष्य अग्नये गोमयान् प्रे३ष्य ।
श्रौषट् अस्तु श्रौ३षट् ।
वौषट् सोमस्ने वीहि वौ३षट् ।
आवह आग्निमा३वह ।
आवह देवान् यजमानाय इत्येवमादावयं प्लुतो न भवति, सर्वे विधयः छन्दसि विकल्प्यन्ते इति ॥





अग्नीत्प्रेषणे परस्य च ॥ ८,२.९२ ॥


_____ काशिकावृत्तिः८,२.९२:

अग्नीधः प्रेषणमग्नीत्प्रेषणम् ।
तत्रादेः प्लुतो भवति परस्य च ।
आ३ श्रा३वय ।
ओ३ श्रा३वय ।
अत्र+एव अयं प्लुत इष्यते ।
तेन इह न भवति, अग्नीदग्नीन् वि हर बर्हिः स्तृणाहि इति ।
तदर्थं केचिद्वक्ष्यमाणं विभाष इत्यभिसम्बध्नन्ति, सा च व्यवस्थितविभाषा इति ।
अपर आह सर्व एव प्लुतः साहसमनिच्छता विभाष विज्ञेयः इति ।
इह तु, उद्धर३ उद्धर, अभिहर३ अभिहर इति छान्दसः प्लुतव्यत्ययः ।
यज्ञकर्मणि इत्येव, ओ श्रावय ॥





विभाषा पृष्टप्रतिवचने हेः ॥ ८,२.९३ ॥


_____ काशिकावृत्तिः८,२.९३:
पृष्टप्रतिवचने विभाषा हेः प्लुतो भवति ।
अकार्षीः कटं देवदत्त ? अकार्षं हि३, अकार्षं हि ।
अलावीः केदारं देवदत्त ? अलाविषं हि३, अलाविषं हि ।
पृष्टप्रतिवचने इति किम् ? कटं करिष्यति हि ।
हेः इति किम् ? करोमि ननु ॥





निगृह्यानुयोगे च ॥ ८,२.९४ ॥


_____ काशिकावृत्तिः८,२.९४:

स्वमतात्प्रच्यावनं निग्रहः ।
अनुयोगः तस्य मतस्य आविष्करणम् ।
तत्र निगृह्यानुयोगे यद्वाक्यं वर्तते तस्य टेः प्लुतो भवति विभाषा ।
अनित्यः शब्दः इति केनचित्प्रतिज्ञातम्, तमुपालिप्सुः उपपतिभिर्निगृह्य सभ्यसूयमनुयुङ्क्ते, अनित्यः शब्द इत्यात्थ३, अनित्यः शब्द इत्यात्थ ।

[॰९३३]

अद्य श्राद्धमित्यात्थ३, अद्य श्राद्धमित्यात्थ ।
अद्यामावास्य+इत्यात्थ३, अद्यामावास्य+इत्यात्थ ।
अद्य अमावास्या इत्येवं वादी युक्त्या प्रच्याव्य स्वमतादेवमनुयुज्यते ॥





आम्रेडितं भर्त्सने ॥ ८,२.९५ ॥


_____ काशिकावृत्तिः८,२.९५:

वाक्यादेः आमन्त्रितस्य इति भर्त्सने द्विर्वचनमुक्तम्, तस्य आम्रेडितं प्लवते ।
चौर चौर३, वृषल वृषल३, दस्यो दस्यो३, घातयिस्यामि त्वा, बन्धयिस्यामि त्वा ।
भर्त्सने पर्यायेण+इति वक्तव्यम् ।
चौर३ चौर, चौर चौर३ ।
तदर्थमाम्रेडितग्रहणं द्विरुक्तोपलक्षणार्थं वर्णयन्ति ॥





अङ्गयुक्तं तिङाकाङ्क्षम् ॥ ८,२.९६ ॥


_____ काशिकावृत्तिः८,२.९६:

अङ्ग इत्यनेन युक्तं तिङन्तमाकाङ्क्षं भर्त्सने प्लवते ।
अङ्ग क्ज३, अङ्ग व्याहर३, इदानीं ज्ञास्यसि जाल्म ।
तिङिति किम् ? अङ्ग देवदत्त, मिथ्या वदसि ।
आकाङ्क्षमिति किम् ? अङ्ग पच ।
न+एतदपरमाकाङ्क्षति ।
भर्त्सने इत्येव, अगाधीष्व, ओदनं ते दास्यमि ॥





विचार्यमाणानाम् ॥ ८,२.९७ ॥


_____ काशिकावृत्तिः८,२.९७:

प्रमाणेन वस्तुपरीक्षणं विचारः, तस्य विषये विचर्यमाणानां वाक्यानां टेः प्लुतो भवति ।
होत्व्यं दीक्षितस्य घा३इ ।
होतव्यं न होतव्यमिति विचार्यते ।
तिष्टेद्यूपा३इ ।
द्यूपा३इ ।
यूपे तिष्ठेत्, यूपे अनुप्रहरेतिति विचार्यते ॥




पूर्वं तु भाषायाम् ॥ ८,२.९८ ॥


_____ काशिकावृत्तिः८,२.९८:

भाषायां विषये विचार्यमाणानां पूर्वमेव प्लवते ।
अहिर्नु३ रज्जुर्नु ।
लोष्ठो नु३ कपोतो नु ।
प्रयोगापेक्षं पूर्वत्वम् ।
इह भाषाग्रहणात्पूर्वयोगश्छन्दसि विज्ञायते ॥





प्रतिश्रवणे च ॥ ८,२.९९ ॥


_____ काशिकावृत्तिः८,२.९९:

प्रतिश्रवणमभ्युपगमः, प्रतिज्ञानम् ।
श्रवणाभिमुख्यं च तत्र अविशेषात्सर्वस्य ग्रहणम् ।
प्रतिश्रवणे यद्वाक्यं वर्तते तस्य टेः प्लुतो भवति ।
मां मे देहि भोः, अहं ते ददामि३ ।
नित्यः शब्दो भवितुमर्हति३ ।
देवदत्त भोः, किमात्थ३ ॥





[॰९३४]

अनुदात्तं प्रश्नान्ताभिपूजितयोः ॥ ८,२.१०० ॥


_____ काशिकावृत्तिः८,२.१००:

अनुदात्तः प्लुतो भवति प्रश्नान्ते, अभिपूजिते च अगम३ः पूर्वा३न् ग्रामा३न् ग्रामा३नग्निभूता३इ, पटा३उ ? अग्निभूते, पंटो इत्येतयोः प्रश्नान्ते वर्तमानयोणनुदात्तः प्लुतो भवति ।
अगमः इत्येवमादीनां तु अनन्त्यस्य अपि प्रश्नाख्यानयोः (*८,२.१०५) इति स्वरितः प्लुतो भवति ।
अभिभूजिते शोभनः खल्वसि माणवक३ ॥





चिदिति च+उपमार्थे प्रयुज्यमाने ॥ ८,२.१०१ ॥


_____ काशिकावृत्तिः८,२.१०१:

अनुदात्तमिति वर्तते ।
चितित्येतस्मिन्निपाते उपमार्थे प्रयुज्यमाने वाक्यस्य टेः अनुदात्तः प्लुतो भवति ।
प्लुतोऽप्यत्र विधीयते, न गुणमात्रमग्निचिद्भाया३त् ।
राजचिद्भाया३त् ।
अग्निरिव भायात्, राजेव भायातित्यर्थः ।
उपमार्थे इति किम् ? कथञ्चिदाहुः ।
प्रयुज्यमाने इति किम् ? अग्निर्माणवको भायात् ॥





उपरिस्विदासीदिति च ॥ ८,२.१०२ ॥


_____ काशिकावृत्तिः८,२.१०२:

अनुदात्तमिति वर्तते ।
उपरिस्विदासीतित्येतस्य टेः अनुदत्तः प्लुतो भवति ।
अंधः स्विदासी३तुपरि स्विदासी३त् ।
अधः स्विदासीदित्यत्र विचार्यमाणानाम् (*८,२.९७) इति उदात्तः प्लुतः, उपरि स्विदासीतित्यत्र तु अनेन अनुदात्तः ॥




स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु ॥ ८,२.१०३ ॥


_____ काशिकावृत्तिः८,२.१०३:

स्वरितः प्लुतो भवति आम्रेडिते परतः असूयायाम्, सम्मतौ, कोपे, कुत्सने च गम्यमाने ।
वाक्यादेरामन्त्रितस्य असूयासम्मतिकोपकुत्सनभर्त्सनेषु (*८,१.८) इति द्विर्वचनमुक्तम्, तत्र अयं प्लुतविधिः ।
असूयायां तवत् माणवक३ माणवक, अभिरूपक३ अभिरूपक, रिक्तं त आभिरूप्यत्म् ।
सम्मतौ माणवक३ माणवक, अभिरूपक३ अभिरूपक, शोभनः खल्वसि ।
कोपे माणवक३ माणवक, अविनीतक३ अविनीतक, इदानीं ज्ञास्यसि जाल्म ।
कुत्सने शाक्तीक३ शाक्तीक, याष्टीक३ याष्टीक, रिक्ता ते शक्तिः ॥
असूयादिषु वावचनं कर्तव्यम् ।
माणवक माणवक इत्येवमाद्यपि यथा स्यात् ॥





[॰९३५]

क्षियाशीःप्रैषेषु तिङाकाङ्क्षम् ॥ ८,२.१०४ ॥


_____ काशिकावृत्तिः८,२.१०४:

स्वरितः इति वर्तते ।
क्षिया आचरभेदः, आशीः प्रार्थनाविशेषः, शब्देन व्यापारणं प्रैषः, एतेषु गम्यमानेषु तिङन्तमाकाङ्क्षणं यत्तस्य स्वरितः प्लुतो भवति ।
आकाङ्क्षति इति आकाङ्क्षम्, तिङन्तमुत्तरपदमाकाङ्क्षति इत्यर्थः ।
क्षियायां तावत् स्वयं रथेन याति३, उपाध्यायं पदातिं गमयति इति ।
स्वयमोदनं ह भुङ्क्ते३, उपाध्यायं सक्तून् पाययति ।
पूर्वमत्र तिङन्तमुत्तरपदमाकाङ्क्षति इति साकाङ्क्षं भवति ।
आशिषि सुतांश्च लप्सीष्ट३ धनं च तात ।
छन्दोऽध्येषीष्ट३ व्याकरणं च भद्र ।
प्रैषे कटं कुरु३ ग्रामं च गच्छ ।
यवान् लुनीहि३ सक्तूंश्च पिब ।
आकाङ्क्षमिति किम् ? दीर्घं ते आयुरस्तु ।
अग्नीन् विहर ॥




अनन्त्यस्य अपि प्रश्नाख्यानयोः ॥ ८,२.१०५ ॥


_____ काशिकावृत्तिः८,२.१०५:

पदस्य इति वर्तते, स्वरितमिति च ।
अनन्त्यस्य अपि अन्त्यस्यापि पदस्य टेः प्लुतो भवति प्रश्ने आख्याने च ।
अगम३ः पूर्वा३न् ग्रामा३नग्निभूता३इ, पटा३उ ।
सर्वेषमेव पदानामेष स्वरितः प्लुतः ।
अन्त्यस्य अनुदात्तं प्रश्नान्ताभिपूजितयोः (*८,२.१००) इति अनुदत्तोऽपि पक्षे भवति ।
आख्याने अगम३ः पूर्वा३न् ग्रामा३न् भो३ः ॥





प्लुतावैच इदुतौ ॥ ८,२.१०६ ॥


_____ काशिकावृत्तिः८,२.१०६:

दूराद्धूतादिषु प्लुतो विहितः ।
तत्र ऐचः प्लुतप्रसङ्गे तदवयवभूतौ इदुतौ प्लुतौ ।
ऐ३तिकायन ।
औ३पमन्यव ।
अत्र यदेवर्णोवर्णयोः अवर्णस्य च संविभागः, तदा इदुतौ द्विमात्रावनेन प्लुतौ क्रियेते ।
प्लुतौ इति हि क्रियानिमित्तोऽयं व्यपदेशः ।
इदुतौ प्लवेते वृद्धिं गच्छतः इत्यर्थः ।
तावती च सा प्लुतिर्भवति यया तावेचौ त्रिमात्रौ सम्पद्येते ।
यदा तु अर्धमात्रा अवर्णस्य अध्यर्धमात्रा इवर्णोवर्णयोः, तदा तौ अर्धतृतीयमात्रौ क्रियेते इति ।
भष्ये तु उक्तम्, इष्यते एव चतुर्मात्रः प्लुतः इति ।
तत्कथम् ? समप्रविभागपक्षे इदुतोरनेन त्रिमात्रः प्लुतो विधीयते ॥




एचोऽप्रगृह्यस्य अदूराध्दूते पूर्वस्य अर्धस्य अदुत्तरस्य+इदुतौ ॥ ८,२.१०७ ॥


_____ काशिकावृत्तिः८,२.१०७:

एचोऽप्रगृह्यस्य अदूराद्धूते प्लुतविषयस्य अर्धस्य अकारः आदेशो भवति, स च प्लुतः, उत्तरस्ये कारोकारावादेशौ भवतः ।
विषयपरिगणनं कर्तव्यम् प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवदयाज्यान्तेष्विति वक्तव्यम् ।

[॰९३६]

प्रश्नान्ते अगम३ः पूर्वा३न् ग्रामा३नग्निभूता३इ, पटा३उ ।
अभिपूजिते भद्रं करोषि माणवक३ अग्निभूता३इ, पटा३उ ।
विचार्यमाणे होतव्यं दीक्षितस्य गृहा३इ प्रत्यभिवादे आयुष्मानेधि अग्निभूता३इ, पटा३उ ।
याज्यान्ते उक्षन्नाय वशान्नाय सोमपृष्ठाय वेधसे ।
स्तोवैर्विधेमाग्नया३इ ।
सोऽयमाकरः प्लुतो यथाविषयमुदात्तोऽनुदात्तः स्वरितो वेदितव्यः ।
इदुतौ पुनरुदात्तावेव भवतः ।
परिगणनं किम् ? विष्णुभूते विष्णुभूते३ घातयिष्यामि त्वा ।
आगच्छ भो माणवक विष्णुभूते ।
परिगणने च सति अदूराद्धूते इति न वक्तव्यम् ।
पदान्तग्रहणं तु कर्तव्यम् ।
इह मा भूत्, भद्रं करोषि गौः इति ।
अप्रगृह्यस्य इति किम् ? शोभने खलु स्तः खट्वे३ ।
आमन्त्रिते छन्दसि प्लुतविकरोऽयं वक्तव्यः ।
अग्ना३इ पत्नी वा३इ ॥





तयोर्य्वावचि संहितायाम् ॥ ८,२.१०८ ॥


_____ काशिकावृत्तिः८,२.१०८:

तयोः इदुतोः यकारवकारादेशौ भवतोऽचि संहितायां विषये ।
संहितायामित्येतच्चाधिकृतम् ।
इत उतरमाध्यायपरिसमाप्तेः यद्वक्ष्यामः संहितायामित्येवं तद्वेदितव्यम् ।
अग्ना३याशा ।
पटा३वाशा ।
अग्ना३यिन्द्रम् ।
पटा३वुदकम् ।
अचि इति किम् ? अग्ना३इ ।
पटा३उ ।
संहितायामिति किं ? अग्ना३इ इन्द्रम् ।
पटा३उ उदकम् ।
इदुतोरसिद्धत्वातिको यणचि (*६,१.७७) इति न प्राप्नोति इत्ययमारम्भः ।
अथापि कथञ्चित्तयोः सिद्धत्वं स्यात्, एवमपि स्वर्णदीर्घत्वनिवृत्त्यर्थं शाकलनिवृत्त्यर्थं च वक्त्वयमेतत् ।
अथापि तन्निवृत्त्यर्थं यत्नान्तरमस्ति, तथापि यण्स्वरनिवृत्त्यर्थमिदमारभ्यते ।
यणादेशस्य असिद्धत्वातुदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य (*८,२.४) इत्येष स्वरो न भवति ॥
किं नु यणा भवति इह न सिद्धं य्वाविदुतोर्यदयं विदधाति ।
तौ च मम स्वरसन्धिषु सिद्द्धौ शाकलदीर्घविधी तु निवर्त्यौ ॥
इक्तु यदा भवति प्लुतपूर्वस्तस्य यणं विदधात्यपवादम् ।
तेन तयोश्च न शाकलदीर्घौ यण्स्वरबधनमेव तु हेतुः ॥
इति श्रीवामनविरचितायां काशिकायां वृत्तौ अष्टमाध्यायस्य द्वितीयः पादः ।



अष्टमाध्यायस्य तृतीयः पादः ।





[॰९३७]

मतुवसो रु सम्बुद्धौ छन्दसि ॥ ८,३.१ ॥


_____ काशिकावृत्तिः८,३.१:

संहितायामिति वर्तते ।
मत्वन्तस्य वस्वन्तस्य च पदस्य रुः इत्ययमादेशो भवति सम्बुद्धौ परतः छन्दसि विषये ।
मत्वन्तस्य तावत् इन्द्र मरुत्व इह पाहि सोमम् ।
हरिवो मेदिनं त्वा ।
मरुतोऽस्य सन्ति, हरयोऽस्य सन्ति इति मतुप् ।
सुप्तकारयोः हल्ङ्यादिलोपे संयोगान्तस्य लोपे च कृते नकारस्य रुः भवति ।
वस्वन्तस्य खल्वपि मीढ्वस्तोकाय तनयाय मृल ।
इन्द्र साह्वः ।
क्वसोर्निपातनं दाश्वान्साह्वान्मीढ्वांश्च इति ।
मतुवसोः इति किम् ? ब्रह्मन् स्तोष्यामः ।
सम्बुद्धौ इति किम् ? य एवं विद्वानग्निमुपतिष्ठते ।
छन्दसि इति किम् ? हे गोमन् ।
हे पपिवन् ।
वन उपसङ्ख्यानं कर्तव्यम् ।
यस्त्वायन्तं वसुना प्रातरित्वः ।
इणः प्रातःपूर्वस्य छन्दसि क्वनिप् ।
विभाषा भवद्भगवदघवतामोच्चावस्य ।
छन्दसि भाषायां च भवत्भगवतघवतित्येतेषां विभाष रुः वक्तव्यः, अवशब्दस्य च ओकारादेशः ।
सामान्येन छन्दसि भाषायां च+इदं वचनम् ।
भवत् हे भोः, हे भवन् ।
भगवत् हे भगोः, हे भगवन् ।
अघवन् हे अघोः, हे अघवन् ।
निपातनविज्ञानाद्वा सिद्धम् ।
अथ वा भो इत्येवमादयो निपाता द्रष्टव्याः ।
असम्बुद्धौ अपि द्विवचनबहुवचनयोरपि दृश्यन्ते ।
भो देवदत्तयज्ञदत्तौ ।
भो देवदत्तयज्ञदत्तविष्णुमित्राः ।
तथा स्त्रियामपि च दृश्यन्ते, भो ब्राह्मणि इत्यादि ।
संहिताधिकार उत्तरत्र उपयुज्यते, यत्र भिन्नपदस्थौ निमित्तनिमित्तिनौ नश्छव्यप्रशान् (*८,३.७) इति ॥





[॰९३८]

अत्रानुनासिकः पूर्वस्य तु वा ॥ ८,३.२ ॥


_____ काशिकावृत्तिः८,३.२:

अधिकारोऽयम् ।
इत उत्तरं यस्य स्थाने रुः विधीयते ततः पूर्वस्य तु वर्णस्य वा अनुनासिको भवति इत्येतदधिकृतं वेदितव्यम्, यदित ऊर्ध्वमनुक्रमिष्यामस्तत्र ।
वक्ष्यति समः सुटि (*८,३.५) ।
संस्कर्ता ।
संस्कतुम् ।
संस्कर्तव्यम् ।
अत्रग्रहणं रुणा सह संनियोगप्रतिपत्त्यर्थम् ।
अधिकारपरिमाणापरिग्रहे हि सति ढो ढे लोप (*८,३.१३) इत्यत्र अपि पूर्वस्य अनुनासिकः आशङ्क्येत ॥





अतोऽटि नित्यम् ॥ ८,३.३ ॥


_____ काशिकावृत्तिः८,३.३:

अटि परतो रोः पूर्वस्य आकारस्य स्थाने नित्यमनुनासिकादेशो भवति ।
दीर्घादटि समानपादे (*८,३.९) इति त्वं वक्ष्यति, ततः पूर्वस्य आतोऽनुनासिकविकल्पे प्राप्ते नित्यार्थं वचनम् ।
महामसि ।
महामिन्द्रो य ओजसा ।
देवामच्छा दीद्यत् ।
केचिदनुस्वारमधीयते स च्छान्दसो व्यत्ययो द्रष्टव्यः ।
आतः इति किम् ? ये वा वनस्पतींरनु ।
अटि इति किम् ? भवांश्चरति ।
भवांश्लाघयति ।
नित्यग्रहणं विस्पष्टार्थम् ॥





अनुनासिकात्परोऽनुस्वारः ॥ ८,३.४ ॥


_____ काशिकावृत्तिः८,३.४:

अन्यशब्दोऽत्राध्याहर्तव्यः ।
तदपेक्षया चेयमनुनासिकातिति पञ्चमी ।
अनुनासिकादन्यो यो वर्णः रोः पूर्वः, यस्य अनुनासिकः न कृतः, ततः परोऽनुस्वार आगमः भवति ।





वक्ष्यति समः सुति ॥ ८,३.५ ॥


_____ काशिकावृत्तिः८,३.५:

संस्कर्ता ।
संस्कर्तुम् ।
संस्कर्तव्यम् ।





पुमः खय्यम्परे ॥ ८,३.६ ॥


_____ काशिकावृत्तिः८,३.६:

पुंस्कामा ।





नश्छव्यप्रशान् ॥ ८,३.७ ॥


_____ काशिकावृत्तिः८,३.७:

भवांश्चरति ।
केचित्तु परशब्दमेव अन्यार्थं वर्णयन्ति ।
अनुनासिकात्परः अनुनासिकातन्यः अनुस्वारो भवति ।
यस्मिन् पक्षेऽनुनासिको न अस्ति तत्र अनुस्वारागमो भवति ।
स तु कस्य आगमो भवति ? रोः पूर्वस्य+एव+इति वर्तते, व्याख्यानादादेशो न भवति ॥
समः सुटि (*८,३.५) ।
रुः वर्तते ।
समः इत्येतस्य रुः भवति सुटि परतः संहितायां विषये ।
संस्कर्ता ।
संस्कर्तुम् ।
संस्कर्तव्यम् ।
संस्स्कर्ता ।
संस्स्कर्तुम् ।
संस्स्कर्तव्यम् ।
अत्र रोर्विसर्जनीये कृते वा शरि (*८,३.६६) इति पक्षे विसर्जनीय एव प्राप्नोति ।
व्यवस्थितविभाषा द्रष्टव्या ।
तेन अत्र नित्यं सकार एव भवति ।
अस्मिन्नेव सूत्रे सकारादेशो वा निर्दिश्यते, समः सुटि इति द्विसकारको निर्देशः ।

[॰९३९]

समः इति किम् ? उपस्कर्ता ।
सुटि इति किम् ? संकृतिः ।
कश्चिदाह संपुंकानां सो वक्तव्यः ।
रुविधौ ह्यनिष्टप्रसङ्गः, संस्स्कर्ता, पुंस्स्कामा, कांस्स्कानिति ॥
पुमः खय्यम्परे (*८,३.६) ।
पुमित्येतस्य रुः भवति अम्परे खयि परतः ।
पुंस्कामा, पुंस्कामा ।
पुंस्पुत्रः, पुंस्पुत्रः ।
पुंस्फलं पुंस्फलम् ।
पुंश्चली, पुंश्चली ।
पुंस्कामा इत्यत्र विसर्जनीयस्य कुप्वोः ःकःपौ च (*८,३.३७) इति प्राप्नोति ।
तस्मादत्र सकार एबादेशो वक्तव्यः ।
द्विसकारकनिर्देशपक्षे तु पूर्वस्मादेव सूत्रात्सः इत्यनुवर्तते ।
रुत्वं तु अनुवर्तमानमपि नात्राभिसम्बध्यते, सम्बन्धानुवृत्तिस्तस्य इति ।
खयि इति किम् ? पुंदासः ।
पुंगवः ।
अम्परे इति किम् ? पुंक्षीरम् ।
पुंक्षुरम् ।
परग्रहणं किम् ? पुमाख्याः ।
पुमाचारः ॥
नश्छव्यप्रशान् (*८,३.७) ।
अम्परे इति वर्तते ।
नकारान्तस्य पदस्य प्रशान्वर्जितस्य रुः भवति अम्परे छवि परतः ।
भवांश्छादयति, भवांश्छादयति ।
भवांश्चिनोति, भवांश्चिनोति ।
भवांष्टीकते, भवांष्टीकते ।
भवांस्तरति, भवांस्तरति ।
छवि इति किम् ? भवान् करोति ।
अप्रशानिति किम् ? प्रशान् छाव्यति ।
प्रशान् चिनोति ।
अम्परे इत्येव, भवान्त्सरुकः ॥





उभयथ र्क्षु ॥ ८,३.८ ॥


_____ काशिकावृत्तिः८,३.८:

पुर्वेण नित्ये प्राप्ते विकल्पः क्रियते ।
नकारान्तस्य पदस्य छवि परतः अम्परे उभयथा ऋक्षु भवति, रुर्वा नकारो वा ।
तस्मिंस्त्वा दधाति, तस्मिन् त्वा दधाति ।
ऋक्षु इति किम् ? तांस्त्वं खाद सुखादितान् ॥





दीर्घादटि समानपादे ॥ ८,३.९ ॥


_____ काशिकावृत्तिः८,३.९:

नः इत्यनुवरते ।
दीर्घादुत्तरस्य पदान्तस्य नकारस्य रुः भवति अटि परतः, तौ चेन्निमित्तनिमित्तिनौ समानपादे भवतः ।
ऋक्षु इति प्रकृतत्वादृक्पादः इह गृह्यते ।
परिधींरति ।
देवामच्छा दीद्यत्महामिन्द्रो य ओजसा ।
दीर्घातिति किम् ? अहन्न्नहिम् ।
अटि इति किम् ? इभ्यान् क्षत्रियान् ।
समनपादे इति किम् ? यातुधानानुपस्पृशः ।
उभयथा इत्येव, आदित्यान् हवामहे ॥





[॰९४०]

नॄन् पे ॥ ८,३.१० ॥


_____ काशिकावृत्तिः८,३.१०:

नॄनित्येतस्य नकारस्य रुर्भवति पशब्दे परतः ।
अकारः उच्चारणार्थः ।
नॄंः पाहि, नॄंः पाहि ।
नॄंः प्रीणीहि, नॄंः प्रीणीहि ।
पे इति किम् ? नॄन् भोजयति ।
उभयथा इत्यपि केचिदनुवर्तयन्ति नॄन् पाहि इत्यपि यथा स्यात् ॥





स्वतवान् पायौ ॥ ८,३.११ ॥


_____ काशिकावृत्तिः८,३.११:

स्वतवानित्येतस्य नकारस्य रुर्भवति पायुशब्दे परतः ।
स्वतवांः पायुरग्ने ॥




कानाम्रेडिते ॥ ८,३.१२ ॥


_____ काशिकावृत्तिः८,३.१२:

कानित्येतस्य नकार्स्य रुः भवति आम्रेडिते परतः ।
कांस्कानामन्त्रयते ।
कांस्कान् भोजयति ।
अस्य कस्कदिषु पाठो द्रष्टव्यः ।
तेन कुप्वोः ःकःपौ च (*८,३.३७) इति न भवति ।
समः सुटि (*८,३.५) इत्यतो वा सकारोऽनुवर्तते, स एव अत्र विधीयते ।
पूर्वेषु योगेषु सम्बन्धावृत्त्या गतस्य रोः अत्र अनभिसम्बन्धः ।
आम्रेडिते इति किम् ? कान् कान् पश्यति ।
एकोऽत्र कुत्सायाम् ॥





ढो ढे लोपः ॥ ८,३.१३ ॥


_____ काशिकावृत्तिः८,३.१३:
ढकारस्य ढकारे लोपो भवति ।
सत्यपि पदाधिकारे तस्य असम्भवादपदान्तस्य ढकारस्य अयं लोपो विज्ञायते ।
लीढम् ।
उपागूढम् ।
ष्टुत्वस्य अत्र सिद्धत्वमाश्रयाद्द्रष्टव्यम् ।
श्वलिड्ढौ कते इत्यत्र तु जश्वे कृते कार्यं न अस्ति इति लोपाभावः ।
न च ढलोपो जश्त्वापवादो विज्ञातुं शक्यते, तस्य हि लीढादिः विषयः सम्भवति ।
तत्र हि श्रुतिकृतमानन्तर्यमस्ति ।
शास्त्रकृतं तु यदा नानन्तर्यं ष्टुत्वस्य असिद्धत्वेन प्राप्तम्, तत्तु सूत्रकरणसामर्थ्याद्बाध्यते ।
श्वलिड्ढौकते इत्यत्र तु न श्रुतिकृतमनन्तर्यम्, न शास्त्रकृतमिति अविषयोऽयं ढलोपस्य ॥




रो रि ॥ ८,३.१४ ॥


_____ काशिकावृत्तिः८,३.१४:

रेफस्य रेफे परतो लोपो भवति ।
नीरक्तम् ।
दूरक्तम् ।
अग्नी रथः ।
इन्दू रथः ।
पुना रक्तं वासः ।
प्राता राजक्रयः ।
पदस्य इत्यत्र विशेषणे षष्ठी, तेन अपदान्तस्य अपि रेफस्य लोपो भवति, जर्गृधेः अजर्घाः, पास्पर्धेः अपास्पाः इति ॥





[॰९४१]

खरवसानयोर्विसर्जनीयः ॥ ८,३.१५ ॥


_____ काशिकावृत्तिः८,३.१५:

रः इति वर्तते ।
रेफान्तस्य पदस्य खरि परतोऽवसाने च विसर्जनीयादेशो भवति ।
वृक्षश्छादयति ।
प्लक्षश्छादयति ।
वृक्षस्तरति ।
प्लक्षस्तरति ।
अवसाने वृक्षः ।
प्लक्षः ।
खरवसानयोः इति किम् ? अग्निर्नयति ।
वायुर्नयति ।
इह नृकुट्यां भवः नार्कुटः, नृपतेरपत्यं नार्पत्यः इति वृद्धेर्बहिरङ्गलक्षणत्वात्तदाश्रयस्य रेफस्य असिद्धं बहिरङ्गमिति असिद्धत्वाद्विसर्जनीयो न भवति ॥





रोः सुपि ॥ ८,३.१६ ॥


_____ काशिकावृत्तिः८,३.१६:

रु इत्यस्य रेफस्य सुपि परतो विसर्जनीयादेशो भवति ।
पयःसु ।
सर्पिःषु ।
यशःसु ।
सुपि इति सप्तमीबहुवचनं गृह्यते ।
सिद्धे सत्यारम्भो नियमार्थः, रोरेव सुपि विसर्जनीयादेशः, न अन्यस्य ।
गीर्षु धूर्षु ॥





भोभगोअघोअपूर्वस्य योऽशि ॥ ८,३.१७ ॥


_____ काशिकावृत्तिः८,३.१७:

भोर्भगोरघोरित्येवं पूर्वस्य अवर्णपूर्वस्य च रोः रेफस्य यकारादेशो भवति अशि परतः ।
भो अत्र ।
भगो अत्र ।
अघो अत्र ।
अभो ददाति ।
भगो ददाति ।
अघो ददाति ।
अपूर्वस्य क आस्ते, कयास्ते ।
ब्राह्मणा ददति ।
पुरुषा ददति ।
भोभगोअघोअपूर्वस्य इति किम् ? अग्निरत्र ।
वायुरत्र ।
अश्ग्रहणं किम् ? वृक्षः ।
प्लक्षः ।
न+एतदस्ति, संहितायामित्यनुवर्तते ।
तर्हि अश्ग्रहणमुत्तरार्थम् ।
हलि सर्वेषाम् (*८,३.२२) इत्ययं लोपः अशि हलि यथा स्यात्, इह मा भूत्, वृक्षं वृश्चति इति वृक्षवृट्, तमाचष्टे यः स वृक्षवयति, वृक्षवयतेरप्रत्ययः वृक्षव्करोति ।
अथ तत्र+एव अश्ग्रहणं कस्मान्न कृतम् ? उत्तरार्थम्, मोऽनुस्वारः (*८,३.२३) इति हल्मात्रे यथा स्यात् ।
व्योर्लघुप्रत्यत्नतरः शाकटायनस्य (*८,३.१८), लोपः शाकल्यस्य (*८,३.१९) इत्येतच्च वृक्षव्करोति इत्यत्र मा भूतित्यश्ग्रहणम् ।
रोः इत्येव, प्रातरत्र ।
पुनरत्र ॥





व्योर्लघुप्रयत्नतरः शाकटायनस्य ॥ ८,३.१८ ॥


_____ काशिकावृत्तिः८,३.१८:

वकारयकारयोः भोभगोअघोअवर्णपूर्वयोः पदान्तयो लघुप्रयत्नतर आदेशो भवति अशि परतः शाकटायनस्य आचर्यस्य मतेन ।
भोयत्र, भो अत्र ।
भगोयत्र, भगो अत्र ।
अघोयत्र, अभो अत्र ।
कयास्ते, क आस्ते ।
अस्मायुद्धर, अस्मा उद्धर ।
असवादित्यः, असा आदित्यः ।
द्वावत्र, द्वा अत्र ।
द्ववानय, द्वा आनय ।
लघुप्रयत्नतरत्वमुच्चारणे स्थानकरणशैथिल्यम् ।
स्थानं ताल्वादि ।
करणं जिह्वामूलादि ।
तयोरुच्चारणे शैथिल्यं मन्दप्रयत्नता ॥




[॰९४२]

लोपः शाकल्यस्य ॥ ८,३.१९ ॥


_____ काशिकावृत्तिः८,३.१९:

वकारयकारयोः पदान्तयोः अवर्णपूर्वयोः लोपो भवति शाकल्यस्य आचार्यस्य मतेन अशि परतः ।
क आस्ते कयास्ते ।
काक आस्ते, काकयास्ते ।
अस्मा उद्धर, अस्मायुद्धर ।
द्वा अत्र, द्वावत्र ।
असा आदित्यः, असावादित्यः ।
शाकल्यग्रहणं विभाषार्थम् ।
तेन यदाऽपि लघुप्रयत्नतरो न भवति आदेशः, तदापि व्योः पक्षे श्रवणं भवति ॥





ओतो गर्ग्यस्य ॥ ८,३.२० ॥


_____ काशिकावृत्तिः८,३.२०:

ओकारादुत्तरस्य यकारस्य लोपो भवति गार्ग्यस्य आचार्यस्य मतेन अशि परतः ।
भो अत्र ।
भगो अत्र ।
भो इदम् ।
भगो इदम् ।
नित्यार्थोऽयमारम्भः ।
गार्ग्यग्रहणं पूजार्थम् ।
योऽयमलघुप्रयत्नस्य विकल्पेन लोपः क्रियते सोऽनेन निवर्त्यते ।
लघुप्रयत्नतरः तु भवत्येव यकारः ।
भो अत्र भोयत्र ।
भगो अत्र, भगोयत्र ।
अघो अत्र, अघोयत्र ।
केचित्तु सर्वमेव यकारमत्र न+इच्छन्ति ॥




उञि च पदे ॥ ८,३.२१ ॥


_____ काशिकावृत्तिः८,३.२१:

अवर्णपूर्वयोः व्योः पदान्तयोर्लोपो भवति उञि च पदे परतः ।
स उ एकविंशवर्तनिः ।
स उ एकाग्निः ।
पदे इति किम् ? तन्त्र उतम्, तन्त्रयुतम् ।
वेञः सम्प्रसारणे कृते उञिति भूतपूर्वेण ञकारेण शक्यते प्रतिपत्तुमिति ।
अथ उञित्येवं रूपो निपातः प्रतिपदोक्तोऽस्ति ? तदा लाक्षणिकत्वाद्वेञादेशस्य ग्रहणमिह न अस्ति, उत्तरार्थं पदग्रहणं क्रियते ॥





हलि सर्वेषां ॥ ८,३.२२ ॥


_____ काशिकावृत्तिः८,३.२२:

हलि परतः भोभगोअघोअपूर्वस्य यकारस्य पदान्तस्य लोपो भवति सर्वेषामाचार्याणां मतेन ।
भो हसति ।
भगो हसति ।
अघो हसति ।
भो याति ।
भगो याति ।
अघो याति ।
वृक्षा हसन्ति ।
सर्वेषां ग्रहणं शाकटायनस्य अपि लोपो यथा स्यात्, लघुप्रयत्नतरो मा भूतिति ॥




मोऽनुस्वारः ॥ ८,३.२३ ॥


_____ काशिकावृत्तिः८,३.२३:

मकारस्य पदान्तस्य अनुस्वारः आदेशो भवति हलि परतः ।
कुण्डं हसति ।
वनं हसति ।
कुण्ड याति ।
वनं याति ।
हलि इत्येव, त्वमत्र ।
किमत्र ।
पदन्तस्य इत्येव, गम्यते ।
रम्यते ॥





[॰९४३]

नश्च अपदान्तस्य झलि ॥ ८,३.२४ ॥


_____ काशिकावृत्तिः८,३.२४:

नकारास्य मकारस्य च अपदान्तस्य अनुस्वारादेशो भवति झलि परतः ।
पयांसि ।
यशांसि ।
सर्पींषि ।
मकारस्य आक्रंस्यते ।
आचिक्रंस्यते ।
अधिजिगांसते ।
अपदान्तस्य इति किम् ? राजत्भुङ्क्ष्व ।
झलि इति किम् ? रम्यते ।
गम्यते ॥





मो राजि समः क्वौ ॥ ८,३.२५ ॥


_____ काशिकावृत्तिः८,३.२५:

समो मकारस्य मकारः आदेशो भवति राजतौ क्विप्प्रत्ययान्ते परतः ।
सम्राट् ।
साम्राज्यम् ।
मकारस्य मकारवचनमनुस्वारनिवृत्त्यर्थम् ।
राजि इति किम् ? संयत् ।
समः इति किम् ? किंराट् ।
क्वौ इति किम् ? संराजिता ।
संराजितुम् ।
संराजितव्यम् ॥





हे मपरे वा ॥ ८,३.२६ ॥


_____ काशिकावृत्तिः८,३.२६:

हकारे मकारपरे परतो मकारस्य वा मकार आदेशो भवति ।
किं ह्मलयति, किं ह्मलयति ।
कथं ह्मलयति, कथं ह्मलयति ।
यवलपरे यवला वा ।
यवलपरे हकारे मकारस्य यवला यथासङ्ख्यं वा भवन्ति इति वक्तव्यम् ।
किय्ं ह्यः, किं ह्यः ।
किव्ं ह्वलयति, किं ह्वलयति ।
किल्ं ह्लादयति, किं ह्लाहयति ॥




नपरे नः ॥ ८,३.२७ ॥


_____ काशिकावृत्तिः८,३.२७:

नकारपरे हे परतः मकारस्य वा नकारादेशः भवति ।
किन् ह्नुते, किं ह्नुते ।
कथन् ह्नुते, कथं ह्नुते ॥





ङ्णोः कुक्टुक्शरि ॥ ८,३.२८ ॥


_____ काशिकावृत्तिः८,३.२८:

ङकारणकारयोः पदान्तयोः कुक्टुकित्येतावागमौ वा भवतः शरि परतः ।
प्राङ्क्शेते, प्राङ्शेते ।
प्राङ्क्षष्ठः, प्राङ्षष्ठः ।
प्राङ्क्साये, प्राङ्साये ।
णकारस्य वण्ट्शेते, वण्शेते ।
पूर्वन्तकरणं प्राङ्क्छेते इत्यत्र छन्त्वर्थम् ।
शश्छोऽटि (*८,४.६३) इति हि पदन्ताज्झयः इति तद्विज्ञायते ।
इह मा भूत्, पुरा क्रूरस्य विसृपो विरप्शिन् ।
प्राङ्क्सायः इत्यत्र अपि सात्पदाद्योः (*८,३.१११) इति षत्वप्रतिषेधार्थं च ।
वण्ट्सायः इत्यत्र च न पदान्ताट्टोरनाम् (*८,४.४२) ष्टुत्वप्रतिषेधार्थम् ॥





[॰९४४]

डः सि ढुट् ॥ ८,३.२९ ॥

_____ काशिकावृत्तिः८,३.२९:

डकारन्तात्पदातुत्तरस्य सकारादेः पदस्य वा धुडागमो भवति ।
श्वलिट्त्साये, श्वलिट्साये ।
मधुलिट्त्साये, मधुलिट्साये ।
परादिकरणं न पदान्ताट्टोरनाम् (*८,४.४२) इति ष्टुत्वप्रतिषेधार्थम् ॥





नश्च ॥ ८,३.३० ॥


_____ काशिकावृत्तिः८,३.३०:

नकारान्तात्पदातुत्तरस्य सकारस्य वा धुडागमो भवति ।
भवान्त्साये, भवान् साये ।
महान्त्साये, महान् साये ।
धुटः चर्त्वस्य च असिद्धत्वात्नश्छव्यप्रशान् (*८,३.७) इति रुत्वं न भवति ॥





शि तुक् ॥ ८,३.३१ ॥


_____ काशिकावृत्तिः८,३.३१:

नकारस्य पदन्तस्य शकारे परतो वा तुगागमो भवति ।
भवाञ्च्छेते ।
पूर्वान्तकरणं छत्वार्थम् ।
यद्येवं कुर्वज्च्छेते इत्यत्र नकारस्य अपदान्तत्वात्णत्वं प्राप्नोति ? तत्र समधिमाहुः, स्तोः श्चुना श्चुः (*८,४.४०) इत्यत्र योगविभागः क्रियते, णत्वप्रतिषेधार्थं स्तोः श्चुना णकारो न भवति इति, ततः श्चुः इति ॥




ङमो ह्रस्वादचि ङमुण्नित्यम् ॥ ८,३.३२ ॥


_____ काशिकावृत्तिः८,३.३२:

ह्रस्वात्परः यो ङं तदन्तात्पदातुत्तरस्य अचः ङमुडागमो भवति नित्यम् ।
ङणनेभ्यो यथासङ्ख्यं ङणना भवन्ति ।
ङकारान्तात्ङुट् प्रत्यङ्ङास्ते ।
णकारान्तात्णुट् वण्णास्ते ।
वण्णवोचत् ।
नकारान्तात्नुट् कुर्वन्नास्ते ।
कुर्वन्नवोचत् ।
कृषन्नास्ते ।
कृषन्नवोचत् ।
ङमः इति किम् ? त्वमास्से ।
ह्रस्वातिति किम् ? प्राङास्ते ।
भवानास्ते ।
अचि इति किम् ? प्रत्यङ्करोति ।
इह परमदण्डिनौ, परमदण्दिना इति उत्तरपदत्वे चापदादिविधौ इति प्रत्ययलक्षणप्रतिषेधादुत्तरपदस्य पदत्वं न अस्ति इति ङमुट्न भवति ।
अथ वा, उञि च पदे (*८,३.२१) इत्यतः सप्तम्यन्तं पदे इत्यनुवर्वते ।
तेन अजादौ पदे ङमुट्भवति ॥





मय उञो वो वा ॥ ८,३.३३ ॥


_____ काशिकावृत्तिः८,३.३३:

मय उत्तरस्य उञो वा वकारादेशो भवति अचि परतः ।
शंवस्तु वेदिः, शमु अस्तु वेदिः ।
तद्वस्य परेतः, तदु अस्य परेतः ।
किंवावपनम्, किमु आवपनम् ।
प्रगृह्यत्वातुञः प्रकृतिभावे प्राप्ते वकारो विधीयते ।
तस्य असिद्धत्वाधलि इति मोऽनुस्वारः (*८,३.२३) न भवति ॥




[॰९४५]

विसर्जनीयस्य सः ॥ ८,३.३४ ॥


_____ काशिकावृत्तिः८,३.३४:

खरि इत्यनुवर्तते ।
विसर्जनीयस्य सकारः आदेशः भवति खरि परतः ।
वृक्षश्छादयति ।
प्लक्षश्छादयति ।
वृक्षस्ठकारः ।
प्लक्षष्ठकारः ।
वृक्षस्थकारः ।
प्लक्षस्थकारः ।
वृक्षस्चिनोति ।
प्लक्षश्चिनोति ।
वृक्षष्टीकते ।
प्लक्षष्टीकते ।
वृक्षस्तरति ।
प्लक्षस्तरति ॥





शर्परे विसर्जनीयः ॥ ८,३.३५ ॥


_____ काशिकावृत्तिः८,३.३५:

शर्परे खरि परतो विसर्जनीयस्य विसर्जनीयादेशो भवति ।
शशः क्षुरम् ।
पुरुषः क्षुरम् ।
अद्भि प्सातम् ।
वासः क्षौमम् ।
पुरुषः त्सरुः ।
घनाघनः क्षोभणश्चर्षणीनाम् ।
न इति वक्तव्ये विसर्जनीयस्य विसर्जनीयादेशविधानं विकारनिवृत्त्यर्थम्, तेन जिह्वमूलीयोपध्मनीयौ न भवतः ॥





वा शरि ॥ ८,३.३६ ॥


_____ काशिकावृत्तिः८,३.३६:

विसर्जनीयस्य विसर्जनीयादेशो वा भवति शरि परे ।
वृक्षः शेते, वृक्षश्शेते ।
प्लक्षः शेते, प्लक्षश्शेते ।
वृक्षः षण्डे, वृक्षष्षण्डे ।
वृक्षः साये, वृक्षस्साये ।
खर्परे शरि वा लोपो वक्तव्यः ।
वृक्षा स्थातारः, वृक्षाः स्थातारः, वृक्षास्स्थातारः ॥





कुप्वोः ःकःपौ च ॥ ८,३.३७ ॥


_____ काशिकावृत्तिः८,३.३७:

कवर्गपवर्गयोः परतो विसर्जनीयस्य यथासङ्ख्यम् ःकःप इत्येतावादेशौ भवतः, चकाराद्विसर्जनीयश्च ।
वृक्षः करोति, वृक्षः करोति ।
वृक्षः खनति, वृक्षः खनति ।
वृक्षः पचति, वृक्षः पचति ।
वृक्षः फलति, वृक्षः फलति ।
कपौ उच्चारणार्थौ ।
जिह्वामूलीयोपध्मानीयौ एतावादेशौ ।
विसर्जनीयस्य सः (*८,३.३४) इत्येतस्मिन्नाप्राप्ते इदमारभ्यते इति एतस्य बाधकम्, शर्परे विसर्जनीयः (*८,३.३५) इत्येतत्तु न बाध्यते, वासः क्षौमम्, अद्भिः प्सातम् ।
पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्य इति शर्परे विसर्जनीयः (*८,३.३५) इत्येतदेव भवति ।
केचित्तु एतदर्थं योगविभागं कुर्वन्ति ।
कुप्वोः शर्परयोः विसर्जनीयस्य विसर्जनीयः आदेशो भवति, किमर्थमिदम्, ःकःपौ च इति वक्ष्यति, तद्वाधनार्थमिति ॥





[॰९४६]

सोऽपदादौ ॥ ८,३.३८ ॥


_____ काशिकावृत्तिः८,३.३८:

सकार आदेशः भवति विसर्जनीयस्य कुप्वोः अपदाद्योः परतः पाशकल्पककाम्येषु ।
याप्ये पाशप्(*५,३.५७) पयस्पाशम् ।
ईषदसमाप्तौ कल्पप् पयस्कल्पम् ।
यशस्कल्पम् ।
प्रागिवात्कः (*५,३.७०) पयस्कम् ।
यशस्कम् ।
काम्यच् पयस्काम्यति ।
यशस्काम्यति ।
अपदादौ इति किम् ? पयः कामयते ।
पयः पिबति ।
सोऽपदादावित्यनव्ययस्य+इति वक्तव्यम् ।
इह मा भूत्, प्रातः कल्पम्, पुनः कल्पमिति ।
रोः काम्ये नियमार्थम् ।
रोरेव काम्ये न अन्यस्य इति नियमार्थं वक्तव्यम् ।
पयस्काम्यति ।
यशस्काम्यति ।
इह म भूत्, गीः काम्यति ।
धूः काम्यति ।
उपध्मानीयस्य कवर्गे परतः सकारादेशो भवति इति वक्तव्यम् ।
किं प्रयोजनम् ? उब्जिरुपध्मानीयोपधः पठ्यते इति दर्शने अभ्युद्गः, समुदगः इति यथा स्यात् ॥





इणः षः ॥ ८,३.३९ ॥


_____ काशिकावृत्तिः८,३.३९:

अपदादौ इति वर्तते ।
इणः उत्तरस्य विसर्जनीयस्य षकारादेशो भवति कुप्वोरपदाद्योः परतः पाशकल्पककाम्येषु ।
पाश सर्पिष्पाशम् ।
यजुष्पाशम् ।
कल्प सर्पिष्कल्पम् ।
यजुष्कल्पम् ।
क सर्पिष्कम् ।
यजुष्कम् ।
काम्य सर्पिष्काम्यति ।
यजुष्काम्यति ।
अपदादौ इत्येव, अग्निः करोति ।
वायुः करोति ।
अग्निः पचति ।
वायुः पचति ।
कुप्वोः इत्येव, सर्पिस्ते ।
यजुस्ते ।
इत उत्तरं सः इति, इणः सः इति च वर्तते ।
तत्र इणः परो यो विसर्जनीयः तस्य षकारो भवति, अन्यस्य सकारो भवति ॥





नमस्पुरसोर्गत्योः ॥ ८,३.४० ॥


_____ काशिकावृत्तिः८,३.४०:

नमस्पुरसित्येतयोः गतिसञ्ज्ञकयोः विसर्जनीयस्य सकारादेशो भवति कुप्वोः परतः ।
नमस्कर्ता ।
नमस्कर्तुम् ।
नमस्कर्तव्यम् ।
गत्योः इति किम् ? पूः, पुरौ, पुरः करोति ॥





[॰९४७]

इदुदुपधस्य च अप्रत्ययस्य ॥ ८,३.४१ ॥


_____ काशिकावृत्तिः८,३.४१:

इकारोपधस्य उकारोपधस्य च अप्रत्ययस्य विसर्जनीयस्य षकार आदेशो भवति कुप्वोः परतः ।
निर्दुर्बहिराविश्चतुर्प्रादुस् ।
निस् निष्कृतम् ।
निष्पीतम् ।
दुस् दुष्कृतम् ।
दुष्पीतम् ।
वहिस् बहिष्कृतम् ।
बहिष्पीतम् ।
आविस् आविष्कृतम् ।
आविष्पीतम् ।
चतुर् चतुष्कृतम् ।
चतुष्कपालम् ।
चतुष्कलम् ।
चतुष्कण्टकम् ।
प्रादुस् प्रादुष्कृतम् ।
प्राउद्ष्पीतम् ।
अप्रत्ययस्य इति किम् ? अग्निः करोति ।
वायुः करोति ।
मातुः करोति, पितुः करोति, अत्र रात्सस्य (*८,२.२४) इति सकारलोपे कृते रेफस्य यो विसर्जनीयः, तस्य अप्रत्ययविसर्जनीयत्वात्षत्वं प्राप्नोति ? कस्कादिषु तु म्रातुष्पुत्रग्रहणं ज्ञापकमेकादेशनिमित्तत्वात्षत्वप्रतिषेधस्य ।
पुम्मुहुसोः प्रतिषेधो वक्तव्यः ।
पुंस्कामा ।
मुहुः कामा ।
नैष्कुल्यम् ।
दौष्कुल्यम् ।
दौष्पुरुष्यम् ।
नि३ष्कुलम् ।
दु३ष्कुलम् ।
दु३ष्पुरुषः ।
बहिरङ्गलक्षणयोर्वृद्धिप्लुतयोरसिद्धत्वात्षत्वं प्रवर्तते ॥





तिरसोऽन्यतरस्याम् ॥ ८,३.४२ ॥


_____ काशिकावृत्तिः८,३.४२:

तिरसः विसर्जनीयस्य अन्यतरस्यां सकारादेशो भवति कुप्वोः परतः ।
तिरस्कर्ता ।
तिरस्कर्तृम् ।
तिरस्कर्तव्यम् ।
तिरःकर्ता ।
तिरः कर्तुम् ।
तिरः कर्तव्यं गतेरित्येव, तिरः कृत्वा काण्डं गतः ॥





द्विस्त्रिश्चतुरिति कृत्वोऽर्थे ॥ ८,३.४३ ॥


_____ काशिकावृत्तिः८,३.४३:

षः इति सम्बध्यते ।
द्विस्त्रिस्चतुरित्येतेषां कृत्वोऽर्थे वर्तमनानां विसर्जनीयस्य षकार आदेशो भवति अन्यतरस्यां कुप्वोः परतः ।
द्विष्करोति, द्विः करोति ।
त्रिष्करोति, त्रिः करोति ।
चतुष्करोति, चतुः करोति ।
द्विष्पचति, द्विः पचति ।
त्रिष्पचति, त्रिः पचति ।
चतुस्पचति, चतुः पचति ।
कृत्वोऽर्थे इति किम् ? चतुस्कपालम् ।
चतुस्कण्टकम् ।
पूर्वेण नित्यं षत्वं भवति ।
इदुदुपधस्य इत्येतस्य अनुवृत्तौ सत्यां क्र्त्वोऽर्थविषयेण च पदेन विसर्जनीये विशेष्यमाणे द्विस्त्रिश्चतुरिति शक्यमकर्तुम् ।
क्र्त्वसुजर्थे षत्वं ब्रवीति कस्माच्चतुस्कपाले मा ।
षत्वं विभाषया भून्ननु सिद्धं तत्र पूर्वेण ॥
सिद्धे ह्ययं विधत्ते चतुरः सत्वं यदापि कृत्वोऽर्थे ।
पुल्ते कृत्वोऽर्थीये रेफस्य विसर्जनीयो हि ॥


[॰९४८]

एवं सति त्विदानीं द्विस्त्रिश्चतुरित्यनेन किं कार्यम् ।

[॰९४७]

अन्यो हि नेदुदुपधः कृत्वोऽर्थः कश्चिदप्यस्ति ॥
अक्रियमाणे ग्रहणे विसर्जनीयस्तदा विशेष्येत ।
चतुरो न सिध्यति तदा रेफस्य विसर्जनीयो हि ॥
तस्मिंस्तु क्रियमाणे युक्तं चतुरो विशेषणं भवति ।
प्रकृतं पदं तदन्तं तस्य अपि विशेषणं न्याय्यम् ॥
एवं तु क्रियमाणे द्विस्त्रिश्चतुर्ग्रहणे चतुःशब्दस्य कृत्वोऽर्थेऽपि वर्तमनस्य पूर्वेण+एव नित्यं षत्वं स्यात् ।
पूर्वत्र सिद्धे न अस्ति विप्रतिषेधोऽभावादुत्तरस्य ॥





[॰९४८]

इसुसोः सामर्थ्ये ॥ ८,३.४४ ॥


_____ काशिकावृत्तिः८,३.४४:

षः इति सम्बध्यते ।
इसुसित्येतयोः विसर्जनीयस्य अन्यतरस्यां षकारादेशो भवति सामर्थ्ये कुप्वोः परतः ।
सर्पिष्करोति, सर्पिः करोति यजुस्करोति, यजुः करोति ।
सामर्थ्ये इति किम् ? तिष्ठतु सर्पिः, पिव त्वमुदकम् ।
सामर्थ्यमिह व्यपेक्षा, न पुनरेकार्थीभावः, उभयं वा ॥





नित्यं समासेऽनुत्तरपदस्थस्य ॥ ८,३.४५ ॥


_____ काशिकावृत्तिः८,३.४५:

इसुसोः इति वर्तते ।
समासविषये इसुसोः विसर्जनीयसुअ अनुत्तरपदस्थस्य नित्यं ष्त्वं भवति कुप्वोः परतः ।
सर्पिष्कुण्डिका ।
धनुष्कपालम् ।
सर्पिष्पानम् ।
धनुष्फलम् ।
अनुत्तरपदस्थस्य इति किम् ? परमसर्पिःकुण्डिका ।
परमधनुःकपालम् ।
पूर्वसूत्रेण विकल्पोऽप्यत्र न भवति ।
एतदेव अनुत्तरपदस्थस्य इति वचनं ज्ञापकमिसुसोः प्रत्ययग्रहणे यस्मात्स विहितः तदादेः इत्ययं नियमो न भवति ।
तेन वाक्येऽपि परमसर्पिष्करोति, परमसर्पिः करोति, इसुसोः सामर्थ्ये (*८,३.४४) इत्येतद्भवति ।
व्यपेक्षा च तत्र सामर्थ्यमाश्रितमिति समासे न भवति ॥





[॰९४९]

अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य ॥ ८,३.४६ ॥


_____ काशिकावृत्तिः८,३.४६:
अकारादुत्तरस्य अनव्ययविसर्जनीयस्य समासे अनुत्तरपदस्थस्य नित्यं सकारादेशो भवति कृ कमि कंस कुम्भ पात्र कुशा कर्णी इत्येतेषु परतः ।
कृ अयस्कारः ।
पयस्कारः ।
कमि अयस्कामः ।
पयस्कामः ।
कंस अयस्कंसः ।
पयस्कंसः ।
कुम्भ अयस्कुम्भः ।
पयस्कुम्भः ।
अयस्कुम्भी, पयस्कुम्भी इत्यत्र अपि भवति, प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणं भवति इति ।
पात्र अयस्पात्रम् ।
पयस्पात्रम् ।
अयपात्री पयस्पात्री ।
कुशा अयस्कुशा ।
पयकुशा ।
कर्णी अयस्कर्णी ।
अपय्स्कर्णी ।
शुनस्कर्णः इत्ययं तु कस्कादिषु द्रष्टव्यः ।
अतः इति किम् ? गोःकारः ।
धूःकारः ।
तपरकरणं किम् ? भाःकरणम् ।
भास्करः इत्ययं तु कस्कादिषु द्रष्तव्यः ।
अनव्ययस्य इति किम् ? श्वःकारः ।
पुनःकारः ।
समासे इत्येव, यशः करोति ।
पयः करोति ।
यशः कामयते ।
अनुत्तरपदस्थस्य इत्येव, परमपयःकारः ।
परमपयःकामः ॥





अधःशिरसी पदे ॥ ८,३.४७ ॥


_____ काशिकावृत्तिः८,३.४७:
अधस्शिरसित्येतयोः विसर्जनीयस्य समासे अनुत्तरपदस्थस्य सकारः आदेशो भवति पदशब्दे परतः ।
अधस्पदम् ।
शिरस्पदम् ।
अधस्पदी ।
शिरस्पदी ।
समासे इत्येव, अधः पदम् ।
अनुत्तरपदस्थस्य इत्येव, परमशिरःपदम् ।
अधस्पदमिति मयूरव्यंसकादित्वात्समासः ॥





कस्कादिषु च ॥ ८,३.४८ ॥


_____ काशिकावृत्तिः८,३.४८:

कस्क इत्येवमादिसु च विसर्जनीयस्य सकारः वा यथायोगमादेशो भवति कुप्वोः परतः ।
कस्कः ।
कौतस्कुतः ।
कुत आगतः इत्यण् ।
भ्रातुष्पुत्रः ।
शुनस्कर्णः ।
सद्यस्कालः ।
सद्यस्क्रीः ।
क्रीणातेरयं सम्पदादित्वात्क्विप्प्रत्ययः, तत्र भवः क्रतुः साद्यस्क्रः ।
कांस्कान्, कानाम्रेडिते (*८,३.१२) इति रुत्वमत्र सर्पिष्कुण्डिका, धनुष्कपालम्, वर्हिष्पूलम्, यजुष्पात्रमित्येषां पाठः उत्तरपदस्थस्य अपि षत्वं यथा स्यादिति ।
परमस्र्पिःफलमित्येवमादि प्रत्युदाहरणातिति पारायणिका आहुः ।
भाष्ये वृत्तौ च नित्यं समासेऽनुत्तरपदस्थस्य (*८,३.४५) इत्यत्र प्ररमसर्पिःकुण्दिका इत्येतदेव प्रत्युदाहरणम् ।
अयस्काण्डः ।
मेदस्पिण्डः ।
अविहितलक्षण उपचारः कस्कादिषु द्रष्टव्यः ॥





[॰९५०]

छन्दसि वाऽप्राम्रेडितयोः ॥ ८,३.४९ ॥


_____ काशिकावृत्तिः८,३.४९:

छन्दसि विषये विसर्जनीयस्य वा सकारादेशोः भवति कुप्वोः परतः, प्रशब्दमामेर्दितं च वर्जयित्वा ।
अयःपात्रम्, अयस्पात्रम् ।
विश्वतःपात्रम्, विश्क्तस्पात्रम् ।
उरुणःकारः, उरुणस्कारः ।
अप्राम्रेडितयोः इति किम् ? अग्निः प्रविद्वान् ।
परुषः परुषस्परि ।
सूर्यरश्मिर्हरिकेशः पुरस्तात्, स नः पावक इत्येवमादिषु सर्वे विषयश्छन्दसि विकल्प्यन्ते इति सत्वं न भवति ॥





कःकरत्करतिकृधिकृतेष्वनदितेः ॥ ८,३.५० ॥


_____ काशिकावृत्तिः८,३.५०:

कः करत्करति कृधि कृत इत्येतेषु परतः अनदितेः विसर्जनीयस्य सकारादेशो भवति छन्दसि विषये ।
कः विश्वतस्कः ।
करत् विश्वतस्करत्करति पयस्करति ।
कृधि उरु णस्कृधि कृत सदस्कृतम् ।
अनदितेः इति किम् ? यथा नो अदितिः करत् ॥





पञ्चम्याः परावध्यर्थे ॥ ८,३.५१ ॥


_____ काशिकावृत्तिः८,३.५१:
छन्दसि इत्येव ।
पञ्चमीविसर्जनीयस्य सकारादेशो भवति परौ परतः अध्यर्थे ।
दिवस्परि प्रथमं जज्ञे ।
अग्निर्हिमवतस्परि ।
दिवस्परि ।
नहस्परि ।
पञ्चमाः इति किम् ? अहिरिव भोगैः पर्येति बाहुम् ।
परौ इति किम् ? एभ्यो वा एतल्लोकेभ्यः प्रजापतिः समैरयत् ।
अध्यथे इति किम् ? दिवस्पृथिव्याः पर्येज उद्भृतम् ।
अत्र परिः सर्वतोभावे, अध्यर्थः उपरिभावः ॥





पातौ च बहुलम् ॥ ८,३.५२ ॥


_____ काशिकावृत्तिः८,३.५२:

पातौ च धातौ परतः पञ्चमीविसर्जनीयस्य बहुलं सकारादेशः भवति छन्दसि विसये ।
दिवस्पातु ।
राज्ञस्पातु ।
न च भवति ।
परिषदः पातु ॥





षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु ॥ ८,३.५३ ॥


_____ काशिकावृत्तिः८,३.५३:

षष्थीविसर्जनीयस्य सकारादेशो भवति पति पुत्र पृष्ठ पार पद पयस्पोष इत्येतेषु परतः छन्दसि विषये ।
वाचस्पतिं विश्वकर्माणमूतये ।
पुत्र दिवस्पुत्राय सूर्याय ।
पृष्ठ दिवस्पृष्ठे धावमानं सुपर्नम् ।
पार अगन्म तमसस्पारम् ।
पद इलस्पदे समिध्यसे ।
पयस् सूर्यं चक्षुर्दिवस्पयः ।
पोष रायस्पोषं यजमानेषु धारय ।
षष्ठ्याः इति किम् ? मनुः पुत्रेभ्यो दायं व्यभजत् ॥





[॰९५१]

इडाया वा ॥ ८,३.५४ ॥


_____ काशिकावृत्तिः८,३.५४:

इडायाः षष्थीविसर्जनीयस्य वा सकार आदेशो भवति पत्यादिषु परतः छन्दसि विषये ।

[॰९५०]

इडायस्पतिः, इडायाः पतिः ।
इडायासुपुत्रः , इडायाः पुत्रः ।
इडायास्पृष्ठम्, इडायाः पृष्ठम् ।
इडायास्पारम्, इडायाः पारम् ।
इडायस्पदम्, इडायाः पदन् ।
इडायास्पयः, इदायाः पयः ।
इडायास्पोषम्, इडायाः पोषम् ॥





[॰९५१]

अपदान्तस्य मूर्धन्यः ॥ ८,३.५५ ॥

_____ काशिकावृत्तिः८,३.५५:

पदाधिकारो निवृत्तः ।
अपदान्तस्य इति, मूर्धन्यः इति चैतदधिकृतं वेदितव्यमापादपरिसमाप्तेः ।
वक्ष्यति आदेशप्रत्यययोः (*८,३.५९) ।
सिषेव ।
षुष्वाप ।
अग्निषु ।
वायुषु ।
अपदान्तस्य इति किम् ? अग्निस्तत्र ।
वायुस्तत्र ।
षः इत्येवं सिद्धे मूर्धन्यग्रहणं ढकारार्थम् ।
अकृढ्वम् ।
चकृढ्वे ॥





सहेः साडः सः ॥ ८,३.५६ ॥


_____ काशिकावृत्तिः८,३.५६:

सहेर्धातोः साड्रूपस्य यः सकारः तस्य मूर्धन्यः आदेशो भवति ।
जलाषाट् ।
तुराषाट् ।
पृतनाषाट् ।
सहेः इति किम् ? सह डेन वर्तते सडः, तस्य अपत्यं सादिः ।
साड्ग्रहणं किम् ? यत्रास्य एतद्रूपं तत्र यथा स्यात्, इह मा भूत्जलासाहम् ।
तुरासाहम् ।
सः इति किम् ? आकारस्य मा भूत् ॥





इण्कोः ॥ ८,३.५७ ॥

_____ काशिकावृत्तिः८,३.५७:

इण्कोः इत्येतदधिकृतं वेदितव्यम् ।
इत उत्तरं यद्वक्ष्यामः, इणः कवर्गाच्च इत्येवं तद्वेदितव्यम् ।
वक्ष्यति आदेशप्रत्यययोः (*८,३.५९) ।
सिषेव ।
सुष्वाप ।
अग्निषु ।
वायुषु ।
कर्तृषु ।
हर्तृषु ।
गीर्षु ।
धूर्षु ।
वाक्षु ।
त्वक्षु ।
इण्कोः इति किम् ? दास्यति ।
असौ ॥





नम्विसर्जनीयशर्व्यवायेऽपि ॥ ८,३.५८ ॥


_____ काशिकावृत्तिः८,३.५८:

नुंव्यवायेऽपि विसर्जनीयव्यवायेऽपि शर्व्यवायेऽपि उत्तरस्य सकारस्य मूर्धन्यादेशो भवति ।
व्यवायशब्दः प्रत्येकमभिसम्बध्यते ।
नुंव्यवाये तावत् सर्पिंषि ।
यजूंषि हवींषि विसर्जनीयव्यवाये सर्पिःषु ।
यजुःषु ।
हविःषु ।
शर्व्यवाये सर्पिष्षु ।
यजुष्षु ।
हविष्षु ।
नुमादिभिः प्रत्येकं व्यवाये ।
षत्वमिष्यते, न समस्तैः ।
तेन इह न भवति, निंस्से, निंस्स्वः इति ।
णिसि चुम्बने इत्येतस्य एतद्रूपम् ।
अत्र हि नुमा, सकारेण शरा च व्यवधानम् ॥




[॰९५२]

आदेशप्रत्यययोः ॥ ८,३.५९ ॥


_____ काशिकावृत्तिः८,३.५९:

मूर्धन्यः इति वर्तते, स इति च ।
आदेशप्रत्यययोः इति षष्ठी भेदेन सम्बध्यते ।
आदेशो यः सकारः, प्रत्ययस्य च यः सकारः इण्कोरुत्तरः तस्य मूर्धन्यो भवति आदेशः ।
आदेशस्य तावत् सिषेव ।
सुष्वाप ।
प्रत्ययस्य अग्निषु ।
वायुषु ।
कर्तृषु ।
हर्तृषु ।
इन्द्रो मा वक्षत्, स देवान् यक्षतिति व्यपदेशिवद्भावात्प्रत्ययस्य इति षत्वं भवति ।
यजतेर्वहतेश्च पञ्चमलकारे परस्मैपदप्रथमैकवचने इकारलोपः, लेटोऽडटौ (*३,४.९४) इति अट्, सिब्बहुलं लेटि (*३,१.३४) इति सिप्, ततः सिद्धं यक्षत्, वक्षतिति ॥





शासिवसिघसीनां च ॥ ८,३.६० ॥


_____ काशिकावृत्तिः८,३.६०:

शासि वसि घसि इत्येतेषां च इण्कोः उत्तरस्य यकारस्य मूर्धन्यो भवति ।
अन्वशिषत्, अन्वशिषताम्, अन्वशिषन् ।
शिष्टः ।
शिष्टवान् ।
वसि उषितः ।
उषितवान् ।
उषित्वा ।
घसि जक्षतुः ।
जक्षुः ।
घसिभसोर्हलि च (*६,४.१००) इति उपधालोपः ।
अक्षन् पितरोऽमीमदन्त पितरः ।
अनादेशार्थं वचनम् ।
घसिर्यद्यप्यादेशः, सकारस्त्वादेशो न भवति ।
इण्दोः इत्येव, शास्ति ।
वसति ।
जघास ॥





स्तौतिण्योरेव षण्यभ्यासात् ॥ ८,३.६१ ॥


_____ काशिकावृत्तिः८,३.६१:

स्तौतेः ण्यन्तानां च षभूते सनि परतः अभ्यासातिणः उत्तरस्य आदेशसकारस्य मूर्धन्यादेशो भवति ।
तुष्टूषति ।
ण्यन्तानाम् सिषेवयिषति ।
सिषञ्जयिषति ।
सुष्वापयिषति ।
सिद्धे सत्यारम्भो नियमार्थः, स्तौतिण्योः एव षणि अभ्यासाद्यथा स्यात्, अन्यस्य मा भूत् ।
सिसिक्षति ।
सुसूषति ।
एवकारकरणमिष्ततोऽवधारणार्थम् ।
स्तौतिण्योः षणि एव इति हि विज्ञायमाने तुष्टाव इत्यत्र न स्यात्, इह च स्यादेव सिसिक्षति इति ।
षणि इति किम् ? अन्यत्र नियमो मा भूत्, सिषेच ।
को विनतेऽनुरोधः ? अविनते नियमो मा भूत्, सुषुप्सति ।
तिष्ठासति ।
कः सानुबन्धेऽनुरोधः ? षशब्दमात्रे नियमो मा भूत्, सुषुपिष इन्द्रम् ।
अभ्यासातिति किम् ? अभ्यासात्या प्राप्तिः तस्या नियमो यथा स्यात्, धातोः या प्राप्तिस्तस्या नियमो मा भूत्, प्रतीषिषति ।
अधीषिषति ॥





[॰९५३]

सः स्विदिस्वदिसहीनां च ॥ ८,३.६२ ॥


_____ काशिकावृत्तिः८,३.६२:

स्विदि स्वदि सहि इत्येतेषां ण्यन्तानां सनि षभूते परतोऽभ्यासादुत्तरस्य सकारस्य सकारादेशो भवति ।
स्विदि सिस्वेदयिषति ।
स्वदि सिस्वादयिषति ।
सहि सिसाहयिषति ।
सकारस्य सकारवचनं मूर्धन्यनिवृत्त्यर्थम् ॥





प्राक्सितादड्व्यवायेऽपि ॥ ८,३.६३ ॥


_____ काशिकावृत्तिः८,३.६३:

सेवसित (*८,३.७०) इति वक्ष्यति ।
प्राक्सितसंशब्दनाद्यानित ऊर्ध्वमनुक्रमिष्यामः तत्र अड्व्यवायेऽपि मूर्धन्यो भवति इत्येवं तद्वेदितव्यम्, अपिशब्दादनड्व्यवायेऽपि ।
वक्ष्यति उपसर्गात्सुनोतिसुवति इति षत्वम् ।
अभिषुणोति ।
परिषुणोति ।
वषुणोति ।
निषुणोति ।
अभ्यषुणोति ।
पर्यषुणोत् ।
व्यषुणोत् ।
न्यषुणोत् ॥





स्वादिष्वभ्यासेन च अभ्यासस्य ॥ ८,३.६४ ॥


_____ काशिकावृत्तिः८,३.६४:

प्राक्सितातिति वर्तते ।
उपसर्गात्सुनोति इत्यत्र स्थासेनयसेध इति स्थादयः, तेसु स्थादिषु प्राक्सितसंशब्दनातभ्यासेन व्यवाये मूर्धन्यो भवति, अभ्याससकारस्य च भवति इत्येवं वेदितव्यम् ।
अभ्यासेन व्यवाये अषोपदेशार्थं च अभिषिषेणयिषति, परिषिषेणयिषति ।
अवर्णान्ताभ्यासार्थं च अभितष्टौ, परितष्टौ ।
षणि प्रतिषेधार्थं च अभिषिषिक्षति, परिषिषिक्षति ।
अभ्यासस्य इति वचनं नियमार्थम्, स्थादिषु एव अभ्याससकारस्य्मूर्धन्यो भवति, न अन्यत्र ।
अभिसुसूषति ।
अभिसिषासति ॥





उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् ॥ ८,३.६५ ॥


_____ काशिकावृत्तिः८,३.६५:

मूर्धन्य इति वर्तते, सः इति च ।
उपसर्गस्थान्निमित्तातुत्तरस्य सुनोति सुवति स्यति स्तौति स्तोभति स्था सेनय सेध सिच सञ्ज स्वञ्ज इत्येतेषां सकारस्य मूर्धन्यादेशो भवति ।
सुनोति अभिषुणोति ।
परिषुणोति ।
अभ्यषुणोत् ।
पर्यषुणोत् ।
सुवति अभिषुवति ।
परिषुवति ।
अभ्यषुवत् ।
पर्यषुवत् ।
स्यति अभिष्यति ।
परिष्यति ।
अभ्यष्यत् ।
पर्यष्यत् ।
स्तौति तभिष्टौति ।
परिष्टौति ।
अभ्यष्तौत् ।
पर्यष्टौत् ।
स्तोभति अभिष्टोभते ।
परिष्तोभते ।
अभ्यष्टोभत ।
पर्यष्टोभत ।
स्था अभिष्ठास्यति ।
परिष्ठास्यति ।
अभ्यष्टात् ।
पर्यष्ठात् ।
अभितष्टौ ।
परितष्ठौ ।
सेनय अभिषेणयति ।
परिषेणयति ।
अभ्यषेणयत् ।
पर्यषेणयत् ।
अभिषिषेणयिषति ।

[॰९५४]

परिषिषेणयिषति ।
सेध अभिषेधति ।
प्रिषेधति ।
अभ्यषेधत् ।
पर्यषेधत् ।
सिच अभिषिञ्चति ।
परिषिञ्चति ।
अभ्यषिञ्चत् ।
पर्यषिञ्चत् ।
अभिषिषिक्षति ।
परिषिषिक्षति ।
सञ्ज अभिषजति ।
परिषजति ।
अभ्यषजत् ।
पर्यषजत् ।
अभिषिषङ्क्षति ।
प्रिरङ्क्षति ।
स्वञ्ज अभिष्वजते ।
परिष्वजते ।
अभ्यष्वजत ।
पर्यष्वजत ।
अभिषिष्वङ्क्षते ।
परिषिष्वङ्क्षते ।
सेध इति शब्विकरणनिर्देशः सिध्यतिनिवृत्त्यर्थः ।
उपसर्गातिति किम् ? दधि सिञ्चति ।
मधु सिञ्चति ।
निर्गताः सेचका उस्मसद्देशात्निःसेचको देशः इति नायं सिचेः उप्सर्गः ।
अभिसावकोयति इत्यत्र अपि न सुनोतिं प्रति किर्यायोगः, किं तर्हि ? सावकीयं प्रति ।
अभिषावयति इत्यत्र तु सुनोतिमेव प्रति क्रियायोगः, न सावर्यतिं प्रति इति षत्वं भवति ॥





सदिरप्रतेः ॥ ८,३.६६ ॥


_____ काशिकावृत्तिः८,३.६६:

सदेः सकारस्य उपसर्गस्थान्निमित्तातप्रतेः उत्तरस्य मूर्धन्य आदेशो भवति ।
निषीदति ।
विषीदति ।
न्यषीदत् ।
व्यषीदत् ।
निषसाद ।
विषसाद ।
अप्रतेः इति किम् ? प्रतिसीदति ॥




स्तन्भेः ॥ ८,३.६७ ॥


_____ काशिकावृत्तिः८,३.६७:

उपसर्गातिति वर्तते ।
स्तन्भेः सकारस्य उपसर्गस्थान्निमित्तातुत्तरस्य मूर्धन्य मुर्धन्य आदेशो भवति ।
अभिष्टभ्नाति ।
परिष्टभ्नाति ।
अभ्यष्टभ्नात् ।
पर्यष्टभ्नात् ।
अभितष्टम्भ ।
परितष्टम्भ ।
अप्रतेः इत्येतदिह न अनुवर्तते, तेन एतदपि भवति, प्रतिष्टभ्नाति, प्रयष्टभ्नात्, प्रतितष्टम्भ ॥





अवाच्च आलंवनाविदूर्ययोः ॥ ८,३.६८ ॥

_____ काशिकावृत्तिः८,३.६८:

अवशब्दातुपसर्गातुत्तरस्य स्तन्भेः सकारस्य मूर्धन्यः आदेशो भवति, आलम्बनेऽर्थे आविदूर्ये च ।
आलम्बनमाश्रयणम् ।
अविदूरस्य भावः आविदूर्यम् ।
आलम्बने तावत् अवष्टभ्यास्ते ।
अवष्टभ्य तिष्ठति ।
आविदूर्ये अवष्टब्धा सेना ।
अवष्टब्धा शरत् ।
आलम्बनाविदूर्ययोः इति किम् ? अवस्तब्धो वृषलः शीतेन ।
अनिगर्थः आरम्भः ॥




[॰९५५]

वेश्च स्वनो भोजने ॥ ८,३.६९ ॥


_____ काशिकावृत्तिः८,३.६९:

वेः उपसर्गातवात्च+उत्तरस्य भोजनार्थे स्वनतेः सकास्य मूर्धन्यादेशो भवति ।
विष्वणति ।
व्यष्वणत् ।
विषष्वाण ।
अवष्वणति ।
अवाष्वणत् ।
अवषष्वाण ।
अभ्यवहारक्रियाविशेषोऽभिधीयते, यत्र स्वननमस्ति ।
भोजने इति किम् ? विस्वनति मृदङ्गः ।
अवस्वनति मृदङ्गः ॥





परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् ॥ ८,३.७० ॥


_____ काशिकावृत्तिः८,३.७०:

परि नि वि इत्येतेभ्याः उपसर्गेभ्यः उत्तरेषां सेव सित सय सिवु सह सुट्स्तु स्वञ्ज इत्येतेषां सकारस्य मूर्धन्य आदेशः भवति ।
परिषेवते ।
निषेवते ।
विषेवते ।
पर्यषेवत ।
न्यषेवत ।
व्यषेवत ।
परिषिषेविषते ।
निषिषेविषते ।
विषिषेविषते ।
सित परिषितः ।
निषितः ।
विषितः ।
सय परिषयः ।
निषयः ।
विषयः ।
सिव् परिषीव्यति ।
निषीव्यति ।
विषीव्यति ।
पर्यषीव्यत् ।
न्यषीव्यत् ।
व्यषीव्यत् ।
पर्यसीव्यत् ।
न्यसीव्यत् ।
व्यसीव्यत् ।
सह परिषहते ।
निषहते ।
विषहते ।
पर्यषहत ।
न्यषहत ।
व्यषहत ।
पर्यसहत ।
न्यसहत ।
व्यसहत ।
सुट् परिष्करोति ।
पर्यष्करोत् ।
पर्यस्करोत् ।
स्तु परिष्टौति ।
निष्टौति ।
विष्टौति ।
पर्यष्टौत् ।
न्यष्टौत् ।
व्यष्टौत् ।
पर्यस्तौत् ।
न्यस्तौत् ।
व्यस्तौत् ।
स्वञ्ज दंशसञ्जस्वञ्जामिति नलोपः ।
परिष्वजते ।
निष्वजते ।
विष्वजते ।
पर्यष्वजत, पर्यस्वजत ।
पूर्वेण+एव सिद्धे स्तुस्वञ्जिग्रहणमुत्तरार्थम्, अड्व्यवाये विभाषा यथा स्यात् ॥





सिवादीनां वा अड्व्यवायेऽपि ॥ ८,३.७१ ॥


_____ काशिकावृत्तिः८,३.७१:

अनन्तरसूत्रे सिवुसहसुट्स्तुस्वञ्जामिति सिवादयः ।
सिवादीनामड्व्यवायेऽपि परिनिविभ्यः उत्तरस्य सकारस्य वा मूर्धन्यो भवति ।
तथा चिअवोदाहृतम् ॥





अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु ॥ ८,३.७२ ॥


_____ काशिकावृत्तिः८,३.७२:

अनु वि परि अभि नि इत्येतेभ्यः उत्तरस्य स्यन्दतेः अप्राणिषु सकारस्य वा मूर्धन्यादेशो भवति ।
अनुष्यन्दते ।
विष्यन्दते ।
परिष्यन्दते ।
अभिष्यन्दते तैलम् ।
निष्यन्दते ।
अनुस्यन्दते ।
विस्यन्दते ।
परिस्यन्दते ।
अभिस्यन्दते ।
निस्यन्दते ।
अप्राणिषु इति किम् ।
अनुस्यन्दते मत्स्य उदके ।
प्राण्यप्राणिविषयस्य अपि स्यन्दतेः अयं विकल्पो भवति, अनुष्यन्देते मत्स्योदके, अनुस्यन्देते ।
अप्राणिषु इति पर्युदासोऽयम्, न प्रसज्यप्रतिषेधः ॥





[॰९५६]

वेः स्कन्देरनिष्ठायाम् ॥ ८,३.७३ ॥


_____ काशिकावृत्तिः८,३.७३:

वेः उपसर्गादुत्तरस्य स्कन्देः सकारस्य मूर्धन्यो वा भवति अनिष्ठायाम् ।
विष्कन्ता, विस्कन्ता ।
विष्कन्तुम्, विस्कन्तुम् ।
विषन्तव्यम्, विस्कन्तव्यम् ।
अनिष्ठायामिति किम् ? विस्कन्नः ॥





परेश्च ॥ ८,३.७४ ॥


_____ काशिकावृत्तिः८,३.७४:

परिशब्दादुत्तरस्य स्कन्देः सकारस्य वा मूर्धन्यो भवति ।
परिष्कन्ता ।
परिष्कन्तुम् ।
परिष्कन्तव्यम् ।
परिस्कन्ता ।
परिस्कन्तुम् ।
परिस्कन्तव्यम् ।
पृथग्योगकरणसामर्थ्यातनिष्थायामित्येतन्न अनुवर्तते ।
परिष्कण्णः, परिस्कन्नः ॥





परिस्कन्दः प्राच्यभरतेषु ॥ ८,३.७५ ॥


_____ काशिकावृत्तिः८,३.७५:

परिस्कन्दः इति मूर्धन्याभावो निपात्यते प्राच्यभरतेषु प्रयोगविषयेषु ।
पूर्वेन मूर्धन्ये प्राप्ते तदभवो निपात्यते ।
परिस्कन्दः ।
अन्यत्र परिष्कन्दः ।
अचि निपातनम् ।
अथ वा निष्थातकारस्य लोपः ।
भरतग्रहणं प्राच्यविशेषणम् ॥





स्फुरतिस्फुलत्योर्निर्निविभ्यः ॥ ८,३.७६ ॥


_____ काशिकावृत्तिः८,३.७६:

स्फुरतिस्फुलत्योः सकारस्य निस्नि वि इत्येतेभ्यः उत्तरस्य वा मूर्धन्यादेशो भवति ।
स्फुरति निष्ष्फुरति, निस्स्फुरति ।
निष्फुरति, निस्फुरति ।
विष्फुरति, विस्फुरति ।
स्फुलति निष्ष्फुलति, निस्स्फुलति ।
निष्फुलति, निस्फुलति ।
विष्फुलति, विस्फुलति ॥




वेः स्कभ्नातेर्नित्यम् ॥ ८,३.७७ ॥


_____ काशिकावृत्तिः८,३.७७:

वेः उत्तरस्य स्कभ्नातेः सकारस्य नित्यं मूर्धन्यादेशो भवति ।
विष्कभ्नाति ।
विष्कम्भिता ।
विष्कम्भितुम् ।
विष्कम्भितव्यम् ॥





इणः षीध्वंलुङ्लिटां धोऽङ्गात् ॥ ८,३.७८ ॥


_____ काशिकावृत्तिः८,३.७८:

मूर्धन्यः इति वर्तते ।
इणन्तादङ्गातुत्तरेषां षीध्वंलुङ्लिटां यो धकारः तस्य मूर्धन्यादेशो भवति ।
च्योषीढ्वम्, प्लोषीढ्वम् ।
लुङ् अच्योढ्वम् ।
अप्लोढ्वम् ।
लिट् चकृढ्वे ।
ववृढ्वे ।
इण्कोः इति वर्तमाने पुनरिण्ग्रहणं कवर्गनिवृत्त्यर्थम् ।
पक्षीध्वम् ।
यक्षीध्वम् ।
षीध्वंलुङ्लिटामिति किम् ? स्तुध्वे ।
अस्तुध्वम् ।
अङ्गातिति किम् ? परिवेविषीध्वम् ।
अर्थवद्ग्रहणादपि सिद्धम् ? तत्तु नाश्रितम् ॥




[॰९५७]

विभाषा+इटः ॥ ८,३.७९ ॥


_____ काशिकावृत्तिः८,३.७९:

इणः परस्मातिट उत्तरेषां षीध्वंलुङ्लिटां यो धकारः तस्य मूर्धन्यादेशो भवति विभाषा ।
लविषीढ्वम्, लविषीध्वम् ।
पविषीढवम्, पविषीध्वम् ।
लुङ् अलविढवम्, अलविध्वम् ।
लिट् लुलुविढ्वे, लुलुविध्वे ।
इणः इत्येव, आसिषीध्वम् ।
अथ इह कथं भवितव्यम्, उपदिदीयिध्वे ? केचिदाहुः, इणन्तादङ्गादुत्तरस्य इट आनन्तर्यं युटा व्यवहितमिति न भवितव्यं ढत्वेन इति ।
अपरेषां दर्शनम्, अङ्गातिति निवृत्तम्, इणः इत्यनुवर्तते, ततश्च यकारादेव इनः परोऽनन्तरः इटिति पक्षे भवितव्यं मूर्धन्येन इति ॥





समासेऽङ्गुलेः सङ्गः ॥ ८,३.८० ॥


_____ काशिकावृत्तिः८,३.८०:

सङ्गसकारस्य अङ्गुलेः उत्तरस्य मूर्धन्य आदेशो भवति समासे ।
अङ्गुलेः सङ्गः अङ्गुलिषङ्गः ।
अङ्गुलिषङ्गा यवागूः ।
अङ्गुलिषङ्गो गाः सादयति ।
समासे इति किम् ? अङ्गुलेः सङ्गं पश्य ॥




भीरोः स्थानम् ॥ ८,३.८१ ॥


_____ काशिकावृत्तिः८,३.८१:

स्थानसकारस्य भीरोः उत्तरस्य मूर्धन्यादेशो भवति ।
भीरुष्ठानम् ।
समासे इत्येव, भीरोः स्थानं पश्य ॥





अग्नेः स्तुत्स्तोमसोमाः ॥ ८,३.८२ ॥


_____ काशिकावृत्तिः८,३.८२:

अग्नेः उत्तरस्य स्तुत्स्तोम सोम इत्येतेषां सकारस्य मूर्धन्यादेशो भवति समासे ।
अग्निष्टुत् ।
अग्निष्टोमः ।
अग्नीषोमः ।
अग्नेर्दीघात्सोमस्य इष्यते ।
तेन इह न भवति, अग्निसोमौ माणवकौ ।
तथा च ज्योतिरग्निः, सोमः लताविशेषः, अग्निसोमौ तिष्ठतः ।
समासे इत्येव, अग्नेः स्तोमः ॥





ज्योतिरायुषः स्तोमः ॥ ८,३.८३ ॥


_____ काशिकावृत्तिः८,३.८३:

ज्योतिसायुसित्येताभ्यामुत्तरस्य्स्तोमसकारस्य मूर्धन्यादेशो भवति समासे ।
ज्योतिष्तोमः ।
आयुष्टोमः ।
समासे इत्येव, जोतिः स्तोमं दर्शयति ॥





मातृपितृभ्यां स्वसा ॥ ८,३.८४ ॥


_____ काशिकावृत्तिः८,३.८४:

मातृ पितृ इत्येताभ्यामुत्तरस्य स्वसृसकारस्य समासे मूर्धन्यादेशो भवति ।
मातृष्वसा ।
पितृष्वसा ॥





[॰९५८]

मातुःपितुर्भ्यामन्यतरस्याम् ॥ ८,३.८५ ॥


_____ काशिकावृत्तिः८,३.८५:

मातुर्पितुरित्येताभ्यामुत्तरस्य स्वसृशब्दस्य अन्यतरस्यां मूर्धन्यादेशो भवति समासे ।
मातुःष्वसा, मातुःस्वसा ।
पितुःष्वसा, पितुःस्वसा ।
मातुः पितुः इति रेफान्तयोरेतद्ग्रहणम् ।
एकदेशविकृतस्य अनन्यत्वाद्विसर्जनीयान्ता सकारान्तात्च षत्वं भवति ।
समासे इत्येव, वाक्ये मा भूत् ।
मातुः स्वसा इत्येव नित्यं भवति ॥




अभिनिसः स्तनः शब्दसञ्ज्ञायाम् ॥ ८,३.८६ ॥


_____ काशिकावृत्तिः८,३.८६:

अभिनिसित्येतस्मातुत्तरस्य स्तनतिसकारस्य मूर्धन्यादेशो भवति अन्यतरस्यां शब्दसञ्ज्ञायां गम्यमानायाम् ।
अभिनिष्ष्टानो वर्णः, अभिनिस्तानो वर्णः ।
अभिनिष्ष्टानो विसर्जनीयः, अभिनिस्तानो विसर्जनीयः ।
शब्दसञ्ज्ञायामिति किम् ? अभिनिस्तनति मृदङ्गः ।
समासे इति अतःप्रभृति निवृत्तम् ॥





उपसर्गप्रादुर्भ्यामस्तिर्यच्परः ॥ ८,३.८७ ॥


_____ काशिकावृत्तिः८,३.८७:

उपसर्गस्थान्निमित्तात्प्रादुस्शब्दाच्च+उत्तरस्य यकारपरस्य अच्परस्य च अस्तिसकारस्य मूर्धन्यो भवति ।
अभिषन्ति ।
निषन्ति ।
विषन्ति ।
प्रादुःषन्ति ।
अभिष्यात् ।
निष्यात् ।
विष्यात् ।
प्राडुःष्यात् ।
उपसर्गातिति किम् ? दधि स्यात् ।
मधु स्यात् ।
अस्ति इति किम् ? अनुसृतम् ।
विसृतम् ।
अथ असत्यपि अस्तिग्रहणे सकारमेव प्रति उपसर्ग आश्रीयते, प्रादुःशब्दस्य च कृभ्वस्तिष्वेव प्रयोगः इति अन्यत्राप्रसङ्गः ? तथापि एतत्प्रत्युदाहर्तव्यम्, अनुसूते अनुसूः, अनुस्वोऽपत्यमानुसेयः ।
शुभ्रादित्वाड्ढक्(*४,१.१२३), ढे लोपोऽकद्र्वाः (*६,४.१४७) इति उवर्नलोपः ।
यच्परः इति किम् ? निस्तः ।
विस्तः ।
प्रादुस्तः ॥




सुविनिर्दुर्भ्यः सुपिसूतिसमाः ॥ ८,३.८८ ॥


_____ काशिकावृत्तिः८,३.८८:

सु वि निर्दुरित्येतेभ्यः उत्तरस्य सुपि सूति सम इत्येतेषां सकारस्य मूर्धन्यादेशो भवति ।
सुपि इति स्वपिः कृतसम्प्रसारणो गृह्यते ।
सुषुप्तः ।
विषुप्तः ।
निःषुप्तः ।
दुःषुप्तः ।
सूति इति स्वरूपग्रहणम् ।
सुषूतिः ।
विषूतिः ।
निःषूतिः ।
दुःषूतिः ।
सम सुषमम् ।
विषमम् ।
निःषमम् ।
दुःषमम् ।
सुपेः षत्वं स्वपेर्मा भूद्विसुष्वापेति केन न ।
हलादिशेषान्न सुपिरिष्टं पूर्वं प्रसारणम् ॥
स्थादीनां नियमो नात्र प्राक्सितादुत्तरः सुपिः ।
अनर्थके विषुषुपुः सुपिभूतो द्विरुच्यते ॥
पूर्वत्रासिद्धीयमद्विर्वचने इति कृते ष्त्वे ततो द्विर्वचनम् ॥





[॰९५९]

निनदीभ्यां स्नातेः कौशले ॥ ८,३.८९ ॥

_____ काशिकावृत्तिः८,३.८९:

नि नदी इत्येताभ्यामुत्तरस्य स्नातिसकारस्य मूर्ध्न्यादेशो भवति कौशले गम्यमाने ।
निष्णातः कटकरणे ।
निष्णातो रज्जुवर्तते ।
नद्यां स्नाति इति नदीष्णः ।
सुपि स्थः (*३,२.४) इत्यत्र सुपि इति योगविभागात्कप्रत्ययः ।
कौशले इति किम् ? निस्नातः ।
नद्यां स्नातः नदीस्नातः इति ॥





सूत्रं प्रतिष्णातम् ॥ ८,३.९० ॥


_____ काशिकावृत्तिः८,३.९०:

प्रतिष्णातमिति निपात्यते सूत्रं चेद्भवति ।
प्रतिष्णातं सूत्रम् ।
शुद्धमित्यर्थः ।
प्रतिस्नातमित्येव अन्यत्र ॥





कपिष्ठलो गोत्रे ॥ ८,३.९१ ॥


_____ काशिकावृत्तिः८,३.९१:

कपिष्थलः इति निपात्यते गोत्रविषये ।
कपिष्ठलः नाम यस्य सः कापिष्ठलिः पुत्रः ।
गोत्रे इति किम् ? कपेः स्थलं कपिस्थलम् ॥





प्रष्ठोऽग्रगामिनि ॥ ८,३.९२ ॥


_____ काशिकावृत्तिः८,३.९२:

प्रष्ठः इति निपात्यते अग्रगामिनि अभिधेये ।
प्रतिष्ठते इति प्रष्ठः अश्वः ।
अग्रतो गच्छति इत्यर्थः ।
अग्रगामिनि इति किम् ? प्रस्थे हिमवतः पुण्ये ।
प्रस्थो व्रीहीणाम् ॥





वृक्षासनयोर्विष्टरः ॥ ८,३.९३ ॥


_____ काशिकावृत्तिः८,३.९३:

विष्टरः इति निपात्यते वृक्षे आसने च वाच्ये ।
विपूर्वस्य स्तृणातेः षत्वं निपात्यते ।
विष्टरो वृक्षः ।
विष्टरमासनम् ।
वृक्षासनयोः इति किम् ? औलपिवाक्यस्य विस्तरः ॥





छन्दोनाम्नि च ॥ ८,३.९४ ॥


_____ काशिकावृत्तिः८,३.९४:

विष्टारः इति निपात्यते ।
विपूर्वात्स्तृ इत्येतस्माद्धातोः छन्दोनाम्नि च (*३,३.३४) इत्येवं विहितो घञिति विष्टरः इत्यपि प्रकृते विष्टारः इति विज्ञायते ।
विष्टारपङ्क्तिः छन्दः ।
विष्टारो बृहतीछन्दः ।
छन्दोनाम्नि इति किम् ? पटस्य विस्तारः ॥





[॰९६०]

गवियुधिभ्यां स्थिरः ॥ ८,३.९५ ॥


_____ काशिकावृत्तिः८,३.९५:

गवियुधिभ्यामुत्तरस्य स्थिरसकारस्य मूर्धन्यादेशो बवति ।
गविष्ठिरः ।
युधिष्ठिरः ।
गोशब्दादहलन्तादपि एतस्मादेव निपातनात्सप्तम्या अलुग्भवति ॥





विकुशमिपरिभ्यः स्थलम् ॥ ८,३.९६ ॥


_____ काशिकावृत्तिः८,३.९६:

वि कु शमि परि इत्येतेभ्यः उत्तरस्य स्थलसकारस्य मूर्धन्यादेशो भवति ।
विष्ठलम् ।
कुष्ठलम् ।
शमिष्ठलम् ।
परिष्ठलम् ॥





अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः ॥ ८,३.९७ ॥


_____ काशिकावृत्तिः८,३.९७:

अम्ब आम्ब गो भूमि सव्य अप द्वि त्रि कु शेकु शङ्कु अङ्गु मञ्जि पुञ्जि परमे बर्हिस्दिवि अग्नि इत्येतेभः उत्तरस्य स्थशब्दसकारस्य मूर्धन्यादेशो भवति ।
अम्बष्ठः ।
आम्बष्थः ।
गोष्ठः ।
भूमिष्ठः ।
सव्येष्ठः ।
अपष्ठः ।
द्विष्ठः ।
त्रिष्ठः ।
कुष्ठः ।
शेकुष्ठः ।
शङ्कुष्ठः ।
अङ्गुष्ठः ।
मञ्जिष्ठः ।
पुञ्जिष्ठः ।
परमेष्ठः ।
वर्हिष्ठः ।
दिविष्ठः ।
अग्निष्ठः ।
स्थास्थिन्स्थॄणामिति वक्तव्यम् ।
सव्येष्ठाः ।
परमेष्ठी ।
सव्येष्ठृसारथिः ॥





सुषामादिषु च ॥ ८,३.९८ ॥

_____ काशिकावृत्तिः८,३.९८:

सुषामादिषु शब्देषु सकारस्य मूर्धन्यादेशो भवति ।
शोभनं साम यस्य असौ सुषामा ब्राह्मणः ।
दुष्षामा ।
निष्षामा ।
निष्षेधः ।
दुष्षेधः ।
सुशब्दस्य कर्मप्रवचनीयसञ्ज्ञाकत्वान्निर्दुर्शब्दयोश्च क्रियान्तरविषयत्वादनुपसर्गत्वे सति पाठोऽयम् ।
सेधतेर्गतौ (*८,३.११३) इति वा प्रतिषेधबाधनार्थः ।
सुषन्धिः ।
दुष्षन्धिः ।
निष्षन्धिः ।
सुष्ठु ।
दुष्ठु ।
तिष्ठतेरुणादिष्वेतौ व्युत्पाद्येते ।
गौरिषक्थः सञ्ज्ञायाम् ।
ङ्यापोः सञ्ज्ञाछन्दसोर्बहुलम् (*६,३.६३) इति पूर्वपदस्य ह्रस्वत्वम् ।
प्रतिष्णिका ।
प्रतिष्णाशब्दादयं कन् प्रत्ययः ।
जलाषाहम् ।
नौषेचनम् ।
दुन्दुभिषेवणम् ।
एति सञ्ज्ञायामगात् ।
एकारपरस्य सकारस्य मूर्धन्यादेशः भवति इण्कोरुत्तरस्य अगकारात्परस्य सञ्ज्ञायां विषये ।
हरिषेणः ।
वारिषेणः ।
जानुषेणी ।
एति इति किम् ? हरिसक्थम् ।
सञ्ज्ञायामिति किम् ? पृथ्वी सेना यस्य स पृथुसेनो राजा ।
अगातिति किम् ? विष्वक्षेनः ।
इण्दोः इत्येव, सर्वसेनः ।
नक्षत्राद्वा ।

[॰९६१]

नक्षत्रवाचिनः शब्दादुत्तरस्य सकारस्य वा एति सञ्ज्ञायामगकारात्मूर्धन्यो भवति ।
रोहिणीषेणः, रोहिणीसेनः ।
भरणीषेणः, भरणीसेनः ।
अगकारातित्येव, शतभिषक्षेनः ।
अविहितलक्षणो मूर्धन्यः सुषामादिषु द्रष्टव्यः ॥





ह्रस्वात्तादौ तद्धिते ॥ ८,३.९९ ॥


_____ काशिकावृत्तिः८,३.९९:

ह्रस्वादुत्तरस्य सकारस्य मूर्धन्यादेएशो भवति तादौ तद्धिते परतः ।
तरप्तमप्तय त्व तल्त्यप्, एतानि प्रयोजयन्ति ।
तरप् सर्पिष्टरम् ।
यजुष्तरम् ।
तमप् सर्पिष्टमम् ।
यजुष्टमम् ।
तय चतुष्टये ब्राह्मणानां निकेताः ।
त्व सर्पिष्ट्वं यजुष्ट्वम् ।
तल् सर्पिष्टा ।
यजुष्टा ।
तस् सर्पिष्टः ।
यजुष्टः ।
त्यप् आविष्ट्यो वर्धते ।
ह्रस्वातिति किम् ? गीस्तरा ।
धूस्तरा ।
तादौ इति किम् ? सर्पिस्साद्भवति ।
प्रत्ययसकारस्य सात्पदाद्योः (*८,३.१११) इति सत्यपि प्रतिषेधे प्रकृतिसकारस्य स्यात् ।
तद्धिते इति किम् ? सर्पिस्तरति ।
तिङन्तस्य प्रतिषेधो वक्तव्यः ।
भिन्द्युस्तराम् ।
छिन्द्युस्तराम् ॥




निसस्तपतावनसेवने ॥ ८,३.१०० ॥


_____ काशिकावृत्तिः८,३.१००:

निसः सकारस्य मूर्धन्यादेशो भवति तपतौ परतोऽनासेवनेऽर्थे ।
आसेवनं पुनः पुनः करणम् ।
निष्तपति सुवर्णम् ।
सकृदग्निं स्पर्शयति इत्यर्थः ।
अनासेवने इति किम् ? निस्तपति सुवर्णं सुवर्णकारः ।
पुनः पुनरग्निं स्पर्शयति इत्यर्थः ।
निष्टप्तं रक्षो निष्टप्ता अरातयः इत्यत्र सदप्यासेवनं न विवक्ष्यते ।
छान्दसो वा वर्नविकारः ॥





युष्मत्तत्ततक्षुःष्वन्तःपादम् ॥ ८,३.१०१ ॥


_____ काशिकावृत्तिः८,३.१०१:

युष्मत्तत्ततक्षुसित्येतेषु तकारादिषु परतः सकारस्य मूर्धन्यादेशो भवति, स चेत्सकारोऽन्तःपादं भवति ।
युष्मदादेशाः त्वम्, त्वाम्, ते, तव ।
अग्निष्ट्वं नामासीत् ।
त्वा अग्निष्ट्वा वर्धयामसि ।
ते अग्निष्टे विश्वमानय ।
तव अप्स्वग्ने सधिष्टव ।
तत् अग्निष्टद्विश्वमापृणाति ।
ततक्षुस् द्यावापृथिवी निष्टतक्षुः ।
अन्तःपादमिति किम् ? यन्म आत्मनो मिन्दाभूदग्निस्तत्पुनराहार्जतवेदा विच ॥





युजुष्येकेषाम् ॥ ८,३.१०२ ॥

_____ काशिकावृत्तिः८,३.१०२:

यजुषि विषये युष्मत्तत्ततक्षुःषु परत एकेषामाचार्याणां मतेन सकारस्य मूर्धन्यादेशो भवति ।
अर्चिर्भिष्ट्वम्, अर्चिर्भिस्त्वम् ।
अग्निष्टेऽग्रम्, अग्निस्तेऽग्रम् ।
अग्निष्टत्, अग्निस्तत् ।
अर्चिर्भिष्टतक्षुः अर्चिर्भिस्ततक्षुः ॥





[॰९६२]

स्तुतस्तोमयोश्छन्दसि ॥ ८,३.१०३ ॥


_____ काशिकावृत्तिः८,३.१०३:

एकेषामिति वर्तते ।
स्तुत स्तोम इत्येतयोः सकारस्य छन्दसि विषये मूर्धन्यादेशो भवति एकेषामाचार्याणां मतेन ।
त्रिभिष्टुतस्य, त्रिभिस्तुतस्य ।
गोष्टोमं षोडशिनम्, गोस्तोमं षोडशिनम् ।
पूर्वपदातित्येव सिद्धे प्रपञ्चार्थमिदम् ॥




पूर्वपदात् ॥ ८,३.१०४ ॥


_____ काशिकावृत्तिः८,३.१०४:

छन्दसि इति वर्तते, एकेषामिति च ।
पूर्वपदस्थान्निमित्तात्परस्य सकारस्य मुर्धन्यादेशो भवति छन्दसि विषये एकेषामाचार्याणां मतेन ।
द्विषन्धिः ।
द्विसन्धिः ।
त्रिषन्धिः, त्रिसन्धिः ।
मधुष्ठानम्, मधुस्थानम् ।
द्विषाहस्रं चिन्वीत, द्विसाहस्रं चिन्वीत ।
असमासेऽपि यत्पूर्वपदं तदपि इह गृह्यते ।
त्रिः षमृद्धत्वाय, त्रिः समृद्धत्वाय ॥





सुञः ॥ ८,३.१०५ ॥


_____ काशिकावृत्तिः८,३.१०५:

सुञिति निपात इह गृह्यते, तस्य पूर्वपदस्थान्निमित्तातुत्तरस्य मूर्धन्यादेशो भवति छन्दसि विषये ।
अभी षु णः सखीनाम् ।
ऊर्ध्व ऊ षु ण ऊतये ॥





सनोतेरनः ॥ ८,३.१०६ ॥


_____ काशिकावृत्तिः८,३.१०६:

सनोतेः अनकारान्तस्य सकारस्य मूर्धन्यादेशो भवति ।
गोषाः ।
नृषाः ।
अनः इति किम् ? गोसनिं वाचमुदेयं पूर्वपदातित्येव सिद्धे नियमार्थमिदम् ।
अत्र केचित्सवनादिपाठाद्गोसनिर्नियमस्य फलं न भवति इति सिसानयिषति इति प्रयुदाहरन्ति ।
सिसनिषतेः अप्रत्ययः ।
सिसनीः इत्यपरे ॥





सहेः पृतनर्ताभ्यां च ॥ ८,३.१०७ ॥


_____ काशिकावृत्तिः८,३.१०७:

पृतना ऋत इत्येताभ्यामुत्तरस्य सहिसकारस्य मूर्धन्यादेशो भवति ।
पृतनाषाहम् ।
ऋताषाहम् ।
केचित्सहेः इति योगविभागं कुर्वन्ति ।
ऋतीषहमित्यत्र अपि यथा स्यात् ।
ऋतिशब्दस्य पूर्वपदस्य्संहितायामेतद्दीर्घत्वम् ।
अवग्रहे तु ऋतिसहमित्येव भवति ।
चकारोऽनुक्तसमुच्चयार्थः, तेन ऋतीषहमिति सिद्धम् ॥





[॰९६३]

न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् ॥ ८,३.१०८ ॥


_____ काशिकावृत्तिः८,३.१०८:

रेफपरस्य सकारस्य सृपि सृजि स्पृशि स्पृहि सवनादीनां च मूर्धन्यो न भवति ।
रपर विस्रंसिकायाः काण्डाभ्यां जुहोति ।
विस्रब्धः कथयति ।
स्पृपि पुरा क्रूरस्य विसृपः सृजि वाचो विसर्जनात् ।
स्पृशि दिविस्पृशम् ।
स्पृहि निस्पृहं कथयति ।
सवनादीनाम् सवने सवने ।
सूते सूते ।
सामे सामे ।
सवनमुखे सवनमुखे ।
किं स्यति किंसंकिंसम् ।
अनुसवनमनुसवनम् ।
गोसनिं गोसनिम् ।
अश्वसनिमश्वसनिम् ।
पूर्वपदातिति प्राप्ते प्रतिषेधः ।
अश्वसनिग्रहणमनिणोऽपि षत्वमस्ति इति ज्ञापनार्थम् ।
तेन जलाषाहम्, अश्वषाहमित्येतत्सिद्धं भवति ।
क्वचिदेवं गणपाठः सवने सवने ।
अनुसवनेऽनुसवने ।
सञ्ज्ञायां बृहस्पतिसवः ।
शकुनिसवनम् ।
सोमे सोमे ।
सूते सूते ।
संवत्सरे संवत्सरे ।
किंसंकिंसम् ।
बिसंबिसम् ।
मुसलंमुसलम् ।
गोसनिमश्वसनिम् ।
सवनादिः ॥





सात्पदाद्योः ॥ ८,३.१०९ ॥


_____ काशिकावृत्तिः८,३.१०९:

सातित्येतस्य पदादेश्च मूर्धन्यादेशो न भवति ।
विभाषा साति कार्त्स्न्ये (*५,४.५२) ।
प्रत्ययसकारत्वात्प्राप्तिः, पदादेश्च आदेशसकारत्वात् ।
सात् अग्निसात् ।
दधिसात् ।
मधुसात् ।
पदादेः दधि सिञ्चति ।
मधु सिञ्चति ॥




सिचो यङि ॥ ८,३.११० ॥


_____ काशिकावृत्तिः८,३.११०:

सिचः सकारस्य यगि परतो मूर्धन्यादेशो न भवति ।
सेसिच्यते ।
अभिसेसिच्यते ।
उपसर्गातिति या प्राप्तिः सा पदादिलक्षणमेव प्रतिषेधं बाधते, न सिचो यङि इति ।
तस्मादयं प्रतिषेधः सर्वत्र भवति ।
यङि इति किम् ? अभिषिषिक्षति ॥





सेधतेर्गतौ ॥ ८,३.१११ ॥


_____ काशिकावृत्तिः८,३.१११:

गतौ वर्तमानस्य सेधतेः सकारस्य मूर्धन्यादेशो न भवति ।
अभिसेधयति गाः ।
परिसेधयति गाः ।
गतौ इति किम् ? शिष्यमकार्यात्प्रतिषेधयति ॥





[॰९६४]

प्रतिस्तब्धनिस्तब्धौ च ॥ ८,३.११२ ॥


_____ काशिकावृत्तिः८,३.११२:

प्रतिस्तब्ध निस्तब्ध इत्येतौ मूर्धन्यप्रतिषेधाय निपात्येते ।
स्तन्भेः (*८,३.६७) इति प्राप्तं षत्वं प्रतिषिध्यते ।
प्रतिस्तब्धः ।
निस्तब्धः ॥





सोढः ॥ ८,३.११३ ॥


_____ काशिकावृत्तिः८,३.११३:

सहिरयं सोधभूतो गृह्यते ।
तस्य सकारस्य मूर्धन्यादेशो न भवति ।
परिषोढः ।
परिसोढुम् ।
परिसोढव्यम् ।
सोढभूतग्रहणं किम् ? परिषहते ॥





स्तम्भुसिवुसहां चङि ॥ ८,३.११४ ॥


_____ काशिकावृत्तिः८,३.११४:

स्तम्भु सिवु सह इत्येतेषां चङि परतः सकारस्य मूर्धन्यादेशो न भवति ।
स्तन्भेः (*८,३.७७) इति, परिनिविभ्यः इति च प्राप्तः मूर्धन्यः प्रतिषिध्यते ।
स्तम्भु पर्यतस्तम्भत् ।
अभ्यतस्तम्भत् ।
सिवु पर्यसीषिवत् ।
न्यसीषिवत् ।
सह पर्यसीषहत् ।
व्यसीषहत् ।
स्तम्भुसिवुसहां चङ्युपसर्गादिति वक्तव्यम् ।
उपसर्गाद्या प्राप्तिः तस्याः एव प्रतिषेधो यथा स्यात्, अभ्यासाद्या प्राप्तिः तस्या मा भूतिति ।
तथा च+एव+उदाहृतम् ॥





सनोतेः स्यसनोः ॥ ८,३.११५ ॥


_____ काशिकावृत्तिः८,३.११५:

सुनोतेः सकारस्य मूर्धन्यदेशो न भवति स्ये सनि च परतः ।
अभिसोष्यति ।
परिसोष्यति ।
अभ्यसोष्यत् ।
पर्यसोष्यत् ।
सनि किमुदाहरनम् ? अभिसुसूषति ।
न+एतदस्ति प्रयोजनम्, तत्र स्तौतिण्योरेव षण्यभ्यासात्(*८,३.७१) इति नियमात्न भविष्यति ।
इदं तर्हि, अभिसुसूषते ? एतदपि न अस्ति, स्थादिष्वभ्यासेन च अभ्यासस्य (*८,३.६४) इति नियमात् ।
इदं तर्हि, अभिसुसूषतेः अप्रत्ययः अभिसुसूः इत्युदाहरनमिति ? अत्र हि सन्षभूतो न भवति इत्यभ्यासात्प्राप्तिरस्ति ।
स्यसनोः इति किम् ? सुषाव ॥





सदिष्वञ्जोः परस्य लिटि ॥ ८,३.११६ ॥


_____ काशिकावृत्तिः८,३.११६:

सदि ष्वञ्ज इत्येतयोः धात्वोः लिटि परतः सकारस्य परस्य मूर्धन्यः न भवति ।
अभिषसाद ।
परिषसाद ।
निषसाद ।
विषसाद ।
परिषस्वजे, परिषस्वजाते, परिषस्वजिरे ।
अभिषस्वजे ।
स्वञ्जेः संयोगान्तादपि विभाषा लिटः कित्त्वमिच्छन्ति इति पक्षेऽनुषङ्गलोपः ॥




[॰९६५]

निव्यभिभ्योऽड्व्यवाये वा छन्दसि ॥ ८,३.११७ ॥


_____ काशिकावृत्तिः८,३.११७:

नि वि अभि इत्येतेभ्यः उपसर्गेभ्यः उत्तरस्य सकारस्य अड्व्यवाये छन्दसि विषये मूर्दह्न्यादेशो न भवति वा ।
न्यषीदत्पिता नः, न्यसीदत् ।
व्यषीदत्पिता नः, व्यसीदत् ।
अभ्यषीदत्, अभ्यसीदत् ।
सदिष्वञ्जोरिति तदिह न अनुवर्तते ।
सामान्येन+एव तद्वचनम् ।
व्यष्टौत्, व्यस्तौत्, अभ्यष्टौत्, अभ्यस्तौतित्येतदपि सिद्धं भवति ॥
इति वामनकाशिकायां वृत्तौ अष्टमाध्यायस्य तृतीयः पादः ।



अष्टमाध्यायस्य चतुर्थः पादः ।





[॰९६६]

रषाभ्यां नो णः समानपदे ॥ ८,४.१ ॥

_____ काशिकावृत्तिः८,४.१:

रेफषकाराभ्यामुत्तरस्य्नकारस्य णकारादेशो भवति, समानपदस्थौ चेन्निमित्तनिमित्तिनौ भवतः ।
आस्तीर्णम् ।
विशीर्णम् ।
अवगूर्णम् ।
षकारात् कुष्णाति ।
पुष्णाति ।
मुष्णाति ।
षग्रहणमुत्तरार्थम्, ष्टुत्वेन+एव हि सिद्धमेतत् ।
समानपदे इति किम् ? अग्निर्नयति ।
वायुर्नयति ।
ऋवर्णाच्च+इति वक्तव्यम् ।
तिसृणाम् ।
चतसृणाम् ।
मातॄणाम् ।
पितॄणाम् ।
रश्रुतिसामान्यनिर्देशात्वा सिद्धम् ।
अवर्नभक्त्या च व्यवधानेऽपि णत्वं भवति इति क्षुभ्नादिषु नृनमनतृप्नोतिग्रहणं ज्ञापकम् ।
अथवा ऋवर्णादपि णत्वं भवति इति एतदेव अनेन ज्ञाप्यते ॥





अट्कुप्वाङ्नुम्व्यवायेऽपि ॥ ८,४.२ ॥


_____ काशिकावृत्तिः८,४.२:

अट्कु पु आङ्नुमित्येतैर्व्यवायेऽपि रेफषाकारभ्यामुत्तरस्य नकारस्य णकारादेशो भवति ।
अड्व्यवाये तावत् करणम् ।
हरणं किरिणा ।
गिरिणा ।
कुरुणा ।
गुरुणा ।
कवर्गव्यवाये अर्केण ।
मूर्खेण ।
गर्गेण ।
अर्घेण ।
पवर्गव्यवाये दर्पेण ।
रेफेण ।
गर्भेण ।
चर्मणा ।
वर्मणा ।
आङ्व्यवाये पर्याणद्धम् ।
निराणद्धम् ।
अड्व्यवाये इति सिद्धे आङ्ग्रहणं पदव्यवाये इत्यस्य प्रतिषेधस्य बाधनार्थम् ।
नुंव्यवाये बृंहणम् ।
बृंहणीयम् ।
नुंग्रहणमनुस्वारोपलक्षणार्थं द्रष्टव्यम् ।
तेन तृंहणम्, तृंहणीयमित्यत्र अनुस्वारव्यवाये नुमभावेऽपि णत्वं भवति ।
सत्यपि च नुमि यत्र अनुस्वारो न श्रूयते तत्र न भवति, प्रेन्वनम्, प्रेन्वनीयमिति ।
व्यवायोपलक्षणार्थत्वादडादीनामिह व्यस्तैः समस्तैर्व्यवायेऽपि णत्वं भवति ॥





पूर्वपदात्सञ्ज्ञायामगः ॥ ८,४.३ ॥


_____ काशिकावृत्तिः८,४.३:

पूर्वपदस्थान्निमित्तादुत्तरस्य गकारवर्जिताद्नकारस्य णकार आदेशो भवति सञ्ज्ञायां विषये ।
द्रुणसः ।
वार्घ्रीणसः ।
खरणसः ।
शूर्पणखा ।
सञ्ज्ञायामिति किम् ? चर्मनासिकः ।
अगः इति किम् ? ऋगयनम् ।
केचिदेतन्नियमार्थं वर्णयन्ति, पूर्वपदात्सञ्ज्ञायामेव णत्वं न अन्यत्र इति ।

[॰९६७]

समासेऽपि हि समानपदे निमित्तनिमित्तिनोर्भावादस्ति पूर्वेण प्राप्तिः इति स च नियमः पूर्वपदसम्बधादुत्तरपदस्थस्य+एव णत्वं निवर्तयति, चर्मनासिकः इति, न तद्धितपूर्वपदस्थस्य, खारपायणः, मातृभोनीणः, कर्णप्रियः इति ।
अगः इति योगविभागेन णत्वप्रतिषेधः, न नियमप्रतिषेधः इति ।
अपरे तु पूर्वसूत्रे समानमेव यन्नित्यं पदं तत्समानपदमित्याश्रयन्ति, समानग्रहणात् ।
तेषामप्राप्तमेव णत्वमनेन निधीयते ।
समासे हि पूर्वपदोत्तरविभागादसमानपदत्वमप्यस्ति इति ॥





वनं पुरगामिश्रकासिध्रकाशारिकाकोटराग्रेभ्यः ॥ ८,४.४ ॥


_____ काशिकावृत्तिः८,४.४:

पूर्वपदात्सञ्ज्ञायमिति वर्तते ।
पुरगा मिश्रक सिघ्रका शारिका कोटरा अग्रे इत्येतेभ्यः पूर्वपदेभ्यः उत्तरस्य वननकारस्य णकारादेशो भवति सञ्ज्ञायां विषये ।
पुरगावणम् ।
मिश्रकवणम् ।
सिघ्रकावणम् ।
शारिकावणम् ।
कोटरावणम् ।
अग्रेवणम् ।
सिद्धे सत्यारम्भो नियमार्थः, एतेभ्य एव परस्य वननकारस्य णकारादेशो भवति, न अन्येभ्यः इति ।
कुबेरवनम् ।
शतधारवनम् ।
असिपत्रवनम् ॥





प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्योऽसञ्ज्ञायामपि ॥ ८,४.५ ॥


_____ काशिकावृत्तिः८,४.५:

प्र निरन्तर्शर इक्षु प्लक्ष आम्र कार्ष्य खदिर पीयूक्षा इत्येतेभ्यः उत्तरस्य वननकारस्य सञ्ज्ञायामसञ्ज्ञायामपि णकारादेशो भवति ।
प्र प्रवणे यष्टव्यम् ।
निर् निर्वणे प्रतिढीयते ।
अन्तर् अन्तर्वर्णे ।
शर शरवणम् ।
इक्षु इक्षुवणम् ।
प्लक्ष प्लक्षवणम् ।
आम्र आम्रवणम् ।
कार्ष्य कार्ष्यवणम् ।
खदिर खदिरवणम् ।
पीयूक्षा पीयूक्षावणम् ॥





विभाषौषधिवनस्पतिभ्यः ॥ ८,४.६ ॥


_____ काशिकावृत्तिः८,४.६:

वनमित्येव ।
ओषधिवाचि यत्पूर्वपदं वनस्पतिवाचि च तत्स्थान्निमित्तादुत्तरस्य वननकारस्य णकार आदेशो भवति विभाषा ।
ओषधिवाचिभ्यस्तावत् दूर्वावणम्, दूर्वावनम् ।
मूर्वावणम्, मूर्वावनम् ।
वन्स्पतिभ्यः शिरीषवणम्, शिरीषवनम् ।
बदरीवणम्, बदरीवनम् ।
द्व्यक्षरत्र्यक्षरेभ्य इति वक्तव्यम् ।
इह मा भूत्, देवदारुवनम् ।
भद्रदारुवनम् ।
इरिकादिभ्यः प्रतिषेधो वक्तव्यः ।
इरिकावनम् ।
मिरिकावनम् ।
फली वन्स्पतिर्ज्ञेयो वृक्षाः पुष्पफलोपगाः ।
ओषध्यः फलपाकान्ता लतागुल्माश्च वीरुधः ॥
सत्यपि भेदे वृक्षवनस्पत्योरिह भेदेन ग्रहणं द्रष्तव्यम् ॥




[॰९६८]

अह्नोऽदन्तात् ॥ ८,४.७ ॥


_____ काशिकावृत्तिः८,४.७:

अदन्तं यत्पूर्वपदं तत्स्थान्निमित्तादुत्तरस्य अह्नो नकारस्य णकार आदेशो भवति ।
पूर्वाह्णः ।
अपराह्णः ।
अदन्तातिति किम् ? निरह्नः ।
दुरह्नः ।
अह्नोऽह्न एतेभ्यः (*५,४.८८) इत्यह्नादेशः ।
अह्नः इत्यकारान्तग्रहणाद्दीर्घाह्नी शरदित्यत्र न भवति ॥





वाहनमाहितात् ॥ ८,४.८ ॥


_____ काशिकावृत्तिः८,४.८:

आहितवाचि यत्पूर्वपदं तत्स्थान्निमित्तादुत्तरस्यवाहननकारस्य णकार आदेशो भवति ।
इक्षुवाहणम् ।
शरवाहणम् ।
दर्भवाहणम् ।
वाहने यदारोपितमुह्यते तदाहितमुच्यते ।
आहितातिति किम् ? दाक्षिवाहनम् ।
दाक्षिस्वामिकं वाहनमित्यर्थः ॥





पानं देशे ॥ ८,४.९ ॥

_____ काशिकावृत्तिः८,४.९:

पाननकारस्य पूर्वपदस्थान्निमित्तादुत्तरस्य देशाभिधाने णकार आदेशो भवति ।
पीयते इति पानम् ।
कृत्यल्युटो बहुलम् (*३,३.११३) इति कर्मणि ल्युत् ।
क्षीरं पानं येषां ते क्षीरपाणा उशीनराः ।
मनुष्याभिधानेऽपि देशाभिधानं गम्यते ।
सुरापाणाः प्राच्याः ।
सौवीरपाणा बाह्लीकाः ।
कषायपाणाः गान्धाराः ।
देशे इति किम् ? दाक्षीणां पानं दाक्षिपानम् ॥





वा भावकरणयोः ॥ ८,४.१० ॥


_____ काशिकावृत्तिः८,४.१०:

भावे करणे च यः पानशब्दः तदीयस्य नकारस्य णकार आदेशो भवति वा पूर्वपदस्थानिमित्तादुत्तरस्य ।
क्षीरपाणं वर्तते, क्षीरपानम् ।
कषायपाणम्, कषायपानम् ।
सुरापाणम्, सुरापानम् ।
करणे क्षीरपाणः कंसः, क्षीरपानः ।
वाप्रकरणे गिरिनद्यादीनामुपसङ्ख्यानम् ।
गिरिणदी, गिरिनदी ।
चक्रणदी, चक्रनदी ।
चक्रणितम्बा, चक्रनितम्बा ॥





प्रातिपदिकान्तनुम्विभक्तिषु च ॥ ८,४.११ ॥


_____ काशिकावृत्तिः८,४.११:

वा इति वर्तते ।
प्रातिपदिकान्ते नुमि विभक्तौ च यो नकारः तस्य पूर्वपदस्थान्निमित्तादुत्तरस्य्वा णकार आदेशो भवति ।
प्रातिपदिकान्ते तावत् माषवापिणौ, माषवापिनौ ।
नुमि माषवापाणि, माषवापानि ।
व्रीहिवापाणि, व्रीहिवापानि ।
विभक्तौ माषवापेण, माषवापेन ।
व्रीहिवापेण, व्रीहिवापेन ।
पूर्वपदाधिकारादुत्तरपदस्य प्रातिपदिकस्थो योऽन्त्यो नकारः तस्य+इदं णत्वमिष्यति ।
इह हिन भवति, गर्गाणां भगिनी गर्गभगिनी ।

[॰९६९]

यदा त्वेवं भवति, गर्गाणां भगो गर्गभगः, गर्गभगोऽस्या अस्ति इति गर्गभगिणी इति, तदा मातृभोगीणवन्नित्यमेव णत्वेन भवितव्यम् ।
माषवापिणी, माषवापिनी इत्यत्र तु गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्षुबुत्पत्तेः इति कृदन्तेन+एव समासे सति प्रातिपदिकस्य उत्तरपदस्य+एव सतो नकारो भवति ।
तथा च अत्र नुंग्रहणं कृतम् ।
स हि समुदायभक्तत्वादुत्तरपदस्य अन्तो न भवति ।
युवादीनां प्रतिषेधो वक्तव्यः ।
आर्ययूना ।
क्षत्रिययूना ।
प्रपक्वानि ।
दीर्घाह्नी शरद् ॥





एकाजुत्तरपदे णः ॥ ८,४.१२ ॥


_____ काशिकावृत्तिः८,४.१२:

एकाजुत्तरपदं यस्य स एकाजुत्तरपदः, तस्मिन्नेकाजुत्तरपदसमासे प्रातिपदिकान्तनुंविभक्तिसु पूर्वपदस्थान्निमित्तादुत्तरस्य नकारस्य णकारः आदेशो भवति ।
वृत्रहणौ ।
वृत्रहणः ।
नुमि क्षीरपाणि ।
सुरापाणि ।
विभक्तौ क्षीरपेण ।
सुरापेण ।
णः इति वर्तमाने पुनर्णग्रहणं विकल्पाधिकारनिवृत्तेः विस्पष्टीकरणार्थम् ॥





कुमति च ॥ ८,४.१३ ॥


_____ काशिकावृत्तिः८,४.१३:

कवर्गवति च+उत्तरपदे प्रातिपदिकान्तनुंविभक्तिषु पूर्वपदस्थान्निमित्तादुत्तरस्य नकारस्य णकारादेशो भवति ।
वस्त्रयुगिणौ ।
वस्त्रयुगिणः ।
स्वर्गकामिणौ ।
वृषगामिणौ ।
नुमि वस्त्रयुगाणि ।
खरयुगाणि ।
विभक्तौ वस्त्रयुगेण ।
खरयुगेण ॥





उपसर्गादसमासेऽपि णोपदेशस्य ॥ ८,४.१४ ॥


_____ काशिकावृत्तिः८,४.१४:

णः उपदेशो यस्य असौ णोपदेशः ।
णोपदेशस्य धातोर्यो नकारः तस्य उपसर्गस्थान्निमित्तादुत्तरस्य णकारादेशो भवति असमासेऽपि समासेऽपि ।
प्रणमति ।
परिणमति ।
प्रणायकः ।
परिणायकः ।
उपसर्गातिति किम् ? प्रगता नायकाः अस्माद्देशात्प्रनायको देशः ।
अस्मासेऽपि किम् ? पूर्वपदाधिकारात्समास एव स्यातिति तदधिकारणिवृत्तिद्योतनार्थम् ।
णोपदेशस्य इति किम् ? प्रनर्दति ।
प्रनर्दकः ॥





हिनुमीना ॥ ८,४.१५ ॥


_____ काशिकावृत्तिः८,४.१५:

हिनु मीना इत्येतयोः उपसर्गस्थान्निमित्तादुत्तरस्य नकारस्य णकारादेशो भवति ।
प्रःिणोति ।
प्रहिणुतः ।
प्रमीणाति ।
प्रमीणीतः ।
हिनुमीनाग्रहणे विकृतस्य अपि भवति, अजादेशस्य स्थानिवत्त्वात् ॥





[॰९७०]

आनि लोट् ॥ ८,४.१६ ॥


_____ काशिकावृत्तिः८,४.१६:

आनि इत्येतस्य लोडादेशस्य उपसर्गस्थान्निमित्तादुत्तरस्य नकारस्य णकारदेशो भवति ।
प्रवपाणि ।
परिवपाणि ।
प्रयाणि ।
परियाणि ।
लोतिति किम् ? प्रवपानि मांसानि ॥




नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च ॥ ८,४.१७ ॥


_____ काशिकावृत्तिः८,४.१७:

नि इत्येतस्य उपसर्गस्थान्निमित्तादुत्तरस्य नकारस्य णकारादेशो भवति गद नद पत पद घु मा स्याति हन्ति याति वाति द्राति प्साति वपति वहति शाम्यति चिनोति देग्धि इत्येतेषु परतः ।
गद प्रणिगदति ।
परिणिगदति ।
नद प्रणिनदति ।
परिणिनदति ।
पत प्रणिपतति ।
परिणिपतति ।
पद प्रणिपद्यते ।
परिणिपद्यते ।
घु प्रणिददाति ।
परिणिददाति ।
प्रणिदधाति ।
परिणिदधाति ।
माङ् प्रणिमिमीते ।
परिणिमिमीते ।
मेङ् प्रणिमयते ।
परिणिमयते ।
मा इति मङ्मेङोर्ग्रहणमिष्यते ।
स्यति प्रणिष्यति ।
परिणिष्यति ।
हन्ति प्रणिहन्ति ।
परिणिहन्ति ।
याति प्रणियाति ।
परिणियाति ।
वाति प्रणिवाति ।
परिणिवाति ।
द्राति प्रणिद्राति ।
परिणिद्राति ।
प्साति प्रणिप्साति ।
परिणिप्साति ।
वपति प्रणिवपति ।
परिणिवपति ।
वहति प्रणिवहति ।
परिणिवहति ।
शाम्यति प्रणिशाम्यति ।
परिणिशाम्यति ।
चिनोति प्रणिचिनोति ।
प्रिणिचिनोति ।
देग्धि प्रणिदेग्धि ।
परिणिदेग्धि ।
अड्व्यवायेऽपि नेर्गदादिषु णत्वमिष्यते ।
प्रण्यगदत् ।
परिण्यगदत् ॥





शेषे विभाषाऽकखादावषान्त उपदेशे ॥ ८,४.१८ ॥


_____ काशिकावृत्तिः८,४.१८:

नेः इति वर्तते, उपसर्गातिति च ।
अककारादिरखकारादिरषकारान्तः च उपदेशे यो धातुः स शेषः, तस्मिन् परतः उपसर्गस्थान्निमित्तातुत्तरस्य नेः नकारस्य विभाष णकार आदेशो भवति ।
प्रणिपचति, प्रनिपचति ।
प्रणिभिनत्ति, प्रनिभिनत्ति ।
अकखादौ इति किम् ? प्रनिकरोति ।
प्रनिखादति ।
अषान्त इति किम् ? प्रनिपिनष्टि ।
उपदेशग्रहणं किम् ? इह च प्रतिषेधो यथा स्यात्, प्रनिचकार, प्रनिचखाद, प्रनिपेक्ष्यति इति ।
इह च मा भूत्, प्रणिवेष्टा ।
प्रणिवेक्ष्यति ॥




अनितेः ॥ ८,४.१९ ॥


_____ काशिकावृत्तिः८,४.१९:

अनितेः नकारस्य उपसर्गस्थान्निमित्तादुत्तरस्य णकारादेशो भवति ।
प्राणिति ।
पराणिति ॥





[॰९७१]

अन्तः ॥ ८,४.२० ॥


_____ काशिकावृत्तिः८,४.२०:

अनितेः इति वर्तते ।
उपसर्गस्थान्निमित्तातुत्तरस्य अनितिनकारस्य पदान्ते वर्तमानस्य णकारादेशो भवति ।
हे प्राण् ।
हे पराण् ।
पदान्तस्य इति प्रतिषेधस्य अपवादोऽयम् ।
अन्तश्च पदापेक्षो गृहयते ।
केचित्तु पूर्वसूत्रे एव एतदन्तग्रहणं सामीप्यार्थमभिसम्बध्नन्ति ।
निमित्तसमीपस्थैकवर्णव्यवहितस्य अनितिनकारस्य पदान्ते वर्तमानस्य णकारादेशो यथा स्यात् ।
इह मा भूत्, पर्यनिति इति ।
तैर्द्वितीयमपि पदान्तस्य णत्वार्थमन्तग्रहणमाश्रयितव्यमेव ।
येषां तु पर्यणिति इति भवितव्यमिति दर्शनम्, तेषां पूर्वसूत्रे न अर्थोऽन्तग्रहणेन ॥





उभौ साभ्यासस्य ॥ ८,४.२१ ॥

_____ काशिकावृत्तिः८,४.२१:

साभ्यासस्य अनितेः उपसर्गस्थान्निमित्तादुत्तरस्य उभयोः नकारयोः णकार आदेशो भवति ।
प्रणिणिषति ।
प्राणिणत् ।
पराणिणिषति ।
पराणिणत् ।
पूर्वत्रासिद्धीयमद्विर्वचने इत्येतस्मिन् सति पूर्वेण+एव कृतणत्वस्य द्विर्वचने कृते सिद्धमेतदन्तरेण अपि वचनम् ? एतत्तु नाश्रयितव्यमिति सूत्रमिदमारभ्यते ।
तेन ञौजढतिति सिद्धं भवति ॥





हन्तेरत्पूर्वस्य ॥ ८,४.२२ ॥


_____ काशिकावृत्तिः८,४.२२:

अकारपूर्वस्य हन्तिनकारस्य उपसर्गस्थात्निमित्तादुत्तरस्य णकार आदेशो भवति ।
प्रहण्यते ।
परिहण्यते ।
प्रहणनम् ।
परिहणनम् ।
अत्पूर्वस्य इति किम् ? प्रघ्नन्ति ।
परिघ्नति ।
तपरकरणं किम् ? चिणि प्राघानि ।
पर्यघानि ॥





वमोर्वा ॥ ८,४.२३ ॥


_____ काशिकावृत्तिः८,४.२३:

हन्तेः इति वर्तते ।
वकारमकारायोः परतः हन्तिनकारस्य उपसर्गस्थान्निमित्तादुत्तरस्य वा णकारादेशो भवति ।
प्रहण्वः, प्रहन्वः ।
परिहण्वः, परिहन्वः ।
प्रहण्मः, प्रहन्मः ।
परिहण्मः, परिहन्मः ॥





अन्तरदेशे ॥ ८,४.२४ ॥


_____ काशिकावृत्तिः८,४.२४:

अन्तःशब्दादुत्तरस्य हन्तिनकारस्य अत्पूर्वस्य णकारादेशो भवति अदेशाभिधाने ।
अन्तर्हण्यते ।
अन्तर्हणनं वर्तते ।
अदेशे इति किम् ? अन्तर्हननो देशः ।
अत्पूर्वस्य इत्येव, अन्तर्घ्नन्ति ।
तपरकरणं किम् ? अन्तरघानि ॥





[॰९७२]

अयनं च ॥ ८,४.२५ ॥


_____ काशिकावृत्तिः८,४.२५:

अन्तरदेशे इति वर्तते ।
अयननकारस्य च अन्तःशब्दादुत्तरस्य णकारादेशो भवति अदेशाभिधाने ।
अन्तरयणं वर्तते ।
अन्तरयणं शोभनम् ।
अदेशे इत्येव, अन्तरयनो देशः ॥





छन्दस्यृदवग्रहात् ॥ ८,४.२६ ॥


_____ काशिकावृत्तिः८,४.२६:

पुर्वपदातिति वर्तते ।
ऋकारान्तादवग्रहात्पूर्वपदादुत्तरस्य णकारादेशो भवति छन्दसि विषये ।
नृमणाः ।
पितृयाणम् ।
अत्र हि नृमणाः, पितृयाणमिति ऋकारोऽवगृह्यते ।
अवग्रहग्रहणं किमर्थमुच्यते, यावता संहिताधिकार आ अध्यायपरिसमाप्तेः इत्युक्तम् ? विषयोपलक्षणार्थमवग्रहग्रहणम् ।
अवगृह्यमाणाद्यथा स्यात्, अनवगृह्यमाणात्मा भूत् ।
अपदान्ते च अवग्रहो न अस्ति ॥





नश्च धातुस्थोरुषुभ्यः ॥ ८,४.२७ ॥


_____ काशिकावृत्तिः८,४.२७:

नसित्येतस्य नकारस्य णकारादेशो भवति धातुस्थान्निमित्तादुत्तरस्य उरुशब्दात्षुशब्दाच्च छन्दसि विषये ।
धातुस्थात्तावत् अग्ने रक्षा नः ।
शिक्षा णो अस्मिन् ।
उरुशब्दात् उरु णस्कृधि ।
षुशब्दात् अभी षु णः सखीनाम् ।
ऊर्ध्व ऊ षु ण ऊतये ।
अस्मदादेशोऽयं नस्शब्दः बहुवचनस्य वस्नसौ (*८,१.२१) इति ॥





उपसर्गाद्बहुलम् ॥ ८,४.२८ ॥


_____ काशिकावृत्तिः८,४.२८:

उपसर्गस्थान्निमित्तातुत्तरस्य नसो नकारस्य णकारादेशो भवति बहुलम् ।
प्रणः शूद्रः ।
प्रणसः ।
प्रणो राजा ।
न च भवति ।
प्र नो मुञ्चतम् ।
बहुलग्रहणाद्भाषायामपि भवति, प्रणसं मुखम् ।
उपसर्गाच्च इति नासिकाया नसादेशः ॥





कृत्यचः ॥ ८,४.२९ ॥


_____ काशिकावृत्तिः८,४.२९:

कृत्स्थः यो नकारः अचः उत्तरः तस्य उपसर्गस्थान्निमित्तादुत्तरस्य णकारादेशो भवति ।
अन, मान, अनीय, अनि, निष्ठादेश एते णत्वं प्रयोजयन्ति ।
अन प्रयाणम् ।
परियाणम् ।
प्रमणम् ।
परिमाणम् ।
मान प्रयायमाणम् ।
परियायमाणम् ।
अनीय प्रयाणीयम् ।
परियाणीयम् ।
अनि अप्रयाणिः ।
अपरियाणि ।
इनि प्रयायिणौ ।
परियायिणौ ।
निष्ठादेश प्रहीणः ।
परिहीणः ।
प्रहीणवान् ।
परिहीणवान् ।
अचः इति किम् ? प्रमग्नः ।
परिभुग्नः ।
भुजो कौटिल्ये, अस्य निष्ठाप्रत्ययः, ओदितश्च (*८,२.४५) इति निष्ठानत्वम्, चोः कुः (*८,२.३०) इति कुत्वे सिद्धं परिभुग्नः इति ।
कृत्स्थस्य णत्वे निर्विण्णस्य+उपसङ्ख्यानं कर्तव्यम् ।
निर्विण्ण्नोऽस्मि खलसङ्गेन ।
निर्विण्णोऽहमत्र वासेन ॥





[॰९७३]

णेर्विभाषा ॥ ८,४.३० ॥


_____ काशिकावृत्तिः८,४.३०:

ण्यन्ताद्यो विहितः कृत्प्रत्ययः तत्स्थस्य नकारस्य उपसर्गस्थान्निमित्तातुत्तरस्य विभाषा णकारादेशो भवति ।
प्रयापणम्, प्रयापनम् ।
परियापणम्, परियापनम् ।
प्रयाप्यमाणम्, प्रयाप्यमानम् ।
प्रयापणीयम्, प्रयापनीयम् ।
अप्रयापणिः, अप्रयापनिः ।
प्रयपणौ, प्रयापिनौ, विहितविशेषणं किम् ? प्रयप्यमाणमित्यत्र यका व्यवधानेऽपि यथा स्यातिति ॥





हलश्चेजुपधात् ॥ ८,४.३१ ॥

_____ काशिकावृत्तिः८,४.३१:

कृत्यचः इति वर्तते ।
हलादिः यो धातुरिजुपधः तस्मात्परो यः कृत्प्रत्ययः तत्स्थस्थ नकारस्य अच उत्तरस्य उपसर्गस्थान्निमित्तादुत्तरस्य विभाषा णकारादेशो भवति ।
प्रकोपणम्, प्रकोपनम् ।
परिकोपणम्, परिकोपनम् ।
हलः इति किम् ? प्रेहणम् ।
प्रोहणम् ।
इजुपधातिति किम् ? प्रवपणम् ।
परिवपणम् ।
कृत्यचः इति नित्ये प्राप्ते विकल्पः ।
अचः इत्येव, परिभुग्नः ।
इजुपधस्य सर्वस्य हलन्तत्वादिह हल्ग्रहणमादिविशेषणम् ॥





इजादेः सनुमः ॥ ८,४.३२ ॥


_____ काशिकावृत्तिः८,४.३२:

हलः इति वर्तते, तेन इह सामर्थ्यात्तदन्तविधिः ।
इजादेः सनुमः हलन्ताद्धातोः विहितो यः कृत्, तत्स्थसय्नकारस्य उपसर्गस्थान्निमित्तातुत्तरस्य णकारो भवति ।
प्रेङ्खणम् ।
प्रेङ्ग्खणम् ।
प्रेङ्गणम् ।
परेङ्गणम् ।
प्रोम्भणम् ।
परोम्भणम् ।
सिद्धे सत्यारम्भो नियमार्थः, इजादेरेव सनुमः, नान्यस्मातिति ।
प्रमङ्गनम् ।
परिमङ्गनम् ।
हलः इत्यधिकाराद्ण्यन्ते नित्यं विध्यर्थमेतन्न भवति ॥




वा निंसनिक्षनिन्दाम् ॥ ८,४.३३ ॥


_____ काशिकावृत्तिः८,४.३३:

उपसर्गातित्वर्तते ।
निंस निक्ष निनद इत्येतेषां नकारस्य उपसर्गस्थान्निमित्तातुत्तरस्य वा णकारादेशो भवति ।
प्रणिंसनम्, प्रनिंसनम् ।
प्रणिक्षणम्, प्रनिक्षणम् ।
प्रणिन्दनम्, प्रनिन्दनम् ।
णोपदेशत्वादेतेषां नित्ये प्राप्ते विकल्पः ॥




न भाभूपूकमिगमिप्यायीवेपाम् ॥ ८,४.३४ ॥


_____ काशिकावृत्तिः८,४.३४:

भा भू पू कमि गमि पयायी वेप इत्येतेषामुपसर्गस्थात्निमित्तादुत्तरस्य कृत्स्थस्य नकारस्य णकारादेशो न भवति ।
भा प्रभानम् ।
परिभानम् ।
भू प्रभवनम् ।
परिभवनम् ।
पू प्रपवनम् ।
परिपवनम् ।
पूग्रहणेन पूञ्ग्रहणं द्रष्टव्यम् ।
पूङो हि भवत्येव णत्वम्, प्रपवणं सोमस्य इति ।
कमि प्रकमनम् ।
परिकमनम् ।
गमि प्रगमनम् ।
परिगमनम् ।
प्यायी प्रप्यायनम् ।
परिप्यायनम् ।
वेप प्रवेपनम् ।
परिवेपनम् ।
ण्यन्तानां भादीनामुपसङ्ख्यानं कर्तव्यम् ।
प्रभापनम् ।
परिभापनम् ॥





[॰९७४]

षात्पदान्तात् ॥ ८,४.३५ ॥


_____ काशिकावृत्तिः८,४.३५:

षकारात्पदन्तादुत्तरस्य नकारस्य णकारादेशो न भवति ।
निष्पानम् ।
दुष्पानम् ।
सर्पिष्पानम् ।
यजुष्पानम् ।
षातिति किम् ? निर्णयः ।
पदान्तातिति किम् ? कुष्णाति ।
पुष्णाति ।
पदे अन्तः पदान्तः इति सप्तमीसमासोऽयम्, तेन इह न भवति, सुसर्पिष्केण ।
सुयजुष्केण ।
शेषाद्विभाषा (*५,३.१५४) इति कप् ॥





नशेः षान्तस्य ॥ ८,४.३६ ॥


_____ काशिकावृत्तिः८,४.३६:

न इति वर्तते ।
नशेः षकारान्तस्य णकारादेशो न भवति ।
प्रनष्टः ।
परिनष्टः ।
षान्तस्य इति किम् ? प्रणश्यति ।
परिणश्यति ।
अन्तग्रहणं षान्तभूतपूर्वमात्रस्य अपि यथा स्यात्, प्रनङ्क्ष्यति ।
परिनङ्क्षयति ॥





पदान्तस्य ॥ ८,४.३७ ॥


_____ काशिकावृत्तिः८,४.३७:

पदान्तस्य नकारस्य णकारादेशो न भवति ।
वृक्षान् ।
प्लक्षान् ।
अरीन् ।
गिरीन् ॥





पदव्यवायेऽपि ॥ ८,४.३८ ॥


_____ काशिकावृत्तिः८,४.३८:

पदेन व्यवायः पदव्यवायः पदव्यवधानम् ।
पदेन व्यवायेऽपि सति निमित्तनित्तिनोः नकारस्य नकारादेशो न भवति ।
माषकुम्भवापेन ।
चतुरङ्गयोगेन ।
प्रावनद्धम् ।
पर्यवनद्धम् ।
प्र गां नयामः ।
परि गां नयामः ।
पदव्यवायेऽतद्धित इति वक्तव्यम् ।
इह मा भूत्, आर्द्रगोमयेण ।
शुष्कगोमयेण ।
गोश्च पुरीषे इति मयट् ।
स्वादौ पूर्वं पदमिति गोशब्दः पूर्वपदं तेन व्यवायः ॥





क्षुभ्नादिषु च ॥ ८,४.३९ ॥


_____ काशिकावृत्तिः८,४.३९:

न इति वर्तते ।
क्षुभ्ना इत्येवमादिषु शब्देषु नकारस्य णकारदेशो न भवति ।
क्षुभ्नाति ।
अजादेशस्य स्थानिवद्भावादिह अपि प्रतिषेधो भवति ।
क्षुभ्नीतः ।
क्षुभ्नन्ति ।
नृनमनः पूर्वपदात सञ्ज्ञायामिति प्राप्तिः ।
छन्दस्यृदवग्रहात्(*८,४.२६) इति च प्राप्नोति ।
नन्दिन्, नन्दन, नगर, एतान्युत्तरपदानि सञ्ज्ञायां प्रयोजयन्ति हरिनन्दी ।

[॰९७५]

हरिनन्दनः ।
गिरिनगरम् ।
नृतिं यङि प्रयोजयन्ति नरीनृयते ।
तृप्नु तृप्नोति ।
नर्तन, गहन, नन्दन, निवेश, निवास, अग्नि, अनूप, एतानि उत्तरपदानि प्रयोजयन्ति ।
परिनर्तनम्, परिगहनमिति सञ्ज्ञायां पूर्वपदात्सञ्ज्ञायामिति प्राप्नोति ।
परिनन्दनमित्यत्र उपसर्गादसमासेऽपि इति प्राप्नोति ।
शरनिवेशः, शरनिवासः, शराग्निः, दर्भानूपः इत्येताः सञ्ज्ञाः ।
आचार्यादणत्वं च ।
आचार्यभोजीनः ।
आचार्यानी ।
इरिकादिभ्यो वनोत्तरपदेभ्यः सञ्ज्ञयाम् ।
इरिका, तिमिर, समीर, कुबेर, हरि, कर्मार इत्युत्तरपदवनशब्दस्थस्य सञ्ज्ञायाम् ।
क्षुभ्नादिराकृतिगणः ।
अविहितलक्षणो णत्वप्रतिषेधः क्षुभ्नादिषु द्रष्टव्यः ॥





स्तोः श्चुना श्चुः ॥ ८,४.४० ॥


_____ काशिकावृत्तिः८,४.४०:

सकारतवर्गयोः शकारचवर्गाभ्यां सन्निपाते शकारचवर्गावादेशौ भवतः ।
स्तोः श्चुना इति यथासङ्ख्यमत्र नेष्यते ।
सकारस्य शकारेण, चवर्गेण, द्वाभ्यामपि सन्निपाते शकारो भवति ।
तवर्गस्य अपि च शकारेण, चवर्गेन च सन्निपाते चवर्गो भवति ।
आदेशे तु यथासङ्ख्यमिस्यते, सकारस्य शकारः, तवर्गस्य च चवर्गः इति ।
सकारस्य शकारेण सन्निपाते वृक्षश्शेते ।
प्लक्षश्शेते ।
तस्य+एव चवर्गेण वृक्षश्चिनोति ।
प्लक्षश्चिनोति ।
वृक्षश्छादयति ।
प्लक्षश्छादयति ।
तवर्गस्य शकारेण अग्निचिच्छेते ।
सोमसुच्छेते ।
तस्य+एव चवर्गेण अग्निचिच्चिनोति ।
सोमसुच्चिनोति ।
अग्निचिच्छादयति ।
सोमसुच्छादयति ।
अग्निचिज्जयति ।
सोमसुज्जयति ।
अग्निचिज्झकारः ।
असोमसुज्झकारः ।
अग्निचिञ्ञकारः ।
सोमसुञ्ञकारः ।
मस्जेः मज्जति ।
भ्रस्जेः भृज्जति ।
व्रश्चेः वृश्चति ।
यजेः यज्ञः ।
याचेः याच्ञा ।
शात्(*८,४.४४) इति प्रतिषेधो ज्ञापकः सङ्ख्यातानुदेशाभावस्य ।
स्तोः श्चौ इति सप्तमीनिर्देशो न कृतः, पूर्वेण परेण च श्चुना सन्निपाते श्चुत्वं यथा स्यातिति ॥





ष्टुना षुः ॥ ८,४.४१ ॥


_____ काशिकावृत्तिः८,४.४१:

स्तोः इति वर्तते ।
सकारतवर्गयोः षकारट्वर्गाभ्यां सन्निपाते षकारटवर्गावादेशौ भवतः ।
तत्र अपि तथैव सङ्ख्यातानुदेशभावः ।
षकारेण सकारस्य वृक्षष्षण्डे ।
प्लक्षष्षण्डे ।
तस्य+एव टवर्गेण वृक्षष्टीकते ।
प्लक्षष्टीकते ।
वृक्षष्ठकारः ।
प्लक्षष्ठकारः ।
तवर्गस्य षकारेण पेष्टा ।
पेष्टुम् ।
पेष्टव्यम् ।
कृषीष्ट ।
कृषीष्ठाः ।
तस्य+एव टवर्गेण अग्निचिट्तीकते ।
सोमसुट्टीकते ।
अग्निचिट्ठकारः ।
सोमसुट्ठकारः ।
अग्निचिड्डीनः ।
सोमसुड्डीनः ।
अग्निचिड्ढौकते ।
सोमसुड्ढौकते ।
अग्निचिण्णकारः ।
सोमसुण्णकारः ।
अत्ट अट्टति ।
अद्ड अड्डति ॥





[॰९७६]

न पदान्ताट्टोरनाम् ॥ ८,४.४२ ॥


_____ काशिकावृत्तिः८,४.४२:

पदान्ताट्टवर्गादुत्तरस्य स्तोः ष्टुत्वं न भवति नामित्येतद्वर्जयित्वा ।

[॰९७५] श्वलिट्साये ।
मधुलिट्तरति ।
पदान्तातिति किम् ? ईड स्तुतौ ईट्टे ।
टोः इति किम् ? सर्पिष्टमम् ।
अनामिति किम् ? षण्णाम् ।
अत्यल्पमिदमुच्यते ।
अनाम्नवतिनगरीणामिति वक्तव्यम् ।
षण्णाम् ।
षण्णवतिः ।
षण्णवरी ॥





[॰९७६]

तोः षि ॥ ८,४.४३ ॥

_____ काशिकावृत्तिः८,४.४३:

न इति वर्तते ।
तवर्गस्य षकारे यदुक्तं तन्न भवति ।
अग्निचित्षण्डे ।
भवान्षण्डे ।
महान्षण्डे ॥





शात् ॥ ८,४.४४ ॥


_____ काशिकावृत्तिः८,४.४४:

तोः इति वर्तते ।
शकारादुत्तरस्य तवर्गस्य यदुक्तं तन्न भवति ।
प्रश्नः ।
विश्नः ॥





यरोऽनुनासिकेऽनुनासिको वा ॥ ८,४.४५ ॥


_____ काशिकावृत्तिः८,४.४५:

पदान्तग्रहणमनुवर्तते ।
यरः पदान्तस्य अनुनासिके परतः वा अनुनासिकः आदेशो भवति ।
वाङ्नयति, वाग्नयति ।
श्वलिण्नयति, श्वलिङ्नयति ।
अग्निचिन्नयति, अग्निचिद्नयति ।
त्रिष्तुम्नयति, त्रिष्टुब्नयति ।
पदान्तस्य इत्येव, वेद्मि ।
क्षुभ्नाति ।
यरोऽनुनासिके प्रत्यये भाषायां नित्यवचनं कर्तव्यम् ।
वाङ्मयम् ।
त्वङ्मयम् ।
व्यवस्थितविभाषाविज्ञानात्सिद्धम् ॥





अचो रहाभ्यां द्वे ॥ ८,४.४६ ॥


_____ काशिकावृत्तिः८,४.४६:

यरः इति वर्तते ।
अच उत्तरौ यौ रेफहकारौ ताभ्यामुत्तरस्य यरो द्वे भवतः ।
अर्क्कः मर्क्कः ।
ब्रह्म्मा ।
अपह्न्नुते ।
अचः इति किम् ? किन् ह्नुते ।
किं ह्मलयति ॥





[॰९७७]

अनचि च ॥ ८,४.४७ ॥


_____ काशिकावृत्तिः८,४.४७:

अचः इति वर्तते, यरः इति च ।
अनच्परस्य अच उत्तरस्य यरो द्वे वा भवतः ।
दद्ध्यत्र ।
मद्ध्वत्र ।
अचः इत्येव, स्मितम् ।
ध्मातम् ।
यणो मयो द्वे भवत इति वक्तव्यम् ।
केचिदत्र यणः इति पञ्चमी, मयः इति षष्ठी इति व्याचक्षते ।
तेषामुल्क्का, वल्म्मीकः इत्युदाहरणम् ।
अपरे तु मयः इति पञ्चमी, यणः इति षष्ठी इति ।
तेषां दध्य्यत्र, मध्व्वत्र इत्युदाहरणम् ।
शरः खयो द्वे भवत इति वक्तव्यम् ।
अत्र अपि यदि शरः इति पञ्चमी, खयः इति षष्ठी, तदा स्त्थाली, स्त्थाता इति उदाहरणम् ।
अथवा खय उत्तरस्य शरो द्वे भवतः ।
वत्स्सः ।
इक्ष्षुः ।
क्ष्षीरम् ।
अप्स्सराः ।
अवसाने च यरो द्वे भवत इति वक्तव्यम् ।
वाक्क, वाक् ।
त्वक्क्, त्वक् ।
षट्ट्, षट् ।
तत्त्, तत् ॥





न आदिन्याक्रोशे पुत्रस्य ॥ ८,४.४८ ॥


_____ काशिकावृत्तिः८,४.४८:

आदिनि परतः आक्रोशे गम्यमाने पुत्रशब्दस्य न द्व भवतः ।
अनचि च (*८,४.४७) इति प्राप्तिः प्रतिषिध्यते ।
पुत्रादिनीत्वमसि पापे ।
आक्रोशे इति किम् ? तत्त्वकथने द्विर्वचनं भवत्येव, पुअत्रानत्ति इति पुत्त्रादिनी ।
शिशुमारी व्याघ्री ।
तत्परे चेति वक्तव्यम् ।
पुत्रपुत्रादिनी त्वमसि पापे ।
वा हतजग्धपर इति वक्तव्यम् ।
पुत्त्रहती, पुत्रहति ।
पुत्त्रजग्धी, पुत्रजग्धी ।
चयो द्वितीयाः शरि पौष्करसादेः ।
चयो द्वितीया भवन्ति शरि परतः पौष्करसादेराचार्यस्य मतेन ।
तकारस्य थकारः वथ्सः ।
ककारस्य खकारः ख्षीरम् ।
पकारस्य फकारः अफ्सराः ॥





[॰९७८]

शरोऽचि ॥ ८,४.४९ ॥


_____ काशिकावृत्तिः८,४.४९:

न इति वर्सते ।
शरोऽचि परतः न द्वे भवतः ।
अचो रहाभ्यां द्वे (*८,४.४६) इति प्राप्तिः प्रतिषिध्यते ।
कर्षति ।
वर्षति ।
आकर्षः ।
अक्षदर्शः ।
अचि इति किम् ? दर्श्श्यते ॥





त्रिप्रभृतिषु शाकटायनस्य ॥ ८,४.५० ॥


_____ काशिकावृत्तिः८,४.५०:

त्रिप्रभृतिषु वर्णेषु संयुक्तेषु शाकटायनस्य मतेन द्वित्वं न भवति ।
इन्द्रः ।
चन्द्रः ।
उष्ट्रः ।
राष्ट्रम् ।
भ्राष्ट्रम् ॥





सर्वत्र शाकल्यस्य ॥ ८,४.५१ ॥


_____ काशिकावृत्तिः८,४.५१:

शाकल्यस्य आचर्यस्य मतेन सर्वत्र द्विर्वचनं न भवति ।
अर्कः ।
मर्कः ।
ब्रहमा ।
अपह्नुते ॥





दीर्घादाचार्याणाम् ॥ ८,४.५२ ॥


_____ काशिकावृत्तिः८,४.५२:

दीर्घादुत्तरस्य आचार्याणां मतेन न द्वित्वं भवति ।
दात्रम् ।
पात्रम् ।
मूत्रम् ।
सूत्रम् ॥




झलं जश्झशि ॥ ८,४.५३ ॥


_____ काशिकावृत्तिः८,४.५३:

झलां स्थाने जशादेशो भवति झशि परतः ।
लब्धा ।
लब्धुम् ।
लब्धव्यम् ।
दोग्धा ।
दोग्धुम् ।
दोग्धव्यम् ।
बोद्धा ।
वोद्धुम् ।
बोद्धव्यम् ।
झशि इति किम् ? दत्तः ।
दत्थः ।
दध्मः ॥





अभ्यासे चर्च ॥ ८,४.५४ ॥


_____ काशिकावृत्तिः८,४.५४:

अभ्यासे वर्तमानानां झलां चरादेशो भवति, चकाराज्जश्च ।
चिखनिषति ।
चिच्छित्सति ।
टिठकारयिषति ।
तिष्ठासति ।
पिफकारयिषति ।
बुभूषति ।
जिघत्सति ।
ढुढौकिषते ।
प्रकृतिचरां प्रकृतिचरो भवन्ति ।
चिचीषति ।
टिटीकिषते ।
तितनिषति ।
प्रकृतिजशां प्रकृतिजशो भवन्ति ।
जिजनिषते ।
बुबुधे ।
ददौ ।
डिड्ये ॥





[॰९७९]

खरि च ॥ ८,४.५५ ॥


_____ काशिकावृत्तिः८,४.५५:

खरि च परतो झलां चरादेशो भवति ।
जश्ग्रहणं न अनुवर्तते, पूर्वसूत्रे च अनुकृष्तत्वात् ।
भेत्ता ।
भेत्तुम् ।
भेत्तव्यम् ।
युयुत्सते ।
आरिप्सते ।
आलिप्सते ॥





वा+अवसाने ॥ ८,४.५६ ॥


_____ काशिकावृत्तिः८,४.५६:
झलां चरिति वर्तते ।
अवसाने वर्तमानानां झलां वा चरादेशो भवति ।
वाक्, वाग् ।
त्वक्, त्वग् ।
श्वलिट्, श्वलिड् ।
त्रिष्टुप्, त्रिष्टुब् ॥





अणोऽप्रगृह्यस्य अनुनासिकः ॥ ८,४.५७ ॥


_____ काशिकावृत्तिः८,४.५७:

अणः अप्रगृह्यसञ्ज्ञस्य अवसाने वर्तमानस्य वा अनुनासिकादेशो भवति ।
दधिं, दधि ।
मधुं, मधु ।
कुमारीं, कुमारी ।
अणः इति किम् ? कर्तृ ।
हर्तृ ।
अप्रगृह्यस्य इति किम् ? अग्नी ।
वायू ॥





अनुस्वारस्य ययि परसवर्णः ॥ ८,४.५८ ॥


_____ काशिकावृत्तिः८,४.५८:

अनुस्वारस्य ययि परतः प्रस्वर्णः आदेशो भवति ।
शङ्किता ।
शङ्कितुम् ।
शङ्कितव्यम् ।
उञ्छिता ।
उञ्छितुम् ।
उञ्छितव्यम् ।
कुण्डिता ।
कुण्डितुम् ।
कुण्डितव्यम् ।
नन्दिता ।
नन्दितुम् ।
नन्दितव्यम् ।
कम्पिता ।
कम्पितुम् ।
कम्पितव्यम् ।
इह कुर्वन्ति, वृषन्ति इत्यत्र णत्वस्य असिद्धत्वात्पूर्वं नकारस्य अनुस्वारः क्रियते ।
तस्य अपि परसवर्णेन पुनर्नकार एव भवति ।
तस्य अपि असिद्धत्वात्पुनर्णत्वं न भवति ।
एवमनुस्वारीभूतो णत्वमतिक्रामति इति ।
ययि इति किम् ? आक्रंस्यते ।
आचिक्रंस्यते ॥





वा पदान्तस्य ॥ ८,४.५९ ॥


_____ काशिकावृत्तिः८,४.५९:

पदान्तस्य अनुस्वारस्य ययि परतः वा परसवर्णादेशो भवति ।
तङ्कथञ्चित्रपक्षण्डयमानन्नभःस्थम्पुरुषोऽवधीत्, तं कथं चित्रपक्षं डयमानं नभःस्थं पुरुषोऽवधीत् ॥





तोर्लि ॥ ८,४.६० ॥


_____ काशिकावृत्तिः८,४.६०:

तवर्गस्य लकारे परतः परसवर्णादेशो भवति ।
अग्निचिल्लुनाति ।
सोमसुल्लुनाति ।
भवांल्लुनाति ।
महांल्लुनाति ॥





[॰९८०]

उदः स्थास्तम्भोः पूर्वस्य ॥ ८,४.६१ ॥


_____ काशिकावृत्तिः८,४.६१:

सवर्णः इति वर्तते ।
उदः उत्तरयोः स्था स्तम्भ इत्येतयोः पूर्वसवर्णादेशो भवति ।
उत्थाता ।
उत्थातुम् ।
उत्थातव्यम् ।
स्तम्भेः खल्वपि उत्तम्भिता ।
उत्तम्भितुम् ।
उत्तम्भितव्यम् ।
स्थास्तम्भोः इति किम् ? उत्स्नाता ।
उदः पूर्वसवर्नत्वे स्कन्देश्छन्दस्युपसङ्ख्यानम् ।
अग्ने दूरमुत्कन्दः ॥
रोगे च+इति वक्तव्यम् ।
उत्कन्दको नाम रोगः ।
कन्दतेर्वा धात्वन्तरस्य+एतद्रूपम् ॥





झयो होऽन्यतरस्याम् ॥ ८,४.६२ ॥


_____ काशिकावृत्तिः८,४.६२:

झयः उत्तरस्य पूर्वसवर्णादेशो भवति अन्यतरस्याम् ।
वाग्घसति, वाघसति ।
स्वलिड्ढसति, श्वलिढसति ।
अग्निचिद्धसत् ।
अग्निचिधसति ।
सोमसुद्धसति, सोमसुधसति ।
त्रिष्टुब्भसति, त्रिष्टुभसति ।
झयः इति किम् ? प्राङ्हसति ।
भवान् हसति ॥





शश्छोऽटि ॥ ८,४.६३ ॥


_____ काशिकावृत्तिः८,४.६३:

झयः इति वर्तते, अन्यतरस्यामिति च ।
झय उत्तरस्य शकारस्य अटि परतः छकरादेशो भवति अन्यतरस्याम् ।
वाक्छेते, वाक्शेते ।
अग्निचिच्छेते, अग्निचित्शेते ।
सोमसुच्छेते, सोमसुत्शेते ।
श्वलिट्छेते, श्वलिट्शेते ।
त्रिष्टुप्छेते, त्रिष्टुप्शेते ।
छत्वममि इति वक्तव्यन् ।
किं प्रयोजनम् ? तच्छ्लोकेन, तच्छ्मश्रुणा इत्येवमर्थम् ॥





हलो यमां यमि लोपः ॥ ८,४.६४ ॥


_____ काशिकावृत्तिः८,४.६४:

अन्यतरस्यामिति वर्तते ।
हल उत्तरेषां यमां यमि परतो लोपो भवति अन्यतरस्याम् ।
शय्य्या इत्यत्र द्वौ यकारौ, क्रमजस्तृतीयः, तत्र मध्यमस्य वा लोपो भवति ।
शय्या, शय्य्या ।
अदितेरपत्यमादित्य्यः इत्यत्र तकारात्परः एकः यकारः,

[॰९८१]

यणो मयः इति क्रमजो द्वितीयः, तत्र मध्यमस्य वा लोपो भवति ।
आदित्यः, आदित्य्यः ।
आदित्यो देवता अस्य स्थालीपाकस्य इति आदित्य्यः इत्यत्र अपि द्वौ यकारौ क्रमजस्तृतीयः ।
तत्र मध्यमस्य मध्यमयोर्वा लोपो भवति ।
हलः इति किम् ? आन्नम् ।
यमामिति किम् ? अग्निः ।
अर्ध्यम् ।
यमि इति किम् ? शार्ङ्गम् ॥





झरो झरि सवर्णे ॥ ८,४.६५ ॥


_____ काशिकावृत्तिः८,४.६५:

हलः इति वर्तते, अन्यतरस्यामिति च ।
हल उत्तरस्य झरो झरि सवर्णे परतो लोपो भवति अन्यतरस्याम् ।
प्रत्त्तम्, अवत्त्तमित्यत्र त्रयस्तकाराः, क्रमजश्चतुर्थः ।
तत्र मध्यमस्य मध्यमयोर्वा लोपो भवति ।
मरुत्त्त्तः इत्यत्र चत्वारस्तकाराः क्रमजः पञ्चमः ।
तत्र मध्यमस्य मध्यमयोः मध्यमानां वा लोपो भवति ।
मरुच्छब्दस्य हि उपसङ्ख्यानसामर्थ्यातच उपसर्गात्तः (*७,४.४७) इति तत्वं भवति ।
झरः इति किम् ? शार्ङ्गम् ।
झरि इति किम् ? प्रियपञ्च्ञा ।
अल्लोपस्य च पूर्वत्र असिद्धे न स्थानिवतिति स्थानिवद्भावप्रतिषेधात्चकारस्य ञकारे लोपः स्यात् ।
सवर्णे इति किम् ? तर्प्ता तप्तुम् ।
तर्प्तव्यम् ।
सवर्णग्रहणसामर्थ्यातिह सङ्ख्यातानुदेशो न भवति, सवर्णमात्रे लोपो विज्ञायते ।
तेन शिण्ढि, पिण्ढि इति ढकारे डकारस्य लोपो भवति ॥





उदत्तादनुदात्तस्य स्वरितः ॥ ८,४.६६ ॥


_____ काशिकावृत्तिः८,४.६६:

उदात्तातुत्तरस्य अनुदात्तस्य स्वरितादेशो भवति ।
गार्ग्यः ।
वात्स्यः ।
पचति ।
पठति ।
अस्य स्वरितस्य असिद्धत्वातनुदात्तं पदमेकवर्जम् (*६,१.१५८) इत्येतन्न प्रवर्तते ।
तेन उदात्तस्वरितौ उभावपि श्रूयेते ॥





न+उदात्तस्वरितोदयमगार्घ्यकाश्यपगालवानाम् ॥ ८,४.६७ ॥


_____ काशिकावृत्तिः८,४.६७:

उदत्तोदयस्य स्वरितोदयस्य च अनुदात्तस्य स्वरितो न भवति ।
पूर्वेण प्राप्तः प्रतिषिध्यते, अगार्ग्यकाश्यपगालवानां मतेन ।
उदात्त उदयो यस्मात्स उदात्तोदयः ।
उदात्तपरः इत्यर्थः ।
एवं स्वरितोदयः ।
उदात्तो दयस्तावत् गार्ग्यस्तत्र ।
वात्स्यस्तत्र ।
तत्रशब्द आद्युदात्तः ।
तस्मिन्नुदात्ते परतो गार्ग्यशब्दः स्वरितो न भवति ।
स्वरितोदयः गार्ग्यः क्व ।
वात्स्यः क्व ।
क्वशब्दः स्वरितः, तस्मिन् परतः अनुदात्तः स्वरितो न भवति ।
अगार्ग्यकाश्यपगालवानामिति किम् ? गार्ग्यस्तत्र ।
गार्ग्यः क्व ।
तेषां हि मतेन स्वरितो भवत्येव ।
उदात्तस्वरितपरस्य इति वक्तव्ये उदयग्रहणं मङ्गलार्थम् ।
अनेकाचार्यसङ्कीर्तनं पूजार्थम् ॥





[॰९८२]

अ अ इति ॥ ८,४.६८ ॥


_____ काशिकावृत्तिः८,४.६८:

एकोऽत्र विवृतः, अपरः संवृतः ।
तत्र विवृतस्य संवृतः क्रियते ।
अकारो विवृतः संवृतो भवति ।
वृक्षः ।
प्लक्षः ।
इह शास्त्रे कार्यार्थमकारो विवृतः प्रतिज्ञातः, तस्य तथाभूतस्य एव प्रयोगो मा भूतिति संवृतप्रत्यापत्तिरियं क्रियते ।
दीर्घप्लुतयोश्च अनेन विवृतेन अकारेण ग्रहणं नेष्यते ।
तेन तयोः संवृतो न भवति ।
संवुतेन च सर्वगुणस्य मात्रिकस्य ग्रहणमिष्यते ।
तेन सर्वगुणः प्रत्यापद्यते ।
इष्ट्युपसङ्ख्यानवती शुद्धगणा विवृतगूढसूत्रार्था ।
व्युत्पन्नरूपसिद्धिर्वृत्तिरियं काशिका नाम ॥

इति श्रीवामनकाशिकायां वृत्तौ अष्टमाध्यायस्य तुरीयः पादः समाप्तश्चायमध्यायो ग्रन्थश्च ॥

एन्दोथे काशिकावृत्ति